Showing posts with label वेदान्तविभागः. Show all posts
Showing posts with label वेदान्तविभागः. Show all posts

Thursday, September 29, 2016

श्रीमद्भगवद्गीता एवं कोरान्सरिफयोः केचन समधर्माः

श्रीमद्भगवद्गीता एवं कोरान्सरिफयोः केचन समधर्माः
@अमिर् बाग्
आचार्यप्रथमवर्षम्
        अस्माकं भारतीयानां धर्मग्रन्थः भवति श्रीमद्भगवद्गीता | तया सह कोरान्सरीफयोः धर्मसिद्धान्तगतसमाना कुत्रचित् परिदृश्यते । उभयग्रन्थेभ्यः कांश्चन अंशान् विचारयितुं इच्छामि ।
        गीतायां ज्ञानकर्मयोगयोः विषये भगवता श्रीकृष्णेन उपदेशः कृतः । एतेषु कर्मयोगः अन्यतमः | एतस्य प्रयोजनं जगतितले विद्यमानान् लोकान् कर्म प्रति मनुष्यस्य श्रद्धां जागरयितुं एषो योगः प्रवर्तेतः ।
गीतायां पञ्चमाध्याये द्वितीयः श्लोकः भवति
संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ ।
तयोस्तु कर्मसंन्यासात् कर्मयोगो विशिष्यते ॥ 
इति ।
अर्थात्- निष्फलकर्मत्याग एव कर्मयोगः मोक्षप्रदानकारकः भवति, किन्तु एतयोः द्वयोः अपेक्षया कर्मयोगः
उत्कृष्टतरो वर्तते । सुतरां द्रष्टुं शक्नुमः यत् भगवतः श्रीकृष्णस्य मते कर्मयोगः श्रेयस्करः इति अन्येन श्लोकेन वर्णितम् अस्ति यथा-       
 कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ।
 मा कर्मफलहेतुभोर्माते सङ्गोऽस्त्वकर्मणि ॥ इति ।
अर्थात्        कर्मे तव अधिकारः अस्ति परन्तु कर्मफले अधिकारः न करणीयः । कर्म प्रेरणायाः निमित्तं फललाभस्य आकाङ्क्षा मुख्योद्देश्यः आदौ न मङ्गलम् ।
        एतादृशभावाधारेण सहितं कोरान् सरीफ् इत्यस्य प्रवचनम् अनेकेषु स्थलेषु समावलोक्यते । अत्र स्वयं आल्लाह मनुष्येण कर्म प्रति श्रद्धाशीलेन भाव्यम् इत्येवम् उपदेशं दत्तवान् अस्ति । तस्य मते मर्मनिरतमनुष्यः एव श्रेष्ठ इति । मनुष्यः कर्मसु मर्मतत्परः स्यात् ।
        किन्तु मनुष्येण कृतस्य कर्मणः फलाफलदाता स्वयम् आल्लाह इति कथयति । स एव उपदेशः गीतायामपि
न हि कल्याणकृत् कश्चित् दुर्गतिं तात् गच्छति । इति।
अर्थात् –          ये जनाः शुभकर्मणः अनुष्ठानं कुर्वन्ति ते जनाः दुर्गतेः सम्मुखाः न भवन्ति ।
एष एव प्रतिध्वनिः कोरान्सरीफ् मध्ये श्रूयते । “कोरान्”  इत्यस्य सुरा (३९)(१०) आयत्तः ज्ञायते । ये जनाः लोके मङ्गलकार्येषु व्रतिनो भवन्ति तेषां सदा कल्याणं भवत्येव ।
अन्यत्र सुरा एवम् आयत् (6-८) मध्ये कथितः - अणुमात्त्रमपि सत्कार्य करोति चेत् सुफलं प्राप्नोति ।
अणुमात्रमपि कुकार्यं करोति चेदपि कुफलं तु प्राप्नोति एव कदाचित् परोक्षेण प्रत्यक्षेण वा अनुभूयते एव ।
कोरान्सरीफ् इत्यस्मिन् सुरा २ आयत् २२२ इत्यत्र आल्लह् वदति
कश्चन जनः उत्तमकार्यं कृत्वा आल्लाहस्य समीपे सम्पूर्णमात्मसमर्पणं करोति । “ अविनाशि तु तद्विद्धि येन कर्ममिदं ततम्”  पुनश्च, “न जायते म्रियते वा कदाचिन्नायं भूत्वा भविता वा न भूयः”  इत्यादि श्लोकेषु आत्मा अविनाशि भवति, तदेव कोरान्सरीफे अपि कथितम् । यदा मनुष्यस्य मरणं भवति तदा शरीरस्य विलयः जायते परन्तु आत्मनः न ।
