समस्यासन्देशीयम्
@डा.राघवेन्द्रभट्टः
सहायकाचार्यः,साहित्यविभागः
अद्य दुराचारग्रामो भारतं कम्पयते । तस्य समूलविनाशाय राष्ट्रस्य सौख्यवर्धनाय
च महात्मनो गान्धिवर्यस्य सिद्धान्तो नूनमुपकरोति
। अतस्तस्य सन्देशः सार्वजनीनः सार्वकालिकश्च । अत्र समस्यासन्देशीये साम्प्रतिकसमस्या
तत्समाधानञ्च बालवृद्धयोः संवादद्वारा राघवीयाख्यया व्याख्यया सह प्रस्तूयते
।
एकतः श्लाघनं चान्यतो दूषणं वैषमीभावनां मानवानां
मिथः ।
दुर्मुखाः कुर्वते स्वार्थसम्प्राप्तये भारतीयाःकिमेते ? न भो
! रासभाः ॥१॥
एकत इति । दुर्मुखा दुष्टं मुखं येषान्त इति बहुव्रीहिः
। दुर्भाषिणो दुष्टा इत्यर्थः । स्वार्थसम्प्राप्तये स्वार्थस्य निजप्रयोजनस्य
सम्प्राप्तये सम्यग्लाभाय। एकत एकस्मात् प्रकारात् ‘पञ्चम्यास्तसिल्’ इतिसूत्रेण तसिल् । श्लाघनं प्रशंसां ‘श्लाघृ कत्थने इति धातोः
‘ल्युट् च’ इत्यनेन ल्युट्। अन्यतोऽन्यस्मात् प्रकारात् । दूषणं निन्दां मानवानां मनुष्याणां मध्ये
। ‘मनुष्या मानुषा मर्त्या
मनुजा मानवा नराः’ इत्यमरः । मिथः परस्परं ‘मिथोऽन्योन्यम्’इत्यमरः । वैषमीभावनां वैषमीं विषमस्य भावस्ताञ्च ।
विषमाद् ब्राह्मणादेराकृतिगणत्वात् ष्यञ् । स्त्रीत्वविवक्षायां ‘षिद्गौरादिभ्यश्च’ इत्यनेन ङीष्। वैषमी च
सा भावना चेति कर्मधारयः । कुर्वते विदधति । डुकृञ् करणे इति धातुः । भो तात ! एते इत्थम्भूता भारतीयाः किम् ? सत्पथावलम्बिनःखलु भारतीयाः
‘अपथेष्वकृतपदा भारतव्यपदेशिनः’ इति प्राज्ञोक्तेः । न
भारतीया अपितु रासभा गर्दभाः । ‘चक्रीवन्तस्तु बालेया
रासभा गर्दभाः खराः’ इत्यमरः । अत्र अपह्नुतिरलङ्कारः
रासभत्वारोपार्थभारतीयत्वधर्मनिह्नवात् । ‘शुद्धापह्नुतिरन्यस्यारोपार्थो
धर्म-निह्नवः’ इति तल्लक्षणम्। रासभानां
पुरतश्शिरःकम्पनं पृष्ठतः पादेन प्रहरणञ्च धर्ममादाय दुर्जनेष्वभेदः । स्रग्विणीवृत्तं
‘रैश्चतुर्भिर्युता स्रग्विणी
सम्मता’ इति लक्षणात् ।
अथ प्रबुद्धो जगतः सुखार्थी न द्वेष्टि नो निन्दति जीवराशिम्
।
पीडाक्रियामात्मविनाशहेतुं वदन्ति तात ! स्मर धार्तराष्ट्रान्
॥२॥
अथेति। अथ मङ्गलमयसन्देशारम्भवचनः । प्रबुद्धः सञ्जागरितः विवेकीति भावः । जगतः लोकस्य सुखार्थी सुखमर्थयते तच्छीलो जनः । जगद्धिताभिलाषीत्यर्थः । जीवराशिं मनुष्यादिसकलजीवं न द्वेष्टि वैरभावं वहति, ‘द्विष अप्रीतौ’ । ‘निर्वैरः सर्वभूतेषु’ इति खलु गीतोक्तिः। नो निन्दति गर्हते, ‘णिदि कुत्सायाम्’ । पीडाक्रियाम् बाधाजननकार्यम् आत्मविनाशहेतुं स्वस्य हानिकारणं वदन्ति प्राज्ञा इत्यर्थः । तात! हे वत्स तद्विषये धार्तराष्ट्रान् दुर्योधनादीन् धृतराष्ट्रपुत्रान् स्मर । उपजातिवृत्तम् ‘अनन्तरोदीरितलक्ष्मभाजौ पादौ
