Thursday, September 8, 2016

मीमांसा-शास्त्रम्

भाषणानां रचयिता तथा सङ्गृहीता  - प्रशान्तगांव्रकरः
                                                       शोधच्छात्रः

अधिकारः
            चतुर्विधपुरुषार्थेषु प्रथमत्वाद्धर्मस्य, तस्मिन् विप्रतिपन्नेषु दार्शनिकेषु वेदोक्तं निश्चप्रचं धर्मस्वरूपं प्रदर्शयितुम् आद्वादशाध्यायेषु धर्माधर्मविमर्शो व्यधायी मीमांसासूत्रकारेण जैमिनिना ।
            शास्त्रेऽस्मिन् विद्यमानेषु द्वादशसु अध्यायेषु आपञ्चमाध्यायं क्रमेण प्रमाणभेदशेषत्वप्रयुक्तिक्रमविचारः प्रयुक्तः । कर्मणां स्वरूपादिकं ज्ञात्वैव तत् कर्म कर्तुं कः समर्थः इति निर्णेतुं शक्यते इत्यतः हेतुहेतुमद्भावसङ्गत्या अधिकाराध्यायः आरब्धः ।
            तत्र को नामाधिकारः इत्युक्ते उच्यते फलभोक्तृत्वसमानाधिकरणं कर्तृत्वमिति । ‘उद्भिदा यजेत पशुकामः’ इत्यत्र यस्मिन् उद्भिद्रूपयागकर्तृत्वं तस्मिन् फलभोक्तृत्वमधिकारः इति लक्षणसमन्वयः । श्राद्धादौ पित्रादेः फलभोक्तृत्वमस्ति चेदपि कर्तृत्वमपि दलनिवेशात् तत्र नातिव्याप्तिः । प्रयोज्यकर्तॄणाम् ऋत्विजां कर्तृत्वेऽपि तेषामधिकारव्यावृत्त्यर्थं फलभोक्तृत्वमिति विशेषणम् ।
            अत्रेयं संशीतिः – जातेष्टौ पितुः कर्तृर्वेऽपि तस्य फलभोगाभावत् पुत्रस्यैव फलभोक्तृत्वात् अधिकारानापत्तिः इति । प्रवृत्तिप्रयोजकफलेच्छासमानाधिकरणकर्तृत्वस्यैव विवक्षितत्वात् तादृशं ‘पुत्रो मे पूतत्वादि फलयुक्तो भवतु’ इति इच्छासमानाधिकरणकर्तृत्वं विद्यते एव इति पितरि अधिकाराविघातः । श्राद्धादावपि फलस्यान्यनिष्ठत्वेऽपि तदिच्छायाः यजमाननिष्ठत्वात् तत्रापि अधिकाराविघातः । ऋत्विजामपि यजमानस्य फलं भूयादिति इच्छायाः स्वनिष्ठकर्ट्रुत्वसमानाधिकरणत्वादधिकारापत्तिः इति न वाच्यम् । दक्षिणाप्राप्तिर्मे भूयत् इतीच्छायाः एव ऋत्विक्प्रवृत्तिजनकत्वेन उक्तविधेच्छायाः प्रवृत्तिप्रयोजकत्वाभावत् ।
            अधिकारविधिश्रवणानन्तरं यागो मदिष्टसाधनम् इति यदा आक्षिप्तं भवति तदा मत्कृतिसाध्ययागजन्यफलभोक्ताप्यहं भविष्यामीति समानसंवित्संवेद्यतया यत् ज्ञानं तदपि फलसम्बन्धबोधक अधिकारविधिगम्यमिति अधिकारः सिध्यति ।
            नैमित्तिककर्मस्थले निमित्तस्यैव प्रवृत्तिप्रयोजकत्वेन नित्यस्थले पापक्षयेच्छायाः प्रवृत्तिप्रयोजकाभावेन प्रवृत्तिप्रयोजकफलेच्छासमानाधिकरणकर्तृत्वाभावात् अत्र प्रवृत्तिप्रयोजक-इच्छाफलान्यतरसमानाधिकरणं कर्तृत्वमधुकारः इति बोध्यम् ।
            एवमधिकारे सिद्धे केषामधिकारः केषां नास्तीति किञ्चिद्विचार्यते –
************************************************************************************************************


अपूर्वम्
          वेदवाक्यानां तात्पर्यनिर्णये प्रवृत्ताः मीमांसकाः यागादिवेदविहितकर्माण्येव धर्मः इत्याहुः । स च धर्मः पापनाशकः स्वर्गादिफलसाधनश्च । यजेत स्वर्गकामः अग्निहोत्रं जुहुयात् स्वर्गकामः इत्यादिवेदविहितयागानां श्रेयस्साधनद्वारा धर्मत्वम् आहुः ।
            अत्र एवं शङ्का जायते यागः क्रियारूपः अत एव क्षणिकः । कथं कालान्तरभाविस्वर्गादिफलं साधयेदिति । अत्र एवमुच्यते वेदवाक्येन स्वर्गयागयोः साध्यसाधनभावः श्रुतः । तदन्यथानुपपत्तिप्रसूतार्थापत्तिप्रमाणेन यागस्य करणत्वनिर्वाहार्थम् अवान्तरव्यापारत्वेन अपूर्वं कल्प्यते । अतः नात्र अनुपपत्तिः ।
