Thursday, September 29, 2016

पूर्वमीमांसायामीश्वरः

पूर्वमीमांसायामीश्वरः
@आचार्यः सुब्राय वि. भट्टः
मीमांसाविभागाध्यक्षः

“धर्मेण पापमपनुदति, धर्मे सर्वं प्रतिष्ठितम्”, इत्यादिवेदवाक्यैः धर्मस्य पापनाशकत्वं जगदुत्पत्तिस्थितिकारणत्वं च प्रतिपादितम् तादृश धर्मविवेचनार्थं प्रवृत्तमिदं “मीमांसाशास्त्रम्” | मीमांसासूत्रकारः भगवान् जैमिनिरपि पूर्वमीमांसाशास्त्रारम्भे “अथातो धर्मजिज्ञासा” इत्यनेन धर्मजिज्ञासां प्रतिज्ञाय द्वितीयेन सूत्रेण धर्मलक्षणमाह “चोदनालक्षणोऽर्थो धर्मः” इति । एवञ्च वेदबोधितश्रेयस्साधनताको धर्मः इति धर्मलक्षणं परिष्कृत्य तल्लक्ष्यत्वेन यागादिरेव धर्मः इत्याह
बहूनां क्वचित् चिन्तनं भवति मीमांसकाः ईश्वरं नाङ्गीकुर्वन्ति । इमे भगवद्द्विद्वेषिणः इति । स चाभिप्रायः न प्रामाणिकः । यतो हि ईश्वरोऽपि कश्चन देवताविशेषः इत्यत्र न कस्यापि विप्रतिपत्तिः । किन्तु मीमांसाशास्त्रे ईश्वरस्य ईश्वरत्वेन वा जगत्कर्तृत्वेन वा करचरणादिविशिष्टशरीरित्वेन वा अङ्गीकारः नोपलभ्यते । अथवा अन्यैः अनुमानप्रमाणादिना यः ईश्वरः अङ्गीकृतः तादृशः नाङ्गीकृतः। स च सर्वज्ञः सर्वशक्तः स एव जगतः कर्ता इत्यादिविषये विप्रतिपत्तिरस्ति
मानमेयोदये अनुमानप्रमाणसिद्धः ईश्वरः निराकृतः । नापि ईश्वरारब्धं जगत्,वेदव्यतिरेकेण ईश्वरसद्भावे प्रमाणाभावात् । अस्तु वेदादेव ईश्वरसिद्धिरिति चेन्न, वेदानामपि ईश्वरकर्तृकत्वं साधयतां वेदप्रामण्यादीश्वरसिद्धिः ईश्वरप्रमाण्याच्च वेदसिद्धिः इति अन्योन्याश्रयचक्रकयोः प्रसङ्गात् इत्युक्तम् एवमत्र अनुमानप्रमाणासिद्धमीश्वरं निराचक्रुः । अनन्तरञ्च इत्थं निरस्ते परमते स्वपक्षस्थापनार्थमनुमानमुच्यते क्षित्यादयः कर्तृशून्याः शरीरिजन्यत्वाभावात्, आत्मवत् इत्यादिना स्वपक्षे प्रमाणानि प्रतिपादितानि ।
“अपि च सिद्धेऽपीश्वरे कर्तरि कथं भवन्मते सकलकालदेशेषु तुल्यतया प्रवृत्तयोर्विद्वेषादिकारणरहितयोरीश्वरेच्छाप्रयत्नयोः कदाचित्कार्योत्पत्तिविघटनहेतुतया तत्कारणानां परस्परोपसर्पणहेतुत्वम् ? तत्तद्भोगाधिकृततत्तच्चेतनगत तत्तददृष्टपरिपाकवशादिति चेत्, तर्हि तेनैव कारणानां परस्परोपसर्पणादिसिद्धेः किमीश्वरपरिकल्पनाव्यसनेनेति सिद्धस्तार्किकेश्वरनिरासः । वैदिकेश्वरः परमकारुणिकः पुनरस्माकमनुगुण एव” इत्युपसंह्रतम् । अत्र तु वैदिकेश्वरः परमकारुणिकः इति कथितेऽपि सः कः इति न निर्दिष्टः । किन्तु तत्तद्भोगाधिकृततत्तच्चेतनगततत्तददृश्टपरिपाकवशात् कारणानां परस्परोपसर्पणादिसिद्धेः इति कथनेन यागादिकर्मजन्य तत्तदात्मनिष्ठ अपूर्वस्यैव फलजनकत्वमथवा कार्यजनकत्वमिति गम्यते