यदीयावुपजातयस्ताः’इति लक्षणात् ।
लोकसुखं कामयमानो विवेकी जनः कस्यापि जीविनो द्विट्
निन्दाकृच्च न भवति । द्वेषबुद्ध्या क्रियमाणमन्येषां पीडनमात्मन एव विनाशाय भवतीति
ज्ञानिनो वदन्ति । दुर्योधनादयः पाण्डवान्पीडयित्वा विनाशं प्रापुः । तेन मानवा मिथो
द्वेषं न कुर्युरिति ज्ञायते । अत्र गान्धिवर्यस्य अहिंसावादः स्मर्तव्यः ।
कम्पनीव्याजतः सम्पदो हारका भारतं ये नराः शुष्कमाकुर्वते ।
वीक्ष्य तान्नायका मौनमातन्वते भारतीयाः किमेते ? न
भो ! नग्नकाः ॥३॥
कम्पनीति। ये नराः ये मनुष्याः कम्पनीव्याजतः
कम्प्यते भूम्यादिरनयेति कम्पनी, भूखननराष्ट्र-शोषणाद्युद्यमसंस्था । ‘करणाधिकरणयोश्च’ इत्यनेन ल्युट्। तस्या
व्याजतोऽपदेशात् । ‘व्याजोऽपदेशो लक्ष्यञ्च’ इत्यमरः । सम्पदः देशस्य सम्पत्तेः । ‘सम्पदि । सम्पत्तिश्श्रीश्च
लक्ष्मीश्च’ इत्यमरः । हारका मोषकाश्चोरा इति भावः । भारतमेतन्नामकं देशम्
‘उत्तरं यत्समुद्रस्य हिमाद्रेश्चैव दक्षिणम् ।
वर्षं तद्भारतं नाम भारती
यत्र सन्ततिः ॥’
इति
लक्षितम् । शुष्कं निस्सारमाकुर्वते आ समन्तात्कुर्वन्ति । नायका नेतारस्तान् श्रीचोरान् वीक्ष्य विलोक्यापि मौनमातन्वते तूष्णीकास्तिष्ठन्ति । तनु विस्तारे । एते भारतीयाः किम्? भोः पुत्रक! न, ‘बकवच्चिन्तयेदर्थान् सिंहवच्च पराक्रमेत् । वृकवच्चावलुम्पेत
शशवच्च विनिष्पतेत् ॥’ इति स्मृत्युक्तराजधर्मविरोधात्
। के तर्हि ते तूष्णीकाः? इति चेत् नग्नकाः कुत्सिता नग्ना अवाससः । ‘कुत्सिते’ इत्यनेन कन् । विगतमाना नग्ना इव विनष्टराष्ट्रधना
अपि एते चञ्चला न भवन्तीति नायकेषु नग्नकानाम-भेदारोपः ।
लोकः सुखार्थी नियमं विरुध्य सर्वान्नभोजी न भवेत्कदापि
।
काकोऽप्यहित्वा निजबन्धुमत्ति सर्वोऽपि भोज्येषु समाधिकारः
॥४॥
लोक इति। सुखार्थी आत्मनः
सुखमर्थयते तच्छीलमस्य, आनन्दाभिलाषीत्यर्थः । लोकः जनः नियमं संविधानं
जीवनाय प्राज्ञैर्निर्दिष्टमिति यावत् । विरुध्य उल्लङ्घ्य सर्वान्नभोजी
सर्वेषामन्नं, तस्य भोजनं शीलमस्य सर्वान्नीनः । ‘ताच्छील्ये णिनिः’ । कदापि कस्मिन्नपि
काले न भवेत्। काकः करटोऽपि ‘काके तु करटारिष्टबलिपुष्टसकुत्प्रजाः’इत्यमरः । निजबन्धुं
स्वकीयम् अहित्वा अपरित्यज्य अत्ति भुङ्क्ते, अद भक्षणे धातुः । सर्वः
समोऽपि जन्तुः भोज्येषु भोजनीयपदार्थेषु समाधिकारः समानोऽधिकारो यस्य