            ननु अपूर्वस्य फलसाधनत्वकल्पने तेनैव स्वर्गादिफलसिद्धेः यागः अन्यथा सिद्धः इति यागस्य करणत्वमेव भज्येत । अतः अपूर्वकल्पनापेक्षया क्लृप्तः यागध्वंस एव कालान्तरभाविस्वर्गदिफलं जनयति । अतश्च क्षणिकोऽपि यागः स्वजन्यध्वंसद्वारा स्वर्गादिफलं जनयति । तस्य च यागजन्यत्वं नित्यत्वं च नियतम् । फलजनकत्वमात्रं कल्प्यमिति लाघवम् इति चेत् यागे अनुष्ठिते फलं प्रधानकालात् अनन्तरभावी इति निर्विवादम् । क्षणिकस्य कर्मणः व्यापारापेक्षायां स एव हि व्यापारः कल्पनीयः यः श्रुत्यविरोधी स्यात् । ध्वंसस्य नित्यत्वात् व्यापारः भवितुं नार्हति । अपि च कीर्तनादिना नाश्यत्वं न भवेत् । अतः नाशार्हम् अपूर्वमेव कल्पयितुमुचितम् ।
            तर्हि यागस्यैव फलोत्पत्तिपर्यन्तं स्थायित्वमस्तु इति चेत् क्षणिकस्य यागस्य तृतीयादिक्षणे प्रत्यक्षतापत्तेः तन्न सम्भवति ।
            तर्हि देवताप्रसादः एव व्यापारः भवतु इति चेत् वैयधिकरण्यात् तदपि न सम्भवति । तस्य च ’यागेन अपूर्वं कृत्वा स्वर्गं भावयेत्’ इति श्रुतार्थापत्तिकल्पितवैदिकशब्दगम्यत्वान्नाप्रामाणिकत्वम् ।
            ’व्यापारेण व्यापारिणः, नान्यथा सिद्धिः’ इति नियमेन यागस्य करणत्वं तु न हीयते । अपूर्वस्य फलबलकल्प्यत्वात् यत्र फलं तत्रैव अपूर्वम् इति यजमानात्मनि कल्प्यते, न तु यागजन्यत्वेऽपि यागनिष्टत्वं न कल्प्यते ।
            एवं च दम्पत्योः सहाधिकारस्य सिद्धान्तितत्वेन उभयोरपि फलभोक्तृत्वात् उभयनिष्ठं तत्र अपूर्वद्वयं कल्प्यते ।
तच्चापूर्वम् उत्पत्यपूर्वम्, समुदायापूर्वम्, फलापूर्वम्, अङ्गापूर्वम् इत्यनेकविधम् । परमापूर्वं च नयमेन अदृष्टरूपम् । तच्च यजमानात्मन्येव । दर्शपूर्णमासयोः नवापूर्वाणि ।

            एवं च यजेत स्वर्गकामः इत्यादौ यजमानात्मनिकल्पित अपूर्वद्वारा यागस्य कालान्तरभाविस्वर्गादिफलसाधनं भवति इति सिद्धान्तः । तदुक्तं सूत्रकृता द्वितीयप्रथमतृतीये चोदना पुनरारम्भः इत्यनेन सूत्रेण ।

·          ************************************************************************************************************ अतिदेशः
            धर्मविचाराय महर्षिणा जैमिनिना विरचितायां द्वादशलक्षण्यां पूर्वमीमांसायां द्वादशाध्यायाः वर्तन्ते । तत्र प्रमाणाद्यधिकारान्तैः षड्विचारैः उपदेशः निरूपितः ।तरोपदेशो नाम यत्र अपेक्शितस्य अर्थजातस्य प्रतिपादको ग्रन्थसन्दर्भः पठ्यते सः उपदेशः इति । उपदेशषट्केन प्रत्यक्षविहितधर्मसहितानां दर्शपूर्णमासादीनाम् इतिकर्तव्यता चिन्तिता । उपदेशषट्कं निरूप्यातिदेशादिप्रसङ्गान्तैः अतिदेशषट्कं प्रतिपादितम् । तत्र सप्तमाध्याये विकृतिषु अनिदेशेन धर्माः प्राप्नुवन्ति इति सामान्यातिदेशः, अष्टमे यः अतिदेशः य्स्माद्भवतीति विशेषातिदेशः, इत्थं प्रयोक्तव्या इति नवमेन, दशमे अतिदिष्टानां बाधाबाधविचारः, एकादशे प्रयोगतन्त्रम्, द्वादशे अन्योद्देशेन अन्यदीयस्याप्यनुष्ठानं चेति प्रसङ्गः इत्येवं सर्वस्यापि अतिदेशसामान्यमूलत्वात् अतिदेशषट्कमिति व्यवहारः । तत्रादिदेशो नाम कः इति चेत् पूर्वाचार्यैर्दर्शितम् –
अन्यत्रैव प्रणीतायाः कृत्स्नाया धर्मसन्ततेः ।
अन्यत्र कार्यतः प्राप्तिरतिदेशोऽभिधीयते ॥
