तदभावो
नाडीषु तच्छ्रुतेरात्मनि च
{पीठिका}-
अस्यैव ब्रह्मणः
सर्ववेदान्तप्रतिपाद्यत्वेपि न्यायतो वेदान्तवाक्यार्थं निर्णेतुं भगवान् बदरायणः
शारीरकमीमांसाशास्त्रं समारभ्य अध्यायद्वयेन अद्वितीये ब्रह्मणि वेदान्तानाम्
अविरुद्धं समन्वयं प्रदर्शयामास । ततः साधनाध्याये प्रथमे पादे जीवस्य
गत्यागतिनिरूपणेन मुमुक्षोरपेक्षितं वैराग्यं प्रदर्श्य मोक्षसाधनस्य
तत्त्वमस्यादिवाक्यार्थज्ञानस्य तत्त्वम्पदार्थज्ञानपूर्वकत्वात् तृतीयाध्यास्य
द्वितीयपादे प्रथमाधिकरणे “सन्ध्ये सृष्टिराह हि” इत्यादिसूत्रैः स्वप्नावस्थायां
जीवस्य स्वप्रकाशत्वं स्वप्नमिथ्यात्वं च प्रतिपादितम् । ततश्च द्वितीयाधिकरणे
सुषुप्त्यवस्थायां जीवस्य अवस्थितिः क्वेति विचार्यते “तदभावो नाडीषु
तच्छ्रुतेरात्मनि च” इति सूत्रेण । तत्र अनेकाः श्रुतयः सुषुप्तिविषयाः श्रूयन्ते
। तद्यथा – “आसु तदा नाडीषु सृप्तो भवति । ताभिः प्रत्यवसृप्य पुरीतति शेते” ।
“सता सोम्य तदा सम्पन्नो भवति स्वमपीतो भवति” इत्यादयः । अत्रैतच्छङ्क्यते - “अत्र
नाडीपुरीतत्परमात्मानः जीवस्य सुषुप्तिस्थानत्वेन श्रूयन्ते । किमेतेषां
परस्परनिरपेक्षत्वेन भिन्नतया सुषुप्तिस्थानत्वम् उत समुच्चयेन” इति । तत्र
एकपुरॊडाशार्थत्वेन प्रवृत्तयोः व्रीहियवशास्त्रयॊः यथा निरपेक्षत्वं तथा नाडीषु
पुरीतति सति इति सप्तम्या सुषुप्तिस्थानरूपस्यार्थस्य प्राप्तत्वात् एतेषां
वाक्यानां नास्ति परस्परापेक्षया समुच्चयः । किन्तु सुषुप्तः कदाचित् नाडीषु शेते
कदाचत् पुरीतति कदाचित् ब्रह्मणि इति विकल्पः आश्रीयते इति पूर्वपक्षः ।
अत्रायं सिद्धान्तः – “तदभावो नाडीषु तच्छ्रुतेरात्मनि च”
इति । तच्छब्देन पर्वाधिकरणॆ निरूपितं स्वप्नदर्शनं परामृश्यते । तस्य अभावः
सुषुप्तिरित्यर्थः । सूत्रे ’च’कारः पुरीतत्समुच्चयार्थः । नाड्यादिस्थानानि
समुच्चयेन सुषुप्तिस्थानरूपम् अर्थं समर्पयन्ति । तत्र हेतुरुक्तः तच्छ्रुतेरिति ।
नाड्यादीनां बहुत्र सुषुप्तिस्थानत्वं श्रूयते । तच्च सुषुप्तिस्थानत्वं समुच्चयेन
सङ्गृहीतं भवति न तु विकल्पे । जीवः नाडीषु पुरीतति ब्रह्मणि च स्वपिति इति
समुच्चयो युज्यते । “तासु तदा भवति यदा स्वप्नं न कञ्चन पश्यत्यथास्मिन् प्राण एवैकधा
भवति” इति श्रुतॆः । “आसु नाडीषु सृप्तो भवति” इत्यत्रापि श्रुत्यन्तरोक्तब्रह्मणः
प्रतिषेधाभावात् नाडीद्वारेण ब्रह्मणि अवतिष्ठते इति प्रतीयते । नाडीद्वारेण
ब्रह्मॊपसर्पन् नाडीषु भवति इत्यर्थस्य विवक्षितत्वात् नाडीषु इति सप्तमीनिर्देशोऽपि
न विरुध्यते । “ताभिः प्रत्यवसृप्य पुरीतति शेते” इति श्रवणात्
पुरीतन्नामकपरिवेष्टनोपेतस्य हृदयस्य यः अन्तराकाशः तत्र शेते इत्यर्थो लभ्यते । यथा
– प्राकारे परिवेष्टिते पुरे वर्तमानः प्राकारे वर्तते इत्युच्यते । हृदयाकाशॊऽयं
ब्रह्मैवेति दहराधिकरणे सिद्धान्तितम् । तस्मादयमर्थः सिद्धॊ भवति जीवः नाडीद्वारा
पुरीततं गत्वा ब्रह्मणि शेते इति । एवं त्रयाणामपि सुषुप्तिस्थानत्वेपि ब्रह्मणः
प्रधान्यम् इतरयोः गुणत्वम् । यदि पूर्वपक्ष्युक्तरीत्या विकल्पः आश्रीयते तर्हि
इतरस्थानद्वयवादिश्रुत्योः बाधः स्यात् । किञ्च ब्रह्मणः सुषुप्तिस्थानत्वे
ब्रह्मणा एकीभूतत्वादेव जीवस्य विशेषविज्ञानाभावः उपपादयितुं शक्यः । तथा च
श्रुतिः – “यत्र त्वस्य सर्वमात्मैवाभूत् तत्केन कं पश्येत्” इति । ब्रह्मनिरपेक्षतया
नाडीपुरीततोरेव सषुप्तिस्थानत्वे इदमुपपादयितुं न शक्यते । ब्रह्म सुषुप्तिस्थानं
इत्यस्यापि ब्रह्मणि आधारे आधेयरूपेण जीवः तिष्ठति इत्यर्थॊ न विवक्षितः । किन्तु
जाग्रत्स्वप्नयोः उपाधिपरित्यागेन स्वस्वरूपेण ब्रह्मात्मना तिष्ठति इत्यर्थः अत्र
प्रतिपाद्यते । अत एव श्रुतिः “सता सोम्य सम्पन्नो भवति स्वमपीतो भवति” इति
ब्रह्मसम्पत्तिं स्वरूपे अवस्थानं च समानतया श्रावयति । एवं सुषुप्तिनिरूपणेन
“जीवो ब्रह्मैब नापरः” इत्यात्मैक्यमेव श्रुत्या बुबोधयषितम् । तदात्मैक्यज्ञानमॆव
मोक्षसाधनत्वेन सफलम् ।************************************************************************************************************
प्रज्ञानं ब्रह्म
{पीठिका} -
एतदनुसारं कर्तृत्वादिसंसारधर्मवत्तया प्रतीयमानं
जीवचैतन्यमपि तदसंसारिब्रह्मचैतन्यमेवेति निर्भेदात्मतत्त्वबोधकानि वक्यानि
महावाक्यानि इति वेदान्तशास्त्रे प्रथन्ते । यद्यपि महावक्यानि प्रत्युपनिषदं
श्रूयन्ते तथापि वेदानां चतुष्ट्वात् चतुर्भ्यः वेदेभ्यः प्रधानभूतम् एकैकं वाक्यं
समादाय चत्वारि महावक्यानि इति औपनिषदाः प्राहुः । तत्र “प्रज्ञानं ब्रह्म” इति
वाक्यम् ऋग्वेदीय ऐतरेयोपनिषदि श्रूयते । तत्र हि एवं प्रकरणमारब्धम् – “आत्मा वा
इदमेक एवाग्र असीन्नान्यत्किञ्चनमिषत्” इति सजातीयविजातीयस्वगतभॆदशून्यं ब्रह्म
उपक्रान्तम् । अस्यैव ब्रह्मणः अध्यारोपापवादाभ्यां बोधनाय “स इमान् लोकानसृजत”
इत्यादिना लोकानारभ्य पुरुषपर्यन्तं जगत्सृष्टिर्वर्णिता । तस्यैव जगत्स्रष्टुः
मूर्ध्दद्वारा शरीरप्रवेशश्च प्रपञ्चितः । अस्य अध्यारोपस्य अपवादार्थत्वेन “को॓ऽयमात्मेति
वयमुपास्महे” इत्यात्मतत्त्वस्य मीमांसा विदुषां समूहे प्रवृत्ता । ततः “येन वा