सः । तुल्यावसर इत्यर्थः । दृष्टान्तालङ्कारः ‘चेद्बिम्बप्रतिबिम्बत्वं
दृष्टान्तस्तदलङ्कृतिः’ इति तल्लक्षणम् । इन्द्रवज्रावृत्तम् ‘स्यादिन्द्रवज्रा यदि
तौ जगौ गः’ इति तल्लक्षणम् ।
स्वसुखं वाञ्छञ्जनः धर्मं
नोल्लङ्घेत । सर्वान्नीनो भूत्वा कदापि इतरेषां जीवितं न नाशयेत् । काको यथा अन्यैः
काकैः सह भुङ्क्ते, तथा मनुष्यः भोजने आत्मा इवान्योऽप्यधिकारीति मत्वा अभ्यवहरेत्
‘सहनाववतु । सहनौ भुनक्तु’ इत्यादिश्रुतिरपि तदाह । तेन सम्पदो हारका मौनिनो
नायका वा स्वयं जीवन्तोऽन्यान् जीवयेयुरिति व्यज्यते ।
निर्धना भुञ्जते चूर्णितां रोटिकां कर्पटाच्छादकाः शेरते
वर्त्मसु ।
सम्पदा मन्त्रिणो वित्तकोषाशिनो भारतीयाःकिमेते ? न भो!
लुण्टकाः ॥५॥
निर्धना इति । निर्धना दरिद्राः चूर्णितां
कृतचूर्णां । चूर्णयतेःकर्मणि क्तः । रोटिकां पिष्टसाध्यो भोज्यद्रव्यविशेषस्ताम्
। ‘रुट् प्रतिघाते’ इति धातोः रोटते प्रतिबध्नाति
क्षुधमित्यर्थे रोटः । रोट एव रोटकः । पचादेराकृतिगणत्वात् अच्। स्वार्थे कप्रत्ययः
। स्त्रीत्वविवक्षायां रोटिकेति । भुञ्जतेऽभ्यवहरन्ति
। ‘भुज पालनाभ्यवहारयोः’ इतिधातोर्लट् । कर्पटाच्छादकाः ‘पटच्चरं जीर्णवस्त्रं
समौ नक्तककर्पटौ’ इत्यमरः । वर्त्मसु
मार्गेषु ‘अयनं वर्त्ममार्गाध्वपन्थानः
पदवी सृतिः’ इत्यमरः । शेरते
शयनं कुर्वन्ति । शीङ् स्वप्ने इति धातोर्लट् । मन्त्रिणः सचिवाः सम्पदा
निजसम्पत्त्या । ज्ञापकात् तृतीया । वित्तकोषाशिनः वित्तकोषमश्नन्तीति बहुधनप्रवर्त्यमानवित्तकोषभोगिन
इति भावः । एते भारतीयाः किम्? भोः कुमार! न, अपितु लुण्टकाः
लुण्टन्त्यपहरन्तीति चोराः । लुटि स्तेये इति धातोर्लट् ।
भारते आढ्यदरिद्रयोस्तारतम्यं सज्जनेषु भूयसीं व्याकुलतां जनयति। प्रशासका
मन्त्रिणस्तु दरिद्रानुपेक्षन्ते । तद्धि, दरिद्रा अपूर्णोदरा वीथीवासाः कष्टेन जीवन्ति,
मन्त्रिणश्च न केवलं वित्तमश्नन्ति, किन्तु वित्तकोषमपीति ते लुण्टका इति तात्पर्यम्
।
स्वराज्यचिन्तः सचिवः स्वसौख्यं विहाय सर्वोदरपूरणाय
।
यतेत चित्तस्य शुचिं विधाय व्रतेन बद्धोऽप्यपरिग्रहेण
॥६॥
स्वराज्येति । स्वराज्यचिन्तः स्वराज्ये चिन्ता यस्य
सः, निजराष्ट्रविषये चिन्तनपरः सन् सचिवः मन्त्री चित्तस्य अन्तरङ्गस्य
शुचिं मलनिरसनं शौचमभिप्रेतम्। यच्च गारुडे
सत्यशौचं मनःशौचं शौचमिन्द्रियनिग्रहः
।
सर्वभूतदयाशौचं जलशौचन्तु
पञ्चमम् ॥ इति पञ्चधोक्तम् ।
विधाय सम्पाद्य अपरिग्रहेण