इति ।
प्राकृतात्कर्मणो यस्मात् तत्समानेषु कर्मसु ।
धर्मोपदेशो येन स्यात् सोऽतिदेश इति स्मृतः ॥
इति च ।
            खण्डदेवाचार्यैः भाट्टदीपिकायामतिदेशस्य लक्षणमुक्तम् –
            यः पदार्थः यादृशोपकारद्वारा यदङ्गत्वेनावधारितः तस्य पदार्थस्य तत्सम्बन्धित्वेन रूपेण तादृशोपकारद्वारैव अन्याङ्गताबोधकं प्रमाणमतिदेशः इति । तत्रोदाहरणं प्रयाजादीनां सौर्याद्यङ्गता अर्थात् सौर्यादावतिदेशः । प्रयाजिपदार्थाः यादृशोपकारद्वारा आग्नयादिप्रधानोपकारद्वारा यदङ्गत्वेनावधारिताः आग्नेयाद्यङ्गत्वेनावधारिताः तेषां प्रयाजादिपदार्थानाम् आग्नेयेतिकर्तव्यतासम्बन्धित्वेन रूपेण तादृशोपकारद्वारैव सौर्यादिप्रधानोपकारद्वारैव सौर्याद्यङ्गतात्वात् प्रयाजादीनामतिदेशः ।
            दर्शपूर्णमासादीनां स्वर्गाद्यङ्गत्वेन अवधारितानां तेनैव द्वारेण पापक्षयाद्यङ्गता बोध्यते ‘यावज्जीवं दर्शपूर्णमासाभ्यां यजेत’ इति वाक्ये अतिव्याप्तिवारणाय तत्सम्बन्धित्वेन रूपेण इति विशेषणम् । यतः दर्शपूर्णमासादेः स्वर्गसम्बन्धित्वेन रूपेण पापक्षयार्थत्वं नास्ति । पुरोडाशादेः पुरोडाशसम्बन्धित्वेन अवधारितस्य तेनैव रूपेण ‘पुरोडाशकपालेन तुषानुपवपति’ इति तुषोपवापाङ्गत्वात् तत्रातिव्याप्तिवारणाय तादृशोपकारद्वारा इति पदं स्थापितम् । पुरोडाशकपालस्तु पुरोडाशे श्रपणाधिकरणत्वेन विनियुक्तः । तुषोपवापे तु उपवापकरणत्वेनेति तत्र भेदः ।
            केचित् सादृश्यकल्पितवाक्यत्वमतिदेशत्वमिति वदन्ति । किन्तु तन्न युक्तम् । तथा उच्यते चेत् नामातिदेशे अव्याप्तिः ।
            स चातिदेशः द्विविधः । वचनातिदेशः नामातिदेशश्चेति । वचनातिदेशोऽपि द्विविधः – प्रत्यक्षवचनातिदेशः अनुमितवचनातिदेशः । अनुमितवचनातिदेशो पुनस्त्रिविधः – सादृश्यकल्पितवचनातिदेशः स्थानापत्तकल्पितवचनातदेशः आश्रयोपस्थितिकल्पितवचनातिदेशः । स चायमतदेशः विकृतिकर्मानुष्ठानोपयिकतया प्रमाणम् ।

 ************************************************************************************************************अङ्गत्वबोधिका श्रुतिः
            विधेः प्रकारेषु इदम् अङ्गम् इदम् अङ्गी इति यस्मात् बोधो भवति सः विनियोगविधिः । अर्थात् अङ्गप्रधानसम्बन्धबोधकः इति यावत् । अङ्गस्य प्रधानस्य च यः सम्बन्धः साध्यसाधनभावरूपः सः येन बोध्यते सः विनियोगविधिः । तस्य कार्यम् इदमेव । ‘दध्ना जुहोति’ इत्यत्र होमः प्रधानम् अङ्गी, दधि गुणः अङ्गमिति ज्ञायते । गुणं विधत्ते अङ्गं विधत्ते इत्यङ्गाङ्गीभावं बोधयतीति सः विनियोगविधिरिति प्रसिद्धिः । ‘दध्ना जुहोति’ इत्यत्र तृतीयया प्रतिपन्नः अङ्गभावो यस्य तस्य दध्नः अर्थात् ‘दध्ना’ इत्यत्र दधिपदोत्तरं या तृतीया विद्यते तया तस्य अङ्गत्वम् अवगतम् । तादृशस्य दध्नः होमं प्रति अङ्गत्वमिति बोधयति । तेन उभयोः समन्धः अवगतो भवति । होमः प्रधानम् , तस्य अङ्गं दधीति । इत्येतादृशस्य अङ्गाङ्गिभावबोधकविधेः श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्येति षट् सहकारिभूतानि प्रमाणानि । तत्र श्रुतिः ।
