विधिविचारः
@डा. गणपति वि हेगडे
संविदाध्यापकः, अद्वैतवेदान्तविभागः
श्रीमद्भिः अप्पय्यदीक्षितवर्यैः
“आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः”[1]
इत्यादिजिज्ञासाधिकरणवेदान्तवाक्येषु श्रूयमाणो विधिः कीदृश इति स्वीयसिद्धान्तलेशसङ्ग्रहे
आदौ विचारितम् । दर्शनप्रपञ्चे तावत् अपूर्वविधिः नियमविधिः परिसङ्ख्याविधिश्चेति विधित्रयं
प्रसिद्धम् । यथोक्तम् अप्पय्यदीक्षितवर्यैः – कथमप्यप्राप्तस्य प्राप्तिफलको
विधिः, अपूर्वविधिरिति । यथा ’व्रीहीन् प्रोक्षति’ इति विधायकशब्दप्रमाणं विना प्रोक्षणस्य संस्कारकर्मत्वं
नावगम्यते इत्यतः अयम् अपूर्वविधिः । पक्षप्राप्तस्य अप्राप्तांशपरिपूरणफलको विधिः
नियमविधिः । यथा ’व्रीहीनवहन्ति’ इत्यत्र आक्षेपादवहननप्राप्तिः
तथा लोकावगतनखविदलनादीनामपि पक्षप्राप्तिः । तदा अवहननरूपस्य अप्राप्तांशपरिपूरणफलको
विधिः नियमविधिः ।
द्वयोः शेषिणोः एकस्य शेषस्य वा एकस्मिन् शेषिणि द्वयोः शेषयोर्वा नित्यप्राप्तौ
शेष्यन्तरस्य शेषान्तरस्य वा निवृत्तिफलको विधिः परिसङ्ख्याविधिः । अथवा नित्यप्राप्तयोः
अन्यतरनिवृत्तिफलको विधिः परिसङ्ख्याविधिः । यथा ’पञ्च पञ्चनखा भक्ष्याः’ इति । “इमामगृभ्णन्रशनामृतस्येत्यश्वाभिधानीमादत्ते”[2]
इत्यग्निचयनप्रकरणे प्राप्तयोः अश्वरशनाग्रहणगर्दभरशनाग्रहणयोः अन्यतरस्य गर्दभरशनाग्रहणस्य
निवृत्तिफलको विधिः परिसङ्ख्याविधिः ।
अपूर्वविधिपक्षः - एवं प्रसिद्धेषु त्रिषु
विधिषु श्रवणादौ अपूर्वविधिरिति प्रकटार्थकाराः अनुभूतिस्वरूपाचार्याः मन्यन्ते । कृतश्रवणस्य
वेदान्तश्रवणसत्वेऽपि ब्रह्मसाक्षात्काराभावात् अन्वयव्यभिचारः । वामदेवस्य वेदान्तश्रवणाभावेऽपि
ब्रह्मसाक्षात्कारसत्वात् व्यतिरेकव्यभिचारः । तथा च अन्वयव्यतिरेकयोः अभावात् वेदान्तश्रवणं ब्रह्मसाक्षात्कारं
प्रति साधनमिति कथमपि केनापि प्रमाणान्तरेण अनधिगतत्वात् अपूर्वविधिरिति प्रकटार्थकारा
आहुः । अत्र भाष्यकारसम्मतिं प्रदर्शयन्ति यथा - सहकार्यन्तरविध्यधिकरणभाष्ये[3]
पाण्डित्यशब्दिते श्रवणे अपूर्वविधिरेव अङ्गीकृतः इति ।
नियमविधिपक्षः – विवरणानुयायिनस्तावत्
नित्यापरोक्षब्रह्मसाक्षात्कारं प्रति वेदान्तश्रवणं हेतुरिति अवगतमेव तस्मात् नात्र
अपूर्वविधिः किन्तु नियमविधिरित्याहुः । न च प्रागुक्तरीत्या अन्वयव्यतिरेकव्यभिचारसत्वात्