पश्यति येन वा श्रुणोति” इत्यादिना दर्शनादिक्रियानिर्वर्तकत्वॆन अस्मिन् शरीरे
स्थितं चैतन्यमेव आत्मा, स एव लोकप्रसिद्धः अहमनुभवगोचरो जीवः । एतज्जीवरूपेण स्थितं
चैतन्यं ब्रह्मैव, अविकृतस्य ब्रह्मण एव शरीरे प्रविष्टत्वाद् इत्ययमर्थः
उपदिश्यते “प्रज्ञानं ब्रह्म” इति वाक्येन
। प्रज्ञानशब्दार्थः जीवः । वस्तुतः ज्ञानप्रज्ञानविज्ञानादिशब्दाः चैतन्यवाचकाः ।
जीवस्य अन्तःकरणविशिष्टचैतन्यरूपत्वात् प्रज्ञानशब्देन तस्य अभिधानं न विरुध्द्यते
। स्वरूपभूतं चैतन्यमेव तत्तदिन्द्रियार्थसन्निकर्षोत्पन्नान्तःकरणवृत्यवच्छिन्नं
सत् तत्तद्विषयाकारकं ज्ञानम् इत्युच्यते । अतः सर्वेषु अन्तःकरणवृत्तिरूपज्ञानेषु
अनुगतं यच्चैतन्यं तत् सर्वार्थप्रकाशकत्वात् नित्यत्वात् अनुगतत्वाच्च प्रकष्टं
ज्ञानं प्रज्ञानम् इत्युच्यते । “आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः”
इति श्रुत्यन्तरात् जीवस्य शरीरेन्द्रियादिविशिष्टतया प्रतीयमानत्वेऽपि शरीरादीनां
जडत्वेन तत्र सत्तास्फुरणाधायकत्वेन स्थितस्य अधिष्ठानभूतचैतन्यस्य प्रज्ञानशब्देन
अभिधानं युक्तमेव । एतावता चैतन्यमव जीवस्य पारमार्थिकं स्वरूपमिति सिद्धम् ।
बृहि वृद्धौ
इत्यस्माद्द्धातोः निष्पन्नः ब्रह्मशब्दः । “एको देवः सर्वभूतेषु गूढः” इति
श्रुतेः आब्रह्मस्तम्बपर्यन्तं सर्वेषु यच्चैतन्यं स्थितं तद्ब्रह्मशब्देन
अभिधीयते । अत एव ऐतरेयोपनिषदि “एष ब्रह्मैष इन्द्रः” इत्यारभ्य “यत्किञ्चेदं
प्राणि जङ्गमञ्च पतत्रि च यच्च स्थावरं सर्वं तत् प्रज्ञानेत्रम्” इत्यर्थः
श्रावितः । एकमेव ब्रह्मचैतन्यं सर्वविधकार्याकारेण विवर्तमानं प्रपञ्चस्य
आत्मभूतं तत्त्वम् इति हि वेदान्तसिद्धान्तः । “प्रज्ञानं ब्रह्म” इति विशिष्टचैतन्यवाचकयोः
पदयॊः सामानाधिकरण्येन तदर्थयोः ऐक्ये वक्तव्यॆ प्रज्ञानशब्दस्य
अन्तःकरणविशिष्टचैतन्यवाचकत्वात् ब्रह्मशब्दस्य च
जगत्कारणत्वादिविशिष्टचैतन्यवाचकत्वात् विरुद्धविशेषणविशिष्टयोः ऐक्यासम्भवात्
उभाभ्यामपि पदाभ्यां निर्विशेषं चैतन्यमात्रं लक्ष्यते । एवं चैतन्यमात्रस्य अत्र
वक्यार्थत्वेन पदार्थसंसर्गस्य अविषयत्वात् एतन्निर्विकल्पकज्ञानजनकत्वेन प्रज्ञानं
ब्रह्मेत्यादिवाक्यानि अखण्डार्थपराणि भवन्ति । अस्य च ज्ञानस्य वाक्यजन्यत्वेऽपि
अपरोक्षचैतन्यवचकत्वेन उत्पन्नं ज्ञानम् अपरोक्षमेव । अनेन साक्षात्काररूपॆण ज्ञानेन
सर्वानर्थभूत अज्ञानस्य नाशात् जीवः नित्यसुखस्वरूपब्रह्मरूपेण अवतिष्ठते ।
वाक्यजन्यज्ञानस्य एवं परमपुरषार्थहेतुभूतत्वात् जीवेश्वरविभागशून्याद्वैततत्त्वबोधकम्
इदं वाक्यं महावाक्यमिति लोके प्रथते ।
॥शम्॥
***********************************************************************
सर्वधर्मान् परित्यज्य मामेकं शरणं
व्रज
वेदान्तार्थस्य सारल्येन
प्रतिपादनायैव अर्जुनं निमित्तीकृत्य सर्वलोकान् अनुजिघृक्षुः भगवान्
सर्ववेदार्थसारसङ्ग्रहभूतं गीताशास्त्रम् उपदिदेश । तत्र निःश्रेयससाधनत्वेन
उपदिष्टं किं कर्म उत ज्ञानम् उत तयोः समुच्चयः इत्यस्मिन् विषये महतामपि भ्रमः
जायते । स्वयम् अर्जुनः “संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि। यच्छ्रेय
एतयोरेकं तन्मे ब्रूहि सुनिश्चितम्”॥ इति प्रार्थयामास । गीतायाः
प्राचीनव्याख्याकाराः कर्मविषयेऽपि श्रद्धलवॊ भूत्वा ज्ञानमिव कर्माऽपि सर्वेषामुपादेयमिति
मेनिरे । भष्यम् अनवलोक्य आपाततः प्रतिपन्नार्थावलम्बिनाम् इदमेव युक्तम् इत्यपि
प्रतीयेत । तस्मादेव भगवत्पादाः गीताभाष्ये आदौ मध्ये अन्ते चेति सर्वत्रापि
विषयमिमं विचार्य सर्वकर्मसंन्यासपूर्वकम् आत्मज्ञानमॆकमेव मोक्षसाधनमिति निरणैषुः
। अयमर्थः श्लोकेऽस्मिन् सुस्पष्टं प्रकाशितः “सर्वधर्मान् परित्यज्य मामेकं शरण
व्रज । अहं त्वा सर्वपापेभ्य़ो मोक्षयिष्यामि मा शुच” ॥ इति ।
सरधर्मान्
इत्यत्र धर्मशब्देन अधर्मोऽपि गृह्यते । यतः सर्वकर्माभवः अत्र विवक्षितः ।
“नाविरतो दुश्चरितात्” “त्यज धर्माधर्मं च” इत्यादिश्रुतौ धर्माधर्मयोरपि हेयत्वम्
उपदिष्टम् । तथा च सर्वधर्मपरित्यागो नाम सर्वकर्मसंन्यासः । “मामेकं सरणं व्रज” –
सर्वभूतेषु गूढं यदद्वितीयं चैतन्यं तदेव परिच्छिन्नत्वेन लक्ष्य़माणः संसारी जीवोऽपि
इत्यात्मनः अद्वितीयत्वम् अवधारय इत्यर्थः । अयमर्थः गीतायाम् अन्यत्रापि –
“अविभक्तं च भूतेषु विभक्तमिव च स्थितम्” “क्षेत्रज्ञं चापि मां विद्धि”
इत्यादिश्लोकेषु निरूपितः । एवमात्मैक्यज्ञाने सति धर्माधर्मप्रयुक्तसंसारबन्धनात्
मोक्षो भविष्यति । अद्वितीयं परमात्मानमॆव प्रार्थयमानं स परमात्मा एव स्वस्वरूपज्ञानेन
अज्ञानं निवर्तयन् तत्प्रयुक्तं बन्धमपि निवर्तयति । स्वप्रकाशोऽपि परमात्मा मायया
आवृतः सन् अप्रकाशमानः तत्त्वज्ञानिनां बुद्धौ प्रकाशते । तथा च श्रुतिः – “यमेवैष
वृणुते तेन लभ्यः । तस्यैष आत्मा विवृणुते तनूं स्वाम्”॥ इति । इहाऽप्युक्तम् –
“नाहं प्रकाशः सर्वस्य योगमाया समवृतः” “मामेव ये प्रपद्यन्ते मायामेतां तरन्ति
ते” इति । किञ्च “अशोच्यानन्वशोचस्त्वम् - - - मा शुच” इत्युपक्रमोपसंहाराभ्यां
