श्रीमद्भगवद्गीता एवं
कोरान्सरिफयोः केचन समधर्माः
@अमिर् बाग्
आचार्यप्रथमवर्षम्
अस्माकं भारतीयानां धर्मग्रन्थः भवति श्रीमद्भगवद्गीता | तया सह कोरान्सरीफयोः
धर्मसिद्धान्तगतसमाना कुत्रचित् परिदृश्यते । उभयग्रन्थेभ्यः कांश्चन अंशान् विचारयितुं
इच्छामि ।
गीतायां ज्ञानकर्मयोगयोः विषये भगवता श्रीकृष्णेन
उपदेशः कृतः । एतेषु कर्मयोगः अन्यतमः | एतस्य प्रयोजनं जगतितले
विद्यमानान् लोकान् कर्म प्रति मनुष्यस्य श्रद्धां जागरयितुं एषो योगः प्रवर्तेतः ।
गीतायां
पञ्चमाध्याये द्वितीयः श्लोकः भवति –
संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ
।
तयोस्तु कर्मसंन्यासात् कर्मयोगो विशिष्यते ॥ इति ।
तयोस्तु कर्मसंन्यासात् कर्मयोगो विशिष्यते ॥ इति ।
अर्थात्-
निष्फलकर्मत्याग एव कर्मयोगः मोक्षप्रदानकारकः भवति, किन्तु एतयोः द्वयोः अपेक्षया
कर्मयोगः
उत्कृष्टतरो
वर्तते । सुतरां द्रष्टुं शक्नुमः यत् भगवतः श्रीकृष्णस्य मते कर्मयोगः श्रेयस्करः
इति अन्येन श्लोकेन वर्णितम् अस्ति यथा-
कर्मण्येवाधिकारस्ते मा फलेषु कदाचन ।
मा कर्मफलहेतुभोर्माते सङ्गोऽस्त्वकर्मणि ॥ इति ।
अर्थात् – कर्मे तव अधिकारः अस्ति परन्तु कर्मफले अधिकारः
न करणीयः । कर्म प्रेरणायाः निमित्तं फललाभस्य आकाङ्क्षा मुख्योद्देश्यः आदौ न मङ्गलम्
।
एतादृशभावाधारेण सहितं ‘कोरान् सरीफ्’ इत्यस्य प्रवचनम् अनेकेषु
स्थलेषु समावलोक्यते । अत्र स्वयं आल्लाह मनुष्येण कर्म प्रति श्रद्धाशीलेन भाव्यम्
इत्येवम् उपदेशं दत्तवान् अस्ति । तस्य मते मर्मनिरतमनुष्यः एव श्रेष्ठ इति । मनुष्यः
कर्मसु मर्मतत्परः स्यात् ।
किन्तु मनुष्येण कृतस्य कर्मणः फलाफलदाता स्वयम्
आल्लाह इति कथयति । स एव उपदेशः गीतायामपि –
न हि कल्याणकृत् कश्चित्
दुर्गतिं तात् गच्छति । इति।
अर्थात् – ये जनाः शुभकर्मणः अनुष्ठानं कुर्वन्ति ते जनाः
दुर्गतेः सम्मुखाः न भवन्ति ।
एष एव प्रतिध्वनिः ‘कोरान्सरीफ्’ मध्ये श्रूयते । “कोरान्” इत्यस्य सुरा (३९)(१०) आयत्तः ज्ञायते । ये जनाः
लोके मङ्गलकार्येषु व्रतिनो भवन्ति तेषां सदा कल्याणं भवत्येव ।
अन्यत्र
सुरा एवम् आयत् (6-८) मध्ये कथितः - अणुमात्त्रमपि
सत्कार्य करोति चेत् सुफलं प्राप्नोति ।
अणुमात्रमपि कुकार्यं
करोति चेदपि कुफलं तु प्राप्नोति एव कदाचित् परोक्षेण प्रत्यक्षेण वा अनुभूयते एव ।
‘कोरान्सरीफ्’ इत्यस्मिन् सुरा २ आयत्
२२२ इत्यत्र आल्लह् वदति –
कश्चन
जनः उत्तमकार्यं कृत्वा आल्लाहस्य समीपे सम्पूर्णमात्मसमर्पणं करोति । “ अविनाशि
तु तद्विद्धि येन कर्ममिदं ततम्” पुनश्च,
“न जायते म्रियते वा कदाचिन्नायं भूत्वा भविता वा न भूयः” इत्यादि श्लोकेषु आत्मा अविनाशि भवति, तदेव कोरान्सरीफे
अपि कथितम् । यदा मनुष्यस्य मरणं भवति तदा शरीरस्य विलयः जायते परन्तु आत्मनः न ।
यत्र धर्मेषु सत्यस्य व्यभिचारो अस्ति पुनः धर्महेत्वभासः
अवलोक्यते तदा महान् दोषैव भवति । आगच्छन्तु वयं परस्परं श्रद्धाशीलाः भवामः । एषः अन्यं पुनश्च अन्यः एनं ज्ञातुं प्रचेष्टामः
। ज्ञानस्य लोकेन अज्ञानस्य तिरोधानं कुर्मः
। अतः अस्माकं समवेतप्रार्थना एषा एव भवति –
“असतो मा सद्गमय, तमसो
मा ज्योतिर्गमय । मृत्योर्मा अमृतङ्गमय ॥” इति ।
No comments:
Post a Comment