यत्र धर्मेषु सत्यस्य व्यभिचारो अस्ति पुनः धर्महेत्वभासः अवलोक्यते तदा महान् दोषैव भवति । आगच्छन्तु वयं परस्परं श्रद्धाशीलाः भवामः ।  एषः अन्यं पुनश्च अन्यः एनं ज्ञातुं प्रचेष्टामः । ज्ञानस्य लोकेन अज्ञानस्य  तिरोधानं कुर्मः । अतः अस्माकं समवेतप्रार्थना एषा एव भवति
“असतो मा सद्गमय, तमसो मा ज्योतिर्गमय । मृत्योर्मा अमृतङ्गमय ॥” इति ।


जीवानां विकासक्रमः


जीवानां विकासक्रमः
@राजेश् हेगडे
आचार्यद्वितीयवर्षम्

श्रीमद्भागवतपुराणे जीवानां विकासक्रमः परमलक्ष्यञ्च इत्थमुपवर्ण्यते ।
जीवाः श्रेष्ठाः ह्यजीवानां ततः प्राणभृतः शुभे ।
                ततः सचित्ताः प्रवरास्ततश्चेन्द्रियवृत्तयः ॥  (श्री.म.भा.म.पु - ३ स्क.२९अ.२८ श्लोक ।)
जगतीतले अचेतनेभ्यः मृत्पाषाणादिभ्यः सचेतनाः वृक्षादयः श्रेष्ठाः । सचेतनेषु श्वासोच्छ्वासवन्तो जङ्गमाः श्रेष्ठाः । श्वासोच्छ्वासवत्सु जीवेषु सचित्ताः समनस्काः जीवाः उत्तमाः भवन्ति । समनस्केषु जीवेषु पुनः इन्द्रियद्वारा उपरसादिज्ञानवन्तः जीवाः प्रवराः भवन्ति ।
तत्रापि स्पर्शवेदिभ्यः प्रवराः रसवेदिनः ।
तेभ्यो गन्धविदः श्रेष्ठास्ततः शब्दविदो वराः ॥ ( श्री.म.भा.म.पु ३ स्क. २९ अ. २९ श्लोक)
इन्द्रियवत्सु जीवेषु पुनः स्पर्शवेदिभ्योऽपि रसज्ञाः मीनादयः प्रवराः भवन्ति । स्पर्शरसवेदिषु भृङ्गादयः स्पर्शरसगन्धवेदिनः श्रेष्ठाः । गन्धविद्भ्यः शब्दविदः  श्रेष्ठाः ।
रूपभेदविदस्तत्र ततश्चोभयतोदतः ।
तेषां बहुपदाः श्रेष्ठाश्चतुष्पादस्ततो द्विपात् ।। ( श्री.म.भा.म.पु - ३.स्क.२९ अ.३०श्लो)
शब्दविद्भ्यः जीवेभ्यः रूपविदः काकादयः श्रेष्ठाः । रूपविदपेक्षया उभयतोदत [उभयतो दत्ताः येषां ते] उत्तराधरदन्तयुक्ताः कीटविशेषाः श्रेष्ठाः ।  तेभ्यः अपादेभ्यः बहुपादयुक्ताः शरभादयः श्रेष्ठाः । ततः चतुष्पादगवादयः श्रेष्ठाः ।  ततः द्विपादयुक्तमनुष्याः श्रेष्ठाः ।
ततो वर्णश्च चत्वारस्तेषां ब्राह्मण उत्तमः ।
ब्राह्मणेष्वपि वेदज्ञो ह्यर्थज्ञोऽभ्यधिकस्ततः ।। (श्री.म.भा.म.पु -  ३.स्क.२९अ.३१श्लो.)
मनुष्याः चतुर्विधाः भवन्ति । यतो हि चत्वारो वर्णाः वर्तन्ते । ब्राह्मण-क्षत्रिय-शूद्र-वैश्य इति । तेषां वर्णानां मध्ये ब्राह्मणः उत्तमः । ब्राह्मणेष्वपि जातिः ब्राह्मणापेक्षया वेदाध्यायी विप्रः महान् भवति । ततः वेदार्थवित् महान् ।
अर्थज्ञात्संशयच्छेत्ता ततः श्रेयान् स्वकर्मकृत् ।
     मुक्तसङ्गस्ततो भूयानदोग्धा धर्ममात्मनः ॥ (श्री.म.भा.म.पु - ३ स्क.२९अ.३२श्लो)
अर्थज्ञानवतः अपेक्षया सर्वसन्देहनिवारकः ब्राह्मणः श्रेयान् । तत्र श्रेष्ठः द्विविधो ब्राह्मणः भवति । तत्र स्वधर्मानुष्ठानशून्यात् ब्राह्मणात् स्वधर्मानुष्ठानरतः श्रेष्ठः । स इन्द्रसमः श्रेष्ठः । ततः यः धर्माचरणे फलाकाङ्क्षारहितः सः निष्कामः श्रेष्ठः ।
तस्मान्मय्यर्पिता शेषक्रियार्थात्मा निरन्तरः ।
मय्यर्पितात्मनः पुंसो मयि संन्यस्तकर्मणः ।
तपस्यामि परं भूतमकर्तः समदर्शनात् ॥ (श्री.म.भा.म.पु ३ स्क.२९अ.३३श्लो)
निष्कामकर्मणोऽपि ब्राह्मणात् भगवति अर्पितानि सकलानि कर्माणि कर्मफलानि च अर्थाः देहगेहादयः मनोबुद्धिचित्ताहङ्काराः येन सः श्रेष्ठः भवति । भगवति न्यस्तात्मरक्षाभारात् प्रयोजककर्तरि क्रियाफलप्रदे संन्यस्तकर्मणः तस्मात् सर्वक्रियाप्रवर्तकेऽन्तर्यामिणि मध्येवानुसंहितक्रिया कर्त्तृत्वात् । अत एव स्वस्मिन् कर्तृत्वादिभिन्नरहितात् वासुदेव एव सर्वं करोति कारयति च । नाहं स्वातन्त्र्येण किञ्चित्करोमीति ज्ञानवत इत्यर्थः । कृत्स्नं जगद् ब्रह्मात्मकमिति ज्ञानवत उत्कृष्टं जीवनं पारयामि ।