शॊकनिवृत्तिसाधनोपशोधार्थं गीताशास्त्रस्य आरब्धत्वात् शोकनिवृत्तेश्च
एकत्वज्ञानमेव साधनमिति “तत्र को मोहः कः शोक एकत्वमनुपश्यतः”
इत्यादिश्रुत्युपदेशात् आत्मैकत्वदर्शनमेव शोकनिवृत्तिसाधनमिति गीताशास्त्रे
प्रतिपाद्यो विषयः । तस्मादेव “शुनि चैव श्वपाके च पण्डिताः समदर्शिनः” “समं
सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम्” इति पुनः पुनः भगवान् आत्मैकत्वं निश्चाययति
।
अत्र
“कुरु कर्मैव तस्मात्त्वम्” “कर्मण्येवाधिकारस्ते” इत्यादिवचनैः कर्मणामपि
अवश्यकर्तव्यत्वप्रतिपादनात् कथं कर्मसंन्यासः भगवदभिप्रेतः स्यात् इति शङ्कायामुच्यते
– “ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम्” इत्युक्तरीत्या कर्मज्ञानयोः भिन्नाधिकारिविषयत्वात्
कर्मविधायकवाक्यानामपि चित्तशुद्धिमप्राप्तं पुरुषं प्रति प्रवृत्तानि ।
चित्तशुद्धौ तु जातायां मुमुक्षुः ज्ञानसाधनानाम् अनुष्ठानार्थं कर्माणि
संन्यसेदेव । तथा चोक्तम् – “सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी” इति ।
एवमेव भक्तियोगाद्युपायाः अपि तत्त्वज्ञानमेव अभिलक्ष्य उपदिष्टाः सन्ति ।
ज्ञानमिव कर्मभक्त्यादिसाधनान्यपि मोक्षमेव साधयन्ति इति शङ्का न कार्या,
कर्माद्युपायानाम् अज्ञानाविरोधित्वेन अज्ञाननिवृत्तिरूपमोक्षं प्रति साक्षात्साधनत्वासम्भवात्
। “सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते” “ज्ञानेन तु तदज्ञानं ह्येषां
नाशितमात्मनः” इत्येवं स्वयं भगवान् सुस्पष्टं ज्ञानस्यैव मोक्षसाधनत्वं विशदीचकार
। तस्मात् सर्वधर्मानित्यादिप्रकृतश्लोकः सर्वकर्मसंन्यासपूर्वकात्मैक्यज्ञानम्
अज्ञानजन्यपुण्यपापफलरूपसंसारनिवर्तकम् इत्यर्थं बोधयति ।
************************************************************************************************************
अथातो ब्रह्मजिज्ञासा
भगवान् बादरायणः
शारीरकमीमांसाशास्त्रमारभमाणः वेदान्तवाक्यकुसुमग्रथनार्थानि सूत्राणि प्रणयन्
मुमुक्षुलोकमुद्दिश्य “आत्मा वा अरे द्रष्टव्यः” इत्यात्मदर्शनमनूद्य “श्रोतव्यः”
इति श्रवणविधायकं वाक्यं मनसि निधाय इदमाद्यं सूत्रं व्यरीरचत् “अथातो
ब्रह्मजिज्ञासा” इति । सूत्रमिदम् अथ अतः ब्रह्मजिज्ञासा इति पदत्रयघटितम् ।
सूत्रस्यास्य अनुवादकत्वपरिहाराय “कर्तव्या” इति विधायकं पदम् अध्याह्रियते ।
अस्मिन् सूत्रे श्रूयमाणः अथशब्दः किमर्थः इति जिज्ञासायाम् –
“मंगलानन्तरारम्भप्रश्नकार्त्स्न्येष्वथो अथ” इति कोशात् सत्स्वपि अथशब्दस्य
अनेकेष्वर्थेषु मंगलारम्भानन्तर्यरूपाः त्रयः अर्थाः प्रसक्ताः । तत्र
ब्रह्मजिज्ञासायाः अनधिकार्यत्वात् अथशब्दार्थः नारम्भः । नापि मंगलार्थः ।
शंखवीणादिध्वनिवत् अर्थान्तरे प्रयुक्तः अथशब्दः श्रवणमात्रेण मंगलं जनयतीति
मंगलरूपः अर्थः वाक्यार्थे न समन्वेति । अतः आनन्तर्यमेव अथशब्दार्थः ।
धर्मब्रह्मजिज्ञासयोरुभयोरपि वेदैकवेद्यत्वात् स्वाध्यायानन्तर्यं
धर्मजिज्ञासायामिव अत्रापि समानम् । धर्मजिज्ञासोत्तरं कर्मज्ञानं सम्पाद्य ततो
ब्रह्मजिज्ञासा इत्येतदयुक्तम् । जन्मान्तरकृतकर्मप्रयुक्तचित्तशुद्धिं सम्प्राप्तस्य
अधीतवॆदान्तस्य धर्मजिज्ञासाः प्रागपि ब्रह्मजिज्ञासा उत्पद्येत । अतः अथशब्दार्थः
न कर्मावबोधानन्तर्यम् । नापि अथशब्दः “हृदयस्याग्रे अवद्यति । अथ जिह्वायाः । अथ
वक्षसः” इत्यादाविव क्रमज्ञानार्थः । धर्मब्रह्मजिज्ञासयोः अंगांगिभावस्य अधिकृताधिकारस्य
वा अभावेन एककर्तृकत्वाभावत् । धर्मब्रह्मजिज्ञासयोः फलतः विषयतः प्रमाणतश्च
भिन्नत्वादपि तयोः क्रमः न विवक्षितः । तस्मात् अन्वयव्यतिरेकाभ्यां
ब्रह्मजिज्ञासायाः यत्कारणमिति निश्चीयते तदानन्तर्यम् अथशब्दार्थः । तच्च कारणं
नित्यानित्यवस्तुविवेकादिसाधनचतुष्टयसम्पत्तिः । यथोक्तं भाष्ये – “तेषु हि सत्सु
प्रागपि धर्मजिज्ञासाया ऊर्ध्वं च शक्यते ब्रह्म जिज्ञासितुं ज्ञातुं च न
विपर्यये” इति ।
एवं
नित्यानित्यवस्तुविवेकाद्यानन्तर्यम् अथशब्दार्थः इति सिद्धे “ब्रह्मैव नित्यं
वस्तु तदन्यत्सर्वमनित्यम्” इति विवेको न जायते “अक्षय्यं ह वै चातुर्मास्य याजिनः
सुकृतम्” इत्यादिश्रुतौ कर्मफलादीनामपि नित्यत्वश्रवणात् इत्याक्षेपस्य
समाधानार्थत्वेन अतः शब्दः प्रयुक्तः । यस्मात् “तद्यथेह कर्मचितो लोकः क्षीयत
एवमेवामुत्र पुण्यचितो लोकः क्षीयते” इति “यत्कृतकं तदनित्यम्” इति न्यायोपेतश्रुतिः
कर्मफलादीनामनित्यत्वं दर्शयति अकृतकः ब्रह्मभावः मोक्षः इत्यर्थे
“ब्रह्मविदाप्नोति परम्” इत्यादिश्रुतिः ब्रह्मज्ञानफलस्य मोक्षस्य नित्यत्वं
श्रावयति । तस्मात् इति अतः शब्दः साधनचतुष्टयसम्पत्तिं द्रढयति ।
बृहि वृद्धौ इत्यस्मात् धातोः निष्पन्नः
ब्रह्मशब्दः बृहत्वे संकोचकाभावात् देशकालवस्तुपरिच्छेदशून्यं निरतिशयं बृहत्वं
वदति । तस्य च ब्रह्मशब्दस्य “जन्माद्यस्य यतः” इत्यग्रिमसूत्रबलात् ब्राह्मणत्वादिजातिरूपः
अर्थः न गृह्यते । ब्रह्मणो जिज्ञासा ब्रह्मजिज्ञासा इति “कर्तृकर्मणोः कृति” इति
सूत्रविहिता कर्मणि षष्ठी जिज्ञासाया विषयो ब्रह्म इति ज्ञापयति । यद्यपि “षष्ठी
शेषे” इति विहितायाः षष्ठ्याः सम्बन्धार्थत्वेन सकर्मकक्रियासन्निधानात् सः