तदाख्येन व्रतेन नियमेनापि ‘नियमो व्रतमस्त्री’ इत्यमरः । बद्धः सम्बद्धो भूत्वा स्वसौख्यं
स्वहितं विहाय अपरिगणय्य सर्वोदरपूरणाय सर्वासां प्रजानामाहारप्रापणाय,
सुखायेति भावः । यतेत यत्नवान् भवेत्।
उपेन्द्रवज्रावृत्तम्
‘उपेन्द्रवज्रा जतजास्ततो
गौ’ इति तल्लक्षणम् ।
देशस्य वृद्धिमिच्छता मन्त्रिणा तद्वासिनां जनानां सौख्यसम्पादकेन भवितव्यम्
। तदर्थं सः शौचमपरिग्रहव्रतञ्च गृह्णीयात् । तेन दरिद्रा अपि भारते पूर्णोदरा भवन्ति
। सर्वोन्नतिं कामयमानो गान्धिवर्यो मुख्यतया शौचापरिग्रहव्रते अग्रहीष्ट ।
लेखनी मे करालङ्कृता लेखितुं
शेमुषी सूर्यभाभासिनीति स्वयम् ।
शङ्करः सृज्यते संस्कृतेर्भञ्जकैः
भारतीयाः किमेते? न भो! मर्कटाः ॥७॥
लेखनीति । लेखनी लेखनसाधनवस्तु,
लिख्यते अनयेति व्युत्पत्तेः । लेखितुं लेखनार्थं मे मम लेखकस्येत्यर्थः । करालङ्कृता
हस्तेन भूषिता गृहीतेति यावत् । शेमुषी
बुद्धिः, ‘बुद्धिर्मनीषा धिषणा धीः
प्रज्ञा शेमुषी मतिः’ इत्यमरः । सूर्यभाभासिनी
भास्करस्य भाः, सेव भासते प्रकाशते तच्छीला । ‘कर्तर्युपमाने’ इतिसूत्रेण ताच्छील्ये
णिनिः । इतिकारणात् स्वयमात्मना संस्कृतेर्भञ्जकैः सनातनसंस्कृतेः
नाशकैः अयतार्थलेखकैरित्यर्थः । शङ्करः भगवान् शिवः सृज्यते रच्यते।
सृज विसर्गे,कर्मणि लट् । एते भारतीयाः किम्? भोः तात ! न,तैश्च
भगवत्स्वरूपतया विश्वस्तत्वात् । अपितु मर्कटाः
शाखामृगाः । वानरैर्यथा माणिक्याद्यमूल्यं रत्नं विकार्यते तथा तत्त्वानभिज्ञैर्लेखनीधारिभिः
स्वच्छन्दतया सदाशिवविषयिणी कृतिर्दूरसत्त्वा क्रियत इत्यर्थः ।
चित्तं समुद्वेजयते कुलेखो मिथ्या प्रसूते व्ययते च
वित्तम् ।
ख्यात्यैकलाभाय
विमुक्तनीतिं ग्रन्थं सखे! कापुरुषा लिखन्ति ॥८॥
चित्तमिति । कुलेखः कुत्सितं लेखनं चित्तं
मनः‘चित्तन्तु चेतो हृदयं
स्वान्तं हृन्मानसं मनः’ इत्यमरः । समुद्वेजयते भयकम्पितं करोति, ओविजी
भयसञ्चलनयोः धातुः । मिथ्या मृषा, कर्मार्थः । प्रसूते सृजति, अनृतविचारान्प्रतिपादयतीत्यर्थः
। षूञ् प्राणिगर्भविमोचने धातुः । लेखकसम्बन्धि वित्तं धनञ्च ‘द्रव्यं वित्तं स्वापतेयं
रिक्थमृक्थं धनं वसु’ इत्यमरः । व्ययते
व्ययितङ्करोति,व्यय वित्तसमुत्सर्गे धातुः । सखे! मित्र, ख्यात्यैकलाभाय
प्रसिद्धिमात्रावाप्तये कापुरुषाः विवेकहीना जनाः विमुक्तनीतिं विमुक्ता
नीतिर्लेखनसिद्धान्तो यस्य तं, ग्रन्थं वाक्यसमवायं लिखन्ति ।
दुर्लेखनं पाठकानां स्वास्थ्यं, प्रतिपाद्यस्य याथार्थ्यं, लेखकस्य पुनः धनञ्च