आनन्दमयाधिकरणम्

आनन्दमयाधिकरणम्
@पुष्पा हेगडे
शोधच्छात्रा
शरीरकमीमांसायां चतुर्लक्षण्यां प्रथमस्य सम्न्वयाध्यायस्य प्रथमपादस्य षष्ठमधिकरणं भवति आनन्दमयाधिकरणम् । पूर्वं तावत् साधनचतुष्टयसम्पन्नैः मुमुक्षुभिः अपरोक्षब्रह्मसाक्षात्काराय “अथातो ब्रह्मजिज्ञासा” इत्यन्तेन सूत्रेण वेदान्तवाक्यविचारः कर्त्तव्यः, इति प्रतिज्ञाय जगज्जन्मस्थितिलयकारणं  अभिन्ननिमित्तोपादानकारणं ब्रह्मलक्षणम् अभिदाय, तत्रैव वेदान्तानां समेषां समन्वयः प्रदर्शितः । ईक्षापूर्वककर्त्तृत्वमचेतने प्रधाने न सम्भवति इति सांख्यादिमतं निराकृतम् । गतिसामान्यदि सूत्रेण वेदान्तानां सर्वेषां चेतनकारणावादे तात्पर्यमिति निरधारि ।
        अत्रेदानीम् आनन्दमयाधिकरणे “तस्माद्वा एतस्माद्विज्ञानमयात् अन्योन्तर आत्मा आनन्दमयः । तस्य प्रियमेव शिरः । मोदो दक्षिणपक्षः । प्रमोदो उत्तरपक्षः । ब्रह्म पुच्छं प्रतिष्ठा” इति तैत्तरीयोपनिषद्गतं वाक्यजातं विषयः ।
तत्र आनन्दमयशेषतया ब्रह्मप्रतिपादनपरम्,उत जीवप्रतिपादनपरम् इति संशयः ।
पूर्वाधिकरणेन सह प्रत्युदाहरण सङ्गतिः ।
        आनन्दमयः जीवात्मा अन्नमयदिषु इव आनन्दमयोऽपि अन्योन्तर आत्मा आनन्दमयः इति श्रूयते ब्रह्म तु नित्यानन्दस्वरूपं भवति न तु आनन्दविकारः । अत्र तु अन्नमयादीनाम् इव विकारार्थकः मयट् प्रत्ययः युक्तः तत् प्रवाहपतितत्वात् । अतः मुख्यः आत्मा आनन्दमयः तस्य प्रियमेव शिरः मोदो दक्षिणपक्षः इति सावयवत्वं श्रूयते। यत् सावयवं तदनित्यम् इति युक्त्या तस्य अनित्यत्वप्रसङ्गः दुर्वारः । “न वै सशरीरस्य सतः” श्रुत्या सुखदुखादिमत्वमपि अपरिहार्यम् । अतः सः संसारी भवितुमर्हति । विज्ञानमयशरीरे समुत्पन्नत्वात् शारीरत्वमपि विवक्षितम् । तस्मात् आनन्दमयः न परमात्मा इति पूर्वपक्षः  ।
        अत्रायं सिद्धान्तः “आनन्दमयोऽभ्यासात्“ आनन्दमयः परमात्मा भवितुमर्हति अभ्यासात् अभ्यासो नाम असकृत् आवृत्तिः तस्मिन् प्रकरणे आनन्दस्य पुनः पुनः श्रवणं श्रूयते “रसो वै सः”, “रसं लब्ध्वा आनन्दी भवति यदा एष आनन्दो न स्यात् सैषानन्दस्य मीमांसा आनन्दमयमात्मानमुपसंक्रमति भृगुबल्यां “आनन्दो ब्रह्मेति व्यजानात्” “विज्ञानमानन्दं ब्रह्म” इति बृहदारण्यके । आनन्दमयस्य ब्रह्मत्वात् प्रातिपदिकश्रवणमात्रेष्वपि सशरीरस्य सतः श्रुत्या सुषदुःखादिमत्वमपि अपरिहार्यम् । अतः सः संसारीभवितुमहीति । विज्ञानमय सत्यभामा भामा इव नामैकदेशे नामग्रहणम् इति न्यायेन आनन्देनापि आनन्दमयो विवक्षितः । तस्मात् आनन्दमयः परमात्मा । “ब्रह्मविदाप्नोति  परम्” इति प्रतिज्ञाय “सत्यं ज्ञानमनन्तं ब्रह्म” इति लक्षणमुक्त्वा गुहायां विहितस्य ब्रह्मणः प्रतिपादयिषया अन्नमयादयः विवक्षितः । तत्र अन्नमयादिषु अन्योन्तर आत्मा, अन्योन्तर आत्मा इति श्रवणात् तेषां अब्रह्मत्वम् आनन्दमयात् अन्यस्य अनिर्देशात् तस्यैव मुख्यत्वम् । तस्मात् पूर्वेषु विकारार्थे आनन्दमये प्राचुर्यार्थे  मयट् प्रत्ययः युक्तः । प्रियशिरत्वादि