            का नाम श्रुतिः ? इति जिज्ञासायां ‘निरपेक्षो रवः श्रुतिः’ इति तल्लक्षणम् । रवो नाम शब्दः । स च शब्दः वाचकः, न तु करताडनादिभिः जायमानः ध्वन्यात्मकः शब्दः अत्र अपेक्षितः । निरपेक्षत्वं विशेषणत्वेनात्र प्रोक्तम् । निरपेक्षत्वं नाम अङ्गत्वबोधकप्रमाणान्तरनिरपेक्षत्वमिति । अन्ततो गत्वा अङ्गत्वबोधकप्रमाणान्तराकल्पकत्वमेव निरपेक्षशब्दस्य वैशिष्ट्यम् । यतो हि उत्तरोत्तरप्रमाणानि पूर्वपूर्वप्रमाणं परिकल्प्य विनियोजकानि भवन्ति । परन्तु श्रुतिः न तथा । अन्येषामपेक्षया श्रुतिः साक्षादेव विनियोजकं भवतीति निरपेक्षत्वमिति विशेषणं युक्तम् । तदा तु अङ्गत्वबोधकप्रमाणान्तराकल्पकत्वे सति रवत्वं श्रुतेर्लक्षणमिति सिद्धम् । सा च श्रुतिः त्रिविधा विधात्री अभिधात्री विनियोक्त्री चेति । उक्तं च न्यायरत्नमालायां पार्थसारथिमिश्रैः –
तत्र श्रुतिस्त्रिधा भिन्ना विध्युक्तिविनियोगकृत् ।
विनियोक्त्री त्रिधा भिन्ना तुल्यशब्दादिभेदतः ॥
            तत्र श्रुतित्रये नाम्नैव ज्ञायते विधात्री लिङाद्यात्मिका इति । विधात्रीश्रुतिःविधिवाचकः शब्दः । अभिधात्री इत्युक्ते तत्तदर्थबोधकविधिभिन्नः सर्वोऽपि शब्दः । प्रातिपदिकं धातुः इत्यादिकं सर्वमपि अभिधात्री, सा अर्थमभिधत्ते ।
            विनियोक्त्री श्रुतिस्त्रिविधा । सैवात्र प्रधानम् । यतो हि अभिधात्री सर्वत्र वर्तते । विधात्री विधिवाक्येषु विद्यते । परन्तु विनियोगविधेः सहकारितया अपेक्षिता श्रुतिस्तु विनियोक्त्रीश्रुतिरेव । यस्य च श्रवणादेव सम्बन्धः प्रतीयते सा इति । असाधारण्येन विनियोगोपकारिणीयं विनियोक्त्री । सा विनियोक्त्री त्रिधा विभज्यते विभक्तिरूपा समानाभिधानरूपा एकपदरूपा चेति ।
            विभक्तिरूपा श्रुतिः यथा ‘व्रीहिभिर्यजेत’ इत्यत्र यागोद्देशेन व्रीहयः विधीयन्ते । यागोद्देश्यकभावनाकरणत्वं व्रीहीणां वर्तते । तच्च करणत्वं तृतीयया बोधितम्, अत्र तृतीयाश्रुत्या व्रीहीणां यागाङ्गत्वम् । यद्यपि उत्पत्तिवाक्ये पुरोडाशः श्रूयते । तेनैव द्रव्याकांक्षा निरस्ते (द्रव्यावरोधे) सति कथं व्रीहीणां यागाङ्गत्वमिति चेत् – पुरोडाशः न कश्चित् सिद्धः पदार्थः । निष्पादनीयः सः । सः व्रीहिभिः निष्पाद्यते इति परम्परया व्रीहीणां यागाङ्गत्वमिति न विप्रतिपत्तिः ।
            ज्योतिष्टोमप्रकरणे ‘सोमेन यजेत’ इति वाक्यं श्रूयते । सोमः यागस्य द्रव्यमिति तदर्थः । सोमस्य द्रव्यत्वेन प्रसिद्धत्वात् । तत्र ‘अरुणया पिङ्गाक्ष्या एकहायन्या सोमं क्रीणाति’ इति वाक्यं श्रूयते । तस्य सोमस्य बहुविधाः संस्काराः भवन्ति । ‘गवा क्रीणाति’ ‘अजया क्रीणाति’ ‘वाससा क्रीणाति’ इत्यपि च क्रयणस्य अनेकानि साधनानि सन्ति । इदमेकं साधनं ‘अरुणया सोमं क्रीणाति’ इति । क्रयणेन सोमं भावयेत् इत्यर्थः । आरुण्यं न द्रव्यं किन्तु सः गुणः । अत्र आरुण्यस्य क्रयणं प्रति अङ्गत्वम् । तत्र प्रमाणम् अरुणया इति तृतीयाश्रुतिः । अनया हि तृतीयया श्रुत्या आरुण्यस्य क्रयणं प्रति अङ्गत्वं बोध्यते । वस्तुतः द्रव्यत्वाभावेऽपि (रूपत्वाभावेऽपि) द्रव्यपरिच्छेदद्वारा क्रयाङ्गत्वसम्भवात् ।
            ‘व्रीहीन् प्रोक्षति’ इत्यत्र द्वितीयाश्रुत्या प्रोक्षणस्य व्रीह्यङ्गत्वम् । अन्याः सर्वाः विभक्तयः प्रकृत्यर्थस्याङ्गत्वं बोधयन्ति । द्वितीया तु अङ्गित्वं बोधयतीति वैलक्षण्यम् । अनारभ्याधीते ‘यदाहवनीये जुहोयि’ इत्यत्र वाक्ये सप्तमीश्रुत्या आवहनीयः आधारत्वेन विधीयते । आवहनीयस्य होमाङ्गत्वं सप्तमीश्रुत्या । ‘पशुना यजेत’ इत्यत्र एकत्वपुंस्त्वयोः समानाभिधानश्रुत्या कारकाङ्गत्वम् । ‘यजेत’ आख्याताभिहितसङ्ख्यायाः भावनाङ्गत्वं समानाभिधानश्रुत्या, एकपदश्रुत्या च यागाङ्गत्वम् ।