तेन इश्वरस्य फलजनकत्वं वा जगत्कर्तृकत्वं वा असिद्धं भवति । कर्मणामेव फलजनकत्वम् । तत्र अङ्गत्वमस्त्येव । देवतायाः कर्मशेषत्वात्
एवमेव सर्वज्ञवादोऽपि मीमांसकानां न सम्मतः श्लोकवार्तिके सर्वज्ञनिराकरणम् एवं दृश्यते । अशक्यं हि तत् पुरुषेण ज्ञातुमृते वचनात् इत्यस्य भाष्यवाक्यस्य विवरणावसरे अयमंशः विमृष्टः ।
यदि षड्भिः प्रमाणैः स्यात् सर्वज्ञः केन वार्यते
यो हि षड्भिःप्रमाणैः सर्वं जानाति सः धर्माधर्मावपि वेदेन जानन् चोदनैवेत्यवधारणं विरुणद्धीति निराकर्तव्य इति यस्तु एकेनैव सर्वं जानातीति कैश्चित्कल्पितः सोऽति तुच्छत्वादेव निराकार्यः इत्याह
एकेन तु प्रमाणेन सर्वज्ञो येन कल्प्यते
नूनं चक्षुषा सर्वान् रसादीन् प्रतिपद्यते इति
यो हि एवं विधं सर्वज्ञं कल्पयति स्वयं तावच्चक्षुषा रसादीन् जानाति इतरथा कथं स्वभाव नियमं जानन् अविषये सर्वार्थे प्रत्यक्षस्य अन्यस्य वा प्रवृत्तिमध्यवस्येदिति ततः -
यज्जातीयैः प्रमाणैस्तु यज्जातीयार्थदर्शनम्
भवेदिदानीं लोकस्य तथा कालांतरेऽप्यभूत् इति
अद्यत्ववदेव कालांतरेऽपि प्रमाणस्वभावो नान्यादृशः इति
सर्वज्ञो दृश्यते तावन्नेदानीमस्मदादिभिःइति सर्वज्ञनिराकरणं कृतम्
यदि आगमेन सर्वज्ञः सिद्ध्यति इति कथ्यते  येनैव आगमेन सर्वज्ञत्वं प्रतिपाद्यं तेन धर्म एव प्रतिपाद्यतां , किमन्तर्गडुना सर्वज्ञेन इति सर्वज्ञनिराकरणम् कृतम्
मीमांसकमते - धर्म एव जगदुत्पत्तिस्थित्यादिरूपेण सर्वस्यापि कारणं भवति । धर्मे सर्वं प्रतिष्ठितम् इत्यादिश्रुत्या सूचितम् । स च धर्मः मीमांसकमते यागादिरेव । देवतोद्देशेन द्रव्यत्यागो यागः । तत्र देवतायाः यागस्वरूपनिरूपकत्वेन यागाङ्गत्वम् । तदुक्तं यागस्य द्वे रूपे द्रव्यं देवता चेति । एवञ्च ईश्वरस्य देवतारूपत्वेन कर्मशेषत्वं सिध्यति । कर्मणः स्वर्गादिफलजनकत्वम् । कर्मणः क्षणिकत्वात् कथं कालान्तरभावि फलजनकत्वमित्युक्तौ तदन्यथानुपपत्या अवान्तरव्यापारत्वेन अपूर्वं परिकल्प्य निर्वाहः कृतः । कथं तर्हि कर्मणः फलजनकत्वं , जडत्वात् कर्मणः इति