अवयवनिर्देशः पूर्वकोशादिकल्पितः नतु परमार्थतः, मुषानिषक्तघृतताम्रादिप्रतिमावत् । तस्मात् न सावयवः आनन्दमयः वस्तुतः उत्तरत्र आनन्दमीमांसायां निरतिशयानन्दस्वरूपं ब्रह्मणः वर्णितम् । अतश्च प्राचुर्यार्थकः मयट् प्रत्ययः तत् प्रकृतवचने मयट् इति पाणिनिसूत्रात् अन्नमयो यज्ञ इत्यादि दृष्टान्तबलात् अत्र प्राचुर्यार्थे मयट्  न तु विकारार्थे । “रसो वै सः” “रसं लब्ध्वा आनन्दीभवति” इति आनन्दहेतुत्वप्रतिपादनात्  यः अन्यान् धनिकान् करोति सः प्रचुरधनः इति लोकन्यायेन मयट् प्रत्ययः प्राचुर्यार्थे इति सिद्धम् ।
        मन्त्रब्राह्मणयोः सामञ्जस्योपपादनाय अन्नमयादिषु अन्ते अन्नमयस्य श्रवणात् ततोन्यस्य अश्रवणात् मान्त्रवर्णिकं ब्रह्म आनन्दमय एव । तस्मात् प्राचुर्यार्थे मयट् अन्यथा प्रकृतहानि अप्रकृतप्रक्रियाप्रसङ्गः । “सोकामयत” “स एव बहुस्यां प्रजायेय” इति कामनापूर्वक सर्वजगत् सृष्टिः आनन्दमयाधिकरणे श्रूयते स च अल्पज्ञे जीवे नोपपद्यते । षोडशाध्याय्यम् असन्नेव इत्यस्मिन् निगमनश्लोके असत् ब्रह्म इति, अस्ति ब्रह्म इति च केवलस्य ब्रह्मण एव अभ्यस्यमानत्वात् ब्रह्मपुच्छमित्यत्र स्वप्रधानत्वेनैव ब्रह्म उच्यत इति ।
        “नेतरोनुपपत्तेः” नेतरः ईश्वरात् अन्यो जीवः न आनन्दमयः जगत् अनुपपत्तेः “रसं लब्ध्वा आनन्दयति” इति लब्ध लब्धव्य आनन्दमयः परमात्मा लब्धा तु जीवात्मा  इति व्यपदेशात् न आनन्दमयः जीवः । सोकामयत इति कामना इच्छापूर्वकसृष्ठुत्वव्यपदेशात् अचेतनं प्रधानमा नन्दमयः इति न भ्रमितव्यम् । ईक्षत्यधिकरणे निराकृतमपि गतिसामान्यत्वं प्रदर्शनाय “सोकामयत” श्रुत्यनुसारेण पुनर्निराकृतम् । यद्येवेष एतस्मिन् अनिलये अभयं प्रतिष्ठाम् इति यः ब्रह्मणि तादात्म्यं अनुभवति तस्य मोक्षो भवति । किञ्चिदपि भेदं यः अनुभवति तस्य संसारः इति श्रुतिः वदति । अतः तस्मिन् आनन्दमये जीवस्य तद्योगं  तादात्म्यं अनुशास्ति तथा च सूत्रं “अस्मिन्नस्य च तद्योगं शास्ति” तस्मात् आनन्दमयः परमात्मा एव ।  


देवताधिकरणम्

देवताधिकरणम्
@ अभिनन्दन् भट्
               शोधच्छात्र:                                                                                                                                                                                                                    
            वेदान्तादिसर्वाण्यपि शास्त्राणि जनानां सन्मार्गदर्शनार्थमेव प्रवृत्तानि । तदनु पूर्वमीमांसाशास्त्रमपि धर्माधर्मविचारद्वारा लोकानां सन्मार्गप्रदर्शनार्थमेव प्रवृत्तम् । इष्टप्राप्त्यनिष्टपरिहारार्थम् अलौकिकमुपायं बोधयत्सु शास्त्रेषु मूर्धन्यं शास्त्रं वेद एव । अत एवोक्तम्, वेदात् परं शास्त्रं नास्ति इति । इष्टप्राप्त्यनिष्टपरिहाराय अस्माभि: वेदोक्तकर्माण्येव आश्रयणीयानि । नानाविधक्लेशपरिहाराय इष्टप्राप्त्यर्थं च वेदेषु उपाया: श्रुता: । परं सर्वेषामपि वेदार्थविचार: कष्टसाध्य एव । अतापि वेदार्थ: विज्ञेय एव । ब्राह्मणेन निष्कारण: षडङ्गो वेदोऽध्येयो ज्ञेयश्च अनधीयाना व्रात्या भवन्ति । स्थाणुरयं भार: किलाभूदधीत्य वेदं न विजानाति योऽ र्थम् । योऽर्थज्ञ: इत्सकलं भद्रमश्नुते स नाकमेति