आनन्द पण्ड्या – शोधच्छात्रः
(व्याकरणविभागः)
॥ लघुपाणिनीये
शिक्षाकाण्डस्य विवेचनम् ॥
व्याकरणदुर्गमार्गेष्वप्रौढान्
बालकान् प्रचारयितुम् ।
लघुपाणिनीयमेतत् प्रणीयते
राजराजेन ॥
अस्मिन् काण्डे राजराजेनवर्यै
अत्यन्तवैज्ञानिकरीत्या सूत्राणां विभागः कृतो वर्तते, ग्रन्थेऽस्मिन्
सिद्धान्तकौमुदी एवं प्रक्रियादिग्रन्थेभ्यः भिन्नरूपेण सूत्राणां विभागः आचार्यैः
अकारि । यथा- शिक्षाकाण्डः अपि पुनः चतुर्विभक्तः ते च –
·
संज्ञाप्रकरणम्
·
परिभाषा प्रकरणम्
·
सन्धिप्रकरणम्
·
शब्दविभागः,
अत्र ग्रन्थे संज्ञाप्रकरणे
सिद्धान्तकौमुद्यापेक्षया अधिकानि सूत्राणि लिखितानि तानि –
१-३-९, तः १-३-८ पर्यन्तं
सर्वोऽपि इत्संज्ञाप्रकरणविशेषः संज्ञाप्रकरणे एव प्रतिपादितः ते पिपठिषूनाम् आदौ
एव स्पष्टं भविष्यति इति । एवमेव संज्ञाप्रकरणे अनपेक्षितानि सूत्राणि यानि
दीक्षितादिभिः प्रतिपादितानि तानि न स्वीकृतानि तानि यथा-
१) आदिरन्त्येन
सहेता, २) येन विधिस्तदन्तस्य, ३) अणुदित् सवर्णस्यचाप्रत्ययः, ४) न वेति विभाषा,
५) ह्रस्वं लघु, ६) दीर्घञ्च, ७) संयोगे गुरु, ८) अदर्शनं लोपः इत्यादि सूत्राणि
एतेषां सूत्राणां तप्-तप् विधिसूत्रैः सह एव तप्-तप् देशे उपन्यस्तानि वर्तन्ते
एतेन छात्राणां कृते अनपेक्षित वृद्धि- गौरवम् अपि न भवतीति भाति ।
पुनश्च सर्वत्र कौमुद्यादिग्रन्थानां खण्डं कर्तव्यमिति हेतुना एतेरयं ग्रन्थः
न प्रतिपादितः अतैव यत्र कौमुदीसम्यग् वर्तते तेषु स्थलेषु तथैव स्वीकृतम् अपि
वर्तते । अतः अयं ग्रन्थः छात्राणां सहाय्यार्थमिति एकमात्रप्रयोजनेन प्रणीतः अतः एतादृशसुचारुरीत्या राजराजेन शिक्षाकाण्डे
संज्ञाप्रकरणं व्यवस्थितम् ।
अथ परिभाषाप्रकरणम्
लाघवाय
संदेहवारणाय च शास्त्रेषु स्वतन्त्र्येण निबद्धाः व्यवस्थाः परिभाषाशब्देनोच्यन्ते
। परिभाषाज्ञानं विना विधिसूत्रार्थबोधो न स्यादिति ताः व्याख्यायन्ते-
सूत्रैस्तावत्
आगमः, आदेशः, प्रत्यय इति प्रायस्त्रिविधानि कार्याणि विधीयन्ते। तत्र प्रत्ययः
प्रकृतेः पर एव कर्तव्य इति नियमः । आगमाः कदाचिदादौ, अन्यदान्ते, जातुचिन्मध्ये ।
आदेशः कदाचिदादेः, अन्यदान्त्यस्य, जातुचित् सर्वस्य च । तत्र नियमः परिभाषाभिः
क्रियते ।
एवमेव शिक्षा
काण्डे द्वितीयप्रकरणं भवति । परिभाषा प्रकरणं तत्रापि कानिचन् सूत्राणि
परिवर्तितानि । यथा- १) अणुदित् सवर्णस्य चाप्रत्ययः २) आदिरन्त्येन सहेता, येन
विधिस्तदन्तस्य, यथा संख्यामनुदेशः समानाम्, उरण् रपरः,एच् इग्घ्रस्वादेशे
इत्यादीनि एवमेव अनपेक्षितानि सूत्राणि इको गुणवृद्धिः, अचश्च इत्यादि सूत्राणि ।
सन्धिप्रकरणम्
प्रकृतिप्रत्ययोः
पदयोर्वा मेलने पूर्वान्त्यवर्णस्य परादिवर्णस्य उभयोर्वा ये विकारा उत्पद्यन्ते,
तानि सन्धिकार्याणि । विकारश्च आदेशः, आगमः, द्वित्वम्, लोप इत्येषामन्यतम एव ।
संधिस्तावत् त्रिविधः संभवति _ पदमध्यमात्रे कर्तव्यः, पदान्तमात्रे कर्तव्यः,
उभयत्रापि कर्तव्य इति । तत्र पदमध्यमात्रे कर्तव्यः संधिर्विरल एव;
प्रकृतिप्रत्ययविवेचनं चापेक्षते । संधिप्रकरणेऽस्मिन् उभयसंधिः
पदान्तसंधिश्चोच्यते । तत्र च यत्र स्वरो विकार्यः सः स्वरसंधिः प्रथमं कथ्यते-
अस्मिन् प्रकर्णेऽपि एतैः
आचार्यैः सूत्राणाम् अपेक्षितानपेक्षितविचारं कृत्वा बहूनां सूत्राणां परिवर्तनं
कृतं वर्तते ।
अथ शब्दविभागः
वर्णैरक्षराण्यारन्यन्ते;
अक्षरैः प्रकृतयः; प्रकृतिभिः पदानि ; पदैर्वाक्यानि; वाक्यैर्भाषा इति हि क्रमः ।
तत्र वर्णाः व्याख्याताः विभक्ताश्च । अक्षराणां विभागश्छन्दःशास्त्रविषयोऽपि
व्याकरणेऽपि क्वचिदुपयुज्यत इति सोऽपि प्रदर्श्यते -
शब्दे
विभागेऽपि अत्यन्तचातुर्ण्येण सूत्राणा चयनं महोदयेन कृतं दृश्यते तेन कानिचन सूत्राणि
पठ्यन्ते चेत् बहूनां शब्दानाम् अनायासेन ज्ञानं भवति, अतः अयं ग्रन्थः छात्रान्
बहूपकरोतीति ।
निष्कर्षः -
सत्स्वपि
बहुषु व्याकरणग्रन्थेषु राजराजवर्येण अयं ग्रन्थः प्रणीतः तस्य एकमात्रकारणम् इदमेव वर्तते यत् अत्यन्ताल्प परिश्रमेण
व्याकरणस्य व्युत्पत्तिपुरस्सरं ज्ञानं
यथा स्यात् तथा छात्रान् उपकर्तुम् अयं ग्रन्थः लिखितः इति ।
*****************************************************************
संस्कृतवर्णमालायां वर्णाः
अरुणभट्टः भरणि
आचार्य द्वितीयवर्षम्
भाषा नाम
मनुष्यस्य अयाचितम् अनर्घ्यं धनम्। मातुरुत्स़ङ्गे एव शिशुः भाषाम् अभ्यसितुम्
आरभते। सर्वोऽपिलौकिकोवैदिकश्च व्यवहारः विना भाषां दुष्करः इति स्फुटमेव।
भाषाएवमुख्यत्वं भजते इह जगति। पशुमानवयोः व्यवछेदिका भाषा एव।
व्यक्तवाचःउच्चारणेमानवो हि समर्थः। अस्य शब्दोच्चारणायाभावाभिव्यक्तिः स्फुटं जायते।
एवम् उच्चार्यमाणा भाषा वाक्यात्मिका भवति। यतो हि लोके वाक्येनैव
अर्थबोधकत्वात्तेनैव अर्थसमाप्तेश्च। यद्यपि वाक्ये पदादीनां विभागोनास्त्येव तथापि
व्यवहारस्तु पदसमूहो वाक्यं,पदन्तु वर्णसमूहः
इत्येव। अत एव हरिणा उक्तं –
न वर्णव्यतिरेकेण पदमन्यच्च विद्यते ।
वाक्यं वर्णपदाभ्यां च व्यतिरेकं न किञ्चन1॥ इति ।
अतः
वाक्यस्य मूलघटकस्तु वर्ण एव ।वर्णव्यत्यये भवन्ति बहवो दोषाः। अतः उक्तं भाष्ये –
वर्णव्यत्यये चार्थान्तरगमनात् ॥
वर्णव्यत्यये चार्थान्तरगमनान्मन्यामहे अर्थवन्तो वर्णा इति ।कूपः सूपो यूपः
इति 2। । इति ।
अतः
वर्णविषये अवश्यं यत्नः विधेयः इति, संस्कृतवर्णमालायां विद्यमानाः वर्णाः कति? ते च के ? इति विषये पाणिनीयशिक्षानुरोधेन
अग्रे विचार्यते ।
वर्णाः कति ?
