Wednesday, August 31, 2016

शिक्षाशास्त्र-विभागः

वेदस्वरूपविमर्शः

            सनातनधर्मप्रकाशकाश्चतुर्विधपुरूषर्थसाधकस्मृतिशास्त्रितिहासपुराणादीनां  मूलभूताः विश्वविख्याताः  चत्वारः ऋग्यजुःसामाथर्वाभिधेयाः वेदाः अद्यापि विश्वाकाशमण्डले भास्कर इव प्रकाशमानाश्चोपलभन्त इति को न विजानाति ।
प्रत्यक्षादिप्रमाणेषु चूडामणिकल्पोऽयं वेदः प्रमाणमित्यभ्युपगऽछन्ति खलु आस्तिकाः । तथापि विमतयः केचन कुठाराघतं कुर्वन्ति तत्रेति,अन्धो न पस्यति चेत् न स्थाणोरपराधः ।
            वेदस्य श्रुतिः, त्रयी, आम्नायः इत्यादिपर्यायशब्दाः विद्यन्ते । कोऽयं वेदो नाम, किं च तल्लक्षणम्, केवास्य विषयप्रयोजनसम्बन्धाधिकारिणः कथं वा तस्य प्रामाण्यम् ? इति सामान्यजनजिज्ञासा स्वाभाविकी । तत केचन
1)    अपौरूषेयं वाक्यं वेदः,
2)    अपूर्वार्थ प्रविपादकत्वे सति नित्यसर्वज्ञप्रणीतवाक्यम्,
3)    लौकिकवाक्यभिन्नवाक्यम्,
4)    धर्मब्रह्मप्रतिपादकं शस्त्रम्,
5)    ब्रह्ममुखनिर्गत धर्मज्ञापकं शास्त्रम्,
6)    सम्प्रदायानुसारेण स्वरादि विशिष्टा या वर्णानुपूर्वी परिपाटी सः,
7)    इष्टप्राप्त्यनिष्टपरिहारयोरलौकिकमुपायं यो ग्रन्थो वेदयति सः,
8)    शब्दः तदुपजीविप्रमाणातिरिक्तप्रमाणजन्यप्रमित्यविषयार्थकत्केसति शब्दजन्यवाक्यार्थज्ञानजन्यप्रमाण्शब्दः ।
9)    विदिताखिलशावस्त्रार्थसर्वधर्मनिरूपणात् दर्शनानां प्रमाणत्वाद्वेद इत्यभिधीयते ।
10)      विद्यन्ते, ज्ञायन्ते , लभन्ते वा एभिर्धर्मादि पुरूषार्था इति वेदः इत्यादि प्रकारेण विविधनिगमागम -तत्त्वविशारदविशदीकृत व्याव्यानमणिरश्मयश्च प्रकाशन्ते ।
तैत्तिरीयसायणभाष्यभूमिकायां । इष्टप्राप्त्यनिष्टपरिहारयोरलौकिकमुपायं यो ग्रन्थो वेदयति स वेदः इति निर्दुष्टं वेदलक्षणं कथितं वर्तते । अत्र लक्षणस्थालौकिक पदेन प्रत्यक्षानुमाने व्यावर्त्येते । किं वास्यप्रयोजनमित्यत्र-
तदुक्तम्-
         प्रत्यक्षेणानुमित्या वा यस्तूपायो न बुध्यते ।
       एतं विदन्ति वेदेन तस्माद्वेदस्य वेदता । (वे.भा.भूः)
स एवोपायो वेदस्य विषयः । तद्‍बोध एव प्रयोजनम् । तद्बोधार्थी च अधिकारी । तेन सह उपकार्योपकारकभावः सम्बन्धः ।
किं तस्यस्वरूपमित्यत्र “मन्त्रब्राह्मणसमष्टिर्वेदः” इत्युक्तम् । तथाचापस्तम्बः स्मरति “मन्त्रब्राह्मणयोः” वेदनामधेयम् इति । वेदैकदेशयोर्मन्त्रब्राह्मणयोः पृथकस्वरूपं जैमिनिर्न्यायेन निर्णीतवान् । वेदप्रयुक्तमन्त्रशब्दस्य लक्षणं किमिति विचारे सति श्री खण्डदेवः स्वकीयभाट्टदीपिकासंहितायाम् “तच्चोदकेषुमन्त्राख्या” इत्यस्मिन् मन्त्रनिर्वचनाधिकरणे “यत्राभियुक्तानां मन्त्रपदवाच्यत्वप्रकारिका उपस्थितिर्विषयता सम्बन्धेम स मन्त्रः इति व्याख्यानमकरोत् । अत्र वाच्यतावच्छेदकं च मन्त्रत्वमधखण्डोपाधि वेदत्ववत् । मन्त्रस्वरूपनिणीयं द्वितियाध्यस्य प्रथमपादे सप्तमाधिकरणे न्यायविस्तारकारः इत्थमुदाजहार-
“अहेः बुध्निय मन्त्रं मे गोपाय इति मन्त्रस्य लक्षणम्, इत्याद्यारभ्य ”विहितार्थाभिधायको मन्त्रः”, एवं “मननहेतुर्मन्त्रः, ”असिपदान्तो मन्त्रः” ”उत्तमपुरुषान्तोमन्त्रः” इत्यदिकथितानां लक्षणानां परस्परदोषमुद्‍भाव्य याज्ञिकसमाख्यानस्य निर्दोषलक्षणत्वेन प्रतिपादितम् । तच्चसमाख्यानमनुष्ठाननेस्मारकादीनां मन्त्रत्वं गमयति । एवमेव वेदे केषुचिदभिधायकेषु वाक्येषु मन्त्र इति समाख्या सम्प्रदायविद्भिर्व्यवह्रियते इति सायणाचार्यः वदति । ब्राह्मणो नाम कः इत्यत्र निर्वक्ति सूत्रकारः “शेषे ब्राहमणशब्दः” इत्यस्मिन् ब्राह्मणनिर्वचनाधिकरणे नाम “मन्त्रातिरिक्त वेदत्वमेव ब्राह्मणत्वम् इति । शुक्रनीतावपि मन्त्रब्राह्मणयोलक्षणविचारः सुष्ठु कृतः ट्टश्यते । तथाहि “जपहोमार्चनं यस्य देवताप्रीनिदं भवेत् । उच्चारान्मन्त्रसंज्ञं तद्विनियोगि च ब्राह्मणम्“ । इति कथितं वर्तते ।
         नाम देवताप्रीत्यै जपहोमदेवपूजनादिषु उच्चार्यमाणः वेदभागः मन्त्रः इत्यभिधीयते । एवं विनियोग (प्रयोगविधौ) प्रयुवतवेदभागः ब्राह्मणशब्देन व्यवह्रियते ।
         मन्त्रब्राह्मणनिर्वचनानन्तरं मन्त्रत्वार्दो व्यापकधर्मे निरूपिते तत्प्रसङ्गादेव तदवान्तरधर्मः ऋक्त्वादिः इति ऋगादीनां लक्षणानि निरूप्यन्ते सूत्रत्रये जैमिनिमुनिना । तथाहि “तेषामृग्यत्रार्थवशेन पादव्यवस्था” (जैः यू 2.1.35)
नाम पादव्यवस्थावन्मन्त्रत्वं ऋकत्वम् इति ।गीतिषु समाख्या” (जै.सू.2.1.36) मन्त्रत्वसमानाधिकरण गीतित्वं सामत्वम् इति सामवेदतलक्षणम् । “शेषे यजुश्शब्द” (जै.सू 2.1.37) शेषे ऋक्सामभिन्ने मन्त्रजाते यजुश्शब्दः यजुःपदं व्यवह्रियते ।
एवं शुक्राचार्येणापि शुक्रनीतौ ऋग्वेदादीनां लक्षणानि प्रतिपादितानि वर्तन्ते । तथाहि “ऋग्‍रूपा यत्र ये मन्त्राः पादशोऽर्धर्चशोऽपि वा। येषां होत्रं स ऋग्भागः समाख्यानं च यब वा । (शु.नीः4-32) इति ऋग्वेदस्य,
प्रश्लिष्टपठिता मन्त्रा वृत्तगीतिविवर्जिताः ।
आध्वर्यवं यत्र कर्म त्रिगुणं यत्र पाठनम् ।“
मन्त्रब्राह्मणायोरेव यजुर्वेदः स उच्यते । इति यजुर्वेदस्य, ’उदगीथं यस्य शस्त्रादेर्यज्ञे तत्सामर संज्ञकम्” इति सामवेदस्य । 
“अथर्वाङ्गीरसो नाम ह्यपास्योपसनात्मकः “ इति अथर्ववेदस्य च लक्षणानि उक्तानि वर्तन्ति ।
वेदस्य प्रामाण्यविचारः
            वेदस्य  प्रामाण्यं  तु  बोधकत्वात्  स्वतएव  सिद्धम्  ।  पौरूषेयवाक्यं  तु  बोधकमपि  सत् पुरूषगतभ्रान्तिमूलत्वसम्भावनया  तत्परिहाराय मूलप्रमाणमपेक्षते न तु वेदः । तस्यनित्यत्वेन वकतृदोषशाङ्कानुदयात् । एतदेव जैमिनिमुनिना सूत्रितम् -