अपूर्वविधिरिति वक्तव्यम् । सहकारिकारणाभावे अन्वयव्यतिरेकव्यभिचारस्य अदोषत्त्वात्
। यथा कुलालः दण्डादीनाम् सत्वेऽपि अदृष्टकालादिसहकारिकारणाभावात्
घटनिर्माणं कर्तुं न शक्नोति तथा कृतश्रवणस्य वेदान्तश्रवणसत्वेऽपि सहकारिकारणाभावात्
अज्ञानरूपप्रतिबन्धकस्य सत्वाच्च ब्रह्मसाक्षात्कारो न जायते इति नान्वयव्यभिचारः ।
तथैव वामदेवस्य जन्मान्तरीयवेदान्तश्रवणसत्वात् साक्षात्कारप्राप्तिरिति न व्यतिरेकव्यभिचारः
। श्रवणं नाम विचारः । विचारस्य विचार्यनिर्णयहेतुत्वसम्भवात् श्रवणं ब्रह्मसाक्षात्कारहेतुरिति प्राप्तम् । तस्मात् नात्र अपूर्वविधिः ।
यथा घटसाक्षात्कारे चक्षुरिन्द्रियातिरिक्तस्पर्शेन्द्रियस्यापि कारणत्वं तथा
ब्रह्मसाक्षात्कारे वेदान्तश्रवणातिरिक्तानां लिखितपाठस्वप्रयत्नादीनामपि कारणत्वप्रसक्तिः
। तस्मात् पक्षप्राप्तांशाः लिखितपाठादयः, अप्राप्तांशः वेदान्तश्रवणं, तन्निरूपको
विधिः नियमविधिरिति विवरणानुयायिनः सङ्गिरन्ते ।
परिसङ्ख्याविधिपक्षः- वार्तिकवचनानुसारिणः
केचन परिसङ्ख्याविधिम् अभ्युपगच्छन्ति । यथा चिकित्साज्ञानार्थं प्रवृत्तस्य चरकसुश्रुतादिश्रवणसम्भवात्
व्यापारान्तरेऽपि प्रवृत्तिस्स्यात् तथा ब्रह्मज्ञानार्थं वेदान्तश्रवणे प्रवृत्तस्य
मध्ये व्यापारान्तरेऽपि प्रवृत्तिस्स्यात् तन्निवृत्तिफलकः ’श्रोतव्यः’ इति परिसङ्ख्याविधिः ।
तथा च वार्तिकम् –
नियमः परिसङ्ख्या वा विध्यर्थोऽत्र
भवेद्यतः ।
अनात्मादर्शनेनैव परमात्मानमुपास्महे
॥ इति ।
विध्यभावपक्षः – भामतीकारास्तु न कोऽपि
विधिरित्याहुः । यथा मनननिदिध्यासनयोः आत्मा विषयः तथा श्रवणस्यापि आत्मा विषयः । श्रवणं
नाम आगमाचार्योपदेशजन्यज्ञानमेव न तु तात्पर्यविचाररूपम्
। तस्मात् न तत्र कोऽपि विधिः । यथा श्रवणादिविधौ भाष्यसंमतिर्दर्शिता तथैव विध्यभावपक्षोऽपि
समन्वयाधिकरणभाष्यसम्मतः । तर्हि कथं विरुद्धपक्षद्वयं भाष्यसम्मतं स्यात् इति चेदुच्यते – विधिरस्तीतिवादिनां मते
विध्यभावभाष्यम् अपूर्वविधिनिराकरणपरम् । विध्यभाववादिनां मते ब्रह्मज्ञाने विध्यभावपरं
, न श्रवणादिविध्यभावपरम् इत्ययं विवेकः ।
अर्थात् ज्ञाने एव विधिः निराकृतः , न श्रवणादिविधौ इति फलितोऽर्थः ।
अत एव समन्वयसूत्रे आत्मज्ञानविधिनिराकरणं कृत्वा भाष्यकाराः “किमर्थानि तर्हि
आत्मा वा अरे द्रष्टव्यः’ इत्यादीनि वचनानि विधिच्छायानि ? स्वाभाविकप्रवृत्तिविषयविमुखीकरणानीति