संस्कृतभाषायां
विद्यमानानां वर्णानां सङ्ख्याविषये पाणिनीयशिक्षायां गणितं दृश्यते। तद्यथा-
त्रिषष्टिश्चतुःषष्टिर्वा वर्णाः शम्भुमते मताः ।
प्राकृते संस्कृते चापि स्वयं प्रोक्ताः स्वयम्भुवा 3॥
1.वाक्यपदीयम् १-७२
2.महाभाष्यम् (हयवरट् सूत्रम्)
3.पाणिनीयशिक्षा -३
संस्कृते त्रिषष्टिः चतुःषष्टिः वा वर्णाः विद्यन्ते। ते च
स्वर-व्यञ्जन-अयोगवाह-यमाः इति चतुर्धा विभक्ताः। स्वरादीनामपि सङ्ख्यादिकं
एकत्रीकृतम्-
स्वरा विंशतिरेकश्च स्पर्शानां पञ्चविंशतिः ।
यादयश्च स्मृता ह्यष्टौ चत्वारश्च यमाः स्मृताः1 ॥
अनुस्वारो विसर्गश्च कपौ चापि पराश्रितौ ।
दुःस्पृष्टश्चेति विज्ञेयोलृकारः प्लुत एव च2॥ इति ।
स्वराः – 21
स्वयं राजन्ते इति स्वराः3 इत्यतः अन्यस्यापेक्षाभावेन उच्चारयितुं शक्याः एव वर्णाः
स्वराः। व्यञ्जनन्तु आत्मानं स्फुटतया प्रकाशयितुं स्वरम् अवलम्बत एव। एते स्वराः
ह्र्स्वदीर्घप्लुताश्चेति प्रत्येकं त्रिधा। एकमात्रकः ह्र्स्वः, द्विमात्रकः
दीर्घः, त्रिमात्रकः प्लुतः,इत्युच्यते। किन्तु दीर्घलृकारः नास्ति।
एकार-ऐकार-ओकार-औकाराणां ह्रस्वाः न सन्ति ।नाम वेदे ,शिष्टैः प्रयुज्यमाने वा एते
वर्णः न श्रूयन्ते। एवं च अ इ उ ऋ एषां वर्णानां प्रत्येकं त्रयो भेदाः। ए ऐ ओ औ
इत्येतेषां द्वौ द्वौ भेदौ। प्लुतलृकारस्य
शिक्षायां पृथक् ग्रहणात् अत्र एक एव लृकारः| एवम् आहत्य २१ स्वराः भवन्ति ।
व्यञ्जनानि – 25+8=33
अन्वग् भवति अनुगच्छति इति व्यञ्जनम्4। अज्धर्मम् उदात्तत्वादिकम् अनुगच्छतीति व्यञ्जनम्।
व्यञ्जनेन सहोच्चार्यमाणस्य स्वरस्य धर्माः व्यञ्जने भासन्ते। अतः व्यञ्जनम्
उदात्तादीन् अनुगच्छतीव भाति। वर्गीय-अवर्गीयव्यञ्जनानि इति व्यञ्जनं द्विधम्।
क,च,ट,त,प इति पञ्चवर्गाः ।प्रतिवर्गं पञ्च वर्णाः । एवं वर्गीयानि पञ्चविंशतिः । य-र-ल-व-श-ष-स-हाश्चेति
कमपि वर्गं अप्रविष्टानि अष्टौ ।आहत्य त्रयस्त्रिंशत् ।
1.पाणिनीयशिक्षा ४
2.पाणिनीयशिक्षा ५
3.महाभाष्यम् २.३०
4.महाभाष्यम् २.३०
अयोगवाहाः - 4
माहेश्वरसूत्राणां वर्णसमाम्नायः इति व्यवहारः। तत्र वर्णसमाम्नाये अनुक्ताः
परं पदावयवत्वेन लोके वेदे च ये श्रूयन्ते ते अयोगवाहाः। व्युत्पत्तिस्तु इत्थं- न
योगः येषां ते=अयोगाः, वहन्ति इति वाहाः। अयोगाश्च ते वाहाश्च=अयोगवाहाः।
अक्षरसमाम्नाये येषां योगः न विद्यते,प्रयोगं वहन्ति ते अयोगवाहाः। ते अनुस्वार-विसर्ग-जिह्वामूलीय-उपध्मानीयाः
।
१.अनुस्वारः –स्वरम् अनुप्रयुज्यते इति अनुस्वारः। स्वरात् पर एव
अनुस्वराणां प्रयोगः। यथा –अं इं
२.विसर्गः -विविधतां
सृजति इति विसर्गः। नाम विसर्गः हरिस्त्राता,बालो गच्छति ..एवम् अष्टधा आत्मानं
दर्शयति ।अतः अन्वर्थसंज्ञा। यथा अः इः....
३.जिह्वामूलीयः
–कखाभ्यां प्रक् अर्घविसर्गसदृशः जिह्वामूलीयः। बालः करोति ,चैत्रः करोति ।
४.उपध्मानीयः
–पफाभ्यां प्राक् अर्धविसर्गसदृशः उपद्मानीयः। शिशुः पिबति ,वृक्षः फलति....
यमाः - 4
वर्गेषु आद्यानां चतुर्णां पञ्चमे परे
पूर्वसदृशः वर्णः यमः इत्युच्यते। पलिक्क्नि इत्यत्र ककारनकारयोर्मध्ये स्थितः
ककारः यमवर्णः। यद्यपि प्रत्येकं वर्गे चत्वारः यमाः इति कृत्वा विंशतिः भवन्ति
तथापि पञ्चानामपि वर्गाणां प्रथम-द्वितीय-तृतीय-चतुर्थ-वर्णत्वेन चत्वार एव
यमवर्णाः ।
दुःस्पृष्टः -1
दुःस्पृष्टः द्वयोः स्वरयोर्मध्ये वर्तमानः लकारः। उच्चारणं
तु ’ळ’ भवति। अस्य उच्चारणे जिह्वाताल्वोः कठोरसङ्घर्षः जायते । अतःळ्कारः
दुःस्पृष्टः । अ इ उ ण् इत्यादिषु माहेश्वरसूत्रेषु
ळकारो न पठितः, तथापि श्रूयते ऋग्वेदे यजुर्वेदे च। अग्निमीळे पुरोहितं1...। यद्देवा देवहेळनं2...।
इत्थं च वर्णाः त्रिषष्टिः। यथा २१
स्वराः, ३३व्यञ्जनानि, ४ अयोगवाहाः, ४ यमाः, ११ दुःस्पृष्टः इति आहत्य ६३ वर्णाः
भवन्ति ।
1. ॠग्वेदसंहिता -१.१
2. यजुरारण्यकम् -२.३
64तमः वर्णः
माहेश्वरसूत्रानुसारेण त्रिषष्टिवर्णेषु
एव प्लुतलृकारः अन्तर्भवति इति माहेश्वरसूत्रानन्तर्भूतः ळकारः एव चतुषष्टिवर्णः
इति पक्षान्तरम्। नाम प्लुतलृकारेण सह स्वराः द्वयोविंशतिः इति। परंतु
पाणिनीयशिक्षायां “स्वरा विंशतिरेकश्च” इत्यारभ्य सर्वेषां वर्णानां ळकारस्य च
पारिगणनं कृत्वा अन्ते “लृकारः प्लुत एव च” इति प्लुतलृकारः पृथगेव परिगणितः।
स्वराणां परिगणनाप्रसङ्गे प्लुतलृकारस्य अनुक्तत्वात् प्लुतलृकार एव चतुश्षष्टितमः
वर्णः इति प्रतिभाति ।
सारः –
संस्कृतभाषावर्णमालायां
तावत् त्रिषष्टिः चतुषष्टिर्वा वर्णाः सन्ति(६३/६४) । स्वराः एकविंशतिः (२१)। व्यञ्जनानि
त्रयस्त्रिंशत्(३३) । अयोगवाहाः चत्वारः(४) । यमाः चत्वारः(४) । ळकारस्य लकारे, प्लुतलृकारस्य
लृकारे वा अन्तर्भावे त्रिषष्टिवर्णाः एव । प्लुतलृकारेण सह ळकारस्यापि परिगणनायां
चतुषष्टिवर्णाः |
यदत्र सौष्टवं किञ्चित्तद्गुरोरेव मे नहि ।
यदत्रासौष्टवं किञ्चित्तन्ममैव गुरोर्नहि ॥
परिशीलितग्रन्थाः-
१ पाणिनीयशिक्षा
३ पदविवेकः
४ वाक्यपदीयम्
५ ऋग्वेदसंहिता
६ यजुरारण्यकम्
************************************************************************
अथ कथम् एकापूपी इति ?