ज्ञानविधूतपाप्मा इत्यादि स्मृतिभि:, स्वाध्यायोऽध्येतव्य: इत्यध्ययनविधिना च वेदाध्ययनमवश्यं कर्तव्यम् , वेदार्थ: विज्ञेय: वेदोक्तकर्माणि अनुष्ठेयानि इति च विज्ञायते । एवं च वेदविहितकर्मण: ज्ञानं वेदवाक्यार्थज्ञानाधीनम् । वेदो हि मन्त्रब्राह्मणोभयात्मक: । स चैकोऽपि प्रतिपाद्यर्थभेदात् कर्मोपासनज्ञानकाण्डत्वेन त्रिधा विभक्त: । तत्र परस्पर विरोधविपरीतभावनादिना वेदवाक्यार्थविचिकित्सायां प्रसक्तायां तन्निराकरणेन वास्तविकमर्थं बोधयितुं मीमांसाप्रवृत्तिर्जाता ।             
                 केयं मीमांसा इति जिज्ञासायां मान् धातो: जिज्ञासार्थकात् निष्पन्ना विचारमर्थं ब्रूते । तथा च विचारशास्त्रं मीमांसाशब्दार्थ: इति फलति । चतुर्दशसु विद्यास्थानेषु अन्तर्गतमिदं मीमांसाशास्त्रं पूर्वोत्तरभेदेन द्विविधं प्रसिद्धम् । वेदानां पूर्वभागनिर्णयाय पूर्वमीमांसाशास्त्रं प्रवृत्तम् । भगवान् जैमिनि: न्यायान् युक्तींश्च परिभाव्य सर्वांश्च मन्त्रब्राह्मणग्रन्थान् विमर्शपूर्वकमालोड्य श्रौतभागनिर्वचनोपयोगिन: न्यायान् एकत्र निबध्य द्वादशाध्यायात्मकं मीमांसाशास्त्रं प्रणीतवान् । जैमिनीयसूत्राणि निगूढार्थानि शब्दत: सङ्क्षिप्तानि अर्थत: गभीराणि न बुद्धिमुपारोहन्तीति करुणया भाष्यं प्रणिनाय शबरस्वामी । शबरस्वामिनामनन्तरं भाष्यविवेचनापराणां वार्तिकटीकाग्रन्थानां द्वे परम्परे भवत: । एका भाट्टपरम्परा द्वितीया प्राभाकरपरम्परा । अस्मिन् शास्त्रे वेदवाक्यानां विचार: कृत: इति हेतो: वाक्यशास्त्रमिति कथ्यते । वेदवाक्यविचारमूलकत्वेन को धर्म: कोऽधर्म: इति विचार: कृत: । धर्मं विज्ञाय धर्म: अनुष्ठेय: अधर्मं विज्ञाय अधर्म: त्यक्तव्य: । एवं कृते क्लेशपरिहारो भूत्वा सुखप्राप्तिर्भवत्येव इति शास्त्रसिद्धान्त: । शास्त्रेऽस्मिन् द्वादश अध्याया: वर्तन्ते । प्रथमाध्याय: प्रमाणाध्याय: । आदौ अथाऽतो धर्मजिज्ञासा इति सूत्रेण धर्मजिज्ञासा कर्तव्या इत्युक्तम् । चोदना लक्षणोऽर्थो धर्म: इति सूत्रेण धर्मलक्षणमुक्त्वा चोदनैव धर्मे प्रमाणमिति उपपादितम् । तत: प्रमाणादीनि निरूपितानि । द्वितीयाध्याये कर्मभेद:, तृतीये कर्मणामङ्गाङ्गित्वं, चतुर्थे क्रत्वर्थपुरुषार्थविचार:, पञ्चमे क्रम: षष्ठे अधिकार: सप्तमे सामान्यातिदेश: अष्टमे विशेषातिदेश:, नवमे ऊह:, दशमे बाध:, एकादशे तन्त्रं, द्वादशे प्रसङ्गनिरूपणं कृतम् ।                                     
              प्रस्तुते देवताविचार: निरूप्यते । नवमेऽध्याये देवताप्रसाद एव प्रयोजकोऽस्तु इत्याशङ्का प्रसङ्गात् निराक्रियते । अर्थात् यदाग्नेयोऽष्टाकपाल इत्यादि वाक्यविहिता: आग्नेयादि यागा: देवताप्रसादद्वारा स्वर्गादिफलार्था: उत अपूर्वद्वारा स्वर्गादिफलार्था: इति विचार्यते ।  