नाशयति । किन्त्वेतद-नाकलितबुद्धयोऽविवेकिनो येन केन प्रकारेण स्वप्रसिद्धिं वाञ्छन्तो
विषमितं लिखन्ति । तेन लेखकैर्विवेकवद्भिः सद्भिः लौकिकालौकिकान्यतरप्रयोजनोद्देशेन
प्रवृत्तवाक्यसमुदायरूपो ग्रन्थो रचनीय इति ज्ञायते ।
देवताचित्रणात् पादुका
चोरुकं क्रय्यतामाप्यते कुत्सितैर्वाणिजैः ।
तानिमान् सादरं वन्दितुं
संस्थिता भारतीयाः किमेते ? न भोः! षण्डकाः ॥९॥
देवतेति। कुत्सितैरधमैः
वाणिजैरापणिकैः । ‘वैदेहकस्सार्थवाहो नैगमो वाणिजो वणिक्। पण्याजीवो ह्यापणिकः क्रयविक्रयकश्च
सः’ ॥ इत्यमरः । पादुकोपानत्
‘अथ पादुका। पादूरुपानत्स्त्री’ इत्यमरः । ऊरुकम्
सक्थ्युपरिवस्त्रञ्च ‘चड्डि’ इति भाषायाम् । ऊर्ण्यते
आच्छाद्यते अनयेति ‘ऊर्णोतेर्नुलोपः’ इत्युणादिसूत्रेण कुः
नुलोपश्च । देवताचित्रणात् रामादिभगवच्चित्रणतः क्रय्यताम् आपणेषु क्रये
प्रसार्यमाणत्वम्, ‘क्रय्यस्तदर्थे’ इति सूत्रेण निपातनात्
क्रय्यम्, तस्य भावः क्रय्यता । आप्यते भज्यते क्रयणार्हं क्रियत इत्यर्थः ।
तान् पूर्वोक्तानिमान् एतान्वाणिजान् वन्दितुम् अभिवादयितुं संस्थिताः
सिद्धाः (नेतृजनाः) भारतीयाः किम्? भोः तात ! न,एते षण्डकाः नपुंसकाः
।
पादरक्षाः ऊरुकानि च श्रीरामगणेशादिदेवतानां चित्रैश्चित्रितानि कृत्वा वणिजो
विक्रीणन्ति । तान् वणिजः ये स्वार्थपरा नेतारः समाद्रियन्ते ते भृशं भारतीया न, किन्तु
पौरुषहीनाः। भारतीयाश्चेत् सपौरुषास्सन्तः पूज्यनिन्दापराणि कार्याणि धिक्कुर्वन्तीति
भावः ।
ग्रामाद्विवृद्धात् सुत! देशवृद्धिः ग्रामोऽपि विज्ञानयुतस्समृद्धिम्
।
ज्ञानेन विज्ञानमपि प्रकृष्टां यातीति मत्वा जहि लोभमोहौ
॥१०॥
ग्रामादिति । सुत! विवृद्धाद् विशेषतोऽभिवृद्धाद् ग्रामाद्
जनपदात्, देशवृद्धिः भारतस्याभिवृद्धिः । ग्रामोऽपि विज्ञानयुतः
वैज्ञानिक्या पद्धत्या युक्तः, विज्ञानमपि ज्ञानेन (युतम्) प्रकृष्टामुच्चैः
समृद्धिं विकासं याति प्राप्नोति । इति मत्वा ज्ञात्वा लोभमोहौ
लोभं मोहञ्च जहि त्यज । तयोः परिणामस्त्यागश्च प्राज्ञैः प्रत्यपादि । लोभः
प्रतिष्ठा पापस्य प्रसूतिर्लोभ एव च । द्वेषक्रोधादिजनको
लोभः पापस्य कारणम् ॥
लोभः पापस्य बीजोऽयं मोहो मूलन्तु तस्य हि । असत्यं तस्य च स्कन्धो माया शाखा
सुविस्तरः ॥
लोभप्रमादविश्वासैः पुरुषो नश्यते त्रिभिः । तस्माल्लोभो न कर्तव्यः न प्रमादो
न विश्वसेत् ॥ इति ।
सारालङ्कारः
‘उत्तरोत्तरमुत्कर्षः सार
इत्यभिधीयते’ इति तल्लक्षणम् ।
भारतदेशस्याभिवृद्धिः ग्रामाणामभिवृद्ध्या, ग्रामाणाञ्च कृष्यादिकर्मसु वैज्ञानिकपद्धतियोगात्,
