लीलाकैवल्यम्
@आचार्यः पि.
महाबलेश्वरभट्टः
अद्वैतवेदान्तविभागाध्यक्षः
यदविद्याविलासेन
भूतभौतिकसृष्टयः ।
तन्नौमि परमात्मानं
सच्चिदानन्दविग्रहम् ॥
तत्र तावत् “प्रयोजनमनुद्दिश्य न
मन्दोऽपि प्रवर्तते” इति खलु
न्यायवित्समयः
। किमपि लौकिकं वैदिकं
वा कार्यं कर्तुं प्रवृत्तेः प्राक् प्रयोजनं विचारयन्ति प्रेक्षावन्तो जनाः । सति
प्रयोजने प्रवर्तन्ते असति न प्रवर्तन्ते । अत एव शास्त्रारम्भे अनुबन्धचतुष्टयं
निर्दिशन्ति, यत्र प्रयोजनमन्यतमं, प्रधानञ्च समस्ति ।
अधिकारिविषयप्रयोजनसंबन्धाख्यम् अनुबन्धचतुष्टयं सुविदितचरं शास्त्रविदां प्रपञ्चे
।
अथ चतुर्लक्ष्ण्यां शारीरकमीमांसायां
समन्वयाख्ये प्रथमलक्षणे ब्रह्मकारणवादः सयुक्तिकं सप्रमाणं सूत्रभाष्यकृद्भ्यां
प्रत्यपादि । चेतनं ब्रह्मैव सर्वज्ञं सर्वशक्तिमहामायं परिदृश्यमानस्य
नामरूपात्मकस्योच्यावचप्रपञ्चस्य उपादानं निमित्तकारणं चेति अद्वैतवादः औपनिषत्
सिद्धान्तः । शुद्धान्तस्यास्य नैकधा स्मृतियुक्तिविरोधे निराकृतेऽपि अन्यथा पुनः
तेन कारणवादः समाक्षिप्यते । “न प्रयोजनवत्वात्” (ब्र.सू. २-१-३२) इति
बादरायणसूत्रं पूर्वपक्षी विचारमित्थं प्रस्तौति – लोके प्रेक्षावतां
चेतननां प्रवृत्तिः प्रयोजनपूर्विका । अविद्यमाने प्रयोजने अल्पायाससाध्यां
कृतिमपि न करोति विवेकी । किमुत गुरुतरसंरम्भाम् । “प्रयोजनमनुद्दिश्य न मन्दोऽपि
प्रवर्तते” इति खलु न्यायः । तथा च
नित्यतृप्तः सर्वज्ञः सर्वशक्तः किमर्थं बहुलायाससाध्यां जगत्सृष्टिं
विधत्ते । ईश्वरस्य प्रवृत्तौ प्रयोजनविचारे क्रियमाणे सुखप्राप्तिर्वा
दुःखनिवृत्तिर्वा प्रयोजनं भवेत् । नित्यतृप्तस्य देवस्यैष स्वभावोऽयम् । उभयमपि न
घटते । “आप्तकामस्य का स्पृहा?” इति सत्संप्रदायविदां वचनात् ।
नित्यनिरतिशयानन्दस्वरूपस्य प्रयोजनचिन्ता न प्रयोजनकरी । संसारिणामिव
परमेश्वरस्यापि प्रवृत्तिः प्रयोजनपूर्विका यत् ईश्वरत्वं तस्य । अपैति संसारित्वं
बलादायाति । अतः सृष्टौ प्रयोजनं न पश्यामः ।
“न मे पार्थास्ति
कर्तव्यं त्रिषु लोकेषु किञ्चन ।
नानवाप्तमवाप्तव्यम्”
इति गीतासु स्मर्यते । (भ. गी.)”
अथ प्रयोजनमन्तरेण सर्वज्ञस्य ईश्वरस्य सृष्टिकर्मणि प्रवृत्तिः
पूर्वोक्तन्यायविरुद्धा । तर्हि सर्वज्ञत्वं परिहासास्पदं भजते ।
उन्मत्तप्रवृत्तितुल्या स्यात् । सर्वज्ञत्वबोधिकाः ‘यः सर्वज्ञः स
सर्ववित्’ इत्येवं जातीयकाः
श्रुतयः कुप्येरन् । अतः चेतन कारणावादः लौकिकन्यायविरोधात् उपेक्षणीयः ।
अचेतनकारणवादोपेक्षणीया इति सृष्टेः प्राक् जीवानामभावात् परप्रयोजनकल्पनापि
काशकुशावलम्बनकल्पा । अत्रोच्यते समाधिः – “लोकवत्तु
लीलाकैवल्यम्” (ब्र. सू. २-१-३३) इति पारमर्षसूत्रम् । भगवता बादरायणेन प्राणायि ।
लोकवत् – तु लीलाकैवल्यम् इति
पदविभक्तिः । तु शब्दः प्रयोजनाभावशङ्कनिरासकः । लौकिकन्यायविरोधाक्षेपप्रक्षेपकः
। यत्र यत्र प्रेक्षावती प्रवृत्तिः तत्र सर्वत्र नियतप्रयोजनपूर्वकत्वं नास्ति ।
लोककवत् – इति सौत्रं पदं
दृष्टान्तम् उपस्थापयति । यथा कश्चन चक्रवर्ती भूपालः तत् प्रधानामात्यो वा