            इत्थं श्रुतिः लिङ्गादिभ्यः प्रबला । अत्र प्राबल्यं कथमिति चेत् लिङ्गादिषु साक्षात् विनियोजकः शब्दः नास्ति, सः कल्प्यः वाचकः शब्दः । श्रुतिस्तु अङ्गत्वघटकीभूतस्य कस्यचिदंशस्य वाचिका भवति इति सा प्रबला । लिङ्गादिषु साकांक्षया तस्य विनियोगवाचकशब्दस्य कल्पना भवति । आकांक्षा एव कल्पनायाः मूलं वर्तते । आकांक्षायां निवृत्तायां ततः परं कल्पनं भवितुं नार्हति । यदा या श्रुतिः वर्तते  तदा तु सा साक्षाद्विनियोजिका इति अङ्गत्वं बोधयति । तया न किञ्चित् कल्पनीयमस्ति । अस्यां दशायां द्वयमपि  यत्र वर्तते तदा लिङ्गं किञ्चित् कल्पयित्वा विनियोजकम्, श्रुतिस्तु साक्षादङ्गत्वं बोधयति, कल्पनं किमपि नास्तीति प्राबल्यम् ।
            यथा – ‘ऐन्द्र्या गार्हपत्यमुपतिष्ठते’ इत्यत्र श्रुतिलिङ्गयोर्विरोधः भासते । ऐन्द्री मन्त्रः वर्तते लिङ्गानुसारेण अस्य मन्त्रस्य इन्द्रोपस्थाने विनियोगः कल्पनीयः इति । परं ‘ऐन्द्र्या गार्हपत्यमुपतिष्ठते’ इति द्वितीयाश्रुत्या गार्हपत्योपस्थानाङ्गत्वं साक्षात् कथितम् । अस्य मन्त्रस्य कीदृशकर्मणः प्रति अङ्गत्वमिति सन्देहे कुत्र विनियोगः इति विनियोगाकांक्षा वर्तते । तत्र लिङ्गेन तु ‘इन्द्रो देवता अस्याः ऋचः’ इति इन्द्रप्रकाशकत्वम्, श्रुत्या तु गार्हप्त्योपस्थानाङ्गत्वं ‘गार्हपत्यमुपतिष्ठते’ इति । तर्हि लिङ्गानुसारेण इन्द्रोपस्थानाङ्गत्वं श्रुत्यनुसारेण गार्हपत्योपस्थाने विनियोगो वा इति श्रुतिरेव प्रबला यतो हि ‘ऐन्द्र्या इन्द्रमुपतिष्ठते’ इति तु वाक्यं नास्ति । तादृशकल्पनानन्तरमेव लिङ्गेन विनियोगः पूर्णः भवति । परं श्रुत्या तु न वर्तते कल्पनीयः श्रुतिः प्रबला । लिङ्गेन यदा श्रुतिः कल्पनीया भवति तावतीकाले ‘ऐन्द्र्या गार्हपत्यम्’ इति श्रुत्या साक्षादेव गार्हपत्योपस्थानाङ्गत्वेन विनियोगः कृतः । तदा कुत्र विनियोगः इत्याकांक्षा नास्ति । आकांक्षायाः शान्तत्वात् अङ्गत्वबोधनार्थं लिङ्गं किमपि न कल्पनीयमिति तूष्णीमेव तिष्ठति । अतः श्रुत्या विनियोगः इति श्रुत्या लिङ्गस्य बाधः ।
 ************************************************************************************************************
अङ्गत्वबोधिका श्रुतिः
          स्वर्गादिपुरुषार्थसाधकधर्मोपदेशकस्य अपौरुषेयस्य वेदस्य पञ्चधा विभागः मीमांसकैः कृतः । तथोक्तं मीमांसान्यायप्रकाशे श्रीमता आपदेवेन स च वेदः विधिमन्त्रनामधेयनिषेधार्थवादात्मकः इति । तत्राद्यः विधिः प्रयोजनमुद्दिश्य अप्राप्तार्थविधायकः वाक्यरूपः । तस्यापि च चतुर्धा विभागः शास्त्रकारैः कल्पितः । उत्पत्तिविधिः, विनियोगविधिः, प्रयोगविधिः, अधिकारविधिश्चेति । तत्र विनियोगविधिर्नाम ’अङ्गाङ्गिभावसम्बन्ध्बोधको विधिः’  एतस्य च विधेः सहकारिभूतानि षट् प्रमाणानि । श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानि । तत्र अन्यतमायाः श्रुतेः लक्षणम्, भेदः, उदाहरणं च विमृश्यते ।
          ’निरपेक्षो रवः श्रुतिः’ इति न्यायप्रकाशकारः । अर्थात् यः शब्दः प्रमाणान्तरनैरपेक्षेण अङ्गाङ्गिभावस्य अर्थं बोधयति सः श्रुतिरिति । यथा व्रीहिभिर्यजेत इत्यत्र तृतीयाश्रुतिः अनया हि तृतीयया श्रुत्या व्रीहियागयोः अङ्गाङ्गिभावसम्बन्धः प्रतीयते । इयं च श्रुतिः त्रिवधा विधात्री, अभिदात्री, विनियोक्त्री चेति ।