’मुखं व्याकरणं स्मृतम्’ शिक्षादिषु
षट्स्वङ्गेषु शब्दसाधुत्वबोधकं व्याकरणं मुखस्थानीयत्वेन परिकीर्त्यते । उक्तं च
भाष्यकृता ’प्रधानं च षट्स्वङ्गेषु व्याकरणम्’ इति । सत्स्वपि ऐन्द्रादिषु बहुषु
व्याकरणेषु परमेश्वरानुग्रहवता तत्रभवता पाणिनिना सन्दृब्धम् उपचतुःसहस्रसूत्रात्मकमेव
बिभर्ति वेदाङ्गत्वम् । श्रुतिमूलकत्वादस्यैव वेदाङ्गत्वमित्युपापादि नागेशभट्टैः
। अत एवोक्तं शिक्षायां ’येनाक्षरसमाम्नायमधिगम्य महेश्वरात्’ इति ।
आर्थिकप्रक्रियाभेदेन प्रस्थानद्वयवदिदं व्याकरणम् । आर्थिकप्रस्थाने तावत् धातूनां,
तिङां ,सुपां समासादीनाम् अर्थो विचार्यते । शिष्टैरर्थे प्रयुक्तानां शब्दानां
प्रकृतिप्रत्ययविभागपूर्वकमन्वाख्यानं प्रक्रियाप्रस्थाने विचार्यते । शिष्टाश्च
लक्ष्यैकचक्षुष्काः, ते च याञ्छब्दान् धर्मबुद्ध्या प्रायुञ्जत त एव शब्दा
अस्माभिरनुकर्तव्या अर्थबोधनाय, तेषामेव च धर्मजनकत्वम् । ते च शब्दाः अस्मदादिभिः
लक्षणेनैव (सूत्रेणैव) अनुमेयाः इत्यतो वयं लक्षणैकचक्षुष्काः । अनन्तशब्दराशेः
ज्ञानार्थं भगवान् पाणिनिः लघुतमानि सूत्राणि प्राणैषीत् । पाणिनिसूत्रज्ञाने
सत्यपि सूक्ष्मैक्षिकत्वाभावात् क्व वा भगवतः तात्पर्यमवधारणीयमिति सन्देहः जायत
एव ।
तत्र एकापूपीशब्दस्य साधुत्वविषये
शङ्का जायते । तत्रादौ अवसरसङ्गत्यर्थं ’सङ्ख्यापूर्वो द्विगुः’ इति सूत्रं
मनागालोचनीयम् । सङ्ख्यापूर्वावयवः समासः द्विगुसंज्ञः स्यादिति सूत्रार्थः ।
अस्मिन् सूत्रे सङ्ख्यापूर्व शब्दे बहुव्रीहिः । सङ्ख्या पूर्वा यस्मिन् सः
सङ्ख्यापूर्वः समासः इति । तत्रायं प्रश्नः – किमनेन सूत्रेण विधीयमाना
द्विगुसंज्ञा अनन्तरस्य ’तद्धितार्थोत्तरपदसमाहारे च’ इति सूत्रेण विहितस्य भवति?
उत पूर्वमात्रस्य पूर्वसमुदायस्य भवति वा इति । पूर्वमात्रशब्देन
’पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन’ दिक्सङ्ख्ये संज्ञायाम्
तद्धितार्थोत्तरपदसमाहारे च इति त्रिसूत्री गृह्यते ।
प्रत्त्यासत्तिन्यायमाश्रित्य आद्यः, व्याप्तिन्यायमाश्रित्य द्वितीयः प्रश्नः ।
यद्यत्र प्रत्यासत्तिन्यायेन
अनन्तरोक्तस्य तद्धितार्थेति विहितस्यैव द्विगुसंज्ञा इत्युच्यते तर्हि एकशाटी इति
न सिद्ध्यति । अत्र हि एकः शाटः इति विग्रहे ’पूर्वकालैक’ इत्यादिसूत्रेण समासो
वाच्यः । तत्सूत्रविहितस्य द्विगुसंज्ञाभावे द्विगोरिति ङीप् न स्यात् ।
एतद्दोषापनोदाय व्याप्तिन्यायेन पूर्वमात्रस्य संज्ञा इति स्वीक्रियते चेत् एकभिक्षा
इत्यत्र अतिव्याप्तिः । एकः भिक्षः इति विग्रहे पूर्ववत् समासे समासार्थस्य
स्त्रीत्वोपजनात् ङीप् प्रसज्येत ।
अत्रेदं समाधानम् – अनन्तरस्यैव
तद्धितार्थोत्तर इति विहितस्य द्विगुसंज्ञाऽनेन विधीयते । ततश्च एकभिक्षा इत्यत्र
नातिव्याप्तिः । एकशाटीत्यत्र अव्याप्तिदोषस्तदवस्थः । तत्र तु शाटशब्दात्
जातिलक्षणङीषि निष्पन्नस्य शाटी इति दीर्घेकारान्तस्य ग्रहणे एका शाटी एकशाटी इति
रूपं सिद्ध्यति इति न दोषः ।
एवमपि एकापूपी इति न सिद्ध्यति ।
एकापूपी इत्यत्र एकश्चासौ अपूपश्च इत्येव विग्रहः कार्यः । ततश्च ’पूर्वकालैक’ इति
सूत्रेण समासो वाच्यः । अत्र द्विगुत्वे सत्यकारान्तोत्तरपदो द्विगुः स्त्रियां
भाष्यते इति द्विगोरितीकारः सिध्यति नान्यथा ।न च अपूपशब्दाज्जातिलक्षणङीषि अपूपी
इति शब्देन एकशब्दस्य समासे सिद्ध्यतीति वाच्यम्, केवलस्य अपूपशब्दस्य पुंसि
वृत्तेः जातिलक्षणङीषोऽभावात् । यद्यत्र दोषपरिहाराय पूर्वमात्रस्येति स्वीक्रियते
तर्हि एकभिक्षा इत्यत्र दोषतादवस्थ्यम् । अत्रापि भिक्षधातोः ’गुरोश्च हलः’
इत्यप्रत्यये टापि टाबन्तेन समासे एकभिक्षेति निर्बाधमिति चेत् ब्रूते सप्तर्षय
इत्यत्र दोषः । तथा हि सप्तन् अस्, ऋषि अस् इत्यवस्थायां ’दिक्सङ्ख्ये
संज्ञायामिति’ समासे, द्विगुसंज्ञायाम् ’इगन्तकालकपालभगालशरावेषु द्विगौ’ इति
पूर्वपदप्रकृतिस्वरः प्राप्नोति । इष्यते त्वत्र समासस्येत्यन्तोदात्तस्वरः । अनन्तरस्यैवेह
ग्रहणमिति पक्षे तु सप्तर्षय इत्यस्य द्विगुत्वात् इगन्तलक्षणस्वरो न भवति । परं
पञ्चहोतारः इत्यत्र इगन्तेति स्वरः इष्टः न सिध्यति । एकापूपी इत्यत्रापि
दोषोऽस्त्येव ।
अत्रायं परिहारक्रमः – पूर्वमात्रस्य
(त्रिसूत्र्याः) संज्ञित्वेनोपादाने सप्तर्षयः इत्यत्र प्राप्ता अतिव्याप्तिः
वार्यते । ’अन्तोदात्तप्रकरणे त्रिचकादीनां छन्दस्युपसङ्ख्यानम्’ इति वक्ष्यते
तत्र त्रिचक्रादिषु सप्तर्षयः इति शब्दः पठनीयः । तत्सामर्थ्यात् द्विगुस्वरं
बाधित्वा अन्तोदात्तस्वरः सिध्यति । एकभिक्षा इत्यत्र दोषः वारित एव ।
अनन्तरस्य तद्धितार्थोत्तर इति
विहितिसमासस्य संज्ञित्वस्वीकारे यद्यपीमौ दोषौ न प्रसरतस्तथापि एकापूपी, दशहोतारः
इत्यादौ दोष इति पूर्वमुक्तम् । तत्पक्षे तयोरपि परिहारः इत्थं भवति । तत्र हि
दशहोतारः पञ्चहोतारः इत्यादौ द्विगुसंज्ञाभावेऽपि आद्युदात्तप्रकरणे दिवोदासादीनां
छन्दसि’ इति वचनात् दिवोदासादिगणे तेषां पाठः कार्यः । ततश्च आद्युदात्तः
सिद्ध्यति । द्विगुसंज्ञायां सत्यामपि इगन्तेति पूर्वपदप्रकृतिस्वरः भवति । स च
आद्युदात्त ’एव नृसंख्यायाः’ इति नान्तसंख्यानाम् आद्युदात्तत्वविधानात् । अतः
फलेऽभेदः । एकापूपी इत्यत्र तु ’एकश्चासौ अपूपश्च’ इति विगृह्य ’पूर्वकालैक’ इति
समासविधाने द्विगुत्वं न सेत्स्यति । ’तद्धितार्थोत्तरपदसमाहारे च’
इत्यत्रोक्तानामर्थानामनन्वितत्वात् तत्समासो न भवति । तत्र भाष्यकृतोक्तम्
एकापूपी इत्यत्र समाहारः । यथा पञ्चानां गवां समाहारः पञ्चगवम् इति समाहारे समासः
तथेहापि भवति । ननु समाहारो नाम समूहः तस्य चानेकविषयत्वात् एकस्य अपूपस्य
समाहारासम्भवात् कथं समाहारस्य वाच्यता, कथं वा समासः इति चेत् तत्र भाष्यकृतोक्तः
समाधिः – यत्तद्दानं सम्भ्रमो वा इति ।
अयमाशयः – कश्चित्कृपणः अपूपदानं चिकीर्षुः एकमेवापूपं ददत् अनेकं मन्यते । अत्र
दानमित्यनेन दातुः कार्पण्यं, सम्भ्रमः इत्यनेन प्रतिग्रहीतुः कार्पण्यं गम्यते अथवा