“तत्प्रमाणं बादरायणसथानपेक्षितत्वात्“ इति । अतः श्रुतिस्मृतिभ्यां नित्यत्वावगमात् वेदस्यापौरुषेयत्वं तस्मात् प्रामाण्यं, नित्यत्वञ्च । सामन्यव्यवहरेऽपि शब्दस्यातीवं प्राधान्यं दृश्यते । परन्त् जगत्स्वभावस्तु विचित्रः –“असत्यंवद, अधर्मं चर मद्यपानं कुर इत्याद्युपदेष्टारः कसिन्नपि धर्मे, वर्गे सम्प्रदाये वा न सन्त्येव – सत्यं वद मद्यपानं न न कर्तव्यमित्याद्युपदेशका एव । तत्र यदि वेदोऽस्मान् सत्यं वदेत्यादि वाक्यैः तथोत्तमाचरणं शिक्षयति - इति ब्रूमश्चेत्  आधुनिकः जनः कुप्यति, वेदः कः ? काल्पनिकः सः साम्प्रदायिकः इत्यादि प्रलपति किन्तु कर्तव्याकर्तव्ययोग्यायोग्प धर्मादि कर्मबोधकोऽयं वेद इति नाधिगच्छति लोकः । यदि माणिक्यं न परिचिनोति लोकस्तर्हि कस्यदोषः ?
अन्यच्च नेत्रगम्यविषयैव सत्यः तस्यैवास्तिता, नेत्रागोचरविषयस्तु नास्त्येवेति केषाञ्चन विचारः । अस्माभिः प्रतिदिनं देशविदेशेषु खगोले वा सम्भूतानां वृत्तान्तानाम् ज्ञानं प्रसारसाधनानां द्वारा प्राप्यते, तज्ज्ञानं नहि शब्दप्रमणमन्तरा विश्वसितुं शक्यते । तत्र प्रत्यक्षानुमानादि प्रमाणाभावात् । यदा मनुष्यो व्याधिग्रस्तो भवति तदा तन्निवारणार्थं तस्यपराधीनतामन्तरा गत्यन्तरं नास्ति अत एव जाड्‍यमप्रतिपत्रिः स्यात्सर्वकार्येषु ---पारवश्च “मेतैर्जाङ्गे निरूप्यते“ इति भावप्रकाशनोक्तरीत्या परवशतारूपं जाड्यं स्वीकर्तव्यं भवति । रोगनिवारणार्थं शब्दप्रामाण्यं सवैरपि उररीक्रियते । तस्मादेव “मन्त्रायुर्वेदप्रामाण्यवच्च तत्प्रामाण्यमाप्तप्रामाण्यात्“ इति गौतमसूत्रं त्रैविद्य वृद्धानां वेदाः प्रमाणमिति निष्ण” आपस्तम्बसूत्रम् ।
अपि च कामन्दकीयनीतिसारे “धर्मं पुरस्कृत्य यतेतार्थाय भूपतिः“ धर्मेण वर्धते राज्यं तस्य स्वादुफलं (श्रियः)“ इत्यादि वचनप्रामाण्यानुरोधेन धर्मादीनां ज्ञानमावश्यकं राज्ञे । अयं धर्मः, अयञ्चाधर्म इत्यादि सत्कर्म दुष्कर्मादि बुद्धिस्तु वेदाधीना भवति । धर्माधर्मविज्ञाने सत्येव राजाभूपतित्वमविन्दति । अन्यथा तद्विज्ञन परिहीना नेतारः लोककत्न्याणशब्दजालेन जनानाच्छादद्यान्घकारकूपे प्रक्षिपन्तीति प्रतिक्षणं तत्फलमनुभवामो वयम् । परिपालनं तु धर्मादि ज्ञानमन्तरा नोपपद्यते, धर्मादि ज्ञानहेतुभूतोऽयं वैदः किल जगत्परीपालन जीवातुः” अत एव तत्परिपालनोपयुक्त वेदः प्रमाणमिति सत्यमङ्गीकर्तव्यम् ।
एवम् “आन्वीक्षकी त्रयी वार्ता दण्डनीतिश्च शाश्वती । विद्दाश्चतस्रः एवैता लोकसंस्थिति हेतवः“ इत्यत्र त्रयी शब्दस्य व्याख्याने ऋकयजुःसामेत्येव नामानस्त्रयो वेदाः त्रयी स्मृतामता-धर्मा धर्मवेदनात् वेदा इति । उपनिषदपि “धर्मो विश्वस्य जगतः प्रतिष्ठा लोके धर्मिष्ठं प्रजा उपसर्पन्ति“ इति । लोकस्य सम्यक् स्थितिः तस्यै कारणभूतानां त्रय्यादीनां विधानामधिगमाय विद्यावृद्धगुरुं सेवेत्“ इत्युक्तम् । गुरूस्तु विद्याधिगमाय सेव्यते । सुनिपुणं सुगुरूमुपसेव्य नृपपदाय शमाय च क्षमः” इत्वञ्च राष्ट्रेयंस्थिति-----हेतुभूतेषु अन्यतमा त्रयी, त्रयीज्ञानेन विना लोकसंस्थितिर्न सम्भवति, इति स्पष्टम् । तर्हि लोकसंस्थितिकारणत्वाच्च वेदाः प्रामाणमिति सुतरानधिगन्तव्यं खलु ।
याज्ञवल्क्यः “व्यवहारान्नृप पश्येत् ----धर्मशास्त्रानुरोधेन क्रोधलोभविवर्जितः“ सभ्यै परिवृतोऽन्वहं राजा व्यवहारान् पश्येत् इत्यत्र स्भ्याः के ? इति चेत् “श्रुताध्ययनसम्पन्नाः धर्मज्ञा इत्याद्युक्तम् ।
मोमांसाव्याकरणादिश्रवणेन, अध्ययनेन वेदाध्ययनेन सम्पन्नाः धर्मज्ञाः सत्यवादिनः सभ्याः भवन्ति । निस्सन्देहेन बहुविधलाभप्रयोजकवेदाः प्रमाणमिति सर्वथाङ्गीकरणीयमिति वस्तुस्थितिः । किन्तु अर्थ एव प्रधानमिति विचार्यमाणामनुकूलोद्‌भवा अनुपग्रस्तोऽयं वेद इति तमाक्षिपन्तीति विषादेष विद्धंमनः ।
प्रयोजनमस्तिनवा वेदस्येति विचारात्पूर्वं लोके किमपि वस्तु तथास्ति फलदायकमिति ?
लक्षाधिकधनव्ययसाध्यं M.B.B.S, B.E, CA इत्यादि धनसम्पादनोपायभूतामुपाधिं लब्ध्वापि धनमार्जयन्तिवा यथेष्टम् सर्वे । तथाविधोपाधिविहीनाः केचन अक्षारज्ञानशून्याश्च इहवा दुबैप्रभृति देशगमनेनवा अल्पेकाले‍ एव लक्षाधीशाः कोट्यधीशाः किं न भवन्ति । अत्रोपाधेः किं प्रयोजनम् ? मारूतिवाहनस्य, वर्णयुक्तदूरदर्शिन्यश्च प्रयोजनं किमस्ति दरद्राय ? अतः कस्मैचित् प्रयोजनं भवति कस्मैचित् न । “अर्थोऽस्तु नः केवलम् “ इतिरीत्या सत्यसत्यधर्माधर्मकर्तष्ययोग्यायोग्यन्यायान्यायादिविवेकविरहमणिविशोभिताः जनाः केवलमर्थार्जनतत्परा अनुसरंतं व्याघ्रं पश्यन् मृगो यथा तथा कालेऽस्मिन् महाविपिने प्रधावन्ति । एवं धावमानेभ्यो मानवेभ्यो वेदस्य प्रयोजनमीषदपि नास्त्येव । तथ्यमिदं “तानि त्वयोपास्यानि” ’नो इत्राणि ’सत्यंवद’ ’धर्मंचर’ इत्यादि सत्यधर्मकर्तव्यादि विवेकं शिक्षयति वेदः । ’परस्मिन् बन्धुर्क्गे वा’ ”मित्रे द्वेष्ये रिपौ तथा आत्मवद्वर्तितव्यम्” अर्थमनर्थं भावय नित्यम्“ इत्यादीनि श्रुतिसारभूतानि वचांसि ज्ञापयन्ति सर्वथा सर्वदा संदेहसंकोचपक्षपातादिकं विना वेदस्य प्रयोजनमस्तीति अभ्युपगन्तव्यमेव ।
-इतिशम्-
********************
Dr.R.Balaji                                                                                                          लेखकः                                              