देवताप्रसादेनैव स्वर्गादिफलप्राप्ति: । देवताया: यागे सम्प्रदानत्वेन प्राधान्यात् यागस्य च यजदेवपूजासङ्गतिकरणदानेषु इति शाब्दिकस्मरणात् यागस्य देवपूजारूपतया पूजायाश्च विग्रहाद्यपेक्षितत्वाच्च ते च अर्थवादै: कल्प्यन्ते । स यथा सहस्राक्षो गोत्रभिद्वज्रबाहुरस्मासु देवो द्रविणं दधातु इत्यनेन विग्रह:, अग्निरिदं हविरजुषत इत्यनेन हवि:स्वीकार:, अद्धीन्द्र पिब च प्रस्थितस्य इत्यनेन हविर्भोजनम्, तृप्त एवैनमिन्द्र: प्रजया पशुभिस्तर्पयतीत्यनेन तृप्ति: तया च तृप्त्यैव प्रसादश्च कल्प्यते । यागेन तोषिता देवता एव प्रसादद्वारा अभीष्टं फलं ददाति । इत्थं च याग: देवताप्रसादार्थ: देवताप्रसादेन स्वर्गादिप्राप्ति: न त्वपूर्वेण इति प्राप्ते -   देवताविग्रहादिपञ्चकं निराकृत्य अपूर्वद्वारेणैव स्वर्गादिफलप्राप्ति: इति सिद्धान्तयन्ति । तथा हि यदि इच्छारूप: तदा तस्य इच्छात्वेन तत्फलं प्रति कारणत्वे अतिप्रसङ्गापत्ते: अवश्यं आग्नेयादि कर्तु: तत्फलं भवतु इत्येवमाकारेच्छात्वेन तत् वाच्यम् । तथा च कारणतावच्छेदके गौरवम् । दर्शादिजन्यफलभोगे जातेऽपि तत्कर्तृत्वानपायात् अन्यकृतदर्शपूर्णमासजन्यप्रसादात् अन्यश्च फलप्राप्तिश्च । किं च एतादृशप्रसादस्य उत्पत्तिरपि कदा भवतीति वक्तुं न शक्यते । यदि ब्राह्मणतर्पणान्ते तदा यागानन्तरं नष्टत्वादेव उत्पत्यनापत्ति: । तत् यागेभ्योऽपि अवान्तरप्रसादा: उत्पद्यन्ते इति चेत् तदा देवतानाम् अमोघेच्छात्वस्य अर्थवादेषु प्रतिपादनात् दैवात् अग्नीषोमाद्यकरणेऽपि फलप्राप्ति: । तथा च देवताप्रसादस्य  निर्वक्तुमशक्यत्वात् कारणतावच्छेदके गौरवाच्च न देवताप्रसादद्वारा फलप्राप्ति: । किं च निषेध्येषु कर्मसु देवताभावात् देवताप्रसादस्य व्यापारत्वकल्पनं न सम्भवति । तत्र अवश्यमेव अपूर्वस्य द्वारत्वं कल्पनीयं भवति । तद्वत् विधेयेष्वपि कर्मसु अपूर्वस्यैव द्वारत्वोपपत्तौ प्रसादस्य एव उपकल्पनं न युक्तम् । अर्थवादानां स्वार्थे प्रामाण्यं नास्तीति अर्थवादाधिकरणे प्रतिपादितम् । तेषां न स्तुतिलक्षणात: अन्या काचित् लक्षणा । अन्यतात्पर्यकस्य वाक्यस्य अन्यत्र प्रामाण्यकल्पनं न युक्तम् । देवताप्रसादादिप्रतिपादकानाम् अर्थवादानां स्वशक्यार्थे प्रामाण्यं न सम्भवति । अत: तद्वाक्यानुसारेण न देवताविग्रहस्वीकार: । किं तु शब्दमात्रं देवता । अर्थस्तु प्रातिपदिकानुरोधात् चेतनोऽचेतनो वा कश्चित् स्वीक्रियते, न तु विग्रहादिमान् । उपासनादौ परं ध्यानमात्रमाहार्यमिति जैमिनिमतनिष्कर्ष: । अत एवोक्तं पार्थसारथिना - मन्दधियस्तु शब्दालव: तात्पर्यमजानाना: बाह्यं तु नाम देवताफलं प्रयच्छतीति । वस्तुतस्तु कर्मणैव तथा च आग्नेयादियागै: अपूर्वोत्पत्ति: । अपूर्वेण स्वर्गादि फलप्राप्ति: इति सिद्धान्त: । 



आधारग्रन्था:- 
१)शाबरभाष्यम्
२)भाट्टदीपिका


विधिविचारः

विधिविचारः
                                      @डा. गणपति वि हेगडे
संविदाध्यापकः, अद्वैतवेदान्तविभागः
श्रीमद्भिः अप्पय्यदीक्षितवर्यैः  “आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः”[1] इत्यादिजिज्ञासाधिकरणवेदान्तवाक्येषु श्रूयमाणो विधिः कीदृश इति स्वीयसिद्धान्तलेशसङ्ग्रहे आदौ विचारितम् । दर्शनप्रपञ्चे तावत् अपूर्वविधिः नियमविधिः परिसङ्ख्याविधिश्चेति विधित्रयं प्रसिद्धम् । यथोक्तम् अप्पय्यदीक्षितवर्यैः कथमप्यप्राप्तस्य प्राप्तिफलको विधिः, अपूर्वविधिरिति । यथा व्रीहीन् प्रोक्षति इति विधायकशब्दप्रमाणं विना प्रोक्षणस्य संस्कारकर्मत्वं नावगम्यते इत्यतः अयम् अपूर्वविधिः । पक्षप्राप्तस्य अप्राप्तांशपरिपूरणफलको विधिः नियमविधिः । यथा व्रीहीनवहन्ति इत्यत्र आक्षेपादवहननप्राप्तिः तथा लोकावगतनखविदलनादीनामपि पक्षप्राप्तिः । तदा अवहननरूपस्य अप्राप्तांशपरिपूरणफलको विधिः नियमविधिः ।