दाने श्रद्धातिशयात् अनेकस्मिन् या बुद्धिः सा एकस्मिन्नपि । कश्चित् कृपणः
प्रतिग्रहीता दीयमानमेकमेवापूपम् अनेकं मन्यते । अनेकस्मिन् यः सम्भ्रमः
तमेकस्मिन्नपि करोति । तत्र एकापूपी क्रियते इति प्रयोगः । अथवा अनेकस्मिन् यः
सम्भ्रमः एकस्मिन् क्रियते अपूपमहत्वात् । अवयवगतबहुत्वम् अवयविनि एकस्मिन् अपूपे
आरोप्य समाहारे समासो वाच्यः । ततो द्विगुत्वे ङीप् ।
इत्थमत्र पूर्वमात्रस्य संज्ञा इति
पक्षे अनन्तरस्य इति पक्षे च सम्भाविता दोषाः परिहृताः । किन्तु पूर्वमात्रस्य इति
स्वीकारे एकापूपी क्रियते इत्यादि स्वारसिकप्रयोगाः न सिध्येयुः । अतः अनन्तरस्य
इति पक्षः युक्ततरः प्रतिभाति । किञ्च पूर्वमात्रस्य इति पक्षाश्रयणे असाधारणफलस्याभावात्,
प्रतिविधेयदोषसद्भावाच्च नादरः इति नागेशाशयः । किञ्च अनन्तरस्य इति न्यायेन
’तद्धितार्थ’ इति विहितसमासविषये एवेयं संज्ञा, योगविभागसामर्थ्यात् । अन्यथा
दिक्संख्ये संज्ञायां तद्धितार्थोत्तरपदसमाहारेषु इत्येव न्यासं कुर्यात् इति
दीक्षिता आशेरते ॥
***********************************************************************************
चाटुधाराचमत्कार:
सखायं यस्याहुर्वसुरलिकदृग्भूरिमकरो
दपाङ्गं गोशब्दग्रहपतिपरिष्कारकरणम्।
अधाद् गां गाङ्गेयीमधिकमधिशेते
य उरगं
स भूत्यै भूयस्यै
सरसिरुहनाभोऽस्तु भवताम्॥
(चिन्तलूरुनिवासिना
पेद्दिन्टि कनकाद्रिशास्त्रिणा विरचितोऽयं श्लोक:)
यस्य विष्णो:
अलिके = फाले दृक् यस्य स:= शिव:, सखा मित्रमित्याहु: = वदन्ति।
यस्य विष्णो: जनक: वसुदेव: इत्याहु:। यद्वा यं = विष्णुं,
सर्वजगन्निवास इति वदन्तीति च। यं = देवं,
भूरिमकरोदपाङ्गं = भूरिमाणं सर्ववृद्धिं करोतीति
= कर:, भूरि मकरं च तदुदम् = मुदकं च भूरिमकरोदं तत्पातीति = भूरिमकरोदप: = नीलमेघ इत्यर्थ:।
स इवाङ्गं शरीरं यस्य तथोक्तम्। वदन्ति यम् देवं गोशब्द: = चन्द्र:,
ग्रहपति: = सूर्य:, तौ द्वौ
नेत्रद्वयरूपपरिष्कारकरणं यस्य तथोक्तम्। वदन्ति - य:
= देव: गाङ्गेयीं = सुवर्णस्वरूपिणीम्,
ईं = लक्ष्मीं, यद्वा गाङ्गेयीं
= गङ्गाया: अपत्यं स्त्रीम् गाङ्गेयीं च
सा ईच = गाङ्गेयी वा तां लक्ष्मीं " ईरिन्दी गोमिनी ह्रीश्च भार्गवी कलशाब्दिजा - अमरशेष:। गां = भूमिं च अधात्, द्वे पत्नीभावेन परिजग्राह। यो
विष्णु: अधिकमुरगं शेषमधिशेते = शयितवान्
शेषशायीत्यर्थ:। स: = सरसिरुहनाभ:
श्रीहरि: भवतां भूत्यै ऐश्वर्यायास्तु भवतु।
यस्य देवस्य सरसीरुहनाभ:=
श्रीहरि: सखा मित्रमाहुर्वदन्ति यस्यालिकदृग्भू:
= फाललोचनसम्भव: वसु: = वह्नि:
वसुर्ना देवभेदेषु योक्त्राग्निधनदांशुषु।
मधुरे तु त्रिषु क्लीबे सलिले धनरत्नयो: इति नाना। इं =
मन्मथम्, अपाङ्गम् = अपहृतशरीरमकरोत्।
इकार: फणिरत्नार्चिष्वग्रतोर्धगुहार्थयो: हरे करेणौ कक्ष्यान्ते निशाकरकरे स्मरे इति नाना। यं देवं गौरेव नेत्रमेव शब्दग्रहम्
श्रोत्रं यस्य स: = गोशब्दग्रह: = सर्प:। तेषां
पति: = शेष: परिष्कारकरणम् = आभरणरूपं यस्य तथोक्तमाहु:। य: देव: गां चन्द्रं गाङ्गेयीं
गङ्गासम्बन्धिनीं धाराम् अधात् शिरसि धृतवानित्यर्थ:। यो देव:
अधिकमुन्नतम् अगं = कैलासगिरिम्, अधिशेते = अधिश्रित्य शयितवान्। स: = तादृश:, उ: = शिव:, भवताम् = युष्माकम् भूयस्यै भूत्यै = अधिकैश्वर्यायास्तु = भवतु।
यावत्तोयधराधराधरधराधाराधरश्रीधरॊ
यावच्चारुचचारुचारुचमरं
चामीकरं चामरम्।
यावद्रावणरामरामरमणं
रामायणं श्रूयते
तावद्भो
भुवि भोगभोगभुवनं भोगाय भूयाद् विभो॥
(काळिदासविरचितोऽय़ं
श्लोक:)
तोयधरा:
= मेघा:, समुद्राश्च ( यावत्तिष्ठन्तीति शेष:)। धरा = भूमि:,
धरा: = पर्वता:, हिमवदादय:। मेरो: पृथग्वक्ष्यमाणत्वात्।
आहार्यधरपर्वता: इत्यमर:। धराया: = भूमे:, आधार: = अधर: पाताललोकवर्ती
श्रीधर: = विषधर:, शेष: = महाकूर्मरूप: श्रीविष्णुर्वा। एते च
यावत्तिष्ठन्ति - श्रीर्वेषरचना शोभा सम्पत्सरलशाखिषु। वाणीलक्ष्मीलवङ्गेषु विषबिल्वेप्यथ
त्रिषु इति नानार्थे। किञ्च चारु रम्यं चचेति रु: = ध्वनि: येषां ते = चचारव:,
रुर्ना युद्धे भये ध्वनौ इति नानार्थे। चचारवश्च ते चारवश्चेति विशेषणसमास:।
चचारुचारव: = चमरा: (मृगविशेषा:) यस्मिन् तथोक्तम्। अमराणामिदम् = आमरम् तस्येदमित्यण्।
चामीकरं = सुवर्णं मेरुरिति यावत्। तच्च यावत्तिष्ठति। अपि च रावणश्च रामश्च = रावणरामौ,
तावेव रामौ रमणीयौ = रमणौ नायकप्रतिनायकौ यस्मिन् तत्तथोक्तम्। रामायणं
भुवि = भूमौ यावत्तिष्ठति तावत्पर्यन्तं भोगस्यापि भोगो यत्र स: = भोगभोग:,
भो प्रभो भुवनं = सप्तद्वीपपरिमितं, ते= तव भोगाय
भूयात्॥
सश्रीमानुदयोदयोदयदयोदायोदयोवेदयो
नित्यं
येनरमारमारमरमारामारमस्सारम:।
अव्यादस्तरणोरणोरणरणोराणोरणोरावणो
विष्णुर्जिष्णुरभीरभीरभिरभीराभीरभीभूरभि:॥
(काळिदासविरचितोऽय़ं
श्लोक:)
स: विष्णु: व: रक्षतु
इति शेष:। स: कथंभूत: इत्युक्ते - श्रीरस्यास्तीति श्रीमान् नित्ययोगे मतुप्। नित्यलक्ष्मीनिवास:।
पुन: कथंभूत:- उदयोदयोदयदय:,
उदयस्य = शुभोदयस्य, विधे: = उदय: उद्गत: उन्नतो
वा अयोदयो यस्मात्स: = उदयोदय:, उदय: पूर्वशैले स्यादौन्नत्ये
प्युद्गतावपि इति विश्व:। उदयप्रसारो यस्या स्सा = उदयोदयोदयदया - दया = कारुण्यं,
उदयोदयोदयदय: यस्य दयोदयमात्रेण शुभावहविधे: उदयो भवति न इत्यर्थ:। पुन:
कथम्भूत: दायोदय:- ददातीति = दाय: श्याद्व्याधास्रु - इत्यादिना ण:। (ददतीति=दा क्विप्चेति
क्विप्। दा नयतीति = दाय: कर्मण्यण्।) दायानां = दानशीलानाम्, उदय: = प्रादुर्भाव: यस्य स:= दयोदय: य: पुरुष: परमात्मा विद सर्वं वेत्ति=
सर्वज्ञ: इत्यर्थ:। किञ्च येन हेतुना रमा = लक्ष्मी: मारं = मन्मथं नाम पुत्रम् आर
= लेभे, ऋधातो: लिट्। रमारमारम् = अरमारामारम: = अविद्यमाना रमा
येषां ते = अरमा: = त्यक्तश्रीका: वीतरागा:। अत एव आरामा: = अतिमनोहरा: तेषु आसमन्ताद्रमते
= क्रीडत इति आरम:। अरमारामारम: घञर्थे कविधानमिति क:। सारम: - सारं = वाक्यसारं माति
