अर्थान्तरस्य विन्यासे कालिदासो विशिष्यते
@डा. चन्द्रकला
आर्. कोण्डि
सहायकाचार्या, साहित्यविभागः
‘उपमा कालिदासस्ये’त्युक्तिः कस्य वा श्रवणपथं नागता ? को वा सहृदयः कविकुलगुरोः परमरमणीये उपमाप्रयोगे न रमते ? यद्यपि तस्य उपमाः सर्वजनादरणीया वर्तन्त एव, तथापि तत्तु अन्यकविविलक्षणतया कविरयमुपमाप्रयोगे विशिष्यत इत्येवार्थमभिव्यनक्ति, न तूपमां विहायान्यालङ्कारप्रयोगे कालिदासोऽसमर्थ इत्यर्थम् । उपमावदन्यालङ्काराणामपि काव्यशोभाकरत्वेन रसपोषकत्वेन च प्रयोगे नितान्तं निपुणोऽयमिति तस्य काव्यानामवलोकनेन स्पष्टं ज्ञायते । तत्रापि अर्थान्तरन्यासालङ्कारप्रयोगे विशिष्टा
काचिद्गतिः तस्य सर्वेष्वपि काव्येषु दरीदृश्यते ।
अर्थान्तरन्यासः
प्राचीनोऽलङ्कारः । अस्य व्युत्पत्तावेवास्य स्वरूपमपि समाविष्टमस्ति । अर्थान्तरं नाम वाच्यभिन्नार्थ इति सामान्यतया गृह्यते । किन्तु केषुचित्सन्दर्भेषु साक्षाद्वचनेन कविविवक्षितार्थस्य स्पष्टता न सम्पाद्यत इति अन्येन केनचिदर्थेन तस्य समर्थनद्वारा कविस्तत्सम्पादयितुं प्रयतते । तादृशसन्दर्भे प्रयुज्यमानालङ्कारोऽर्थान्तरन्यासः । अर्थाद्यद्वस्तु प्रस्तोतुमिच्छति कविः, तस्यार्थान्तरमुपन्यस्य स्वविवक्षितं परिपोषयति, कमपि चमत्कारञ्चोत्पादयति । कस्यापि विषयस्यासम्भाव्यतां दूरीकर्तुं तत्समर्थनरूपोऽन्यविषय उपस्थाप्यते । अतः समर्थ्य-समर्थकभाव एवास्यालङ्कारस्याधारः । तयोः समर्थ्य-समर्थकयोः सामान्यविशेषभावः । समर्थ्यस्य सामान्यत्वे समर्थकस्य विशेषत्वम् , समर्थ्यस्य विशेषत्वे समर्थकस्य सामान्यत्वम् । तत्रापि साधर्म्येण वैधर्म्येण चेति द्वैविध्यमित्यन्तिमरूपेणार्थान्तरन्यासः चातुर्विध्यं भजते-
१. साधर्म्यमूलकः सामान्येन विशेषस्य समर्थनरूपः ।
२. साधर्म्यमूलकः विशेषेण सामान्यस्य समर्थनरूपः ।
३. वैधर्म्यमूलकः सामान्येन विशेषस्य समर्थनरूपः ।
४. वैधर्म्यमूलकः विशेषेण सामान्यस्य समर्थनरूपः ।
इति । अस्यालङ्कारस्य प्रयोगे नितान्तं निष्णातोऽयं कविः । यद्यपि तेन विरचितेषु सर्वेष्वपि काव्येष्वस्यालङ्कारस्य प्रयोगो दृश्यत एव तथापि तद्विरचिते खण्डकाव्ये मेघदूताख्येऽस्य प्रचुरः प्रयोगः परिदृश्यते । विप्रलम्भशृङ्गारस्य कथावस्तुनश्चात्यन्तमेव योग्योऽयमलङ्कार इति प्रतिभाति तस्यावलोकनेन । उपमापेक्षयाऽपि अर्थान्तरन्यासप्रयोगोऽस्मिन् काव्ये विशिष्यते । शब्दशिल्पिना कविकुलगुरुणा प्रायः न्यूनातिन्यूनं पञ्चविंशतिस्थलेष्वय-मलङ्कारः प्रयुक्तः । मनोवृत्तेः समर्थनाय, अलोकसामान्यकार्यसमर्थनाय-एवमनेके सन्दर्भा अर्थान्तरन्यासालङ्कारविषयीकृतास्तेन ।
पश्यामस्तावत् उपमाधिपतेः कविकुलगुरोः अर्थान्तरन्यासवैदुष्यम् ।
साधर्म्यमूलकः विशेषस्य सामान्येन समर्थनरूपः
धूम-ज्योति-सलिल-मरुतां सन्निपातः क्व मेघः
सन्देशार्थाः क्व पटुकरणैः प्राणिभिः प्रापणीयाः ।