सर्वसुखसाधनसम्पन्नः प्रयोजनानन्तरम् अनपेक्षैव क्रीडाविहारादिषु प्रवर्तमानो
दृश्यते । न च राजप्रभृतयः विवेकवर्जिताः उन्मत्ताः मन्दमतयो वा भवन्ति ।
अशिक्षिताः न स्युः । लीला एव क्रीडामात्रं तेषां प्रवृत्तिः । न सुखप्राप्त्यर्था
दुःखनिवृत्त्यर्था वा । किञ्च श्वाशोच्छ्वास प्रवृत्तयः विना बाह्यं प्रयोजनं
स्वभावतः प्रवर्तन्ते । किञ्चित् च क्वचित् सन्दर्भे हसन्ति, क्वचित् च रुदन्ति
लोके प्रज्ञावन्तोऽपि जनाः । न च हसनरोदनादीनां प्रयोजनं विचारयन्ति विवेकिनः ।
कारणं पृच्छेयुः । एवं जगद्बिम्बविरचनायामपि प्रयोजनं विना स्वभावादेव प्रवृत्तिः
सिध्यति । लीलाकैवल्यम् – लीला मात्रम् । अल्पमतीनाम् अल्पशक्तीनाम् अस्माकं मानवानां
प्रपञ्चपरिचिन्तनागुरुतरसंरम्भेवाभाति । सर्वज्ञस्य सर्वशक्तस्य लीलामात्रमिदं
तदुक्तं गौडपादाचार्यैः माण्डूक्यकारिकासु ।
“ क्रीडार्थं
सृष्टिरित्यन्ये भोगार्थमिति चापरे ।
देवस्यैव स्वभावोऽयमाप्रकारमस्य का स्पृहा ॥” इति ।
अपि च
श्वेताश्वेतरोपनिषदि - स्वभावमेके कवयो
वदन्ति कालं तथान्ये परिमुह्यमानाः ।
देवस्यैव महिमातु
लोके येनेदं भ्राम्यते ब्रह्मचक्रम् ॥ इति । (श्वे. उ. ६-१)
“न कुर्वीत वृथा चेष्टाम्” इति ।
धर्मसूत्रम् प्रतिषेधशास्त्रमपि निष्प्रयोजनाप्रवृत्तिसद्भावे अर्थापत्तिं रूपं
प्रमाणं प्रस्तौति । अतः परमेश्वरस्य जगत्सृष्टिः प्रयोजनशून्या, लीलामात्रं
स्वभावो वा ।
तदुक्तं कल्पतरौ - प्रतिबिम्बगताः
पश्यन् ऋजुवक्रादिविक्रियाः ।
पुमान् क्रीडेद्यथा
ब्रह्म तथा जीवस्य विक्रियाः ॥ (कल्पतरु
२-१-३३)
किञ्चान्यद्रहस्यमिदं यत् जगद्रचनाविचारे नातीवाभिनिवेश कार्यः ।
प्रयोजनाभावत् । निष्प्रपञ्चम् आत्मैक्यं ब्रह्मैव तात्पर्यतो विवक्षितं शास्त्रेण
। तदेव च अनधिगतम् अबाधितं सुखरूपं च । जगन्निर्माणम् अप्रधानम्,
कारणान्वयत्वन्यायेन निष्प्रपञ्चत्वं बोधनाय । देवस्य स्वभावसिद्धा ।
अनाद्यनिर्वचनीया या अविद्या तत्प्रयुक्तोऽयं नामरूपात्मकः प्रपञ्चः । यदि नामलोके
लीलासु किञ्चित् उत्प्रेक्ष्येत प्रयोजनं तथापि ईश्वरस्य लीलासु तिलमात्रमपि
प्रयोजनम् उत्प्रेक्षितुं न शक्यते । सर्वज्ञत्वश्रुतेः आप्तकामत्वश्रुतेश्च ।
अप्रवृत्तिः उन्मत्तप्रवृत्तिर्वा न कल्पयितुं शक्या । “यतो वा इमानि भूतानि
जायन्ते” इत्यादिं सृष्टिश्रुतेः जागरुकत्वात् गीतापि लोकस्य उन्मार्गप्रवृत्तिं
वारयितुं भगवतो व्यवहारं दर्शयति । “उत्सीदेयुरिमेलोकाः”
लोकसङ्ग्रहमेवापि संपश्यन् इति वचनात् ।
भगवतः
कथाश्रवणेन दिव्यरूपदर्शनेन उपासनेन वा आनन्दानुभवाय सृष्टि चेष्टा इति
नारायणभट्टपादः नारायणीये प्रस्तौति यथा – कष्टा ते सृष्टिचेष्टा बहुतरभवखेदावहा जीवभाजाम्
इत्येवं
पूर्वमालोचितमजित मया नैवमद्याभिजाने ।
नोचेज्जीवाः कथं वा
मधुरतरमिदं त्वद्वपुश्चित्रसार्द्रं
नेत्रैश्रोत्रैश्च
पीत्वा परमरससुधाम्भोधिपूरे रमेरन् ॥
प्रपञ्चरूपेण
परमात्मानं भावयन्तो वयं जनसेवां जनार्दनसेवां मन्यमानाः जीवामः, जीवनसाफ्यल्यं
जीवदेवैक्येन अनुभवामः ।
No comments:
Post a Comment