= वदतीति सारम:। मा शब्द इत्यस्माद्धातो: क:। एतेन वेदकर्तेति फलितम्। किञ्च रणो रणरणो
राणोरण: रणोरणरणो इति- त्रिवारमनुकरणशब्द: - एवं राण: = रणसम्बन्धी रण: = ध्वनि: यस्य
स:= रणोरणरणोराणोरण: - रणो रणरणो इति सर्वदा रामेण सह मे रणोस्त्विति वारं वारं वदन्नित्यर्थ:।
रणो इत्यत्र दीर्घवत्प्रतिभासात्तथाप्रयोग:।
इत्थम्भूतो रावण: अस्तरण: कृत इति शेष:। अस्त: = निरस्त:, रण: येन स:, जिष्णु: = जयशील: ग्लाजिस्थश्च ग्स्नु: इति
ग्स्नु:। विष्णु: = व्यापकशील:। अभी: = निर्भय: , रभी = रभोऽस्यास्तीति,
रभी = भक्तसंरक्षणे, रभसवानित्यर्थ:। गजेन्द्ररक्षणप्रसस्तवेगयुक्त
इति यावत्। रभिरभि: = रभिनीवेगयुक्ता रा = गति: यस्य स:= रभिर: जववद्गमन इत्यर्थ:।
रभिर: भि: = पक्षी यस्य स:= रभिरभि: मनोजववद्गरुडवाहन इति यावत्। रा स्त्रियां हेम्नि
शालायामाशंसायां गतावपि - नानार्थे। भि: स्त्री भीत्यां खगे पुंसि इति च। आभीरभीभूरभि:
- आभीराणां गोपालानां भीभू: = भयस्थानभूमिरिति यावत्। र: = पावक:, तस्य भि: = भयं यस्मात् स: - गोपबालकभयङ्करदवानलकबलनकर इत्यर्थ:। र: पुमान्
पावके कामे इति नाना।
***********************************************************************************
पदोपस्थापकाचज्ञ्चेति सूत्रार्थविचारः
चिर्रावूरि कृवणानन्त पद्मनामः
अचइच इति सूत्रार्थतिचारोऽत्र प्रस्तूयते । अचइचेति किं
परिभाषाऽलोन्त्यस्थेत्यस्य दोषो विशेषणमुत अलोन्त्पस्पेत्यस्यापशडः इति विचार आदौ
कृतः । तदुक्तं याब्ये ’किमयमलोन्त्पदोष आहोस्विदलोन्त्यापकादः। इति ।
तच्छेषतश्पवाउपज्ञाविको गुणवृद्धी इति सूत्र उपपाडितौ थद्यपि तथापि
स्पब्श्प्रतिपत्त्यर्थं पुनः पृच्छ्यते भाब्ये कथं वाथं
तत्र्त्ठषः स्यात् क थं वा तडपवाडः ?इति । यघेकं वाक्यं तच्चेडंच
अलोन्त्यस्य विधयोभवन्ति अचो श्स्वडीघीप्लुता अन्त्पस्थेति, ततोऽचं तच्छेषः । अथ
नानावाक्थमलोन्त्पस्य विधयो भवन्ति, ट्र्स्वशीघप्लुता अन्त्यस्यानन्त्पस्य चेति
ततोऽचं तश्पराड । इति । यद्यपि अलोन्त्पस्थ इत्पस्यापि परि भाषारूपत्के
तस्यायं दोषो किडोषणमिति कथं सगच्छतांमिति उक्तं हि भाष्चे न द्युपाधेदपाधिर्भवति,विशेषणस्य
विषोवणं वा इति,इति चेद ऊयते क्वचिच्च तधाश्रयणेऽपडोषः । अत एव प्रकृतग्रन्यसंगतिः , किय्च
प्रकृतपरिभाषापेत्तयाच तस्थालोन्त्थस्थेस्य व्यापकत्वं भाव्यकाराणाम भिमतम् । अत
एव तस्यैतज्ञाहोषणंमिति यंगच्छ्ते । अत एव चाचैचेत्यस्य भावे डपि स्थानषपठीरूपाट् लिङ्गादिदव
उदित्याडावलोन्त्यस्य प्रवृत्रिः सूचिता ।
तच्छेशषश्राक्षयणे
हॄस्वादिविधिरलोन्त्पस्येति चेइचि प्राच्छिशमादि प्रभृतिहनिगमिदीर्धोपवज्ग्रहणम्
इति वार्तिकमाब्धम् । हस्वदीर्धप्लुतमिधिः अलोब्त्पस्येति चेत् वच्भातोः
क्विब्वचिप्रच्छयातास्तुकटप्रुजुश्रीणां डीघौऽसम्प्रसारणं च इति दीर्घः विधीचमानः अलोन्त्पस्य इत्यन्त्पट्य
प्राप्नोतीति तस्य दीरवारणा र्चमज्ग्रहणं कर्तव्यमित्यर्थः । अन्थथा चकारस्यदीर्घो
रूपासङ्गतिः । एवमेव प्रच्छ धातोः विधीमनो दीर्घे छकारस्य मा यूडित्येवमर्थम्
अज्म्रहणं कर्नव्यम् । तथा शमामपरामा मिति क्षूत्रेण नि व्पीयमनो डीर्धो मकारस्य
प्रप्ण्नेति, हन्तेझ अज्झनगमां सनीत्पनेन वि व्यीयमानो डीर्घो नकारस्य स्यात् ,
तथा तेनैव सूत्रेण तिधीचमानो गमेर्डीर्ध
मकास्य स्यात् । तथाचेत्थं रूपाणि चुः
नन्वत्र
वार्तिके ’शमदिप्रभृतिहनिगमिंदीर्धेषु शपस्ति आदिप्रभृतिशब्दयोः यौनठकस्पं
प्राप्नोति र्खल्वति चेडत्र कैथटः प्रभृतिगहणेन ष्विवुक्लम्वादयो मृह्यन्त इति ।
तथाच आदिपदं शमामष्रानांमिति क्षत्रस्थबडकचनानुवादकमिच्पथौ द्रष्टव्यः । एवच
तच्छेवथश्रे दोषसत्वेन भाब्थे तदपवादपश्र आश्रित अस्मिंश्च पज्ञ आश्रिते पूर्वोकता
दोषा वार्थन्ते । यतइचायमलोन्त्थस्येस्य न विशेवणं,अतो ह्रस्वदीर्घात्यो विधीचमाना
अलोन्त्यस्य इअत्यन्त्पस्यैव स्थाने भवन्ती त्यधौ नास्ति, अतः
वचिप्रच्छिशमाडिमाडिप्रभृतिहनिगमीनां चछननमानां स्थाने न भवन्ति किन्तु तद् घटक
अचामनन्त्यभूतानां स्थाने इति वच्यादीनाम् अकार-अकार-अकार –अकार-अकाराणां स्थाने
दीर्घः सिध्पतीति न दोषः । अलोन्त्थस्य इत्पस्य झपवाडतथा हि अचः इति संकीर्त्यते ।
तदपवादपज्ञाश्रायणे
पूवौकतानां दोषाणां वारणेऽपि पुनदौषान् दर्शयति वार्तिकवारः ’अचइचेन्नपुंसकह्वाकृत्सर्वधातुकनामिडीर्घेपवनन्त्पप्रत्प्षेधः’
इत्पनेन । अस्मिंझ् पज्ञे ट्स्वादीर्घप्ल्तविधानं यत्र तत्र अचः स्थाने स आदेशो
भवतीत्पर्थः सम्पघते । तथाच अतिरै इत्पत्र हृस्वोनपुसंकेप्रातिपदिकस्थ इति सूत्रेण
विधीयमानो हस्नः थथा अतिरै इत्यत्र ऐकारस्य भवति तथा सुवाक् बाद्मणकुलमित्पत्रापि
स्थात् । तथाहि रायमतिकान्तमित्यर्घे प्रातिपदिकस्य अवयवस्य अचः शेकारस्य स्थाने
हृस्वो थथा भवति तथा शो भना वाक्
यस्य तद इत्यर्थे
वकारादाकारस्यापि हृस्वः स्थात तस्थापि सुवागिति प्रातिपदिकावचवत्वस्याबाधात् ।
तथाप्राप्तह्स्ववारणर्थः प्रतिषेध आश्रयणीय इत्यर्थः प्रकृतवार्तिकस्य,रावमेव
चीयते सूयते इत्यत्र अकृत्सार्वधातुकयो । र्दीघौ ।
विधीयमानः अच इकारस्थ चकारोत्तरस्य सकाशेत्तरस्य च थथा भवति
तथा छिदयते भियते इअत्याशवपि स्थात् । यकारे परे अङ्गभयवस्य अचो दीर्घ इत्यर्थात्
।’नामि’ इत्पनेन विधीयमानो दीर्घो यथा अग्नीनाम् वायूनाम् शपत्र नामि परे
अचोऽग्निशब्दावयवस्येकारस्य वायुरूपप्रातिपदिकावयकस्यो कारस्य यथा स्यात् तथा
षण्णमित्यत्र षषवथवाकारस्यापि स्थात् इत्यापत्तीनां स्वरूपमुपदर्शितं प्रकृतपश्रे
भाष्ये ।
तदपवादपतप्राप्तदोषाणां
मध्ये नामीत्यनेन विधीयमान दीर्घ विषयकातिव्यप्तिपरिहारार्थं यत्नो विहितो भाष्ये
’नैष दोषः, नोपधायाः ’ इत्येतन्नियमार्ग्थं यवितयतीति । अस्यामवस्थायां
नियमाकास्तु एवंम् अङ्गस्य अवयवस्य अचो दीर्घइचेतवर्हि नकारान्तस्येवेति, तेन
षण्णामित्यत्राङ्गस्य नान्तत्वा भावेन न दीर्घ इत्यर्ह्थः । यघङ्गस्य दीर्घ