द्वयोः शेषिणोः एकस्य शेषस्य वा एकस्मिन् शेषिणि द्वयोः शेषयोर्वा नित्यप्राप्तौ शेष्यन्तरस्य शेषान्तरस्य वा निवृत्तिफलको विधिः परिसङ्ख्याविधिः । अथवा नित्यप्राप्तयोः अन्यतरनिवृत्तिफलको विधिः परिसङ्ख्याविधिः । यथा पञ्च पञ्चनखा भक्ष्याः इति । “इमामगृभ्णन्रशनामृतस्येत्यश्वाभिधानीमादत्ते”[2] इत्यग्निचयनप्रकरणे प्राप्तयोः अश्वरशनाग्रहणगर्दभरशनाग्रहणयोः अन्यतरस्य गर्दभरशनाग्रहणस्य निवृत्तिफलको विधिः परिसङ्ख्याविधिः ।
अपूर्वविधिपक्षः - एवं प्रसिद्धेषु त्रिषु विधिषु श्रवणादौ अपूर्वविधिरिति प्रकटार्थकाराः अनुभूतिस्वरूपाचार्याः मन्यन्ते । कृतश्रवणस्य वेदान्तश्रवणसत्वेऽपि ब्रह्मसाक्षात्काराभावात् अन्वयव्यभिचारः । वामदेवस्य वेदान्तश्रवणाभावेऽपि ब्रह्मसाक्षात्कारसत्वात् व्यतिरेकव्यभिचारः । तथा च  अन्वयव्यतिरेकयोः अभावात् वेदान्तश्रवणं ब्रह्मसाक्षात्कारं प्रति साधनमिति कथमपि केनापि प्रमाणान्तरेण अनधिगतत्वात् अपूर्वविधिरिति प्रकटार्थकारा आहुः । अत्र भाष्यकारसम्मतिं प्रदर्शयन्ति यथा - सहकार्यन्तरविध्यधिकरणभाष्ये[3] पाण्डित्यशब्दिते श्रवणे अपूर्वविधिरेव अङ्गीकृतः इति  ।
नियमविधिपक्षः विवरणानुयायिनस्तावत् नित्यापरोक्षब्रह्मसाक्षात्कारं प्रति वेदान्तश्रवणं हेतुरिति अवगतमेव तस्मात् नात्र अपूर्वविधिः किन्तु नियमविधिरित्याहुः । न च प्रागुक्तरीत्या अन्वयव्यतिरेकव्यभिचारसत्वात् अपूर्वविधिरिति वक्तव्यम् । सहकारिकारणाभावे अन्वयव्यतिरेकव्यभिचारस्य अदोषत्त्वात् । यथा कुलालः दण्डादीनाम् सत्वेऽपि  अदृष्टकालादिसहकारिकारणाभावात् घटनिर्माणं कर्तुं न शक्नोति तथा कृतश्रवणस्य वेदान्तश्रवणसत्वेऽपि सहकारिकारणाभावात् अज्ञानरूपप्रतिबन्धकस्य सत्वाच्च ब्रह्मसाक्षात्कारो न जायते इति नान्वयव्यभिचारः । तथैव वामदेवस्य जन्मान्तरीयवेदान्तश्रवणसत्वात् साक्षात्कारप्राप्तिरिति न व्यतिरेकव्यभिचारः । श्रवणं नाम विचारः । विचारस्य विचार्यनिर्णयहेतुत्वसम्भवात्  श्रवणं ब्रह्मसाक्षात्कारहेतुरिति प्राप्तम् । तस्मात्  नात्र अपूर्वविधिः ।
यथा घटसाक्षात्कारे चक्षुरिन्द्रियातिरिक्तस्पर्शेन्द्रियस्यापि कारणत्वं तथा ब्रह्मसाक्षात्कारे वेदान्तश्रवणातिरिक्तानां लिखितपाठस्वप्रयत्नादीनामपि कारणत्वप्रसक्तिः । तस्मात् पक्षप्राप्तांशाः लिखितपाठादयः, अप्राप्तांशः वेदान्तश्रवणं, तन्निरूपको विधिः नियमविधिरिति विवरणानुयायिनः सङ्गिरन्ते ।
परिसङ्ख्याविधिपक्षः- वार्तिकवचनानुसारिणः केचन परिसङ्ख्याविधिम् अभ्युपगच्छन्ति । यथा चिकित्साज्ञानार्थं प्रवृत्तस्य चरकसुश्रुतादिश्रवणसम्भवात् व्यापारान्तरेऽपि प्रवृत्तिस्स्यात् तथा ब्रह्मज्ञानार्थं वेदान्तश्रवणे प्रवृत्तस्य मध्ये व्यापारान्तरेऽपि प्रवृत्तिस्स्यात् तन्निवृत्तिफलकः श्रोतव्यः इति परिसङ्ख्याविधिः । तथा च वार्तिकम्
नियमः परिसङ्ख्या वा विध्यर्थोऽत्र भवेद्यतः ।
अनात्मादर्शनेनैव परमात्मानमुपास्महे ॥ इति ।