सम्बन्धः कर्मत्वे पर्यवस्यति । तथापि साक्षादेव कर्मत्वे लभ्यमाने अशाब्दं
कर्मत्वं न कल्पनीयम् । प्रधानस्य ब्रह्मणो ग्रहणेनैव तदाश्रिताशेषविचाराः
प्रतिज्ञाता भवन्तीति कर्मणि षष्ठी इत्येव युक्तः पक्षः । तथा सति
“तद्विजिज्ञासस्व” “तद्ब्रह्म” इति सक्षात् श्रुत्युक्तं ब्रह्मणः
जिज्ञासाकर्मत्वमनुगतं भवति । जिज्ञासापदे प्रकृतिभूतस्य ज्ञाधातोः अवगतिपर्यन्तं
ज्ञानमित्यर्थः । तस्यैव ज्ञानस्य अविद्यानवर्तकत्वेन पुरुषार्थे पर्यवसानात्
युक्तं तस्य इच्छाविषयत्वम् ।
अत्रैवमाक्षेपः – जिज्ञास्यं ब्रह्म प्रसिद्धमप्रसिद्धं
वेति । यदि प्रसिद्धं तर्हि ज्ञातत्वान्न पुनर्जिज्ञासितव्यम् । यद्यप्रसिद्धं नैव
शक्यं जिज्ञासितिम् । तत्र समाधानम् - जिज्ञास्यत्वेन
प्रतिज्ञातं ब्रह्म लोके अहम्प्रत्ययविषयत्वेन अर्थादात्मत्वेन ज्ञातमेव । यथोक्तं
भाष्ये – “ सर्वो हि आत्मास्तित्वं प्रत्येति । न नाहमस्मि इति । यदि हि
नात्मास्तित्वप्रसिद्धिः स्यात् तर्हि सर्वो लोकः नाहमस्मीति प्रतीयात्” इति ।
तथापि आत्मस्वरूपविषये दार्शनिकानां बहुधा विप्रतिपत्तिदर्शनात् सर्वात्मभूतं
निर्विशेषं निष्प्रपंचम् अद्वैतं ब्रह्म इत्यर्थस्य अनिश्चितत्वात् तदर्थं युक्ता
ब्रह्मजिज्ञासा । तथा च वेदान्तवाक्यविचाररूपायाः ब्रह्मजिज्ञासायाः ब्रह्मावगतौ
पर्यवसानेन निःश्रेयसहेतुत्वाद् ब्रह्मजिज्ञासा कर्तव्या ॥
*********************************************************************************************
अध्यासः
अनाद्यविद्याभिसम्बद्धः सर्वोऽपि जीवः स्वस्वरूपाज्ञानेन
नित्यशुद्धबुद्धमुक्तसत्यस्वभावे आत्मनि अन्तःकरणाद्यनात्मतद्धर्मानध्यस्य
कामकर्मसमारब्धसंसारसागरे आवर्तादावर्तान्तरं कीट इव जन्मनो जन्मान्तरं
प्राप्नुवन् दुःखसाहस्रमनुभवति । शारीरकमीमांसाशास्त्रमारभमाणो भगवान् सूत्रकारः
शास्त्रारम्भोपयोगितया विषयप्रयोजनं च निर्दिदिक्षुः ब्रह्मज्ञानस्य
बन्धनिवर्तकत्वं सूत्रयन् निवर्त्यमानस्य बन्धस्य अध्यस्तत्वं सूचयाम्बभूव । तत्र
“युष्मदस्मत्प्रत्ययगोचरयोः” इत्यादिना परस्परविरुद्धधर्मवत्वात् आत्मानात्मनोः
धर्मैक्याध्यासः तद्धर्माणां च संसर्गरूपाध्यासो वा अयुक्तः इत्याशङ्कायां
भाष्यकारैः “अहं स्थूलः” “ममेन्द्रियम्” इत्याद्यध्यासस्य लोकसिद्धत्वात् अध्यासः
अपलपितुं न शक्यते इति समाहितम् । स च अध्यासः भाष्यकारैः लक्षणसम्भावनाप्रमाणैः
साधितोऽपि । “कोऽयमध्यासो नामेति” इत्याक्षिप्य भाष्यम् अध्यासं लक्षयितुमवादि -“स्मृतिरूपः
परत्र पूर्वदृष्टावभासः” इति । अत्र “परत्र अवभासः” इत्येव लक्षणम् । अनेन
“स्वात्यन्ताभाववति अवभास्यत्वम्” इत्यर्थो लभ्यते । तदेव “एकावच्छेदेन
स्वसंसृज्यमाने स्वात्यन्ताभाववति अवभास्यत्वम्” इति व्याख्यानॆ परिष्कृतम् ।
मूलाग्रावच्छेदेन वृक्षे कपिसंयोगः तदभावश्च वर्तते इति संयोगेऽतिव्याप्तिवारणाय
एकावच्छेदेनेति दलम् । पूर्वं घटाभाववति भूतले पश्चादानीतो घटो भासते इति तस्मिन्
घटेऽतिव्याप्तिवारणाय स्वसंसृज्यमानत्वं विशेषणम् । भूत्वावच्छेदेन
पृथिव्यामवभास्यमाने गन्धेऽतिव्याप्तिवारणाय स्वात्यन्ताभाववति इति विशेषणम् ।
शुक्तौ रजतावयवानामभावात् तत्र रजतावभासासम्भवः इत्याशङ्कायां पूर्वदर्शनात्
संस्कारद्वारा शुक्तौ रजतमवभासते इति नासम्भवः इत्येतत् सूचनार्थं
स्मृतिरूपपूर्वदृष्टेति पदनिवॆशः । भामतीकारास्तु “अवसन्नोऽवमतो वा भासः अवभासः”
इति व्याचक्षाणाः अवभासपदमात्रम् अध्यासं लक्षयितुं समर्थमिति व्याख्यन् ।
स च अध्यासः सोपाधिकनिरुपाधिकभेदेन
द्विवधः । “शुक्तिका हि रजतवदवभासते” इत्यनेन निरुपाधिकोऽध्यासः “एकश्चन्द्रः
सद्वितीयवद्” इत्यनेन सोपाधिकोऽध्यासश्च भाष्ये दर्शितः । यद्यपि अधिष्ठानारोप्यस्वरूपे
मतभेदाद्दार्शनिका अध्यासविषये विप्रतिपद्यन्ते । तत्र नैय्यायिकाः
अन्यथाख्यातिवादिनः अन्यत्र शुक्त्यादौ अन्यधर्मस्य देशान्तररजतस्य अध्यास इति
वदन्ति । आत्मख्यातिवादिनः बाह्यशुक्त्यादौ आन्तरविज्ञानधर्मस्य रजतस्याध्यास इति
वदन्ति । शून्यवादिनस्तु रजतादेः अत्यन्तासतः कल्पनामचक्षते । एवमपि परत्र
परावभासः इत्यध्यासलक्षणं सर्वत्र समानम् ।
शब्दान्तरेण
उत्तरत्र अध्यासलक्षणमुक्तं भाष्यकारैः “अध्यासो नाम अतस्मिंस्तद्बुद्धिः” इति ।
यथा – पुत्रभार्यादिषु सकलेषु विकलेषु वा अहमेव विकलः सकलो वा इति
बाह्यधर्मानात्मन्यध्यस्यति । एवमेव “स्थूलोऽहम्” “कृशोऽहम्” इत्यादि देहधर्माः
“अन्धोऽहम्” “काणोऽहम्” इत्यादीन्द्रियधर्माः “कामसंकल्पा”द्यन्तःकरणधर्माश्च
आत्मन्यध्यस्यन्ते इति लोकव्यवहाराज्ज्ञायते । आत्मनः शुक्त्यादेरिव
इन्द्रियगोचरत्वाभावेन अविषयत्वात् तत्र विषयतद्धर्माणां च अध्यासः असम्भवः इति
चेदुच्यते – अविषयस्यापि आत्मनः अस्मत्प्रत्ययविषयत्वात् स्वप्रकाशत्वाच्च
अध्यासाधिष्ठानत्वं युक्तम् । अप्रत्यक्षे ह्याकशे तलमलिनताद्यध्यासात्
अध्यासाधिष्ठानस्य प्रत्यक्षत्वनियमो नास्तीति ज्ञायते । अध्यास एव
अविद्याकार्यत्वात् अविद्येति सत्यानृतमिथुनीकरणमिति च व्यवह्रियते । सर्वोऽपि