इत्यर्थः । यघङ्गस्य दीर्घज्ञ्चेवेति, नियम्यते तर्हि अन्यते शायापि
नकारान्ताङ्गस्य सत्त्ने तत्रापि दीर्घः प्रप्नोति इति चेद् नान्तस्य नाम्येव
दीर्घ इति पज्ञ आश्रीचते । एवमुच्यमाने अन्यते तन्यते शायाडौ
दीर्घप्राप्रिरूपातिव्याप्तिरूपो दोषो वार्थते । नान्तस्याङ्गस्य नाम्पेव दीर्घ
इत्यानेन नियमेन नान्तस्य नामोऽन्यस्मिन् परे दीर्घशणं फलं भवति, नामि परे
नकारान्तभिन्राङ्गस्य अवयकस्याचोथः प्राप्तो दीर्घादिः तशरणं न फलं स्यात् । तथाच
षण्णामिस्यत्र पुनर्दीर्घप्राप्तिरूपातिव्याप्तिस्तश्वस्थैव भग्ति । अथोमयथापि
नियमः क्रियते नान्तस्याङ्गस्य नाग्येवेति तथापि दोव शवेलधुना दोषः प्राप्नोतीटि
दीर्घतं भाब्ये ’अथात्युभयतो नियमः स्यात् नोपधाया एव.नामि,नाम्येन, नोपधाया इति,
एवमपि भिद्यते छिद्यते सुवाक् ब्राह्मणकुलामित्यत्रापि प्राप्नोति “इत्यनेन ।
कथञ्चिद्दोषजातमध्यनामीत्यत्रोभमतो मियमेनातिव्याप्तिवारणेऽपि तद्भिन्नस्यले
दोषास्तदवस्था एवेत्यर्थः । कैयटेन प्रकृते तदपवादपक्षे भिद्यते इत्यादारपि दीर्घप्राप्तिरूपतिव्याप्तिरूपदोषो वाटितः ।
तथाहि ’यकारादो यदङ्गं तस्य योऽवयवोऽजित्येवमत्र प्रसङ्ग, यदा त्वजेव यकारादिना
विशेव्यते तशत्र व्यवयानान्रास्ति प्रसङ्गः ,एवमन्पत्रापि ज्ञेचभ् “इत्यनेन ।
अर्थात् तदपवादपक्षे भिद्यते इत्यादौ यकारादौ प्रत्यथे परे यदङ्गंम् इत्यनेन
यकारादिप्रत्यपरकत्वमङ्गस्येति यकारादिनाङ्गंविशेष्यते तदा तदा भिद्यते इत्यादवपि
अकृत्सार्वव्यातुकयोरित्यनेन दीर्घः स्यात् । यदा तु अप्नेव निशेवयते
यकारादिप्रत्यचेन तदा यकारादौ प्रत्यये पोऽजङ्गावयवः तस्य दीर्घः इत्यर्थः । तथाच
चीयते इत्पाडौ प्रप्यये परेऽजङ्गावयवोऽस्तीति कृत्वा तस्य दीर्घः भिद्यत इत्यासौ
तदभावेनाडीर्घइच सि ध्यतीति कैयटस्याशयः । किन्तु प्रत्यपस्य अङ्गांशे एवोत्थिताकाङ्गायाः स्त्र्वेन,
अङ्गवयवेऽसत्वेन, अङ्गावयवोऽच यकाराडिप्रत्ययेन विशेष्यते इति वक्तुं न
शकयम्,उक्तं च नागेशेनात्रैव कैयटव्यारूयाने ’इदं चिन्त्यम्,प्रत्यस्याङ्गांश
एवोत्थिताकाङ्गत्वादिति । एवञ्च पदोपस्थितिपज्ञ एव उपपादितो भाष्ये । उक्तच्च’एवं
ह्स्वो दीर्घः प्लुत इति यत्र ब्रूयाद् अचः इत्येतत्तत्रोपस्थितं द्रष्टव्यम् इति
। यतः पदोपस्थापकत्वमनया परिभाषया बोध्यतेऽतः द्वितीया षष्ठी तत्र प्रादुर्भव्यते
। एवञ्च अकृत्सार्व धातुकयारित्यत्र अङ्गस्य इत्यधिकारात् लश्यते,दीर्घ इति पदस्य
श्रवणेन अच इति षष्ठचन्तं पदमपतिष्ठते । चिशेष्यविशेषणभावे कामचाराट्
वचिप्रच्छिशमादिप्रभृतिह्निगमिडीर्घेषु गृह्यमाणेन अच विशेष्यते । । एतेषां अचो
दीर्घो भवति इति । एवञ्चात्र पक्षे उपस्थिताच इत्यस्य विशेषणत्वेनाविवज्ञायां
किन्तु निशेष्यत्वेन विवक्षायां तदन्तविध्यभावेन अङ्गस्य इअत्यवयस्याचो दीर्घ इअत्यादिरर्थः
पर्यवस्यति । तथाच वचिप्रच्छादिषु दोषो वार्थते । नपुंसकहस्वाकृत्सार्वधातुअकादिषु
च विशेष्यविशेषणाभावे कामचारस्यैव सत्त्वेन अङ्गस्य इत्यादेः निशष्यत्वम्,
दीर्घपदह्यवणेनोपस्थित स्याच इत्यस्य विशेषणत्नमिति तदन्तविधौ अजन्तस्य
प्रातिपदिकस्य हस्वः,यकारादौ प्रत्यये अजन्तस्याङ्गस्य दीर्घ इत्यर्थस्याश्रयणेन
भिद्यते, घ्ठिद्यते दुयाशै अन्त्यस्य दोर्घप्रायकातिव्याप्रिर्वारितेति भावः ।
पदोपस्थितिपक्ष
प्रतिपाडननेलायां भाष्य उक्तंम् ’ एवं तर्हि ह्स्वो दीर्घः प्लुत इति यत्र
ब्रूयाद् अच इत्येतन्तत्रो पस्थितं दष्टव्यम् इति। अस्याशयं स्पष्शतया प्रकटीकर्तु
’इह कस्मान्न भवति द्यौः पन्यास इति’ इति पृष्टम् । हृस्वो दीर्घः प्लुत इति
वाक्ये ययपीतिकरणं वर्तते तथाच तदानुपूर्वीकसहिततया यत्र हॄस्वादीनां किधानं
तत्रैव पदोपस्थितिः भवतीति द्यौः इत्यादौ प्रकृतपरिभाषायाः प्रवृत्तिरेन न
भवितुमर्हति, तथापि वाच्यवाचकयौः,संज्ञासंहिनोः, शब्दार्थयोदभेदेन लोके व्यवहारस्य
दृष्टत्वेन ह्स्व इति ब्रूयात् दिर्घ इति ब्रूयात्, प्लुत इति ब्रूयात् इत्यस्य
तत्पशभिधेय अकाशदिः हॄस्बो, आकाशदिः दीर्घो इत्यादिक्मेणाथौ भवतीति मन्यतेऽत्र
वादी । तथाच दिव औत शयत्र औकारस्य दीर्घस्य विधानेन पूर्वोक्तरीत्या अच इति
षष्ठचन्तस्योचस्थित्या भिज्ञेष्यविशेषणभावे कामचारेण अच इत्यस्य
विदोष्यत्वाङ्गीकरे, तदन्तविध्यभावेन दिवोऽवयवस्येकारस्यौ दित्य र्थाश्रयणेऽचं
दोषः । एवमेवेत योरुदाहटणयोरपि। तदा संज्ञा विधाने नियमः इत्युक्तं भाष्ये ।
संज्ञया ये हृस्वदीर्घप्लुताः विधीयन्ते तत्रैवेचं परिभाषा प्रवर्तते इत्यर्थः ।
दिव औदित्यत्र औकारस्यौकारत्वेन विहितत्वम्,पन्था इत्यत्राकारस्याकारत्वेन
निधानम्, स इत्यत्र अकारस्य अकारत्वेन विधानम्,दीर्घह्स्वसंज्ञाया,एवम्च
प्रकृतपरियाजात्र न प्रवर्तत इत्यदोषः,तर्हि संज्ञया विधाने नियम इत्यपूर्वतया
वक्तव्य त्वे प्राप्ते न वक्तव्यम्,उनकालोजिति रूत्रत् अजित्यनुवर्तते । ह्स्वदीर्घप्लुता
इत्यपि । ह्स्वदीर्घप्लुत इत्युपस्थितस्य न अचामुपस्थापकत्वम । तथा सति ह्स्वादिसंतूका
अचः अचः स्थाने भवन्तीत्मर्थो भवति येनात्र प्रकृते न किम्चित्प्रयोजनम् ।
तथाचाश्रितस्वरूप व्यापारा आश्रीचन्ते । एवम्च हस्वैत्येतदानुपूर्वीनिशिष्श्तया
योऽच विधीयते सोऽचःस्थाने भवति इत्यादिक्रमेणार्थो भवति । तथाच द्यावित्पाडौ
दोषायावायापूर्वतया वचनं न कार्यमिति सिध्यति । यदि पूर्वसूत्रेऽज्ग्रहणस्य
फलमत्र सूत्रे दर्यंते चेदूकाल इत्यत्र माभूट् अचो ग्रहणम्, किन्त्वत्रैव सूत्रे
तदभवतु इत्यस्याः शङ्गायाः समाधानमुच्यते पूर्वसूत्रेऽज्ग्रहणस्य प्रयोजनमस्ति ।
तदुक्तं भापये ’अज्ग्रहणं संयोगाच्समुदायनिवृच्य र्धम्’ इति ।
*****************************************
स्त्रियाः पुंवदित्यादिसूत्रार्थविचारः
डा . प्रमोद भट्टः
अतिथ्युपन्यासकः
व्याकरणविभागः
[सारांशः - सप्तविधेषु सूत्रेषु इदं सूत्रं
रूपातिदेशविधायकमस्ति । भाषितपुंस्कादनूङ् इति समस्तं पदम् । चित्रगुः,