 *********************************************************************************

समूहगतिशास्य परिचयः
[An Introduction to Group Dynomic]
Dr.Chandrakant
                                 Assistant Professor
                                        
मानवः सङ्घजीवीति सर्वेऽप्यङ्गीकुर्वन्ति । समूहे एव मानवस्य जननादारभ्य मरणपर्यन्तं कालः यापितो भवति । मानवः स्वपरिवेशे विद्यमानैः व्यक्तिविशेषैः सह स्वकीयं चिन्तनं,जीवनं, भावं, क्रियाकलापञ्च विनिमयीकरोति । एवं सति प्रत्येकस्मिन् सन्दर्भे व्यक्तिः कथं व्यवहरति, कथं सामञ्जस्यं सम्पादयति, स्वकीयसमूहं कथं निर्माति, इत्येते अंशा अत्र रोचकाः महत्वपूर्णाश्च जायन्ते । ह्यूबर्ट जानर्महोदयस्य कथनानुसारं समूहगतिशास्त्रं, समूहस्य व्यवहारं विशदीकृत्य,समूहः कथम् उदितः,कथं परिवर्तते,व्यक्त्यनुगुणं कथं संकीर्णरूपेण व्यवहरतीत्यादीनामध्ययनं करोतीति ।
विंशतितमे शतके समूहगतिशास्त्रं बहुधा महत्त्वं प्राप्य व्यापकमभूत् । अस्योद्भावनं कर्टलेविन्महोदयेन तत्रादावकारि। तस्य मतानुसारं समूहेन सह व्यक्तेः प्रतिक्रियाविशेषस्प अध्ययनमेव समूहगतिशास्त्रं वर्तते ।एवं सति अस्य शास्त्रस्यावगमनार्थं समूहस्प लक्षणादीनामध्ययनमावश्यकं वर्तते । समूहो नाम केवलं कासाञ्चन व्यक्तीनां समुदायः इति चेन्न । तादृशाव्यवस्थितानां संघटनं समूहस्य लक्षणं भवितुं नार्हति । मनोविज्ञानानुसारं समूहो नाम व्यवस्थितं संघटनं यत् घनीभूतमेव क्रियात्मकं गृह्यते दृश्यते च। अधोलिरिवतैरंशैः तद् स्पष्टं जायते । यथा-
1)   संघटिताः सर्वेऽपि सदस्याः स्वाङ्गीकृतमेकमेव ध्येयं वहन्ति ।
2)   प्रत्येकं सदस्यस्य किञ्चिन्निर्दिष्टं पात्रं भवति ।
3)   सदस्यत्वं व्यवस्थितं यथा भवति तथैव सदस्या अपि व्यवस्थिताः भवन्ति ।
4)   समूहसदस्येषु परस्परं क्रियाकलापमनुष्ठातुमवसरः भवति ।
5)   समूहभेदेन नायकत्वस्य स्वरूपे भेदः जायते ।
6)    समूहस्य सदस्यानां मेलनार्थं पूर्वनिर्धारितं स्थानं भवति । कालोऽपि निर्धारितः वर्तते ।
7)   अन्यसमूहैः सह सम्बन्धं स्थापयितुं तदीयसमूहस्य नियमः सिध्दान्तश्च भवतः ।
8)   सदस्यानां व्यवहारं नियन्त्रयितुं स्वनिर्मिताः नियमाः भवन्ति ।
इत्येते अंशा प्राधान्येन समूहस्य लक्षणे समायान्ति । समूहस्य ध्येयस्वरूपक्रियाकलापाधारेण वर्गीकर्तुमपि शक्यते। तत्र च -
1.    सामान्यसमूहः(Crowd)
एतादृशः समूहः तात्कालिकः कदाचित् भवति । यतो हि मार्गे अपघातः भवति चेत् तत्काले जनसमूहः तत्र सञ्जायते । तत्र सर्वेषां कुतूहलं भवति । कुतूहलस्य परिहारानन्तरं समूहः नष्टो भवति ।
2.    संघटनम् अथवा कूटः (Organization or Club)
अत्र सदस्याः सोद्देश्येन, सादर्शेन, सावगमनेन एकत्रिताः भवन्ति । एतादृशसमूह्स्य स्वकीयं विषयवस्तु भवति । सः विषयः प्रत्येकं सदस्यस्य कृते सम्बध्दो वर्तते । इदं संघटनं स्थिरं भवति ।
3.     समुदायः – (Community) अयं स्थिरः शाश्वतश्च वर्तते । समाजस्य हितं लक्ष्यीकृत्य सदस्याः जीवनं समर्पितवन्तः भवन्ति । अस्योत्तममुदाहरणं कक्ष्याप्रकोष्ठः । शिक्षणमेवात्र चरमं लक्ष्यं भवति । शिक्षकः अस्य नायकः वर्तते । अन्यथापि केचन शिक्षाविदः विविधप्रकारेण समूहस्य वर्गीकरणमकार्षुः ।  तद्यथा
1)    समनर्महोदयस्य वर्गीकरणं (Summner’s Classification ) डब्ल्य्.जी.समनर्‍महोदयः स्वकीये Educational Sociology पुस्तके प्रकारद्वयं समुल्ल्लिलेख-
a)   आन्तरिकसमूहः (Internal group)
b)   बाह्यसमूहः (External group)
केवलं बालकानां वा बालिकानां समूहः आन्तरिकः अथवा अस्माकं समूहः इति चिन्त्यते । बालकाः बालिकानां समुहम् अन्येषां समूह इति चिन्तयन्ति ।
2)   कूले महोदयस्य वर्गीकरणम्-(Cooley’s Classification) सि.एच् कूले (C.H.Cooley) महोदयः परस्परं सदस्येषु विद्यमानघनिष्ठताधारेण वर्गीकरणमकरोत् । प्राथमिकसमूहः ,(Primary) उन्नतसमूहः वा प्रथमः,  प्राधानसमूहः द्वितीयः(Secondary), तृतीयः समूहः (Tertiary) इति त्रिविघमवोचत् । प्राथमिकसमूहे सदस्येषु निकटतमः घनिष्ठः सम्बन्धः भवति । आत्मीयभावः अधिकः दृश्यते । परस्परं हितं  तत्र निहितं भवति । परिवारः,  ग्रामसमुदायश्चात्र उदाहरणम् ।
सेकेण्डरी समूहे व्यक्तिगतसम्बन्धः तथा घनिष्ठः न भवति । परस्परं हितमपि न परिगण्यते । उदा :- ट्रेडयूनियन्, व्यावसायिकसंघटनं, क्लब , इत्यादि । तृतीये टेरशरीसमूहे व्यक्तिगतसभ्बन्धः न भवत्येव, उदा-चलचित्रमन्दिरे जायमानः समूहः, रेलयाने,बस्याने जायमानः समूहश्च ।
3)   संघटितः स्वाभाविकश्चेत्यपि विभक्तुं शक्यते । स्वाभाविकसमूहः विना कामपि योजनां प्रयासं वा जायते । परन्तु संघटितः समूहः कानि चन विशिष्टोद्देश्यान्याधृत्यः जायते । एतत् पूर्वयोजनायाः फलरूपेण दृश्यते । सेना, विद्यालयश्च अत्र उदाहरणे भवतः । एवमेव औपचारिकः अनौपचारिकश्च समूह इत्यपि विभक्तुं शक्यते । अन्ततो गत्वा सर्वेषामपि समूहानां व्यवहारः भिन्नः, विचित्रः, विशिष्टश्च लोके परिलक्ष्यते ।
समूहस्य मनः –(Group mind)- मनोविज्ञानिनः समाजशास्त्रिणश्च समूहस्य मनसः परिकल्पनां विविधरूपेण
प्रादुः । फ्रेञ्च समाजशास्त्री लेबेन वदति यत् व्यक्तिः एकाकिनी यदा व्यवहरति तथैव समूहे यदा व्यवहरति तदा तयोः व्यवहारयोः मध्ये महदन्तरं पर्यवलोक्यत इति ।
मेक्डूगलप्रभृतयः समूहं मनः बहु व्यवस्थितं,स्थिरं च भवति, यथा सेनायाः व्यवहारः,धार्मिकसमूहस्य व्यवहारः भवति । तदेव व्यक्तिगतं मनः चञ्चलं भवति । समूहे समर्पितभावमनुभवतीति च वदन्ति ।
एतादृशस्य व्यत्यासस्य कारणानि बहूनि वर्तन्ते । अतः समूहव्यवहारस्योपरि बहवः बाह्या अंशाः प्रभावं जनयन्तीत्य ङ्गीकर्तव्यमेव, तादृशप्रभावोत्पादकाः बिन्दवः वातावरणोपजाः नियमोपजाः , नेतृत्वगुणोपजाः, तत्त्वाधारिताश्च भवन्ति । सहानुभूतिः, समूहभावनाः, जागरिताः कृत्वा समूहव्यवहारं प्रभावयन्ति । व्यक्तिः अन्यव्यक्तेः मनोवैज्ञानिकपरिस्थितिमवगत्य व्यवहर्तुं योग्यतां प्राप्नोति । अनुकरणमपि समूहव्यवहारं विशेषेण प्रभावयति । अनुकरणं समूहे कार्यं कर्तुमनिवार्यं वर्तते । अनुकरणं अन्यव्यक्तेः समानव्यवहारमवगत्य तथैव व्यवहर्तुं सहकरोति । तेन समूहे ऐक्यभावः जायते । अतः समूहव्यवहारस्योत्तमरूपसम्पादनेऽनुकरणमेवोत्तरदायीति मन्यते।
समूहगतिशास्त्रस्य शिक्षायां प्रभावः 
शिक्षायाः उपरि समूहगतिविज्ञानस्य प्रभावः अतिमहत्त्वपूर्णः वर्तते यतो हि शिक्षा अनिवार्येण एका सामूहिकप्रक्रिया वर्तते । समूहं विना शिक्षा नास्त्येव । समूहगतिविज्ञानं समूहस्य विशेषताः, परिचाययति । समूहे छात्रः एकरूपव्यवहारे, चिन्तने, अनुभवे च बाध्दो भवति । विद्यालयः समाजस्य लघुरूपः, तस्मात् तादृशे समूहे सांस्कृतिक-सामाजिक-नैतिक-राष्ट्रिय-व्यावहरिक-भावात्मक - संवेगात्मकगूणाः वर्धनीयाः वर्तन्ते । सर्वेऽप्येतादृशाः गुणाः गतिविज्ञानस्य अवगमनेन सम्पोषिताः संवर्धिताः जायन्ते, अतः समूहगतिशास्त्रस्य प्रभावः महत्त्वञ्च शिक्षायां समाविष्टे वर्तेते इत्यत्र नस्ति संशयः ।