          यजेत स्वर्गकामः इत्यादि वाक्येषु विद्यमानः लिङादिप्रत्ययः विधात्र्याः श्रुतेः उदाहरणम् । अस्य प्रत्ययस्य इतर नैरपेक्षेणैव यागभावनाविधायकत्वात्, शब्दभावनायाः बोधकत्वात् ।
          ’निरपेक्षो रवः श्रुतिः’ इत्युक्तं लक्षणं विद्यते । अभिदात्रीश्रुतिः व्रीह्यादिश्रुतिः । तस्याः प्रादिपदिकरूपायाः व्रीहित्वाभिदायकत्वात् ।यस्य शब्दस्य श्रवणादेव सम्बन्धः प्रतीयते सा विनियोक्त्री । यथा – “व्रीहीनवहन्ति इत्यादौ द्वितीया । अनया हि अवघातव्रीह्योः अङ्गाङ्गिभावसम्बन्धः प्रतीयते । इयं च श्रुतिः त्रिविधा । समानाभिधानरूपा, एकपदरूपा, विभक्तिरूपा चेति ।
          पशुना यजेत इत्यत्र एकत्वपुंस्त्वकरणत्वानां त्रयाणाम् अर्थानाम् एकया तृतीयया उक्तत्वात् एकत्वपुंस्त्वयोः करणत्वे कारके सम्बन्धः प्रतीयते । अर्थात् एकत्वपुंस्त्वयोः अपि यागे करणत्वं लभ्यते । तच्च पशुरूपद्रव्यपरिच्छेदद्वारा सम्भवति ।
          एकपदश्रुत्या यागभावनयोः सम्बन्धः प्रतीयते ।’यजेत’ इत्येकस्मिन् तिङन्ते पदे प्रकृत्या यागः उच्यते प्रत्ययेन च भावना ।अतः एकपदोपात्तत्वात् अनयोः सम्बन्धः प्रतीयते । अत्र नवीनाः खण्डदेवाचार्यादयः अभिप्रयन्ति अङ्गताबोधकप्रमाणेषु अन्यतमा या श्रुतिः तस्याः ’निरपेक्षो रवः’ इति लक्षणम् अतिव्याप्तिग्रस्तम् । गौः इति शब्दस्यापि अन्यनैरपेक्ष्यत्वेन गोत्वरूपार्थबोधकत्वात् ।
          किञ्च श्रुतेः यः भेदः उक्तः विधात्री, अभिधात्री, विनियोक्त्री चेति, सोऽपि न तथा उपपन्नः । यतः विनियोगविधेः सहकारिप्रमाणत्वेन श्रुतिः पूर्वं प्रतिज्ञाता । विधात्री, अभिधात्री च श्रुतिः न विनियोगविधेः सहकारिभूते, किन्तु विनियोक्त्रीश्रुतिरेव । अतः सैव श्रुतिलक्षणलक्ष्या । तत्रापि एकपदरूपा, समानाभधानरूपा या श्रुतिः सा न अङ्गाङ्गिभवबोधिका । किन्तु सन्निधिद्वारा सम्बन्धमात्रबोधिका । अतः विभक्तिरूपाश्रुतिरेव मुख्याश्रुतिः । अङ्गत्वबोधकप्रयोजकत्वात् ।
          यदि अन्यत्र श्रुतिव्यवहारः अस्ति तर्हि सा गौणः बोध्यः । कथं विभक्तिश्रुतेः अङ्गत्वबोधकप्रयोजकत्वम् इति चेत् उच्यते अङ्गत्वं हि कारकत्वेन परोद्देशप्रवृत्तकृतिसम्बन्धित्वरूपम् । तत्र तृतीयादिश्रुतेः करणत्वाधिकारकबोधकत्वात् द्वितीयायाश्च उद्देश्यत्वबोधकत्वात्  सर्वासामपि श्रुतीनाम् अङ्गत्वघटकीभूतपरोद्देश्यत्वक्तिकारकत्वान्यतरवाचकत्वात् अङ्गत्वबोधकप्रयोजकत्वम् ।
 ****************************************************************************************************************
आक्षेपलभ्यः कर्ता
       पशुना यजेत” इत्यत्र ‘यजेत’ इत्यत्र त्तप्रत्ययस्य आख्याताभिहितसंख्यायाः समानाभिधानश्रुत्या भावनाङ्गत्वम् । एकपदश्रुत्या यागाङ्गत्वं च । अत्रायं शङ्का- अमूर्तायाः संख्यायाः कथं यागाङ्गत्वम् इति । तत्र कर्तृपरिच्छेदद्वारा यागाङ्गत्वम् ।
          नन्वत्र कर्तृवाचकस्य पदस्याभावात् अर्थात् तादृश कस्यचिददर्शनात् कर्तुरुपस्थितिरेव न वर्तत इति चेदुच्यते- ‘कर्ता च आक्षेपलभ्यः’ इति । तद्यथा- आख्यातेन तु भावना उच्यते । भावनात्वं नाम भवितुः प्रयोजकव्यापारत्वम्, स च व्यापारः कर्तारं विना नोपपद्यत इति कर्तारमाक्षिपति ।