रूपवद्भार्यः इत्यादीनि सूत्रस्यास्य उदाहरणानि भवन्ति । केचित्तु मते
चित्राजरतीगुः, जरतीचित्रागुः इति वा रूपम् । उत्तरपदं नाम समासस्य चरमावयवे रूढम् । पूर्वपदं नाम समासस्याद्यवयवे
रूढम् । होतृपोतृनेत्रोद्गातारः इति “आनङ् ऋतो दून्द्वे” सूत्रे भाष्यप्रयोगात् समासचरमावयवस्यापि
आनङ्ङादेशकृतत्वात् इदं केचित्तु मतमयुक्तमिति प्रतिपादनम् । जरती चासौ चित्रा च
इति विग्रहे कर्मधारयसमासे पुंवद्भावे च कृते जरच्चित्रा इति जाते ततः गोशब्देन “अनेकमन्यपदार्थे”
इत्यनेन बहुव्रीहिसमासे चित्रा इत्यस्य स्त्रिया पुंवदित्यनेन पुंवद्भावे
जरच्चित्रगुः इत्यपि रूपम् । एवमेव अस्य सूत्रस्य यानि प्रत्युदाहरणानि
कौमुद्यादिषु प्रदर्शितानि तानि च अत्र लेखे यत्यामति प्रस्तूयते ।]
“स्त्रियाः पुंवद्भाषितपुंस्कादनूङ् समानाधिकरणे श्त्रियाम्
अपूरणीप्रियादिषु” इति इदं सूत्रं पाणिनीयाष्टके षष्ठाध्याये
तृतीयपादे चतुस्स्त्रिंशत्तमं वर्तते ।
कार्यरूपनिमित्तार्थशास्त्रतादात्म्यशब्दिताः
।
व्यपदेशश्च
सप्तैतानतिदेशान् प्रचक्षते ॥ इति ॥
सप्तविधेषु
सूत्रेषु अतिदेशेषु रूपातिदेशविधायकं सूत्रमिदं वर्तते । भाषितपुंस्कादनूङ् इति
समस्तं पदम् । भाषितः पुमान् येन तद्भाषितपुंस्कम्, तदस्यास्तीति “अर्श
आदिभ्यो अच्” (5-2-12) इति सूत्रेण मत्वर्थीयः अच्प्रत्यय: । तस्मात् भाषितपुंस्कात् । ऊङः अभावः
अनूङ्ः । भाषितपुंस्कादनूङ् यस्याम् इति “अनेकमन्यपदार्थे” (2-2-24)
इति सूत्रेण वहुव्रीहिसमासः । अत्र भाषितपुंस्कात् इति पञ्चम्याः
अलुक् निपातनात् । तथैव भाषितपुंस्कादनूङ् इत्यत्र बहुव्रीहिसमासादुत्पन्नायाः
षष्ठ्याश्च अपि निपातनादेव लुक् । स्त्रियाः इति षष्ठीविभक्त्येकवचनम् । पुंवदिति
प्रथमाविक्त्येकवचनं विधीयमानम् । समानाधिकरणे इति सप्तमीविभक्त्येकवचनम् ।
स्त्रियामित्यपि । प्रियादिः एषां ते प्रियादयः, पूरणी च प्रियादयश्च
पुरणीप्रियादयः, न पूरणीप्रियादयः अपुरणीप्रियादयः, तेषु अपुरणीप्रियादिषु इति,
सप्तमीविभक्तिबहुवचनम् । “अलुगुत्तरपदे” (6-3-1) इति सूत्रादुत्तरपदे इत्यनुवर्तते । एवं च सूत्रार्थः तुल्ये
प्रवृत्तिनिमित्ते यद्भाषितपुंस्कं तस्मात्परः ऊङभावः यत्र तथा भूतस्य
स्त्रीवाचकशब्दस्य पुंवाचकस्येव रूपं स्यात् समानाधिकरणे स्त्रीलिङ्गे उत्तरपदे
परे न तु पूरण्यां प्रियादौ च परतः इति फलति । चित्रगुः, रूपवद्भार्यः
इत्यादीनि सूत्रस्यास्योदाहरणानि भवन्ति । चित्राः गावः यस्य इति विग्रहे चित्रा
जस् गो जस् इत्यवस्थायाम् “अनेकमन्यपदार्थे” इति सूत्रेण समासे “सुपो
धातुप्रातिपदिकयोः” (2-4-71) इति सत्रेण सुपः लुकि “कृत्तद्धितसमासाश्च” (6-2-46) इत्यनेन विशिष्टात् प्रातिपदिकसंज्ञायां चित्रा गो इति स्थिते अनेन
सूत्रेण पुंवद्भावप्रवृत्तिः । अत्र चित्राशब्दः पुल्लिङ्गोऽप्यस्तीति
भाषितपुंस्कः सः, समानाधिकरणे स्त्रीलिङ्गे गोशब्दे उत्तरपदे परे तस्य पुंवद्भावः
। चित्रगो इति दाशायां “गोस्त्रियोरुपसर्जनस्य” (1-2-48)
इति हृस्वे विभक्तिकार्यादिषु कृतेषु चित्रगुः इति रूपम् । एवमेव
रूपवती भार्या यस्य सः इति विग्रहेऽपि दृष्टव्यम् ।
चित्रा
जरती गौ: यस्य इति विग्रहे “अनेकमन्यपदार्थे” इति सूत्रेणैव बहूनां
पदानां बहुव्रीहिः । अस्मिन्नुदाहरणे पुंवद्भावः कस्य इति संशय: । यतो हि उत्तरपदे
परे पूर्वयोः द्वयोः पदयोः स्त्रीवाचकयोः सत्वात् संशयोत्पत्तिः ।
केचित्तु
अत्र एवं कथयन्ति चित्राजरतीगुः, जरतीचित्रागुः इति वा रूपम् । एवं
दीर्घातन्वीजङ्घः, तन्वीदीर्घाजङ्घः इति च । पूर्वोक्तयोः लक्षयो: त्रिपदो
बहुव्रीहिः स्त्रियाः पुंवदिति पुंवद्भावः विधीयते उत्तरदे परे । उत्तरपदं नाम समासचरमावयवे रुढम् । तच्च इह
तृतीयपदमेव । एवमेव पूर्वपदमित्युक्ते
समासस्य प्रथमावयवे रूढम् । पूर्वपदस्य मध्यमपदेन व्यवधानात्
उत्तरदपरकत्वाभावाच्च पुंवद्भावः न भवति । मध्यमपदस्यापि न पुंवद्भावः यतो हि उत्तरपदपरकत्वेऽपि
पूर्वपदत्वाभावात् इति ।
इदं
केचित्तु इति मतं न युक्तम् । कुत: इति चेत् स्त्रियाः पुंवदिति सूत्र उत्तरपदे
इत्यस्य सत्वेऽपि पूर्वपदं न आक्षिप्यते । अत्र सूत्रे उत्तरपदशब्दसत्वेऽपि
पूर्वपदादिति अर्थात्सिध्यतीति न च वाच्यम् , “आनङ्तॠध्तो द्वन्द्वे” (6-3-25) इत्यत्र इव पूर्वपदमित्यस्य इह नाश्रीयते । तथा च विद्यायोनिसबन्धवाचिनां
द्वन्द्वे आनङ् विधीयते उत्तरपदे परे “आनङ् ॠतो द्वन्द्वे” इति
सूत्रेण । होतृपोतृनेष्टोद्गातारः इति उदाहरणम् । होता च पोता च नेष्टा च उद्गाता
च चतुर्णां “चार्थे द्वन्द्व:” (2-2-29) इति सूत्रेण द्वन्द्वसमास: होतृपोतृनेष्टोद्गातृ इति स्थिते “समर्यः
पदविधिः (2-1-1) इति सूत्रभाष्ये उत्तरपदे
परे उपान्त्यस्य आनङ्भाष्यकारैः कृतः ।
उपान्त्यशब्दः नेष्टृशब्दः वर्तते । तस्यानङि होतृपोतृनेष्टोद्गातारः इति रुपम् ।
एवं च पूर्वपदं आक्षेपेण न लभ्यते इति तु स्पष्टमेव । अनेन जरती चित्रा गौः
यस्येति त्रिपदबहुव्रीहौ उत्तरपदे परे विधीयमानः पुंवद्भावः उपान्त्यस्य भवतीति चित्राजरद्गु:, जरतीचित्रगुर्वा
इति रूपं सिध्यति । एवं च चित्राजरत्यौ गावौ यस्य इति द्वन्द्वगर्भे वहुव्रीहौ अपि
चित्राजरद्गुः इति रूपं भाष्यसंमतं भवति । जरच्चित्रगुः इत्यत्र उभयत्रापि
पुंवद्भावः । तथा हि जरती चासौ चित्रा च इति विग्रहे “विशेषणं विशेष्येण
बहुलम्” (2-1-57) इति सूत्रेण कर्मधारयासमासः । पूर्वपदस्य जरतीशब्दस्य पुंवद्भावे जरच्चित्रा
इति जाते ततः गोशब्देन “अनेकमन्यपदार्थे”
इति बहुव्रीहिः, चित्राशब्दस्य स्त्रियाः पुंवदित्यनेन पुंवद्भावः ।
कर्मधारयोत्तरपदे
बहुव्रीहौ तु चित्राजरद्गवीकः इति रूपम् । तथा चाह जरती चासौ गौश्च इति कर्मधारये “गोरतद्धितलुकि”(5-4-92)
इति टचि अवादेशे जरतीशब्दस्य “पुंवत्कर्मधारयजातीयदेशीयेषु”(6-3-42)
इति पुंवद्भावे जरद्गव इति जाते टच: टित्त्वात् “टिड्ढाणञ्”
इत्यादिना ङीपि जरद्गवी, ततः चित्रा जरद्गवी यस्य इति बहुव्रीहौ “नद्यृतश्च”(5-4-153)