उपयुक्त ग्रन्थसूची
1)    Brown.F.J. Educational Sociology,1960,Printice Hall New  York.
2)   एस्.के.मङ्गल,शिक्षामनोविज्ञान,2011, PHIL Private Limited New Delhi.
3)   एन्.बि.कोङ्गवाड, शैक्षणिकमनोविज्ञान, विद्यानिधि प्रकाशन गदग,
4)   डा.एस्.पि.गुप्ता.उच्चतर शिक्षा मनोविज्ञान,2010, शारदा पुस्तक भवन इलहाबाद ,
5)   डा.एस्.एस्.माथुर.शिक्षामनोविज्ञान, 2008, अगरवाल् पब्लिकेशन् आगरा

 ************************************************************************

रामराज्यार्थं भरतोपदेशः
डा. हरिप्रसादः के.
सहायकाचार्यः, शिक्षाशास्त्रविभागः
रामायणस्य अयोध्याकाण्डे शततमः सर्गः ।  पितृवाक्यपरिपालनार्थं ससीतो रामः लक्ष्मणेन सह वनवासार्थं प्रस्थाय  मध्ये गुहस्य आतिथ्यं प्राप्य पश्चात् गङ्गानदीं तीर्त्वा भरध्वाजाश्रमं गत्वा, ततः चित्रकूटपर्वतं सम्प्राप्य तत्र कुटीं निर्माय वस्तुमारभत ।
तत्र अयोध्यायां वशिष्ठप्रेषितानां दूतानां माध्यमेन मातुलगृहात् आनीतः भरतः पितुः दिवङ्ग्मनस्य कारणं कैकेयीति विज्ञाय तां भृशं गर्हित्वा, पितुः और्ध्वदैहिकं सर्वविधं कर्म निर्वर्त्य चदुरङ्गबलोपेतां सेनां स्वीकृत्य सामाजिकैः सह अरण्यात् रामं प्रत्यानीय सिंहासने अभिषेचनं कर्तुं सङ्कल्प्य प्रतिष्ठते । चित्रकूटस्य कुटीरे सम्प्राप्तं भरतं रामः मूर्ध्नि आघ्राय परिष्वज्य स्वीये अङ्के उपावेश्य अनुयोक्तुमारभते । पितुः मातॄणां  पुरोहितस्य वसिष्ठस्य, गुरोश्च सुधन्वानः च कुशलां वार्तां पृष्ठ्वा प्रश्नमाध्यमेन एव भरतम् उपदेष्टुमारभते –
मन्त्रिणः
कच्चिदात्मसमाः शूराः श्रुतवन्तो जितेन्द्रियाः ।
कुलीनश्चेङ्गितज्ञाश्च कृतास्ते तात मन्त्रिणः ॥
हे भरत, भवतः आस्थाने कीदृशाः मन्त्रिणः भवता नियोजिताः ? ते मन्त्रिणः भवत्सदृशाः एव सन्ति किल ? शूराः ज्ञानिनः जितेन्द्रियाः उत्तमकुले जाताः, तीक्ष्णमतयः मन्त्रिणः एव भवता नियोजिताः किल ? इति रामस्य प्रश्ने राज्यस्य सुशासनार्थं पूर्वोक्तविशेषणाविशिष्टाः मन्त्रिणः आवश्यका इति अभिप्रायोऽस्ति । अतः एतादृशैः मन्त्रिभिः सह मन्त्रणां कृत्वा राजा शास्ति चेत् साफल्यमवाप्तुम्(विजयम्) अर्हति इति अग्रिमश्लोके कथयति ।
मन्त्रो विजयमूलं हि राज्ञां भवति राघव ।
सुसंवृत्तो मन्त्रिधुरैरमात्यैः शास्त्रकोविदैः ॥
राज्यस्य समृद्धये अहर्निशं एभिः मन्त्रिभिः सह मन्त्रणां कृत्वा राजा निर्णयं स्वीकुर्यात्, निद्रादिविषयमोहगर्ते निमग्नो न भवेत् इति अनेन श्लोकेन उपदिशति-
कच्चिनिद्रावशं नैषि कच्चित्कालेऽवबुद्ध्यसे ।
कच्चिच्चापररात्रेषु चिन्तस्यस्यर्थनैपुणम् ॥
शत्रुतः गुप्तस्य गोपनम्
इत्थम् मन्त्रणासमयेऽपि गोप्यता संरक्षणीया । मन्त्रणार्थमपि अधिकाः न भवेयुः । गुप्ताः विषयाः अधिकेषु मन्त्रयितृषु सत्सु बहिः प्रकाशिताः भवन्ति । भवता अधिकजनानां मध्ये सुचिन्तिताः गुप्तविषयाः शत्रूणां निकटे न गच्छन्ति किल ? इति रामः अग्रिमश्लोके भरतं मन्त्रणाविषयसंरक्षणजागृतिम् उपदिशति -
कच्चिन्मन्त्रयसे नैकः कच्चिन्न बहुभिः सह ।
कच्चित्ते मन्त्रितो मन्त्रो राष्ट्रं न परिधावति ॥ इति ।
समये सुकार्यसाधनम्
अल्पश्रमेण साधयितुं योग्यं किञ्चन महत्प्रयोजनं मनसि निधाय सुचिन्तितं कार्यं विलम्बेन न आरभसे किल ? तादृशाणि कार्याणि तूर्णं साधनीयानि इति रामस्य अभिप्रायः अस्मिन् श्लोक्के उपदिष्टो वर्तते -
कच्चिदर्थं विनिश्चित्य लघुमूलं महोदयम् ।
क्षिप्रमारभसे कर्म न दीर्घयसि राघव ॥ इति ।
शत्रुभ्यः कार्यरक्षणम्
शत्रवः अस्माभिः करिष्यमाणानि कार्याणि आदावेव न जानीयुः । कार्यं यदा सिद्ध्यति ततः परं ज्ञास्यन्ति चेत् चिन्ता नास्ति । पूर्वमेव ज्ञास्यन्ति चेत् कार्ये बाधं जनयेयुः । अथवा अस्मदपेक्षया पूर्वमेव ते तत् कार्यं साधयित्वा अस्माभिः प्राप्तव्यं प्रयोजनं ते अपहरेयुः । तदर्थं रामः भरतं अग्रिमे श्लोके जागरयति-
कच्चिन्नु सुकृतान्येव  कृतरूपाणि वा पुनः ।
विदुस्ते सर्वकार्याणि न कर्तव्यानि पार्थिवाः ॥ इति ।
स्वीयस्य गोप्यस्य परानवगतिः, परेषां तु गोप्यस्य अवगतिः
अमात्यैः सह मन्त्रितः विचारः बहिः न प्रकटितः चेदपि  इतरैः(शत्रुभिः) तर्केण युक्त्या वा न ज्ञायेत । प्रत्युत इतरैः (शत्रुभिः) मन्त्रितः विचारः प्रकटनात्प्रागेव ज्ञातव्यः । अतः ईदृशं कार्यं भवान् भरतः साधयति किल इति रामः पृच्छति -
कच्चिन्न तर्कैर्युक्त्या वा ये चाप्यपरिकीर्तिताः ।
त्वया वा तव वामात्यैर्बुध्यते तात मन्त्रितम् ॥ इति ।
सुयोग्यानां श्रेष्ठानां नियोजनम्
एवम् मन्त्रणां कृत्वा समस्यापरिहाराय सम्पदभिवृद्धये च  अल्पसंख्याकाश्चेदपि सुयोग्यानामेव मन्त्रिणां राजा नियोजनं कुर्यात् न तु अधिकसंख्याकानां अयोग्यानाम् इति  सकारणं प्रतिपाद्य भरतम् इत्थम् उपदिशति रामः -
कच्चित् सहस्रैर्मूर्खाणामेकमिच्छसि पण्डितम् । पण्डितो ह्यर्थकृच्छ्रेषु कुर्यान्निश्रेयसं महत् ॥
सहस्राण्यपि मूर्खाणां यद्युपास्ते महीपतिः ।  अथवाप्ययुतान्येव नास्ति तेषु सहायता ॥
एकोऽप्यमात्यो मेधावी शूरो दक्षो विचक्षणः ।  राजानं राजपुत्रं वा प्रापयेन्महतीं श्रियम् ॥
योग्यतानुसारं भृत्यानां नियोजनम्