          नन्वाक्षेपलभ्यः कर्ता इत्येव किमर्थमुच्यते । ‘यच्च यस्मात् प्रतीयते तत्तस्य वाच्यम्’ इति नियमेन कर्ताऽपि आख्यातवाच्यः इति अङ्गीकर्तव्यम् इति चेदुच्यते- ‘अनन्यलभ्यः शब्दार्थः’ इति न्यायेन ‘स एव हि शब्दस्यार्थः यः प्रकारान्तरेण न लभ्यते’ । अन्यलभ्यार्थे शक्त्तिकल्पनास्वीकारे गौरवप्रसङ्गः । एवं च आख्यातेन भावना उच्यते । भावना कर्तारं  विना अनुपपन्ना इति कर्तारमाक्षिपतीत्येवमाक्षेपादेव कर्ता लभ्यत इति आख्यातस्य कर्तृवाचकत्वं न कल्पनीयम् ।
          तत्र आख्यातेन भावना एव वाच्या न कर्ता इत्यत्र निश्चायकं प्रमाणं नास्तीति न वक्तव्यम् । यतः ‘कृतिमान् हि कर्ता’ इत्यस्ति नियमः । कृतिरेव भावना । अतः भावनापरपर्यायाः कृतेरेव आख्यातवाच्यत्वात् पुनः भावनावान् यः कर्ता तस्य वाचकत्वं न कल्प्यते । यदि कल्प्यते तर्हि गौरवप्रसङ्गः । पुनराशङ्का यत्- भावना केवलं कर्त्रा न सम्बद्धा, कारकान्तरेणापि तस्याः सम्बन्धः अस्त्येव । अतः भावना झटिति न कर्तारमेवाक्षिपति । कर्ता तु साक्षात् भावनाया एव सम्बद्धा अतः कर्ता एव आख्यातवाच्यः भावनामाक्षिपेत् इति ।
          अत्र समाधानम्- भावना कारकान्तरेण सम्बद्धा इति न वाच्यम् । यतः भावनायाः आश्रयः कर्ता । यदि आश्रयः एव न स्यात् भावनायाः अस्तित्वमेव न प्रतिपद्यते इति भावना नियमेन प्रथमं कर्तारमेव आक्षिपति । अत एव आख्याताभिहिता संख्या कर्त्रा एव सम्बध्यत इति कर्तृपरिच्छेदद्वारा तस्याः यागाङ्गत्वं सिद्धम् ।

***************************************************************************************************************
पर्युदासः
            वेदस्य पञ्चसु विभागेषु चतुर्थः निषेधः । तस्य च अनर्थहेतुक्रियानिवृत्तिजनकत्वेनार्थवत्वम् । ‘न कलञ्जं भक्षयेत्’ इत्यादौ नञः लिङर्थेन सहान्वयः । तथा च लिङ्-समभिव्याहृतो नञ् प्रवर्तनाविरोधिनीं निवर्तनामेव बोधयति । यदा तु लिङर्थेन सह नञः अन्वये बाधकं तदा धत्वर्थस्यैव तत्रान्वयः । अर्थात् तत्र पर्युदासः । तदुक्तम् –
‘पर्युदासः स विज्ञेयो धातुना सह यत्र नञ् ।’ इति ।
            पर्युदासस्वीकारे निमित्तद्वयम् – ‘तस्य व्रतम्’ इत्युपक्रमो विकल्पप्रसक्तिश्च । तत्राद्यं ‘नेक्षेतोद्यन्तमादित्यम्’ इत्यादौ ‘तस्य व्रतम्’ इत्युपक्रम्यैतद्वाक्यपाठात् पर्युदासाश्रयणम् । व्रतशब्दः कर्तव्यार्थे एव रूढः अतः ‘नेक्षेत’ इत्यादिना कर्तव्यार्थः एव वक्तव्यः । नञर्थेन प्रत्ययार्थान्वये कर्तव्यार्थः न प्रतीयते । अतः ‘नेक्षेत’ इत्यत्र धात्वर्थविरोध्यनीक्षणसङ्कल्प एव लक्षणया प्रतिपाद्यते । आदित्यविषयकानीक्षणसङ्कल्पेन भावयेदिति वाक्यार्थः ।
            द्वितीयं निमित्तं भवति विकल्पप्रसक्तिः । यथा – ‘यजतिषु ये यजामहं करोति’ ‘नानूयाजेषु’ इत्यत्र । यद्यत्र नञर्थेन प्रत्ययार्थान्वयः स्यात्तर्हि ‘अनूयजेषु ये यजामहं करोति’ इत्यस्य प्रतिषेधः भवति । स च प्रतिषेधः प्राप्तिपूर्वक एव । प्राप्तिश्च ‘यजतिषु ये यजामहं करोति’ इत्यनेन वाच्या । एवं शास्त्रप्राप्तस्य शास्त्रान्तरेण प्रतिषेधे विकल्प एव । निषेधशास्त्रस्य ‘यजतिषु ये यजामहं करोति’ इत्यस्य अपेक्षणान्न सामान्यशास्त्रस्य विशेषेण बाधः इति स्वीकर्तुं शक्यते । यतः परस्परनिरपेक्षयोरेव बाध्यबाधकभावः सम्भवति । अतः अत्र विकल्पः स्वीकर्तव्यः । तस्य च स्वीकारे शास्त्रस्य पाक्षिकाप्रामाण्यापातः । अतः अत्र नञः अनूयजसम्बन्धमाश्रित्य पर्युदासाश्रयणम् । तथा च अनूयाजव्यतिरिक्तेषु ये यजामहेति मन्त्रं कुर्यात् इति वाक्यार्थबोधः लक्षणया ।