विध्यभावपक्षः भामतीकारास्तु न कोऽपि विधिरित्याहुः । यथा मनननिदिध्यासनयोः आत्मा विषयः तथा श्रवणस्यापि आत्मा विषयः । श्रवणं नाम  आगमाचार्योपदेशजन्यज्ञानमेव न तु तात्पर्यविचाररूपम् । तस्मात् न तत्र कोऽपि विधिः । यथा श्रवणादिविधौ भाष्यसंमतिर्दर्शिता तथैव विध्यभावपक्षोऽपि समन्वयाधिकरणभाष्यसम्मतः । तर्हि कथं विरुद्धपक्षद्वयं भाष्यसम्मतं स्यात्  इति चेदुच्यते विधिरस्तीतिवादिनां मते विध्यभावभाष्यम् अपूर्वविधिनिराकरणपरम् । विध्यभाववादिनां मते ब्रह्मज्ञाने विध्यभावपरं , न श्रवणादिविध्यभावपरम्  इत्ययं विवेकः । अर्थात् ज्ञाने एव विधिः निराकृतः , न श्रवणादिविधौ इति  फलितोऽर्थः ।
अत एव समन्वयसूत्रे आत्मज्ञानविधिनिराकरणं कृत्वा भाष्यकाराः “किमर्थानि तर्हि आत्मा वा अरे द्रष्टव्यः इत्यादीनि वचनानि विधिच्छायानि ? स्वाभाविकप्रवृत्तिविषयविमुखीकरणानीति ब्रूमः ”[4] इत्याहुः । विध्यभाववादिनां मते विधिभाष्यं तु “विष्णुरुपांशु यष्टव्यः” इत्याद्यर्थवादस्यैव सतो वाक्यस्य प्रशंसाद्वारेण प्रवृत्यतिशयकरत्वरूपविधिसरूपत्वपरम् । यथा कश्चन एकः मुमुक्षुः श्रवणादीनि आत्मदर्शनसाधनानीति ज्ञात्वापि बह्वायाससाध्यसन्यासब्रह्मचर्यादौ सोत्साहेन न प्रवर्तते किन्तु यथाप्राप्तवर्णाश्रमानुष्ठानं कृत्वा आत्मदर्शनमलभमानः तिष्ठति तं प्रति आत्मदर्शनश्रवणादिप्रशंसार्थं उच्यते “आत्मा वा अरे द्रष्टव्यः” इत्यादिविधिच्छायावचनानि । तदुक्तं भाष्यकारैः “स्वाभाविकात् कार्यकरणसङ्घातप्रवृत्तिगोचराद्विमुखीकृत्य प्रत्यगात्मस्रोतस्तया प्रवर्तयन्ति आत्मा वा अरे द्रष्टव्यः” इत्यादीनि इति[5]
            यदि श्रवणस्य फलं वेदान्ततात्पर्यविचारः तर्हि तात्पर्यनिर्णयद्वारा वेदान्ततात्पर्यभ्रमसंशयरूपप्रतिबन्धकनिरास एव फलम्  न तु  प्रतिबन्धकान्तरनिरासो ब्रह्मज्ञानं वा। वेदान्तश्रवणस्य प्रतिबन्धकनिरासरूपफलं तु लोकतः प्राप्तम् , अतः अत्र न कोऽपि विधिः ।
परिसङ्ख्याविधिखण्डनम् श्रवणे प्रवृत्तस्य  व्यापारान्तरनिवृत्यर्थं परिसङ्ख्याविधिरिति न च वाच्यम् । “ब्रह्मसंस्थोऽमृतत्वमेति”[6] “तमैवैकं जानथ अन्या वाचो विमुञ्चत”[7] “आसुप्तेरामृतेः कालं नयेद्वेदान्तचिन्तया” इत्यादिश्रुतिस्मृतिभ्यां सन्यासिभिः कर्तव्यस्य कर्मणः सिद्धत्वात् पुनः श्रोतव्यवाक्येन व्यापारान्तरस्य निवृत्युपदेश आनर्थक्यं भजते । तस्मात् सन्यासिनः व्यापारान्तरनिवृत्तेः श्रुत्यन्तरसिद्धत्वात्  असन्यासिनः व्यापारान्तरनिवृत्यभावाच्च न परिसङ्ख्याविधिः ।
नियमविधिखण्डनम्   विचारविध्यभावेऽपि विचारविषयवेदान्ते नियमविधिर्भवतु  लिखितप्रबन्धादीनां पक्षप्राप्तत्वात् अप्राप्तांशवेदान्तश्रवणबोधकत्वात् नियमविधिरिति यदुक्तं तन्न समीचीनम् । “स्वाध्यायोऽध्येतव्यः” इत्यध्ययनविधिना ब्रह्मज्ञानाय वेदार्थस्य एव ज्ञातव्यत्वात्  भाषाप्रबन्धादीनां पक्षप्राप्तिरेव नास्तीति न नियमविधिः । किमर्थं तर्हि सहकार्यन्तरविध्यधिकरणभाष्ये विधिः स्वीकृत इति चेदुच्यते । विचारेण विचार्यस्य तात्पर्यनिर्णय इति लोकसिद्धत्वात्  न कोऽपि विधिः । किन्तु विधिच्छायस्य अर्थवादस्येव प्रशंसाद्वारा प्रवृत्यतिशयकरत्वमात्रेण तत्र विधिरिति भाष्यकारैः व्यवहारः कृतः ।




[1] बृ.उ.२-४-५
[2] तै.सं. ४-१-२
[3] ब्र. सू.भा ३-४-४७
[4] ब्र.सू.भा.१-१-४
[5] ब्र.सू.भा.१-१-४
[6] छा.उ.२-२३-१
[7] मुं .उ. २,२.५