जनानां योग्यतां सम्यक् विज्ञाय तदनुगुणं तेषां कृते विविधानि पदानि दातव्यानि भवन्ति । साम्प्रतिकप्राशासनिकव्यवस्थायां वयं एतद्विपरीतं पश्यामः ।  किञ्च श्रेष्ठानां नियोजनवेलायां तेषां श्रेष्ठतायाः मूल्याङ्कनार्थं तेषां पितृपितामहादयः शुचयः आसन् वा न वेत्यपि परीक्षणीयमिति रामः वदति । सम्प्रति नेतॄणाम् अधिकारिणां च भ्रष्टाचारं पश्यामः चेत् रामस्य चिन्तनं रामराज्यस्य निर्माणे कियत् श्रेष्ठमासीदिति पद्यद्वयेन ज्ञायते -
कच्चिन्मुख्या महत्स्वेव  मध्यमेषु च मध्यमाः । जघन्याश्च जघन्येषु भृत्यास्ते तात योजिताः ॥
अमात्यानुपधातीतान् पितृपैतामहान् शुचीन् । श्रेष्ठान् श्रेष्ठेषु कच्चित्त्वं नियोजयसि कर्मसु ॥
उग्रकरविधानस्य परिणामः
द्विरेफवत् राज्ञा करग्रहणं कर्तव्यं येन राज्ञः अपि लाभः भवेत् प्रजानामपि हानिः न स्यात् इति चाणक्यः अर्थशास्त्रे वदति । द्विरेफः मकरन्दं पिबति चेत् द्विरेफस्य तु लाभः भवत्येव । किन्तु पुष्पस्य कापि हानिर्न भवति प्रत्युत परागस्पर्शेन वृक्षसन्ततिरेव वर्धते । किन्तु राजा बलात् उग्ररूपेण करं विधत्ते चेत् कामचारिणं पुरुषं स्त्रियः यथा अवजानन्ति तथा राजानमपि प्रजाः अवजानन्ति । भवान् तु तथा न करोति किल ? इति रामः अनेन श्लोकेन पृच्छति -
कच्चित् त्त्वां नावजानन्ति याजकाः पतितं यथा ।
उग्रप्रतिग्रहीतारं कामयानमिव स्त्रियः ॥ इति ।
उपायादिकुशलस्य शत्रोः अहननस्य परिणामः
राजा कुशलं शत्रुं न हन्ति चेत् सः शत्रुः स्वयं राजानमेव हन्ति । अतः तादृशस्य शत्रोः हननम् अवश्यमेव कर्तव्यम् इति रामः इत्थम् उपदिशति -  
उपायकुशलं वैद्यं भृत्यसंदूषणे रतम् ।
शूरम् ऐश्वर्यकामं च यो हन्ति न स हन्यते ॥ इति ।
कीदृशस्य सेनापतेः नियोजनं कर्तव्यम् ?
एकस्य राज्यस्य संरक्षणार्थं सेनापतिः कथं भवेत् ? कीदृशस्य सेनापतेः नियोजनं कर्तव्यमिति भरतमुपदिशति रामः -
कच्चित् धृष्टश्च शूरश्च धृतिमान् मतिमान् शुचिः ।
कुलीनश्चानुरक्तश्च दक्षः सेनापतिः कृतः ॥ इति ।
कर्मचारिणां वेतनस्य भक्तस्य च समये प्रदानस्य महत्वम्
प्रशासकस्य इयं तु चातुरी भवति यत् काले काले कर्मकरेभ्यः वेतनस्य भक्तस्य च दानेन तत्सकाशात् अधिकसेवायाः स्वीकारः इति । तदभावे महाननर्थश्च भवतीति राजा जानीयात् । भवान् तु इत्थमेव काले तेभ्यः वेतनं भक्तञ्च सर्वेभ्यः कर्मकरेभ्यः प्रयच्छति किल ? विलम्बं तु न करोति किल ? इति रामः भरतं पृच्छति -
कच्चिद्बलस्य भक्तञ्च वेतनं च यथोचितम् । सम्प्राप्तकाले दातव्यं ददासि न विलम्बसे ॥
कालातिक्रमणे ह्येव भक्तवेतनयोर्भृताः । भर्तुरप्यतिकुप्यन्ति सोऽनर्थः सुमहान् कृतः ॥ इति ।
स्वबलस्य श्त्रुसामर्थ्यस्य च नियतपरीक्षा
त्रयाणां त्रयाणां गुप्तचराणां माध्यमेन शत्रुपक्षस्य अष्टादशव्यक्तीनां स्वपक्षस्य पञ्चदशव्यक्तीनाञ्च व्यवहारस्य विषये राज्ञा अवधानं दातव्यमिति मनुना यदुक्तं तदत्र दण्डनीतिशास्त्रानुगुणं रामः भरतमुपदिशति । शत्रुपक्षस्य आष्टादश जनाः इमे भवन्ति येषां व्यवहारः सूक्ष्मेक्षिकया अवलोकनीयः – मन्त्री, पुरोहितः, युवराजः, सेनापतिः, द्वारपालः, अन्तःपुराध्यक्षः, कारागाराध्यक्षः, कोशाध्यक्षः, यथायोग्यकार्येषु धनव्ययकर्ता सचिवः, सुरक्षासचिवः(Security Chief), नगराध्यक्षः, कार्यनिर्माणकर्ता(अभियन्ता), धर्माध्यक्षः, सभाध्यक्षः, दण्डपालः, दुर्गपालः, राष्ट्रसीमापालः, वनरक्षकश्च । स्वपक्षे तु पूर्वोक्तेषु आदिमान् त्रीन् विहाय अवशिष्टानां विषये राजा दृष्टिं निदधीत ।
कच्चिदष्टादशान्येषु स्वपक्षे दश पञ्च च ।
त्रिभिस्त्रिभिरविज्ञातैर्वेत्सि तीर्थानि चारकैः ॥ इति ।
दण्डितशत्रोर्विषये जागरूकता
कच्चित् व्यपास्तान् अहितान् प्रतियातांश्च सर्वदा । दुर्बलाननवज्ञाय वर्तसे रिपुसूदन ॥
नास्तिकबुद्धीनां (बुद्धिजीविनः) निन्दा
सम्प्रति यथा बुद्धिजीविनः इति यान् वयं ब्रूमः तादृशाः जनाः रामायणकालेऽपि आसन् । नास्तिकाः ते आत्मानं पण्डितं मन्यमानाः दुर्बुधाः अनर्थकुशलाः भवन्ति । ते सर्वदा निरर्थकतर्कमुपयुज्य  वृथा अपलापं कुर्वन्तः समाजस्य शान्तिं नाशयन्ति । काङ्ग्रेस्-प्रभृतीनि दलानि यथा सम्प्रति तान् सम्पोष्य स्वानुकूलतया उपयुञ्जते न तथा कर्तव्यमिति रामः तदानीमेव भरतमुपादिशत् -
कच्चिन्न लोकायतिकान् ब्राह्मणांस्तात सेवसे । अनर्थकुशला ह्येते बालाः पण्डितमानिनः ॥
धर्मशस्त्रेषु मुख्येषु विद्यमानेषु दुर्बुधाः । बुद्धिमान्वीक्षिकीं प्राप्य निरर्थं प्रवदन्ति ते ॥ इति ।
इत्थं स्त्रीसंरक्षणविषये, दुर्गसमृद्धिविषये, आर्याणाम् अविचार्य दण्डदानविषये, चोराणां उन्मोचनहानिविषये चेति बहुषु विषयेषु भरतम् उपदिश्य राजधर्मं बोधितवान् । रामायणस्य अयोध्याकाण्डे विद्यमाने अस्मिन् शततमे सर्गे अत्यन्तं प्रासङिकाः सार्वकालिकाः राजधर्मसम्बद्धाः विषयाः सप्तदशलक्षवर्षेभ्यः प्रागेव रामेण उपदिष्टाः इति अत्यन्तं गर्वेण भक्त्या च अस्माभिः परिगृह्यन्ते ।
सन्दर्भाः
1.    श्रीमद्वाल्मिकीयरामायण गीताप्रेस् गोरखपुर
2.    विशुद्ध मनुस्मृति, आर्ष साहित्य प्रचार ट्रष्ट दिल्ली
3.    अर्थशास्त्रम्
 ***************************************************************