ब्रूमः ”[4]
इत्याहुः । विध्यभाववादिनां मते विधिभाष्यं तु “विष्णुरुपांशु यष्टव्यः” इत्याद्यर्थवादस्यैव
सतो वाक्यस्य प्रशंसाद्वारेण प्रवृत्यतिशयकरत्वरूपविधिसरूपत्वपरम् । यथा कश्चन एकः
मुमुक्षुः श्रवणादीनि आत्मदर्शनसाधनानीति ज्ञात्वापि बह्वायाससाध्यसन्यासब्रह्मचर्यादौ
सोत्साहेन न प्रवर्तते किन्तु यथाप्राप्तवर्णाश्रमानुष्ठानं कृत्वा आत्मदर्शनमलभमानः
तिष्ठति तं प्रति आत्मदर्शनश्रवणादिप्रशंसार्थं उच्यते “आत्मा वा अरे द्रष्टव्यः” इत्यादिविधिच्छायावचनानि
। तदुक्तं भाष्यकारैः – “स्वाभाविकात् कार्यकरणसङ्घातप्रवृत्तिगोचराद्विमुखीकृत्य प्रत्यगात्मस्रोतस्तया
प्रवर्तयन्ति ’आत्मा वा अरे द्रष्टव्यः”
इत्यादीनि इति[5]
।
यदि श्रवणस्य फलं वेदान्ततात्पर्यविचारः
तर्हि तात्पर्यनिर्णयद्वारा वेदान्ततात्पर्यभ्रमसंशयरूपप्रतिबन्धकनिरास एव फलम् न तु प्रतिबन्धकान्तरनिरासो
ब्रह्मज्ञानं वा। वेदान्तश्रवणस्य प्रतिबन्धकनिरासरूपफलं तु लोकतः प्राप्तम् , अतः
अत्र न कोऽपि विधिः ।
परिसङ्ख्याविधिखण्डनम् – श्रवणे प्रवृत्तस्य व्यापारान्तरनिवृत्यर्थं परिसङ्ख्याविधिरिति न च
वाच्यम् । “ब्रह्मसंस्थोऽमृतत्वमेति”[6]
“तमैवैकं जानथ अन्या वाचो विमुञ्चत”[7]
“आसुप्तेरामृतेः कालं नयेद्वेदान्तचिन्तया” इत्यादिश्रुतिस्मृतिभ्यां सन्यासिभिः कर्तव्यस्य
कर्मणः सिद्धत्वात् पुनः श्रोतव्यवाक्येन व्यापारान्तरस्य निवृत्युपदेश आनर्थक्यं भजते
। तस्मात् सन्यासिनः व्यापारान्तरनिवृत्तेः श्रुत्यन्तरसिद्धत्वात् असन्यासिनः व्यापारान्तरनिवृत्यभावाच्च न परिसङ्ख्याविधिः
।
नियमविधिखण्डनम् – विचारविध्यभावेऽपि विचारविषयवेदान्ते नियमविधिर्भवतु लिखितप्रबन्धादीनां पक्षप्राप्तत्वात् अप्राप्तांशवेदान्तश्रवणबोधकत्वात्
नियमविधिरिति यदुक्तं तन्न समीचीनम् । “स्वाध्यायोऽध्येतव्यः” इत्यध्ययनविधिना ब्रह्मज्ञानाय
वेदार्थस्य एव ज्ञातव्यत्वात् भाषाप्रबन्धादीनां
पक्षप्राप्तिरेव नास्तीति न नियमविधिः । किमर्थं तर्हि सहकार्यन्तरविध्यधिकरणभाष्ये
विधिः स्वीकृत इति चेदुच्यते । विचारेण विचार्यस्य तात्पर्यनिर्णय इति लोकसिद्धत्वात् न कोऽपि विधिः । किन्तु विधिच्छायस्य अर्थवादस्येव
प्रशंसाद्वारा प्रवृत्यतिशयकरत्वमात्रेण तत्र विधिरिति भाष्यकारैः व्यवहारः कृतः ।
No comments:
Post a Comment