इत्यौत्सुक्यादपरिगणयन् गुह्यकस्तं ययाचे
यक्षः कान्तया वियुक्तः सन्, तां प्रति स्वस्य कुशलसन्देशं प्रेषयितुमिच्छति । को वा दौत्यं कुर्यादिति चिन्तयन् सः मेघं ददर्श । स च मेघ एव दूतः कृतः । किन्तु चेतनैः क्रियमाणं दौत्यकार्यम् अचेतनो मेघः कथं कुर्यादिति न चिन्तितवान् । स विशेषः कामार्ता हि प्रकृतिकृपणाश्चेतनाचेतनेषु इत्यनेन सामान्येन समर्थितम् ।
वैधर्म्यमूलकः विशेषस्य सामान्येन समर्थनरूपः
गुरुः प्रगल्भेऽपि वयस्यतोऽस्यास्तस्थौ निवृत्तान्यवराभिलाषः ।
अत्र प्रथमपादो विधिरूपः, विशेषश्च, स च विशेषः द्वितीयपादेन सामान्येन वैधर्म्येण समर्थ्यते ।
द्वयोः अर्थान्तरन्यासयोः प्रयोगः
सर्वः कल्पे वयसि यतते लब्धुमर्थान् कुटुम्बी
पश्चात्पुत्रैरपहृतभरः कल्पते विश्रमाय ।
अस्माकन्तु प्रतिदिनमियं साधयन्ती प्रतिष्ठां
अत्र पूर्ववाक्यं एकं सामान्यम् आश्रमव्यवस्थां प्रतिपादयति । मध्ये कञ्चुकीजीवनस्य विशेषदशा उल्लिखिता वर्तते । अन्ते पुनः कष्टस्य तीव्रताप्रतिपादकं सामान्य-समर्थकवाक्यं वर्तते । एष एव भावः ‘सेवाधर्मः परमगहनो योगिनामप्यगम्यः’ (नीतिशतकम्) इत्यत्रापि विहितमस्ति ।
एवं न केवलं सामान्यविशेषभावपूर्वकं, किन्तु अन्यालङ्कारानुप्राणिता-र्थान्तरन्यासस्य, अर्थान्तरन्यासालङ्कारानुप्राणितान्यालङ्काराणां प्रयोगेऽपि पाटवं दरीदृश्यते कवेः ।
अर्थापत्त्या सहार्थान्तरन्यासः
मेघदूतस्य तृतीयश्लोके विरहिणो यक्षस्य विक्षिप्तमनोवृत्तिरूपविशेषः सामान्येनैवं समर्थितम्-
मेघालोके भवति सुखिनोऽप्यन्यथावृत्ति चेतः
तथैव,
न क्षुद्रोऽपि प्रथमसुकृतापेक्षया संश्रयाय ।
विरोधाभासालङ्कारेण सह
अकिञ्चनः सन् प्रभवः स सम्पदां त्रिलोकनाथः पितृसद्मगोचरः ।
अत्र विरोधाभासरूपो विशेषः । अन्तिमचरणे न सन्तीत्यादिना विरोधाभासस्य निराकरणं कृतम् ।
विकल्पेन सह
विभूषणोद्भासि पिनद्धभोगि वा गजाजिनालम्बि दुकूलधारि वा ।
अर्थान्तरन्यासस्य सामान्यः सिद्धान्तः प्रायोवादमाश्रित्य तिष्ठति । कालिदासः प्रायोवादममुं सामान्यतः आक्षिप्तरूपेणैव स्थापयति । केषुचित्स्थलेषु प्रायः, प्रायेण-इत्यादिशब्दैरभिहितं करोति । हि, यतः, खलु, ननु, किल-इत्यादिनाऽपि समर्थयति ।
दीपकानुप्राणितार्थान्तरन्यासः
इति ध्रुवेच्छामनुशासती सुतां शशाक मेना न नियन्तुमुद्यमत् ।
अत्र समर्थक-सामान्यवाक्ये विषयद्वयमुक्तमस्ति, मनः पयश्चेति तत्र मनः प्रस्तुतम्, पयश्च अप्रस्तुतम् । कः प्रतीपयेत् इत्यनेन सामान्यधर्मेण संयोज्य विशेषस्य समर्थनं कृतम् ।
कारणेन कार्यस्य समर्थनरूपः
उपमानमभूद्विलासिनां करणं यत्तव कान्तिमत्तया ।
तदिदं गतमीदृशीं दशां न विदीर्ये कठिनाः खलु स्त्रियः ॥
अत्र कठिनाः खलु स्त्रियः इत्यनेन कारणेन विदीर्णताभावरूपस्य कार्यस्य समर्थनं कृतम् ।
विधेः प्रतिषेधेन समर्थनम्
प्रत्यर्थिभूतामपि तां समाधेः शुश्रूषमाणां गिरिशोऽनुमेने ।