दार्शनिकप्रत्यक्षाधिगमः
प्रमोद कुमार बुटोलिया
शिक्षाविभागः
                                 
     सुविदितमेव तत्र विदुषां यत् जन्मनः आरभ्य मानवस्य सर्वविधप्रवृत्तयः इन्द्रियाश्रिताः भवन्ति। अपि च ज्ञानार्जनेऽपि इन्द्रियाणां साहाय्यं नितरामपेक्षितम्। ज्ञानोत्पत्तौ च इन्द्रियजन्यसंयोगात् समुत्पन्नस्य प्रत्यक्षरूपज्ञानस्य प्राथम्यम्। इदञ्चानुमानादिप्रमाणमूलं प्रत्यक्षं सर्वेष्वपि प्रमाणेषु प्रप्रथमं स्थानं धत्ते। ज्ञानोत्पत्तौ प्रत्यक्षमिदं महदुपकारकं प्रमुखसाधनमिति अङ्गीक्रियते दार्शनिकैः। ज्ञानञ्च विविधैर्प्रमाणैः जायते। ज्ञानार्जनप्रक्रिया तु इन्द्रियं, पदार्थः, तयोः सन्निकर्षः, मनोयोगः, पदार्थप्रकाराः इति बहून् विषयान् अभिव्याप्य वर्तते। मनोविज्ञाने कीर्त्यमानः अधिगमः प्रमाणैरुत्पद्यमानं ज्ञानमेव। सः च अधिगमः शिक्षकः, अधिगन्ता, विषयः, पारस्परिकान्तःक्रिया इति विविधविषयावलम्बिनीं जटिलप्रक्रियाम् आश्रयते। एवम् उभयत्र प्रमाणैः एव ज्ञानम् अथवा अधिगमः जायते इति तु निर्विवादम्।
     कुत्रचित् दर्शनेषु बुद्धिरपि ज्ञानत्वेनाभिधीयते। यथा न्याये-"बुद्धिरुपलब्धिर्ज्ञानमित्यनर्थान्तरम्1"। वैशेषिके यथा - "बुद्धिरुपलब्धिर्ज्ञानं प्रत्यय इति पर्यायाः2" इति। यद्यप्येतानि महर्षभिः सूत्रितानि तथापि लोके तावत् 'बुद्धिमान्' इति प्रसिद्धस्य 'ज्ञानी' इति व्यवहारः न दृश्यते। 'बुद्धिमान्' इति पदं वस्तुविषयं ज्ञानवन्तं बोधयति 'ज्ञानी' इति पदं तु तत्त्वज्ञानवन्तमेव बोधयतीति। अतः सूक्ष्मेक्षिकया द्वयोरन्तरमस्त्येव। अतः सांख्येऽपि बुद्धिज्ञानयोः पर्यायत्वं नैवाङ्गीकृतम्। सांख्यमते महत्तत्वनाम्ना अन्तःकरणविशेषः यश्च सत्वरजस्तमोगुणरूपप्रकृतेः प्रथमपरिणामः सैव बुद्धिरिति। तस्याः बुद्धेः विषयाकारपरिणामः एव ज्ञानमित्युच्यते।
     एवं दर्शनेषु सूक्ष्मतया ज्ञानविषयकचिन्तनं विहितमस्ति। प्रकृतकाले षड्दर्शनेषु निरूपितप्रत्यक्षप्रमाणस्यानुगुणा अधिगमप्रक्रिया निरूप्यते -
1. न्याये प्रत्यक्षाधिगमः - चक्षुरादिभिरिन्द्रियैः यज्ज्ञानमुत्पद्यते तत्प्रत्यक्षमित्यभिधीयते। प्रत्यक्षं निरूपयन् महर्षिगौतमस्त्वाह - "इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमव्यपदेश्यमव्यभिचारि व्यवसायात्मकं प्रत्यक्षम्3" इति।
     अस्य लक्षणस्य घटकीभूतानि त्रीणि पदानि सन्ति -
(i) इन्द्रियाणि
(ii) अर्थाः
(iii) सन्निकर्षश्च।
अ) इन्द्रियाणि - इन्द्रियाणि द्विप्रकाराणि - ज्ञानेन्द्रियाणि, कर्मेन्द्रियाणि च। शरीरस्य ये अवयवाः क्रियाणामनुष्ठाने साधकाः भवन्ति तानि कर्मेन्द्रियशब्देनाभिधीयन्ते। ये चावयवाः ज्ञानवाप्तौ साधकानि भवन्ति तानि ज्ञानेन्द्रियशब्देनाभिधीयन्ते। तत्र चक्षुषा रूपस्य, रसनया रसस्य, घ्राणेन गन्धस्य, त्वचा स्पर्शस्य श्रोत्रेण च शब्दस्य ज्ञानं जायते।
आ) अर्थाः - प्रत्यक्षज्ञानाय प्रत्यक्षविषयभूतानां वस्तूनामप्युपस्थितिरावश्यकीया भवति। प्रत्यक्षविषयं विना प्रत्यक्षज्ञानस्यासम्भवात्। अत एव ज्ञानेन्द्रियाणि यान् विषयान् विषयीकुर्वन्ति तान्येवार्थशब्देनाभिधीयन्ते। ते च प्रत्यक्षस्य विषयाः सन्ति - पृथिव्यप्तेजोवाय्वाकाशाख्यानि पञ्चद्रव्याणि। मुख्यरूपेण तु एतेषां द्रव्याणामेव प्रत्यक्षं भवति गौणरूपेण च तेषां गुणानां - रूपरसगन्धशब्दस्पर्शाख्यानां प्रत्यक्षं जायते।
इ) सन्निकर्षः - तत्र पदार्थानामिन्द्रियैस्साकं यो हि सम्बन्धो भवति स एव सन्निकर्ष इत्यभिधीयते। कस्यचन वस्तुनः प्रकाशे सर्वप्रथमम् आत्मनः मनसा सह संयोगो भवति। मन इन्द्रियेण सह संयुज्यते। इन्द्रियं च स्वविषयेण सह संयुक्तं सत् तं प्राप्यविषयं प्रकाशयति।
     सत्यपि इन्द्रियार्थसन्निकर्षे कदाचित् विषयाणां प्रत्यक्षो न भवति। यथा अध्ययने संलग्नस्य पुरुषस्य समक्षतः एव किमपि वस्तु आयाति चेदपि तस्य वस्तुनः उलब्धिर्नहि भवति। अत एव कस्यचनापि वस्तुनः साक्षात्कारे त्रीणि कार्याणि अपेक्षितानि -
(i) आत्मा मनसा संयुज्यते
(ii) मनः इन्द्रियेण संयुज्यते
(iii) इन्द्रियमर्थेन संयुज्यते। यदा अनया क्रियया इन्द्रियार्थयोः संयोग भवति तदैव कस्यचनापि वस्तुनः साक्षात्कारो भवति।
     एवमत्र जायमानायां ज्ञानप्रक्रियायां मन-आत्मा-इन्द्रियाणां प्रामुख्यं वरीवर्ति।
2) वैशेषिके प्रत्यक्षाधिगमः - यद्यपि महर्षिकणादेन प्रत्यक्षलक्षणं नोक्तं, तथापि विषयान्तरनिरूपणसन्दर्भे प्रत्यक्षलक्षणमपि सूचितं तेन। तथा हि - "आत्मेन्द्रियार्थसन्निकर्षाद्यन्निष्पद्यते तदन्यत्4" इति। तत्र च इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानमनुमानादन्यदिति वदन् सूत्रकारः इन्द्रियार्थसन्निकर्षजन्यज्ञानत्वं प्रत्यक्षमिति निरूपयति।