विज्ञानस्यापि ज्ञानयोगाद्भवति । एतत्क्रममविगणय्य लोभान्मोहाद्वा अभिवृद्धिव्याजेन
अन्यथाकुर्वन्ति चेद्भारतस्य हानिरेव जायत इत्यर्थः । अत्र गान्धिवर्यस्य ‘ग्रामस्वराज्यस्वप्नः’ स्मर्तव्यः ।
सज्जनो हन्यतामास्तिको मार्यतां मन्दिरस्योपरि स्फोटकं
क्षिप्यताम् ।
इत्थमातङ्कवादप्रियाः शिक्षिताः भारतीयाः किमेते? न भो!
राक्षसाः ॥११॥
सज्जन इति । सज्जनः साधुः हन्यतां हिंस्यताम्, आस्तिकः वेदप्रामाण्यवादी अस्ति ईश्वर इति मतिर्यस्येति व्युत्पत्तेः। मार्यतां पीड्यताम् । मॄ हिंसायाम् । मन्दिरस्य देवालयस्य उपरि शिरसि स्फोटकं विदारकम् ‘बाम्’ इति भाषायाम्। स्फुट भेदने घञ् । क्षिप्यतां स्थाप्यताम्
। क्षिप प्रेरणे कर्मणि लोट्। इत्थम् एवंप्रकारेण शिक्षिताः प्राप्तशिक्षणाः आतङ्कवादप्रियाः आतङ्कवादः प्रियो येषां ते भयोत्पादनवादासक्ता जना इत्यर्थः । आतङ्कयतीत्यातङ्कः,
आङ् पूर्वकात् ‘तकि कृच्छ्रजीवने’ इति धातोः पचाद्यच्। आतङ्कस्य वदनं भावे घञ् । भारतीयाः किम्? भोः तात ! न,
तपस्तप्यन्ति मुनयो जुह्वते चात्र यज्विनः ।
दानानि चात्र दीयन्ते परलोकार्थमादरात् ॥
इति
विष्णुपुराणोक्तदिशा तपःप्रभृतीनि भारतीयानां विहितानि कर्माणि । तत्प्रतिकूलानि सर्वथा
निषिद्धानि कुर्वन्तीति एते राक्षसाः परजीवितक्षोभजननद्वारा पुण्यजना भवन्ति । साधुवैदिकजनहनन-देवालयनाशादिषु गर्हितेषु
कर्मसु प्राप्तविद्या भारतीया न, अपितु राक्षसा इत्यर्थः ।
द्वेषो रणं मारणमग्निदाहः परस्परं शान्तिहतिर्जनेषु
।
जगद्दुनोतीति किमत्र चित्रं? सर्वत्र हेतुर्ननु! भेदबुद्धिः
॥१२॥
द्वेष इति । जनेषु मनुष्येषु परस्परं मिथो द्वेषः वैरभावः, रणं युद्धम् ‘अस्त्रियां समरानीकरणाः कलहविग्रहौ’ इत्यमरः । मारणं वधः, अग्निदाहः वह्निना भस्मीकरणं परगृहादेरित्यर्थः । शान्तिहतिः शान्तेरपकर्षश्च जगत् विश्वं दुनोति परितापयति । टुदु उपतापे । इत्यत्र अस्मिन्विषये चित्रमाश्चर्यं किम्? सर्वत्र एतेषु द्वेषादिषु हेतुः कारणं, भेदबुद्धिः वैषम्यम्। ननु अवधारणार्थे ।
जनानां मध्ये सम्भवन्तो द्वेषादयः लोकमेव सन्तापयन्ति
। तत्र तेषु विद्यमाना भेदबुद्धिरेव कारणम्। ‘सङ्गच्छध्वं संवदध्वम्’ इत्यादिश्रुत्युक्तरीत्या सर्वे जना मानसमैक्यं
रक्षन्ति, तथा आचरन्ति चेदातङ्कवादप्रिया न भवेयुरित्यर्थः ।
पट्टने पद्धतौ वाहने चापणे लज्जया प्रज्ञया मातृभावेन
च ।
नो युताः कामुका योषितां भक्षकाः भारतीयाः किमेते ? न भोः!
