कृत्स्नप्रसक्त्यधिकरणम्
@डा.श्रीकरः जी.एन्
संविदध्यापकः, वेदान्तविभागः
तत्र तावत् चतुर्लक्षण्यां
द्वितीयाध्याये प्रथमपादे इदं कृत्स्नप्रसक्त्यधिकरणं विद्यते । पूर्वस्मिन् अधिकरणे
’उपसंहारदर्शनान्नेति चेन्न क्षीरवद्धि’(ब्र.सू.२/१/२४) इति सूत्रेण यथा क्षीरं स्वयमेव दधिरूपेण परिणमते
तद्वत् ब्रह्मणः बाह्यं साधनं विना विचित्रशक्तियोगात् विचित्रपरिणाम उपपद्यत इत्युपपादितम्
। अत्र पुनः आक्षिपति पूर्वपक्षी –
“निष्कलं निष्क्रियं शान्तं
निरवद्यं निरञ्जनम् “(श्वे.उ.६/१९)”दिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्यजः
“(मु.उ.२/१/२) इत्यादिश्रुतिषु ब्रह्मणः निरवयवत्वश्रवणात्
कृत्स्नस्य तस्य कार्यरूपेण परिणामः प्राप्नोति । तथा च ब्रह्मणः अव्यतिरिक्तस्य कार्यस्य
अयत्नदृष्टत्वात् ‘आत्मा वा अरे द्रष्टव्यः’ इत्यादिद्रष्टव्यतोपदेशानर्थक्यम् । । एकदेशपरिणामाभ्युपगमे
च ब्रह्मणः सावयवत्वमनिष्टं प्रसज्यते । ब्रह्मणः सावयवत्वाभ्युपगमे च तस्य निरवयवत्वप्रतिपादकश्रुतीनाम्
आनर्थक्यप्रसङ्गः । अपि च सावयवत्वे यत् सावयवं
तदनित्यमिति न्यायेन ब्रह्मणः अनित्यत्वमायाति । तथा च पूर्वपक्षसूत्रम् – ’कृत्स्नप्रसक्तिर्निरवयवत्वशब्दकोपो वा’ (ब्र.सू.२/१/२६) इति । अतः चेतनमेकम् अद्वितीयं ब्रह्म क्षीरादिवत्
विना बाह्यं साधनं स्वयं परिणममानं जगतः कारणमित्ययं पक्षः सर्वथा न घटत इति ।
ब्रह्मपरिणमः
दुर्घट इति यदुक्तं तदिष्टमेवेति विवर्तवादेन सिद्धान्तितम् – - ’श्रुतेस्तु शब्दमूलत्वात् ’ (ब्र.सू २/१/२७) इति । कृत्स्नस्य ब्रह्मणः कार्यरूपेण परिणामः
नास्ति, श्रुतेः इति । यथा – “सेयं देवतैक्षत हन्ताहमिमास्तिस्रो देवता जीवेनात्मनानुप्रविश्य
नामरूपे व्याकरवाणि “(छा.उ.6/3/2) इत्यादिषु विकृतेन ब्रह्मणा जगदुत्पत्तिः श्रूयते । तथा “सता सोम्य तदा सम्पन्नो भवति “ (छा.उ.6/8/1) इत्यादिषु विकारव्यतिरेकेणापि ब्रह्मणोऽवस्थानं श्रूयते । यदि कृत्स्नस्य ब्रह्मणः
परिणामः भवति, तदा अविकृतस्य ब्रह्मणः अभावात् “सता सोम्य तदा सम्पन्नो भवति” इति सुषुप्तिगतं विशेषणमनुपपन्नं स्यात् । अतः
अविकृतं ब्रह्य अस्त्येव ।
कृत्स्नस्य
ब्रह्मणः परिणामानङ्गीकारे तस्य निरवयवत्वप्रतिपादकश्रृतीनां
विरोध इति न च वाच्यम् । शब्द मूलत्वात् । शब्दैकप्रमाणगम्यं ब्रह्म न प्रत्यक्षादिप्रमाणगोचरम्
। शब्दश्च ब्रह्मणः अकृत्स्नप्रसक्तिं निरवयवत्वञ्च उभयमपि प्रतिपादयति । यदि लौकिकानामेव
प्रत्यक्षादिसिद्धानां मणिमन्त्रौषधीनां शक्तय: तर्कागोचराः, तर्हि शब्दैकगम्यस्य ब्रह्मणः तर्कागोचरत्वं
किमु वक्तव्यम् । तथा च पौराणिकानां वचनं यथा - ‘अचिन्त्याः खलु ये भावा न तांस्तर्केण योजयेत्
। प्रकृतिभ्यः परं यच्च तदचिन्त्यस्य लक्षणम् ॥’ इति ।
अत्र
पुनः आक्षेपः - कथं निरवयवं ब्रह्म परिणमते कृत्स्नप्रसक्तिरपि नास्ति इति विरुद्धोऽर्थः