     भाष्यकारेण प्रशस्तपादेन ज्ञानं विद्या अविद्या चेति द्विधे इत्युक्तम्। अत्र यथार्थज्ञानरूपा विद्या  चतुर्विधा - प्रत्यक्षलैङ्गिकस्मृत्यार्षलक्षणा इति। तत्र प्रत्यक्षं तावत् - "तत्राक्षमक्षं प्रतीत्योत्पद्यत इति प्रत्यक्षम्। अक्षाणीन्द्रियाणि घ्राणरसनचक्षुस्त्वक्श्रोत्रमनांसि षट्5" इति।
      नाम इन्द्रियजन्यं विद्यारूपं ज्ञानं प्रत्यक्षमिति भाष्यकारस्याशयः। किञ्च अनेन संशयविपर्ययोश्च अविद्याप्रभेदभूतयोः विद्यारूपत्वं नास्ति इति सिद्ध्यति।
3) सांख्ययोगे प्रत्यक्षाधिगमः - सांख्ये तावत् इन्द्रियैः वस्तुना सह सम्बन्धोत्तरं प्रथमं केवलं वस्तुविषयकं ज्ञानमेवोत्पद्यते, तत् निर्विकल्पकज्ञानम्। तदनन्तरमेव तस्य वस्तुनः नामरूपजात्यादिभिः सविकल्पकं ज्ञानं जायते।  निर्विकल्पकसविकल्पकरूपं द्विविधमप्यैन्द्रियकं ज्ञानमालोचनसंज्ञकमित्यत्र। इन्द्रियाणि बाह्याभ्यन्तरभेदात् द्विविधानि। द्वयोर्बाह्याभ्यन्तरयोर्मध्ये बुद्धिरेव प्रधानम्6। यथा भृत्यवर्गेषु कश्चिदेव व्यक्तिविशेषः प्रधानः, अन्ये च ग्रामाध्यक्षादयः तदुपसर्जनीभूताः। तद्वत् चक्षुरादिभिः इन्द्रियाणि सर्वान् विषयान् बुद्धये प्रयच्छन्ति। बुद्धिश्च तं विषयं निश्चयपूर्वकमवधारयति।
     महर्षिकपिलेन प्रत्यक्षं तत्तद्वस्त्वाकारमिति निरूपितम् - "यत्सम्बन्धसिद्धं तदाकारोल्लेखि विज्ञानं तत्प्रत्यक्षम्7" इति। नाम प्रत्यक्षमिति बुद्धिवृत्तिः वस्तुसामीप्यात् तद्वस्त्वाकारमेव प्राप्नोति। तदाकारविशिष्टा सा बुद्धिवृत्तिः न तादृशवस्तुनः संयोगाज्जायते, अपि तु तद्वृत्तिना तेन तस्याः अवस्थाविशेषः एव जन्यते।
     ईश्वरकृष्णमते तु विषयेन्द्रियसन्निकर्षोत्पन्नं निश्चयात्मकं ज्ञानं (अध्यवसायः) प्रत्यक्षप्रमाणमिति8।
     योगदर्शनमपि प्रायः सांख्यदर्शनोक्ताम् अधिगमप्रक्रियामेव अभ्युपगच्छति।
4) मीमांसायां प्रत्यक्षाधिगमः - मीमांसादर्शनं तावत् प्रामुख्येण सम्प्रदायद्वये विभज्यते - भाट्टसम्प्रदायः प्राभाकरसम्प्रदायश्च। तत्रादौ -
(i) भाट्टसिद्धान्तः - मीमांसासूत्रकारस्य जैमिनेः मतानुरोधम् इन्द्रियाणां विषयैः सति संयोगे पुरुषस्य जायते या बुद्धिः तत्प्रत्यक्षमुच्यते। तथा च सूत्रम् - "सत्सम्प्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षमनिमित्तं विद्यमानोपलम्भत्वात्9 इति। अस्मात् सूत्रादवगम्यते यत् इन्द्रियार्थसन्निकर्षोत्पन्नं ज्ञानं प्रत्यक्षमिति। तथा सति भ्रमात्मकज्ञानेऽपि अतिव्याप्तेः वारणाय "तत्सम्प्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म सत्प्रत्यक्षम्10" इत्युक्तम्।
(ii) प्राभाकरसिद्धान्तः - प्राभाकरैः नैयायिकोक्तं प्रत्यक्षलक्षणं नाभ्युपगतम्। तन्मते "साक्षात्प्रतीतिः प्रत्यक्षम्11" इति प्रत्यक्षलक्षणम्। अत्रोक्तं प्रत्यक्षलक्षणघटकं साक्षात्त्वं प्रभाकरविजये नन्दीश्वरस्तावत् त्रिधा निरूपयति। यथा -
क) "साक्षात्प्रतीतिः स्वरूपप्रतीतिः। स्वस्यैव रूपं स्वरूपम्, असाधारणरूपमित्यर्थः"।
ख) "यद्वा, अव्यवहितप्रतीतिः साक्षात्प्रतीतिः। अव्यवहितत्वं नाम स्वविषयानन्तर्गतज्ञानान्तराव्यवहितत्वमभिप्रेतम्"।
ग) "साक्षात्त्वं स्वकालाकलितवस्तुसत्त्वावबोधकत्वं, यत्कालीनं ज्ञानं तत्कालसम्बन्धिवस्तुविषयमित्यर्थः12" इति।
     इत्थं नैयायिकोक्तं प्रत्यक्षलक्षणमेव भाट्टमीमांसकैः सर्वथा अनुसृतमिति वक्तुं शक्यते। प्राभाकरास्तु नैयायिकानां वा भाट्टानां वा मतमननुगच्छन्तः अन्यं पन्थानमनुसरन्ति।
6) वेदान्ते प्रत्यक्षाधिगमः - "तत्र प्रत्यक्षप्रमायाः करणं प्रत्यक्षप्रमाणम्। प्रत्यक्षप्रमा चात्र चैतन्यमेव13" इति प्रत्यक्षनिरूपणम्। तत्र साक्षिद्वैविध्येन प्रत्यक्षज्ञानस्य द्वैविध्यम् - ज्ञेयगतं ज्ञप्तिगतञ्चेति। प्रकारान्तरेणापि प्रत्यक्षं द्विविधम् - "इन्द्रियजन्यं तदजन्यं चेति। तत्रेन्द्रियजन्यं सुखादिप्रत्यक्षं, मनस इन्द्रियत्वनिराकरणात्। सर्वाणि चेन्द्रियाणि स्वस्वविषयसंयुक्तान्येव प्रत्यक्षज्ञानं जनयन्ति14" इति।
     एतेषां मते अन्तःकरणम् इन्द्रियद्वारा बहिर्विषयदेशं गत्वा घटादिविषयाकारेण परिणमते। अयं परिणाम एव अन्तःकरणवृत्तिरित्युच्यते। अन्तःकरणस्य घटादिविषयस्य चैकदेशस्थत्वात् एकदेशस्थिताभ्यां ताभ्यामवच्छिन्नं चैतन्यमेकमेव। इत्थं रीत्या प्रत्यक्षत्वमुपपादनीयमिति वेदान्तिनः आमनन्ति।