कुक्कुराः ॥१३॥
पट्टन इति । पट्टने विपण्यां,
पतन्ति गच्छन्ति वणिजो यत्र तस्मिन् ,पट गतौ । बाहुलकात् तनन् । पद्धतौ मार्गे
‘अयनं वर्त्ममार्गाध्वपन्थानः
पदवी सृतिः । सरणिःपद्धतिःपद्या वर्तन्येकपदीति च ॥ इत्यमरः’ । वाहने याने,
आपणे निषद्यायाञ्च, लज्जया ह्रिया, प्रज्ञया मत्या विवेकेनेति
भावः, मातृभावेन मातरि यादृशः पूज्यभावस्तादृशेन च नो युताः रहिताः, कामुकाः कमितारः,
‘कामुके कमितानुकः’ इत्यमरः । योषितां
स्त्रीणां, स्त्री योषिदबला योषेत्यमरः । भक्षका अत्याचारादिकुकर्माचरणेन जीवितनाशका
लक्षणया बोध्यन्ते । एते भारतीयाः किम्? भोः तात ! न, ‘पदे पदे शुभं तस्य यस्स्त्रीमानञ्च
रक्षति’ इत्यभियुक्तोक्तिविरुद्धत्वात्
तद्विपरीताचरणाच्च। (किन्तु) कुक्कुराः श्वानः, श्रोणीं वक्षःस्थलं वक्त्रं यःपश्यति परस्त्रियाः ।
कामतो वापि मूढश्च षण्डो भवति निश्चितम् ॥
इति
परस्त्रीदर्शनादिनिषेधवचनस्य जागरूकत्वेऽपि तदनाकलिततया कामातुरा लज्जादिभिर्मुक्ता पत्तनादिषु अबलासु अत्याचारादिकुकर्म कुर्वन्तीति
नैते भारतीया मनुष्या अपितु सारमेया इत्यर्थः ।
रामस्य सङ्कीर्तनतत्पराश्चेद्धर्मानुगाः संयमिनो भवन्ति
।
सीतायुतो
रावणसोदरीं वा नान्यां वियुक्तोऽपि ददर्श मानी ॥१४॥
रामस्येति। जना रामस्य भगवतो
रामचन्द्रस्य सङ्कीर्तनतत्पराः चरितकथने निमग्नाः सन्तः, धर्मानुगाः
धर्ममनुगच्चन्तीति धर्ममार्गमनुसरन्तश्च (भवन्ति) चेत् ते संयमिनः चित्तवृत्तिं
निरुन्धाना भवन्ति । मानी मर्यादापुरुषोत्तमः सः, सीतायुतः जानक्या संयुक्तः
पञ्चवट्यामित्यर्थः । रावणसोदरीं शूर्पणखां (तयोद्वाहार्थं याचितः) वियुक्तः
सीतया विप्रलब्धोऽपि (सीतापरित्यागात्परम्) अन्यामितरां स्त्रियं वा न ददर्श
कामवशो भूत्वा नाद्राक्षीत् । अर्थान्तरन्यासालङ्कारः ‘उक्तिरर्थान्तरन्यासः
स्यात्सामान्यविशेषयोः’ इति तल्लक्षणम् ।
श्रीरामस्य नामोच्चारणमपि मनो निर्मलीकरोति । अतो जनास्तत्सङ्कीर्तनपरा धर्मपथगामिनश्च
भवेयुः । तेन ते इन्द्रियनिग्रहणे समर्था भविष्यन्ति । इत्थम्भूता अत्याचाराख्ये कुकार्ये
न प्रवर्तन्ते । एकपत्नीव्रतस्थो रामः वनवासावधावात्मानं वरीतुकामां शूर्पणखां ‘कृतदारोऽस्मि भवति भार्येयं