शब्देन प्रतिपादयितुं शक्यते । निरवयवस्य परिणामः कृत्स्नस्यैव स्यात् । एकदेशपरिणामश्चेत्
सावयवत्वं प्रसज्यते । यथा कर्मकाण्डे ’अतिरात्रे
षोडशिनं गृह्णाति ’
’नातिरात्रे षोडशिनं गृह्णाति’ इत्यादिषु विकल्पाश्रयणेन विरोधपरिहार इति चेत्न, ’अविद्याकल्पितरूपभेदाभ्युपगमात् । न ह्यविद्याकल्पितेन
रूपभेदेन सावयवं वस्तु संपद्यते ।’
इत्युक्तं भाष्ये । ब्रह्मणः परिणामादिसर्वव्यवहारः अविद्याकल्पितेन रूपभेदेन
सम्भवति । परमार्थतस्तु सर्वव्यवहाररहितं ब्रह्म निर्विकारमेवावतिष्ठते । अतः अत्र
न कोऽपि दोषः । अपि च यथा लोके देवादिषु स्वरूपानुपमर्देनैव विचित्राः अश्वादिसृष्टयः
दॄश्यन्ते । तथा एकस्मिन् ब्रह्मणि स्वरूपनाशं विना अनेकाकारा सृष्टिः सम्भवति । “न तत्र रथा न रथयोगा न पन्थानो भवन्त्यथ रथान्रथयोगान्पथः
सृजते”। (बृ.उ.४/३/१०) इति श्रुतेः । तथा च सूत्रम् ” आत्मनि चैवं विचित्राश्च हि” (ब्र.सू.२/१/२८) इति । अतः स्वयं परिणममानं ब्रह्म जगतः कारणमिति
सिद्धम् ।
अपि
च ब्रह्मणः कृत्स्नपरिणामप्रसक्तिरिति यः दोषो आरोपितः सः सांख्यानां प्रधानपक्षेऽपि
समान इति ‘यश्चोभयोः समो दोषः’ इति न्यायात् अस्मान् प्रति दोषः न उद्भावनीय
इत्याह सूत्रकारः - ‘स्वपक्षदोषाच्च’(ब्र.सू.२/१/२९) इति । साख्यैः अपरिच्छिन्नं निरवयवं शब्दादिहीनं
प्रधानं परिच्छिन्नस्य सावयवस्य शब्दादिमतः जगतः कारणमिति अभ्युपगतम् । अतः प्रधानस्य
निरवयवत्वे कृत्स्नप्रसक्तिः
सावयवत्वे च निरवयवत्वाभ्युपगमविरोधः
स्यात् । अत्र यदि साख्यैः प्रधानस्य निरवयवत्वं नाभ्युपगतं सत्त्वरजस्तमोगुणानां साम्यावस्था
प्रधानम् अतः तैः गुणैः तत्सावयवत्वम् । तथा च प्रधानस्य एकदेशेन परिणामः एकदेशेन च
अवस्थानमित्यङ्गीकारात् न कृत्स्नप्रसक्त्यादिदोष इति चेत् - न गुणानां समुदायस्य सावयवत्वेऽपि
प्रत्येकं सत्त्वादीनां निरवयवत्वात् तेषां च कार्यरूपेण परिणामस्वीकारात् कृत्स्नपरिणामेऽभ्युपगमविरोधः
एकदेशपरिणामे सावयवत्वापत्तिः । अतः प्राधानवादे दोषद्वयं दुर्वारमिति ।
वैशेषिकानाम्
अणुवादेऽपि प्रधानवादवद्दोषः समानः । तद्यथा - द्वाभ्यामणुभ्यां संयुज्यमानाभ्यां द्व्यणुकमारभ्यते
त्रिभिः द्व्यणुकैः संयुक्तैः त्र्यणुकं संयुक्तैः त्र्यणुकैः चतुरणुकमित्यस्यां वैशेषिकानां
प्रक्रियायाम् अणुरण्वन्तरेण संयुज्यमानः कार्त्स्न्येन वा संयुज्यते एकदेशेन वेति
विकल्पे सति आद्ये एकस्मिन् परमाणौ परमाण्वन्तरस्य संयोगात् तत्कार्ये द्व्यणुके परमाणोरधिकपरिमाणाभावात्तस्यापि
पारिमाण्डल्यत्वप्रसङ्गात् अणुत्वादिपरिमाणान्तराङ्गीकारविरोधः भवति । द्वितीये परमाण्वोः
सावयवत्वप्रसङ्गः । तस्मात् दोषस्य समानत्वात् अन्यतरस्मिन् पक्षे न उपक्षेप्तव्यः
भवति ।
एवमत्र
सिद्धान्तपरपक्षयोः दोषसाम्यम् आपाततः उक्तं चेदपि कार्यकारणभावस्य पारमार्थिकत्वमिच्छतामेव
अयं दोषः न विवर्तवादिनां सिद्धान्तिनां कार्यकारणभावं कल्पितमिच्छताम् इति शम् ।
No comments:
Post a Comment