अर्थान्तरन्यासानुप्राणितप्रेयोऽलङ्कारः
अनन्तरत्नप्रभवस्य यस्य हिमं न सौभाग्यविलोपि जातम् ।
अत्र हिमकारणात् हिमालयस्य सौन्दर्ये न काऽपि हानिर्जातेति निषेधवाक्येन समर्थ्यं प्रतिपादितम् । द्वितीयचरणे साधर्म्यप्रतिपादकविधिवाक्येन तत् समर्थितम् ।
मानवजीवनस्य अनुभूतयः कालिदासेन अर्थान्तरन्यासद्वारा अभिव्यक्ताः सन्तीति वक्तुं शक्यते । मैत्रीविषये बहुत्र तेन अर्थान्तरन्यासद्वारा अभिहितमस्ति । उदाहरणार्थम्-
मैत्रीभावः दाम्पत्यादप्यधिकः-
मित्रकार्ये शैथिल्यं न सम्पादनीयम्-
मित्रैरानीयमानः प्रियतमवृत्तान्तः प्रियेण सह सङ्गमात् किञ्चिदूनः-
सज्जनानां सङ्गतिः साप्तपदीनं भवति-
कालिदासस्य जीवनानुभवोऽत्यन्तं पक्वमासीत् । स चानुभवः अर्थान्तरन्यासालङ्क्द्वारा रमणीयतया तेनोपस्थापिता वर्तन्ते तस्य कृतिषु ।
सुख-दुःखे जीवनोदधिमथनप्राप्तो निधिः । कस्यापि जीवने केवलं सुखं केवलं दुःखं वा न भवति -
कस्यात्यन्तं सुखमुपनतं दुःखमेकान्ततो वा ।
स्वजनसमीपमागतं दुःविवृतद्वारं भूत्वा प्रकटं भवति -
दुःखानन्तरं प्राप्तं सुखमत्यन्तं आनन्ददायकं भवति-
यदेवोपनतं दुःखात् सुखं तद् रसवत्तरम्
।
निर्वाणाय
तरुच्छाया तप्तस्य हि विशेषतः ॥ [19]
जगतः क्रूरव्यवहारं दर्शयन् कालिदासः वदति-
जीवने विषामृतयोः स्वरूपं नित्यं न तिष्ठति । ईश्वरेच्छया विषमपि अमृतं भवेत्, अमृतमपिविषं तथा -
गुणदोषविवेचनमपि कालिदासः अर्थान्तरन्यासस्य विषयं कृतवान् ।
गुणदोषौ सर्वत्र सम्पृक्तौ भवतः-नैकत्र सर्वो गुणसन्निपातः इत्यस्य न्यायस्य व्याख्यानं प्रस्तुतं कविना ।
सुवर्णस्य शुद्धिः श्यामिका वा अग्नौ स्पष्टं भवति-
बहूनां गुणानां मध्ये पतितः एकः दोषः गुणैराच्छादितो भवति, न दृश्यते-
उत्तमैः प्राप्तं सम्माननं स्वगुणेषु विश्वासं जनयति-
अचेतनेषु गुणग्रहणशक्तिर्न भवति -
शरीर-इन्द्रिय-मन-बुद्धि-कर्मादिदर्शन विचारानपि कविरनेनालङ्क्रेण प्रस्तुतवान् । जीवनं-मरणम्, विरहः-मेलनम्, सुखं-दुःखम्-इत्यादिविषयेषु सूक्ष्मचिन्तनप्रसूतः सङ्केतः अनेकेषु स्थलेषु विकीर्णो वर्तते ।
शरीरम्-
इन्द्रियम्-
मनः-
कर्म-
सहजं किल यद्विनिन्दितं न खलु तत्कर्म विवर्जनीयम्
।
पशुमारणकर्मदारुणोऽनुकम्पामृदुरेव
श्रोत्रियः ॥ [38]
मरणम्-
कामः-
विरहः-
मेघालोके भवति सुखिनोऽप्यन्यथावृत्ति चेतः ।
आशाबन्धः कुसुमसदृशं प्रायशो ह्यङ्गनानां
लोकशिक्षणम्-
सज्जनाः, महापुरुषाः
एवंरीत्या कविकुलगुरोः अर्थान्तरन्यासालङ्क्प्रयोगपाटवदर्शनेन अलङ्क्राऽयम् उपमाया अतिरिच्यते वेति चिन्त्यति मनः । तादृशं बाहुल्यमस्यालङ्कारस्य । एतस्य सर्वस्यापि विमर्शनेन स्पष्टं ज्ञायते यत् महाकवेः प्रतिभाया अविषय इति नास्ति जगति इति । ‘उपमा कालिदासस्य’ इत्यस्य समानतयैव एतदपि वक्तुं शक्यते यत् ‘अर्थान्तरस्य विन्यासे कालिदासो विशिष्यत’ इति शम् ।
*****
No comments:
Post a Comment