लौकिकवैदिकव्यवहारः प्रत्यक्षादिप्रमाणानि विधिप्रतिषेधमोक्षशास्त्राणि च अध्यासं
पुरस्कृत्यैव प्रवर्तन्ते । यतः देहेन्द्रियादिषु यद्यात्मभावो नाध्यस्यते तर्हि
असङ्गस्य आत्मनः प्रमातृत्वस्यैव असम्भवात् प्रमातृत्वपूर्वकप्रमाणप्रवृत्तिः
अध्यासमूला । इयं च प्रवृत्तिः पश्वादेः पुरुषाणां च समाना । शब्दादिवज्ञाने
प्रतिकूले जाते यथा पश्वादयः पलायन्ते अनुकूले च तत्र प्रवर्तन्ते तद्वत् पुरुषा
अपि व्युत्पन्नचित्ताः प्रतिकूलाद्विषयान्निवर्तन्ते अनुकूले विषये प्रवर्तन्ते
इति उभयोः सामान्यदर्शनात् पुरुषाणामपि आत्माज्ञानप्रयुक्तमध्यासवत्वं निश्चीयते ।
आत्मनि वर्णाश्रमादिविशेषाध्यासमाश्रित्यैव “ब्राह्मणो यजेत” इत्यादिशास्त्रीयव्यवहारोऽपि
प्रवृत्तः । यद्यपि पारलौकिकफलेषु कर्मसु प्रवर्तमानानां पुरुषाणां
देहादिव्यतिरिक्तत्वेन रूपेण आत्मज्ञानमस्ति तथापि तैः
वेदान्तवेद्यमशनयाद्यतीतमपेतब्रह्मक्षत्रादिभेदमसंसार्यात्मतत्त्वं न ज्ञायते ।
एवमध्यासः सर्वलोकप्रत्यक्षः । अयं च अध्यासः अविद्याजन्यत्वात्
वेदान्तप्रतिपाद्यात्मज्ञानेन अविद्यानिवृत्तौ निवर्तते । यथोक्तं भाष्ये –
“अस्यानर्थहेतोः प्रहाणायात्मैकत्वविद्याप्रतिपत्तये सर्वे वेदान्ता आरभ्यन्ते”
इति ॥
*********************************************************************************************
जन्माद्यस्य यतः
भगवान् बादरायणः ब्रह्मजिज्ञासां प्रतिज्ञाय जिज्ञास्यस्य
ब्रह्मणः लक्षणाकांक्षायामिदं सूत्रं सूत्रयामास “जन्माद्यस्य यतः” इति । इदं
जन्मादि अस्य यतः इति पदत्रयघटितं सूत्रम् । जगज्जन्मस्थितिलयकारणत्वं ब्रह्मणो
लक्षणमिति वक्तुमिदं सूत्रं प्रवर्तते । जन्म आदिः अस्य इति जन्मादि इति
तद्गुणसंविज्ञानो बहुव्रीहिः । जन्मादि इति नपुंसकैकवचनद्योतितस्य समाहारस्य
जन्मस्थितिभंगस्य जन्म विशेषणम् । तस्य समासार्थैकदेशस्य जन्मनः गुणत्वेन समासे संविज्ञानमस्ति
। अतः जन्मादि इति पदं जन्मस्थितिलयान् बोधयति । “यतो वा इमानि भूतानि जायन्ते ।
येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंविशन्ति” इत्यस्यां श्रुतौ
जन्मस्थितिप्रलयानां क्रमदर्शनात् जन्मना लब्धसत्ताकस्य स्थितिप्रलयसम्भवात् जन्मन
एव आदौ ग्रहणं कृतम् । अस्येति इदं शब्देन प्रत्यक्षादिप्रमाणोपस्थापितः प्रपंचः
निर्दिश्यते । तत्र षष्ठ्या जन्मादि धर्माणां प्रपंचस्य धर्मिणश्च सम्बन्धो
बोध्यते । यत इति पदं जगत्कारणं निर्दिशति । एतावता निष्पन्नः सूत्रार्थः भाष्ये
एवं दर्शितः – “अस्य जगतो नामरूपाभ्यां व्याकृतस्य अनेककर्तृभोक्तृसंयुक्तस्य
प्रतिनियतदेशकालनिमित्तक्रियाफलाश्रयस्य मनसाप्यचिन्त्यरचनारूपस्य जन्मस्थितिभंगं
यतः सर्वज्ञात् सर्वशक्तॆः कारणाद् भवति तद्ब्रह्मेति । न यथोक्तविशेषणस्य जगतो न
यथोक्तविशेषणमीश्वरं मुक्त्वान्यतः प्रधानादचेतनादणुभ्योभवात्संसारिणो वोत्पत्त्यादिसम्भावयितुं
शक्यम्” इति च । तथा च नामरूपाभ्यां व्याकृतस्येत्यादिविशेषणविशिष्टस्य प्रपंचस्य
सर्वज्ञं सर्वशक्तं ब्रह्मैव कारणम् । इदं च कारणत्वं न केवलं निमित्तत्वं किन्तु
उपादानत्वमपीति “प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात्” इत्यधिकरणाज्ज्ञायते ।
ईश्वरः प्रपञ्चस्य निमित्तकारणमिति नैयायिका अपि वदन्ति । वेदान्तिनस्तु
अध्यारोपापवादन्यायेन द्वैतप्रपञ्चस्य मिथ्यात्वसिद्ध्यर्थं प्रपञ्चस्योपादानमपि
ब्रह्मैवति सङ्गिरन्ते । “वाचारम्भणं विकारो नामधेयं मृत्तिकेत्यव सत्यम्” इति
ब्रह्मणः दृष्टान्ततया आम्नाता मृद् घटस्येव ब्रह्म प्रपञ्चस्योपादानमपि इत्यर्थो
ज्ञायते । सूत्रे अस्येति कर्यस्य जगतः इदन्तया निर्देशः मूलश्रुत्यनुसारेण
परिदृश्यमानविविधवैचित्र्यज्ञापनार्थः । मूलश्रुतावपि भूतानीत्यनेनैव कार्यवर्गे
अभिहिते तदर्थज्ञापनायैव इमानि इति पदम् । तज्ज्ञापनन्तु ईदृशस्य कार्यवर्गस्य
ब्रह्मणोन्यस्मादल्पज्ञानादल्पशक्तेः संसारिणः उत्पत्तिः न सम्भावयितुं न शक्यते
इति सूचनार्थम् ।
अत्र जन्मस्थितिभंगैः निरूपतानि त्रीणि कारणत्वानि
मिलितान्येव लक्षणम् । अत एव जन्मादिसूत्रे समाहारो दर्शितः । केचित्तु “अन्तर्याम्यधकरणे”
स्थितिकारणत्वमात्रस्य “अत्ता चराचरग्रहणात्” इति संहारकारणत्वमात्रस्य च
ब्रह्मलिंगतया उपन्यासात् जन्मादिकारणत्वं प्रत्येकं लक्षणमिति वदन्ति । जन्मादि
इत्यादिपदेन श्रुत्युक्ताः जन्मस्थितलया एव गृह्यन्ते । यास्कोक्तानां षण्णां
भावविकाराण्णामत्रैव अन्तर्भावात् । यस्केन भौतिकपदार्थानुद्दिश्य षण्णां
भावविकाराणां निर्देशात् सर्वजगत्कारणत्वस्य तत्र अविवक्षितत्वात् न ते विकाराः इह
ग्रहणमर्हन्ति ।
अनेन सूत्रेण नैय्यायिका इव सूत्रकारॊपि
कार्यत्वलिंगकानुमानं विवक्षतीत्याशंका तु भाष्यकारैरेव निरस्ता
“वेदान्तवाक्यकुसुमग्रथनार्थत्वात्सूत्राणाम् । वेदान्तवाक्यानि हि
सूत्रैरुदाहृत्य विचार्यन्ते” इति । श्रुत्यैव जगत्कारणं ब्रह्मेत्यवगम्यमाने
तदर्थग्रहणदार्ढ्याय श्रुतिमतस्तर्कोपि आद्रियते इति मननविधायकशास्त्रादवगम्यते । तथा
च नैय्यायिकानामनुमानस्यापि जगत्कारणत्वबोधिका श्रुतिरेव मूलम् । धर्मजिज्ञासायां