चेत् वचनबलात् अङ्गीक्रियते । यथा ज्योतिष्टोमेन स्वर्गकामो यजेत इत्यादिवेदवाक्यैः यागस्वर्गयोः साध्यसाधनभावः श्रुतः । तेन यागदिकर्मण एव स्वर्गादिफलकारणत्वं गम्यते । “ तृप्त एव एनमिन्द्रः प्रजया पशुभिश्च तर्पयति ” इत्याद्यर्थवादबलात् यगाराधिता देवता फलं  प्रयच्छति । ईश्वर एव कर्माध्यक्षः , फलदाता इति चेत् अयमर्थवादः ऐन्द्रदधियागसन्निधौ श्रूयमाणः । अर्थवादानां स्वार्थे प्रामण्यं नास्ति । विधेयप्राशस्त्यादिबोधकत्वेन प्रामण्यमिति  निर्णीतम् । अतः इदं प्रमाणभूतं न भवति
यदि यागाराधिता देवता अथवा ईश्वरपदवाच्यः शक्तिविशेषः फलदाता इत्यङ्गीकारे कलञ्जभक्षणब्राह्मणहननादौ कर्मणामेव निषेधः श्रूयते । न कलञ्चं भक्षयेत्, ब्राह्मणो न हन्तव्यः इत्यादिना । तत्र तादृश निषिद्धकर्मणामेव नरकजनकत्वं श्रूयते । तत्र च देवतासंबन्धः अङ्तयाऽपि नास्ति । यदि स्वर्गादि इष्टफलदाता ईश्वरः स्यात्, तथैव नरकाद्यनिष्टफलदातृत्वमपि तस्यैव वक्तव्यम् । तच्चानिष्टम् । यागादौ तु शेषतया देवतासम्बन्धः श्रूयते चेदपि निषिद्धे कर्मणि देवतासम्बन्धः नास्त्यैव । साक्षात्कर्मणः एव फलजनकत्वम् तत्र च श्रुतिवचनमेव प्रमाणम् । स च वैदिकः शब्दः चेतनः एवम् अन्यत्र ईश्वरशब्देन व्यवह्रियमाणेन परमात्मना अधिष्ठितः
अयं विचारः भट्टपादैः तन्त्रवार्तिके ग्रहैकत्वाधिकरणे प्रासङ्गिकरुपेण विमृष्टः । तथाहि - ग्रहं सम्मार्ष्टीत्यत्र  एकत्वं विवक्षितं न वा इति प्रश्ने-कस्य विवक्षा ? पुरुषस्य उत वेदस्य ? इति चेत् वेदस्य इति वक्तव्यम् । शब्दरुपस्य वेदस्य विवक्षा इति कथं सङ्गच्छते इति विचारसन्दर्भे - भट्टपादैः अभिहितम्
ऋग्वेदादिसमूहेषु क्षेत्रज्ञा ये प्रतिष्ठिताः ।
तेषां वाऽयमभिप्रायः स्याद्विवक्षाऽविवक्षयोः ॥
महाभौतिकदेहस्था यथात्मानः सचेतनाः ।
कञ्चिदर्थं विवक्षन्ति न विवक्षन्ति चापरम् ॥
तेषामन्तर्गतापीच्छा तद्वाक्यार्थविचारिभिः ।
ज्ञायते शब्दशक्त्यैव स्फुरन्तीव बहिः स्थिता ॥
देहभेदप्रकारश्च कर्मशक्तिवशानुगाः ।
प्रकृत्यारम्भवैचित्र्यात् दृश्यन्ते परमात्मनाम् ॥
तथा व्योमशरीरोऽपि परमात्मा श्रुतौ श्रुतः ।
इज्यते वारिणा नित्यं यः खं ब्रह्मेति चोदितः ॥
रूपस्पर्शादयो येऽपि महाभूतगणाः स्थिताः ।
प्रत्येकमात्मनां तेऽपि देहाः संभोगहेतवः ॥
शब्दब्रह्मेति यच्चेदं शास्त्रं वेदारव्यमुच्यते ।