            उपसंहारः तन्मात्रसङ्कोचार्थः, पर्युदासस्तु तदन्यमात्रसङ्कोचार्थः इति तयोर्भेदः उपपद्यते ।
****************************************************************************************************************
पात्नीवताधिकरणम्
            अस्मिन्नधिकरणे गुणात् कर्मभेदः नास्तीति कर्मभेदबोधकगुणप्रमाणेन क्वचित् कर्मभेदः नास्तीति निरूप्यते । पूर्वाधिकरणेन अस्य प्रासङ्गिकी सङ्गतिः । पूर्वाधिकरणे नैवारश्चरुर्भवति चरुमुपदधाति उत्यत्र उपदधातीत्यनेन न यागः विधीयते, किन्तु उपाधानरूपगुणमात्रं विधीयते इति सिद्धान्तितम् । तत्प्रसङ्गात् अत्रापि यागविधिर्वा उत गुणो विधीयते इति विचारात् प्रासङ्गिकी सङ्गतिः ।
            अत्र विषयवाक्यम् त्वाष्ट्रं पात्नीवतमालभेत इति प्रकृत्या श्रुतंम् पर्यग्निकृतं पात्नीवतमुत्सृजन्ति इति । अत्र सन्देहः पर्यग्निकृतवाक्येन कर्मान्तरं विधीयते अथवा गुणः विधीयते इति ।
            अत्र पूर्वपक्षः अस्मिन् वाक्ये ‘पर्यग्निकृत’ इति शब्देन संस्कारसहितः पशुरूपार्थः बोध्यते पात्नीवतशब्देन च पत्नीवन्नामकदेवतासम्बन्धः बोध्यते । अतश्च द्रव्यदेवतासम्बन्धात् अनेन वाक्येन यागः विधीयते इति गम्यते । तथा सति पर्यग्निकृतपात्नीवतशब्दयोः अव्यवहितान्वयः लभ्यते । तस्मात् वायव्यपशुवत् अत्र यागः विधीयते इति प्राप्ते
            सिद्धान्तस्तु अत्र “पात्नीवतमालभेत” इत्यनेन विहितः प्राकृतः पशुः अत्रापि पात्नीवतशब्देन प्रत्यभिज्ञायते । तं पशुमनूद्य ‘पर्यग्निकृत शब्देन अन्वितेन ‘उत्सृजन्ति’ इति आख्यातेन पर्यग्निकरणरूपः गुणः विधीयते । अत्र किं प्रयोजनम् इति चेत् पर्यग्निकरणानन्तरभाविनामङ्गानामप्राप्तिरेव विधेः प्रयोजनम् ।
            एवं तर्हि परिसंख्या भवेदिति चेत् पर्यग्निकरणोत्तरभावीनि अङ्गानि नानुष्ठेयानि इत्येवं परिसंख्या नाङ्गीक्रियते । पर्यग्निकरणविधानेनैव उपरितनानाम् अङ्गानां निवृत्तिः अर्थात् लभ्यते । अतिदेशप्रवृत्तेः पूर्वम् अयं विधिः प्रवर्तते । प्रत्यक्षपठितत्वात् कल्पितात् अतिदेशात् अयं विधिः प्रबलः । तथा च उपदिष्टैरेव अङ्गैः निराकाङ्क्षत्वात् विकृतौ अतिदेशाभावेन उपरितन अङ्गानि न प्राप्यन्ते ।
            एवं तर्हि अनेन न्यायेन पर्यग्निकरणात् पूर्वतनानि अङ्गानि न प्राप्येरन् इति चेत् नूतनतया विहितस्य पर्यग्निकरणस्य उपकारकल्पनायां प्रकृतौ क्लृप्तोपकारं पर्यग्निकरणमेव अत्र विधीयते । प्रकृतौ च प्राचीनाङ्गानन्तरभाविनः एव उपकारः क्लृप्तः इति अत्रापि तादृशस्यैव विधानात् पर्यग्निकरणपर्यन्तानि पूर्वाङ्गानि अर्थात् प्राप्यन्ते । तस्मात् उत्सृजन्तीत्याख्यातेन पर्यग्निकरणविधानात् उपरितनाङ्गानां लोपः धातुना अनूद्यते । तथा च अत्र पर्यग्निरूपगुणः विधीयते इति गुणविधिरेवायम्, न तु यागविधिः इति राद्धान्तः ।
****************************************************************************************************************


No comments:

Post a Comment