तु धर्मस्य प्रत्यक्षत्वायोगात् तत्र तर्काः स्थानं न लभन्ते । धर्मस्य
कृतिविषयत्वात् अत एव पुरुषेण कर्तुमकर्तुमन्यथा वा कर्तुं शक्यत्वात् कर्तव्यो
विषयः अनुभवनिरपेक्षः । ब्रह्मज्ञानस्य तु वस्तुतन्त्रत्वात् अत एव
पुरुषव्यापाराविषयत्वात् परिनिष्पन्ने ब्रह्मणि श्रुत्यादयः अनुभवादयश्च यथासम्भवं
प्रमाणम् । यद्यपि ब्रह्म भूतं वस्तु तथापि ब्रह्मणः प्रत्यक्षाद्यविषयत्वात्
वेदान्तवाक्यमेव ब्रह्मणि प्रमाणम् । कार्यत्वलिंगकानुमानेनापि जगत्कारणं किञ्चिदस्तीति
ज्ञायते न तु परब्रह्माभिधेयः कारणविशेषः अवगम्यते । तस्मात् जन्मादिसूत्रं
वेदान्तवाक्यप्रदर्शनार्थं न तु अनुमानोपन्यासार्थम् । यद्यपि जगत्कारणत्वं
ब्रह्मणः तटस्थलक्षणं तथापि निगमनवाक्ये – “आनन्दो ब्रह्मेति व्यजानात् ।
आनन्दाद्ध्येव खल्विमानि भूतानि जायन्ते । आनन्देन जातानि जीवन्ति । आनन्दं
प्रयन्त्यभिसंविशन्ति” इति श्रवणात् स्वरूपलक्षणमपि प्रदर्शितं भवति । केचित्
आद्यस्य हिरण्यगर्भस्य जन्म यतः इति सूत्रं योजयन्ति । सोप्यर्थः सूत्रमूलभूतं
लक्षणवाक्यं हिरण्यगर्भपरमिति शंकानिरासार्थत्वेन सूत्रावृत्या विवक्षितुं शक्यते
इति नोपेक्षणीयः ॥
*********************************************************************************************
तत्तु
समन्वयात्
भगवान् बदरायणः ब्रह्मजिज्ञासां प्रतिज्ञाय ब्रह्मणो
जगज्जन्मादिकारणत्वं लक्षणं प्रदर्श्य अस्मिन् ब्रह्मणि शास्त्रमेव
प्रमाणमित्यस्मिन्नर्थे “शास्त्रयोनित्वात्” इत्यसूत्रयत् । एतदसहमानाः मीमांसकाः
समन्वयाधिकरणे पूर्वपक्षत्वेन प्रत्यवतिष्ठन्ते । तेषामाक्षेपः भाष्ये एवमनूदितः –
“कथं पुनः ब्रह्मणः शास्त्रप्रमाणकत्वमुच्यते । यावता “आम्नायस्य
क्रियार्थत्वादानर्थक्यमतदर्थानाम्” इति क्रियापरत्वं शास्त्रस्य प्रदर्शितम् । अतो
वेदान्तवाक्यानामानर्थक्यमक्रियार्थत्वात् । कर्तृदेवतादिप्रकाशनार्थत्वेन वा
क्रियाविधिशेषत्वम् उपासनादिक्रियान्तरविधानार्थत्वं वा” इति । पूर्वतन्त्रे
“चोदनालक्षणोर्थो धर्मः” इति क्रियाविधायकवाक्यानां प्राधान्यं स्थापितम् । तदा
“इषे त्वा” इत्यादिमन्त्राणां “वायुर्वै क्षेपिष्ठा देवता” इत्याद्यर्थवादानां च
अक्रियात्वेनार्थक्यमाशंक्य “विधिना त्वेकवाक्यत्वात् स्तुत्यर्थेन विधीनां स्युः”
इति सूत्रमवतारितम् । तत्र अर्थवादवाक्यानां विधेयार्थस्तुतिद्वारा मन्त्राणां च
क्रियातत्साधनस्मरणद्वारा च विध्येकवाक्यतां सम्पाद्य सार्थक्यमुपपादितम् ।
एतदनुसारं वेदान्तवाक्यानामपि अक्रियार्थत्वेनार्थक्यं प्राप्तम् ।
क्रियासंस्पर्शहीनं केवलं ब्रह्मस्वरूपमात्रं वेदान्तेषु प्रतिपाद्यते ।
परिनिष्ठितवस्तुनः प्रमाणान्तरयोग्यत्वेन शास्त्राविषयत्वात् । अतः फलवत्वाय
अपूर्वार्थत्वाय च तत्पदार्थवाक्यानां यागांगदेवतायाः त्वम्पदार्थवाक्यानां च
कर्तुः स्तावकत्वं वक्तव्यम् । यदि कर्मप्रकरणाभावात् इदं मतमयुक्तमिति मन्यते
तर्हि ब्रह्मणः “आत्मेत्येवोपासीत” इति स्ववाक्यगतोपासनादिपरत्वं स्यादिति
प्राप्तॆ सिद्धान्तः सूत्रितः “तत्तु समन्वयात्” इति । भाष्यं च – “तद्ब्रह्म
सर्वज्ञं सर्वशक्ति जगदुत्पत्तिस्थितिलयकारणं वेदान्तशास्त्रादेवावगम्यते” । “सर्वेषु
हि वेदान्तेषु वाक्यानि तात्पर्येणेतस्यार्थस्य प्रतिपादकत्वेन दृश्यन्ते” इति ।
सम्यक् अन्वयः समन्वयः तात्पर्यविषयत्वमित्यर्थः । तात्पर्यस्य सम्यक्त्वम् अखण्डार्थविषयत्वम्
।
सर्वाणि वेदान्तवाक्यानि
उपक्रमादितात्पर्यलिंगोपेतानि अद्वितीयब्रह्मप्रतिपादकत्वेन दृश्यन्ते । यथा –
छान्दोग्यषष्ठाध्याये “एकमेवाद्वतीयम्” “ऎतदात्म्यमिदं सर्वं स आत्मा”
इत्युपक्रमोपसंहारयॊः ऎकरूप्यम् । “तत्त्वमसि” इति नववारमभ्यासः । आत्मैक्यस्य
मानान्तात् अनधिगम्यमानत्वात् अपूर्वत्वम् । “तस्य तावदेव चिरं यावन्न विमोक्ष्ये”
इति फलवत्वम् । “येनाश्रुतं श्रुतं भवति” इत्याद्यर्थवादः । “तेजसा सोम्य शुंगेन
सन्मूलमन्विच्छ” इत्येवं तात्पर्यलिंगानाम् अद्वितीयब्रह्मण्येव समन्वयो दृश्यते ।
एवमेव “आत्मा वा इदमेक एवाग्र आसीत्” इति ऋग्वेदीयैतरेयोपनिषदि “तदेतद्ब्रह्मापूर्वमनपरमनन्तरमबाह्यम्”
इति यजुर्वेदीयबृहदारण्यकॊपनिषदि “ब्रह्मैवेदममृतं पुरस्तात्” इति अथर्ववेदीयमुण्डकोपनिषदि
च वाक्यानि श्रूयन्ते ।
एवं वेदान्तानां ब्रह्मण्येव
तात्पर्ये निश्चीयमाने कार्यार्थत्वं न युक्तं श्रुतहान्यश्रुतकल्पनाप्रसंगात् “यत्परः
शब्दः स शब्दार्थः” इति न्यायाच्च । वेदान्तानां यागादिकर्तृस्तुतिपरत्वमपि न
सम्भवति । कर्मानष्ठानप्रसक्तावेव आत्मनः कर्तृत्वं स्यात् । वेदान्तास्तु “यत्र
त्वस्य सर्वमात्मैवाभूत् तत्केन कं पश्येत्” इति ज्ञेयस्य ब्रह्मणः
क्रियाकारकफलसम्बन्धं निराकुर्वन्ति । अतः अकर्तृब्रह्मस्वरूपे एव वेदान्तानां
तात्पर्यम् । “तत्त्वमसि” इत्युपदिश्यमानस्य ब्रह्मात्मभावस्य शास्त्रमन्तरेण
अनवगम्यमानत्वात् ब्रह्मणः प्रमाणान्तरविषयत्वमपि न सम्भवति । प्रवृत्तिं विना
ज्ञानमात्रेणैव पुरुषार्थसिद्धौ प्रवृत्त्यजनकत्वमपि वेदान्तानां भूषणमेव ।
तदुक्तम् –
“आत्मानं चेद्विजानीयात् अयमस्मीति पूरुषः ।
किमिच्छन् कस्य कामाय शरीरमनुसञ्ज्वरेत्” ॥ इति ।