                        पादटिप्पणी

1. न्या.द.1.1.15
2. प्रश.भा.चौ.सं.सं.पृ.136
3. न्या.द.1.1.4
4. वै.सू- 3.1.18
5. प्रश.भाष्यम्
6. द्वयोः प्रधानं मनो लोकवद् भृत्यवर्गेषु। (सां.द.2.40)
7. सां.प्रवचनसूत्रम्, 1-89
8. प्रतिविषयाध्यवसायो दृष्टम् (सां.का)
9. मी.द- 114
10. शास्त्र.दी.48
11. प्रकरण प. 146
12. प्रभाकरविजयम्,26
13. वेदा. परि,चौ.विद्या पृ.20
14. तत्रैव, पृ.142

                 उपयुक्तग्रन्थाः (Bibliography)


1. प.र.तङ्गस्वामिशर्मा, "भारतीयदर्शनेषु प्रत्यक्षप्रमाणविमर्शः", मद्रास : अडयार पुस्तकालयः,              1995.
2. "भारतीयदर्शनेषु प्रत्यक्षम्", बेङ्गलूरु : पूर्णप्रज्ञासंशोधनमन्दिरम्, 2000.
3. एस.बि.रघुनाथाचार्यः, "न्यायमीमांसादर्शनयोः प्रमाणविचारः", तिरुपति : पद्मश्री पब्लिकेशन्स, 1983.
4. डा. रामचन्द्रुलबालाजी, "न्यायमनोविज्ञाननयेन प्रत्यक्षविमर्शः", तिरुपति : रा.सं.विद्यापीठम्, 2011.
5. रमाशङ्करत्रिपाठी, "भारतीय दर्शन का परिशीलन", वाराणसी : भारतीय विद्या संस्थान, वि.सं.2057.
6. डा. एम्.ए.आलवार् "प्रत्यक्षम्" तिरुपति : रा.सं.विद्यापीठम्,2010
7. जयदेव वेदालङ्कार, "भारतीयदर्शन में प्रमाण", दिल्ली / वाराणसी : भारतीय विद्या प्रकाशन, 1998.

*****
Devanagari","sans-serif";mso-fareast-font-family: "Lohit Devanagari";mso-bidi-language:HI'>3.    अर्थशास्त्रम्

 ***************************************************************