दयिता मम’ इत्युक्त्वा विजहौ । कालान्तरे
परित्यक्तसीतोऽपि स नान्यामकामयत । सोऽयं रामो निजभक्तान् संयमधनान् करोतीत्यर्थः ।
यैरिमे पोषिताः शिक्षणाद्
वर्धिताः संस्कृताः संभृताः सत्पथे स्थापिताः ।
वार्धके बन्धिनः कुर्वते
तान् सुता भारतीयाः किमेते? न भोः! कंसकाः ॥१५॥
यैरिति। यैः मातापितृभिरिमे
एते (सुताः) पोषिताः पालिताः, पुष पुष्टौ कर्मणि क्तः । शिक्षणाद् विद्याप्रदानतो
वर्धिताः समेधिताः संस्कृताः संस्काराधानात् संस्कृताः संभृताः
सम्यक् कृतभरणाः सत्पथे अनवद्ये मार्गे स्थापिताः संयोजिताः सन्मार्गेण
गमनाय प्रेरिता इतिभावः । तान् पितॄन्
वार्धके वृद्धावस्थायां बन्धिनः (वृद्धालयस्थान्विधाय) अस्वतन्त्रान्
सुताः पुत्राः कुर्वते । एते भारतीयाः किम्? भोः तात! न, भारतीया
न, कंसकाः कंसरूपाः ।
‘मातृदेवो भव । पितृदेवो भव’ इति खलु वेदोपदेशः । तत्र श्रद्धावन्तो भारतीयाः भरणदिग्दर्शनादौ
निजवृद्धिकारणं पितॄन् प्राप्तवृद्धावस्थानपि सादरं रक्षन्ति । तदेतदाचारानाकलितमतयो
मूढास्ते स्थविरान् कारास्थान् कुर्वन्ति। कंसो निजपितरौ देवकीवसुदेवौ कारावासिनौ चकार।
तत्कार्यकारित्वेन तादृशाः कंसा इति तदर्थः ।
शतानि सूत्राणि भवन्तु सिद्ध्यै संस्कार एवापरकल्पवृक्षः
।
तद्वाञ्जनो नन्दयतीह वंशं देशञ्च लोकं कुरु तत्र बुद्धिम् ॥१६॥
शतानीति ।
सिद्धै कार्यसिद्ध्यर्थं, शतानि बहूनि असङ्ख्यानीति भावः । सूत्राणि
उपायाः भवन्तु सन्तु नाम।इह नानाविधसमस्यानां समाधानविषये तु संस्कारः
आत्मगुणाधानहेतुभूतः कर्मविशेषः, एव अपरकल्पवृक्षः
प्रसिद्धादन्योऽभीष्टदो देवतरुः । तद्वान् संस्कारवान् जनः वंशं
कुलं देशं राष्ट्रं लोकं भुवनञ्च नन्दयति परितोषयति । तत्र
संस्कारप्राप्तौ बुद्धिं मतिं, कुरु विधेहि । संस्कारेऽपरस्य कल्पवृक्षस्या-रोपात्ताद्रूप्यरूपकम्
।
आत्मनः कुलस्य देशस्य च सर्वविधोन्नतये अनेके उपाया भवन्तु । तेषु संस्कारः
प्रथमोपायः । मनुष्यः संस्कारवान् भवेत्। तेन समस्यानां परिहारः सुकरः । कार्यसिद्धिश्च
भवति । तदर्थमित्थमाशास्यते लोककल्याणाभिनिवेशिभिर्महर्षिभिः
काले वर्षतु पर्जन्यः
पृथिवी सस्यशालिनी ।
देशोऽयं क्षोभरहितः सज्जनाः
सन्तु निर्भयाः ॥ इति ।
*****
No comments:
Post a Comment