अर्थवादादीनां तु स्वार्थे फलाभावात् स्तुतौ लक्षणा स्यात्
। तथा चानुमानम् – “अखण्डं ब्रह्म वेदान्तजन्यप्रमाविषयः
वेदान्ततात्पर्यविषयत्वात् यो यद्वाक्यतात्पर्यविषयः सः तद्वाक्यप्रमेयः यथा
कर्मवाक्यप्रमेयो धर्मः” इति । तस्मात् फलवदज्ञातार्थज्ञापकत्वेन विधिवाक्यानामिव
उपनिषद्वाक्यानामपि प्रामाण्यसम्भवात् उपनिषदाख्यं शास्त्रं ब्रह्मणि प्रमाणमेव
इति सिद्धम् ॥
� विवक्षितुं शक्यते
इति नोपेक्षणीयः ॥
*********************************************************************************
द्वितीयवर्णकम् {तत्तु समन्वयात्}
शारीरकमीमांसाशास्त्रे ब्रह्मणः
शास्त्रप्रमाणकत्वं प्रदर्श्य तच्च उपनिषदाख्यं शास्त्रं ब्रह्मणि प्रमाणमेव न तु
क्रियायामिति समन्वयाधिकरणस्य प्रथमवर्णके साधितम् । ततः सर्वेषां पदानां
कार्यान्वितार्थे शक्तिवादिनः विधिशेषत्वेन ब्रह्म वेदान्तैः बोध्यते न स्वातन्त्र्येणेति
वदन्तः वृत्तिकाराः प्रत्यवतिष्ठन्ते । तेषामयमाशयः – पूर्वतन्त्रे शास्त्रस्य
कार्यपरत्वस्य सिद्धान्तितत्वात् कार्यशेषत्वेनैव अन्येषामपि बोधनात्
वेदान्तानामपि कार्यपरत्वमेव आस्थेयम् । यथा यूपावहनादीनि अलौकिकान्यपि वस्तूनि
विधिशेषतया शास्त्रेण समर्प्यन्ते । तथैव शास्त्रप्रमाणकमपि ब्रह्म
उपासनाविधिशेषत्वेन समर्प्यते । यथा स्वर्गादिफलमुद्दिश्य तत्साधनमग्निहोत्रादिकं
विधीयते । तथैव अमृतत्वमुद्दिश्य ब्रह्मज्ञानं विधीयते । “आत्मानमेव लोकमुपासीत”
“ब्रह्म वेद ब्रह्मैव भवति”
इत्यादिविधानेषु सत्सु कोसावात्मा किं तद्ब्रह्म इत्याकांक्षायां
तत्स्वरूपसमर्पणेन सर्वे वेदान्ता उपयुक्ताः – नित्यः सर्वज्ञः सर्वगतो
नित्यतृप्तो नित्यशुद्धबुद्धमुक्तस्वभावो विज्ञानमानन्दं ब्रह्म इत्येवमादयः ।
तदुपासनाच्च शास्त्रदृष्टोदृष्टो मोक्षः फलं भविष्यति” इति । शास्त्रस्य वस्तुमात्रपरत्वे
हानोपादानासम्भवात् सप्तद्वीपा वसुमती इत्यादिवाक्यवत् वेदान्तानामानर्थक्यमेव
स्यात् । श्रुतब्रह्मणोपि यथापूर्वं संसारित्वदर्शनात् श्रवणव्यतिरेकेण
मननादिसाधनविधानाच्च वस्तुस्वरूपज्ञानमात्रस्य संसारनिवर्तकत्वं नास्तीति ज्ञायते
। तस्मात् ब्रह्मप्रतिपत्तिरूपकार्यपरैः वेदान्तैः प्रतिपत्तिनियगशेषतया ब्रह्म
बोध्यते न स्वातन्त्र्येणेति पूर्वपक्षः ।
सिद्धान्तस्तु –
“वेदान्ताः न नियोगपराः स्वार्थे फलवत्वे सति नियोज्यरहितत्वात् नायं सर्प इति
वाक्यवत्” । “मोक्षः न विधिजन्यः कर्मफलविलक्षणत्वात्” । कर्मफलं हि तारतम्योपेतं
शरीरपरिग्रहसापेक्षं च । मोक्षस्तु अशरीरभावः सर्वेषां समानः । तथा च श्रुतिः – “न
ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति” । “अशरीरं वाव सन्तं न प्रियाप्रिये
स्पृशतः” इति प्रियाप्रियस्पर्शनप्रतिषेधेन मोक्षस्य कर्मफलरूपत्वं प्रतिषेधति । यदि मोक्षः ब्रह्मोपसनारूपकर्मफलं स्यात् तर्हि
अनित्यः स्यात् । “तत्र को मोहः कः शोक एकत्वमनुपश्यतः” इत्याद्याः श्रुतयः
ब्रह्मविद्यानन्तरं मोक्षं दर्शयन्त्यः मध्ये कार्यान्तरं वारयन्ति ।
ब्रह्मविद्या चेयं न सम्पदाद्युपासनरूपा । उपक्रमादिलिङ्गैः
अद्वितीयब्रह्मण एव प्रतिपाद्यत्वावगमात् । “अन्यदेव तद्विदितादथो अविदितादधि”
“नेदं यदिदमुपासते” इत्यादिश्रुतयः ब्रह्मणः विदिक्रियायाः उपासनक्रियायाश्च
अविषयत्वं दर्शयन्ति । अविषयस्यापि ब्रह्मणः शास्त्रप्रमाणकत्वं
वेदान्तजन्यवृत्तिप्रयुक्ताविद्यानिवृत्तिफलशालित्वात् । तदुक्तं भाष्ये – “न हि
शास्त्रमिदन्तया विषयभूतं प्रतिपिपादयिषति । किं तर्हि? प्रत्यगात्मत्वेनाविषयतया
प्रतिपादयदविद्याकल्पितं वेद्यवेदितृवेदनादिभेदमपनयति” इति । तस्मात् मोक्षाख्ये
फले क्रियायाः गन्धमात्रस्यापि अप्रवेशात् ज्ञानमेकमेव मोक्षस्य साधनम् । अपि च मोक्षः यदि कर्मफलं स्यात् तर्हि
उत्पाद्याद्यन्यतमः स्यात् । तत्र मोक्षः न तावदुत्पाद्यः नित्यत्वात् । न
विकार्यः अविक्रियात्मस्वरूपत्वात् । नाप्याप्यः स्वात्मत्वेन नित्यप्राप्तत्वात्
। नापि संस्कार्यः निर्दोषनिर्गुणत्वेन दोषनिवृत्तिगुणाधनयोरसम्भवात् । यद्यपि
ज्ञानमपि मानसी क्रिया । तथापि ज्ञानं वस्तुतन्त्रं ध्यानं तु
पुरुषतन्त्रमित्यस्ति भेदः । यथा प्रसिद्धे अग्नौ अग्निबुद्धिः वस्तुतन्त्रा
द्युपर्जन्यादिषु अग्निबुद्धिरूपं ध्यानं पुरुषतन्त्रम् ।
अत्र “द्रष्टव्यः” इत्यस्मिन्नंशे विधिर्नास्तीति
भामतीविवरणप्रस्थानयोः मतसाम्येपि “श्रोतव्यः” इत्यादिना श्रवणादिकं विधीयते इति
विवरणकाराः प्राहुः । भामतीकारास्तु श्रवणादेरपि ज्ञानरूपत्वात् ज्ञानस्य चाविधेयत्वात्
“श्रोतव्यः” इत्यादीन्यपि पदानि न विधायकानीति मन्यन्ते । अत एव “आत्मा वा अरे
द्रष्टव्यः” इति वाक्यं न विधिः किन्तु विधिच्छायावचनमात्रम् । यथोक्तं भाष्यकारैः
– “यो हि बहिर्मुखः प्रवर्तते पुरुषः इष्टं मे भूयादनिष्टं मा भूदिति न च
तत्रात्यन्तिकपुरुषार्थं लभते । तमात्यन्तिकपुरुषार्थवाञ्छिनं स्वाभाविकात्कार्यकरणसंघातप्रवृत्तिगोचराद्विमुखीकृत्य
प्रत्यगात्मस्रोतस्तया प्रवर्तयन्ति ’आत्मा वा अरे द्रष्टव्यः’ इत्यादीनि” इति ।