तदप्यधिष्ठितं सर्वमेकेन परमात्मना ॥
तथार्ग्वेदादयो देहाः प्रोक्ता येऽपि पृथक् पृथक् ।
भोग्यत्वेनात्मनां तेऽपि चैतन्यानुगताः सदा ॥
तेषां चान्तर्गतेच्छानां वाक्यार्थप्रतिपादने ।
विवक्षा वाऽविवक्षा वा ज्ञायते शब्दशक्तितः ॥
विधिशक्त्या गृहीतं यत्तत्सर्वं हि विवक्षितम् ।
तथैव तु परित्यक्तं व्याख्येयमविवक्षितम् ॥
शब्दब्रह्मात्मनोप्येवं सर्ववेदानुसारिणः ।
विवक्षा वाऽविवक्षा वा वक्तव्या विधिशक्तितः ॥
अनादिनिधनेऽप्येवं वेदे वेदार्थगोचरे ॥
इत्यादिना ईश्वरस्य अथवा भगवदस्थित्वस्य प्रकारान्तरेणाङ्गीकारः दृश्यते ।
अर्थवादाधिकरणे तु वार्तिके
“ माभूत्तन्महावाक्यम्” इति आक्षिप्य उक्तं “सत्यं विनापि तेनेति । यो नाम वेदस्य कर्ता स्यात्स एवं पर्यनुयुज्येत लघुनोपायेन सिद्धे किं महावाक्यमाश्रयसीति । तदभावान्न पर्युनुयोगः”  इत्युक्तम् । तेन ईश्वरकर्तृकः वेदः इति मीमांसकानाम् असम्मत इति सूचितं भवति । नवमाध्याये देवताधिकरणे देवतायाः विग्रहवत्वं निराकृत्य आनुपूर्वीविशिष्टशब्दरूपा देवता इति सिद्धान्तितम् ।
तथा च मीमांसकमते ईश्वरः इति अतिरिक्तः नास्ति । ईश्वरस्थानीयः यज्ञ एव । ईश्वरकार्यकारित्वात् । श्रौतस्मार्तादि अनुष्ठानेऽपि पठ्यते
“ काण्डद्वयोपपाद्याय कर्मब्रह्मस्वरूपिणे । स्वर्गापवर्गदात्रे च यज्ञेशाय नमो नमः”
इति तेन यज्ञाख्यः ईश्वरः एव सम्मत इति प्रतीयते ।
जडत्वात् कर्मणां कथं फलसाधनत्वमिति न चिन्तनीयम् । परमात्माधिष्टितवेदबोधितत्वात् तत्रापि कश्चन शक्तिविशेषः वर्तते । कर्मजन्येन शक्तिरूपापूर्वेण कालान्तरभावि फलं प्रति यागः कारणं भवतीति वेदप्रामाण्यवशात् अङ्गीकर्तव्यम् । यथा अनेन औषधपानेन अयं ज्वराख्यरोगविशेषः नश्यति इति आयुर्वेदवचनानुसारेण तस्य औषधपानेन तस्य निर्दिष्टस्य रोगस्य नाशे प्रत्यक्षानुभूते सति तस्मिन् औषधविशेषे कश्चन शक्तिविशेषः वर्तते इति निर्णीयते । तत्र औषधस्य चेतनत्वं वा जडत्वं वा इति विचारो नास्ति । तस्मिन् शक्तिर्नस्ति इति वक्तुं न शक्यते, अनुभवविरोधात् । तद्वत् वेदबोधितकर्मणामपि फलजनकत्वशक्तिः वर्तते इति अङ्गीकर्तव्यम् । ततश्च सृष्टिस्थित्यादि कर्तृत्वेन सकलप्रपञ्चस्य अध्यक्षः ईश्वररूपी यज्ञ एव इति न मीमांसकमते पूर्वापरविरोधः । एवं शब्दमात्रेण भेद इति शास्त्रान्तराविरोधश्च ।


No comments:

Post a Comment