विधेरभावेन कार्यस्याप्यभावात् वेदान्तैः ब्रह्म न उपासनाविधिशेषत्वेन प्रतिपाद्यते
किन्तु स्वातन्त्र्येणैवेति सिद्धम् ॥
*********************************************************************************
शास्त्रयोनित्वात्
शारीरकमीमांसाशास्त्रे ब्रह्मजिज्ञासां प्रतिज्ञाय
सूत्रकारः जिज्ञास्यस्य ब्रह्मणः “जन्माद्यस्य यतः” इति सूत्रेण
जगज्जन्मादिकारणत्वं लक्षणम् असूत्रयत् । ततः परं तृतीयं सूत्रमिदमारब्धम् –
“शास्त्रयोनित्वात्” इति । अत्रैवं संगतिः – चेतनसृष्टेः ज्ञानपूर्वकत्वात्
जन्मादिसूत्रेण जगत्कारत्वोक्त्या ब्रह्मणः सर्वज्ञत्वम् अर्थात् सूत्रितम् । यथा
– “ब्रह्म सर्वज्ञं सर्वकारणत्वात् यो यत्कर्ता सः तज्ज्ञः” इति । इदमार्थिकं
सर्वज्ञत्वं प्रधानादिकारणान्तरनिरासाय वेदकर्तृत्वेन हेतुना
शास्त्रयोनित्वाधिकरणे दृढीयते इति पूर्वोत्तराधिकरणयोः एकविषयत्वं संगतिः । यद्वा
वेदस्य नित्यत्वेन उत्पत्त्यसम्भवात् ब्रह्मणः सर्वकारणत्वं न सम्भवतीत्याक्षेपसंगत्या
अस्याधिकरणस्योत्थितिः ।
तथा च – “अस्य महतो भूतस्य निःश्वसितमेतद्यदृग्वेदो
यजुर्वेदः सामवॆदोथर्वांगिरसः” इति वाक्यं विषयः । तत् किं वेदकारणत्वेन ब्रह्मणः
सर्वज्ञत्वं साधयति न वेति सन्देहः । तत्र ब्रह्मणः वेदकर्तृत्वे वेदस्य
पौरुषेयत्वापातात् यथा पौरुषेयग्रन्थाः मूलप्रमाणसापेक्षाः तद्वत् वेदस्यापि
प्रमाणान्तरसापेक्षत्वेन पूर्वतन्त्रोक्तस्य निरपेक्षप्रामण्यस्य भंगप्रसंगः । अतः
प्रागुक्तं वाक्यं ब्रह्मणः वेदकर्तृत्वं न साधयतीति पूर्वपक्षः । अत्रायं
सिद्धान्तः – “शास्त्रयोनित्वात्” इति । अस्यार्थः – “महतः ऋग्वेदादेः शास्त्रस्य
अनेकविद्यास्थानोपबृंहितस्य प्रदीपवत्सर्वार्थावद्योतिनः सर्वज्ञकल्पस्य योनिः
कारणं ब्रह्म” इति भाष्ये दर्शितः । एतेन सर्वज्ञकल्पस्य वेदस्य कारणत्वात्
ब्रह्मणः सर्वज्ञत्वं प्रगेव सिद्ध्यतीत्युक्तं भवति । तद्यथा – “यद्यच्छास्त्रं
यस्मादाप्तपुरुषात् सम्भवति सः ततः शास्त्रादधिकार्थविज्ञानः” इति लोके प्रसिद्धम्
। यथा शब्दसाधुत्वरूपाल्पार्थप्रतिपादकव्याकरणशास्त्रस्य प्रणेता पाणिनिः तस्मात्
शास्त्रात् अधिकमेवार्थं जानाति । यदि अल्पार्थमपि शास्त्रम् अधिकार्थज्ञात्
पुरुषात् सम्भवति तदा अनेकशाखादिविशेषणोपेतः सर्वार्थप्रकाशकः वेदः
पुरुषनिःश्वासवत् अप्रयत्नेनैव लीलान्यायेन यस्मात् पुरुषविशेषात् सम्भूतः किमु
वक्तव्यं तस्य पुरुषविशेषस्य सर्वज्ञत्वं सर्वशक्तित्वं च । ब्रह्मणः सर्वज्ञत्वं
तु द्वेधा सम्भवतीति व्याख्यनेषु दर्शितम् । ब्रह्मणः स्वप्रकाशचैतन्यरूपत्वात्
सर्वगतत्वाच्च स्वसंसृष्टसर्वार्थप्रकाशकत्वं सर्वज्ञत्वमिति एकः पक्षः ।
स्वोपाधिभूतमायावृत्तिरूपज्ञानवत्वमिति द्वितीयः ।
सूत्रे योनिशब्दः कर्तृत्वमुपादानत्वं
चेति द्विविधं कारणत्वं वक्ति । तत्र कर्तृत्वार्थपक्षे इदमनुमानमुक्तं भवति –
“वेदः स्वविषयादधकार्थज्ञानवज्जन्यः प्रमाणवाक्यत्वात्” इति । उपादानत्वपक्षे वेदे
सर्वार्थप्रकाशकत्वशक्तेः सद्भावात् वेदोपादाने ब्रह्मण्यपि सा सम्भवत्येवेति
अयमनुमानप्रयोगो ज्ञातव्यः “वेदगता सर्वार्थप्रकाशनश्क्तिः
तदुपादानब्रह्मगतशक्तिपूर्विका प्रकाशनशक्तित्वात् प्रदीपशक्तिवत्” इति । एवं
ब्रह्मणः वेदकारणत्वमात्रेण वेदस्य पौरुषेयत्वं तु नापद्यते । पुरुषेण
प्रमाणान्तरॆणार्थमुपलभ्य रचितत्वमेव पौरुषेयत्वम् । ईश्वरस्तु
स्वकृतपूर्वकल्पीयक्रमसजातीयक्रमवन्तं वेदराशिं विचित्रत्रिगुणमायासहायः
अनावृतानन्तरूपप्रकाशचिन्मात्रः अस्मिन्नपि कल्पे हिरण्यगर्भादिषु आवर्भावयति ।
अतः वेदस्य प्रमाणान्तरप्राप्तज्ञानपूर्वकरचितत्वाभावात् वेदः अपौरुषेय एव । न
चैवमपि वेदस्यानित्यत्वापत्तिः इष्टापत्तेः । न ह्यद्वैतवादिनां ब्रह्मभिन्नस्य
कस्यचिदपि नित्यत्वमिष्यते ।
वस्तुतः वेदनित्यत्ववादिभिरपि वाक्यसमुदायरूपस्य वेदस्य
नित्यत्वमुपपादयितुमशक्यम् । तदेवमाख्यातं भामतीकारैः – “येपि तावत् वर्णानां
नित्यत्वमास्थिषत तैरपि पदवाक्यादीनामनित्यत्वमास्थेयम् । आनुपूर्वीभेदवन्तो हि
वर्णाः पदम् । पदानि चानुपूर्वीभेदवन्ति वाक्यम् । व्यक्तिधर्मश्चानुपूर्वी न
वर्णधर्मः वर्णानां नित्यानां विभूनां च कालतो देशतो वा पौर्वापर्यायोगात्” इति ।
अतः “यत्नतः प्रतिषेध्या नः पुरुषाणां स्वतन्त्रता” इति वदद्भिः मीमांसकैः वेदे
पुरुषस्वातन्त्र्यमात्रं प्रतिषिध्यते । तच्च अस्माकमपि समानमेव । ईश्वरस्तु
वेदकर्तापि सन् स्वरवर्णपदार्थादिषु गतकल्पीयमेव वेदमुपदिशति । तस्मात्
वेदकारणत्वात् ब्रह्मणः सर्वज्ञत्वं ब्रह्मकर्तृकोपि वेदः अपौरुषेयः । शास्त्रं
योनि यस्य तत् शास्त्रयोनि इति भाष्ये शास्त्रयोनिशब्दस्य अन्यदपि विग्रहवाक्यं
प्रदर्शितम् । ब्रह्माधिगमे “यतो वा इमानि भूतानि जायन्ते” इत्यादि श्रुतिरेव
प्रमाणमिति ज्ञायते । यद्यपि जन्माद्यधिकरणे इदमुक्तं भवति तथापि तत्र
शास्त्रपदस्यानुपादानात् अनुमानोपन्यासपरं तदित्याशङ्का स्यात् । अतः इदं
द्वितीयवर्णकं सार्थकम् ॥
*********************************************************************************************
No comments:
New comments are not allowed.