इति कप्रत्यये चित्राशब्दस्य स्त्रियाः पुंवदित्यनेन पुंवत्वे चित्रजरद्गवीक इति
रूपं सिध्यति ।
अस्मिंश्च सूत्रे पुंवद्भावः स्त्रियाः भवतीत्युक्तत्वात् ग्रामणि (कुलम्
) दृष्टिः अस्य ग्रामणिदृष्टिः इत्यत्र ग्रामणिशब्दस्य नपुंसकलिङ्गस्य पुंवत्वं न
भवति । अन्यथा ग्रामणि इति हृस्वेकारस्थाने दीर्घश्रवणापत्तिः । अपि च
भाषितपुंस्कादित्युक्तेः गङ्गाभार्य: इत्यत्र गङ्गापदे न पुंवत् । गङ्गा भार्या यस्येति बहुव्रीहौ गङ्गापदं न
भाषितपुंस्कं किन्तु स्त्रियामेव नियतम् । वामोरूभार्यः इत्यादौ ऊङन्तविषये
पुंवद्भावनिवृत्तये अनूङ् इत्युक्तम् । अयं च पुंवद्भाव: समानाधिकरणविषय एव । अनेन
कल्याण्या: माता कल्याणीमाता इत्यत्र पुंवद्भावः न । अत्र “षष्ठी” (2-2-8) इति सूत्रेण षष्ठीतत्पुरुषसमासः । अस्य पुंवद्भावस्य प्राप्तौ उत्तरपदमपि
स्रीलिङ्गे एव स्यात् । अत एव समानाधिकरणे स्त्रीलिङ्गे उत्तरपदे परे इत्येवार्थ:
कौमुद्यां वर्णितः । तेन कल्याणी प्रधानं यस्य सः कल्याणीप्रधानः इत्यत्र पुंवत्वं
नास्ति उत्तरपदे स्त्रीत्वं नास्ति इति हेतोः ।
पूरणप्रत्ययान्ते
प्रियादौ च परतः नायं पुंवद्भावः, अपूरणीप्रियादिषु इति निषेधात् । कल्याणी पञ्चमी
यासां रात्रीणां ताः कल्याणीपञ्चमाः रात्रयः । एवमेव कल्याणी प्रिया यस्य सः कल्याणीप्रियः । पूरणप्रत्ययान्ते परे विहितः
अयं पुंवद्भावप्रतिशेधः प्रधानपूरण्यामेव भवति । तेन कल्याणपञ्चमीक: पक्ष: इत्यत्र
पुंवद्भाव एव । ननु कल्याणीपञ्चमा: इत्यत्र बहुव्रीहित्वात् बहुव्रीहेः
अन्यपदार्थप्रधानात् कथं वर्तिपदार्थस्य पूरणस्य प्राधान्यम्? इति चेदाहात्र
पञ्चानां पूरणी रात्रिः वर्तिपदार्थः भवति इति तु युक्तमेव । किन्तु
अन्यपदार्थसमुदायघटकतयापि सा स्वीक्रियत इति प्राधान्यमस्ति तस्य । अत्र
उद्भूतावयवस्य रात्रिसमुदायस्य अन्यपदार्थत्वम्। तद्घटकाः यथा प्रथमा, द्वितीया ,
तृतीया, चतुर्थी इत्येवं चतस्रः रात्रयः तथैव पञ्चम्यपीति अन्यपदार्थे तस्याः
प्रवेशात् प्राधान्यमस्त्येव इति निषेधः सिध्यति ।
योजनमस्ति ।
तदुक्तं भापये ’अज्ग्रहणं संयोगाच्समुदायनिवृच्य र्धम्’ इति ।
*************************************************************************************************
हल्ङ्याबिति
सूत्रे अपृक्तग्रहणविचारः
शशाङ्क
तिम्मण्ण भट्टः
शोधच्छात्रः
सुबन्तप्रक्रियायां
सखिशब्दनिरूपणप्रसङ्गे सूत्रमिदं व्याख्यायते । सखिशब्दात् सुप्रत्यये, ‘अनङ् सौ’ इत्यनङादेशे, ‘सर्वनामस्थाने
चासम्बुद्धौ’ इति उपदादीर्घे, सखान् स्
इत्यवस्थायां सकारस्य लोपविधानार्थमिदमारभ्यते ।
हल् च ङीप् च आप् च इति
द्वन्द्वः । हल् ङ्याभ्यः इति
पञ्चमीश्रवणात् ‘तस्मादित्युत्तरस्य’ इति
परिभाषोपस्थितिः । सूत्रे दीर्घादिति विशेषणं ङ्यापोरेव,असम्भवात्
तद्विशेषणं न हलः । सुतिसि इत्येतेषां प्रत्ययत्वात् तेन प्रकृतिः आक्षिप्यते ।
एवं च हल्ङ्याभ्यः इत्यस्य सुतिसिप्रत्ययैराक्षिप्त-प्रकृतिविशेषणतया तदन्तविधिः ।
ङ्यापोः प्रत्ययत्वात् प्रत्ययग्रहणपरिभाषया च तदन्तविधिः । ततः हलन्तात्
दीर्घङ्याबन्तादिति लब्धम् । ‘लोपोव्योर्वलि’ इत्यतः लोपः इत्यनुवर्तते । ततश्च हलन्तात्परं दीर्घौ यौ ङ्यापौ तदन्ताच्च
परं सुतिसि इत्येतदपृक्तं हल् लुप्यते इति सूत्रार्थः ।
सूत्रे सुतिसि इत्यनेन लुप्तेकारोकाराः
गृह्यन्ते । एतेषां सुतिसि इत्येवं रूपत्वमेकदेशविकृतन्यायेन ग्राह्यमिति
दीक्षिताः । शब्दरत्नकारस्तु अर्धाधिकविकारे स एव अयमिति
प्रत्यभिज्ञाभावात् न्यायस्यास्य अप्रवृत्तिः इत्याह । तस्मादिह स्थानिवद्भावेन
सुतिसि इत्येवं रूपत्वमवगन्तव्यमिति तदाशयः ।
सूत्रे हल्ङ्याभ्यः इति न विहितविशेषणम्
। यदि विहितविशेषाणमिह स्वीक्रियेत तर्हि हलन्तात्, दीर्घौ यौ
ङ्यापौ तदन्ताच्च विहितं सुतिसि इत्येतदपृक्तं हल् लुप्यते इत्यर्थः स्यात् ।
ततश्च या, सा इत्यादौ सुप्रत्ययः दीर्घङ्याबन्ताद् न विहितः
इत्यतः सकारस्य लोपो न स्यात् । नात्र हलन्ताद्विहितत्वेन परिहारः,यः, सः इत्यादौ सुप्रत्ययः हलन्ताद्विहितः इत्यतः
सुलोपापत्तिः । कर्ता इत्यादौ कर्तृशब्दात् सुप्रत्यये ‘अनङ्
सौ’ इत्यनङादेशे, कर्तन् स् इत्यत्र
सुप्रत्ययः हलन्तात् दीर्घङ्याबन्ताद् वा न विहितः इति सकारस्य लोपाभावापत्तिश्च ।
सूत्रे अपृक्तग्रहणाभावे बिभर्ति
इत्यत्र तकारस्य लोपः स्यात् इत्युदाजह्रुः दीक्षिताः । वस्तुतस्तु एतदुदाहरणं
प्राचीनमतरीत्या । भिनत्ति, छिनत्ति इत्युदाहरति प्रक्रियाकौमुद्याः प्रकाशकारः
। तस्य मते असत्यपृक्तग्रहणे हलन्तात् परं दीर्घौ यौ ङ्यापौ तदन्ताच्च परं
सुतिसिरूपं हल् लुप्यते इत्यर्थः स्यात् । तथा सति भिनत्ति छिनत्ति इत्यादौ भिनद्
ति, छिनद् ति इत्यवस्थायां तकाररूपस्य हलः लोपापत्तिः ।
तस्मादिह अपृक्तग्रहणम् । सत्यपृक्तग्रहणे ति इत्यस्य नापृक्तत्वमिति ।
प्रत्युदाहरणमिदं दीक्षितमते चिन्त्यम्, विशिष्टस्य हल्त्वासम्भवात् । तस्मादपृक्तग्रहणाभावेऽपि अस्मिन्
प्रत्युदाहरणे तकाररूपस्य हलः लोपाभाव एव । किञ्च अपृक्तग्रहणाभावेऽपि हल्ङ्याभ्यो
दीर्घात् सुतिसि हल् इत्यत्र सामानिधिकरण्येन अन्वयमकृत्वा, षष्ठीसमासं
स्वीकृत्य, सुतिसीनां हल् लुप्यते इति व्याख्याय, अधुना भिनद् ति इत्यत्र तिसम्भन्धीहल् लुप्येत इति अस्य
प्रत्युदाहरणसम्भवेऽपि, सुतिसीनां हलिति क्लिष्टं व्याख्याय
अतिप्रसङ्गापादनमनुचितम् । सति सामानाधिकरण्ये वैयधिकरण्येनान्वयस्य
अन्याय्यत्वात् ।
प्रक्रियाकौमुद्याः प्रसादकारः अस्यैव
प्रत्युदाहरणम् इत्थं ददाति – सुरां सुनोतीति विग्रहे, सुरा इत्युपपदपूर्वक-अभिषवार्थकषुञ् धातोः क्विप् प्रत्यये, सर्वापहारलोपे, ‘हृस्वस्य पिति कृति तुक्’ इति तुगागमे, सुरासुत् इति रूपम् । ततः
सुरासुतमाचष्टे इत्यर्थे ‘तत्करोति तदाचष्टे’ इति णिचि, ‘णाविष्टवत्’ इति
इष्टवद्भावेन उदित्यस्य लोपे, ततः आचारार्थे क्विपि, इष्टवद्भावेन णिचः लोपे सुरास् इत्यवस्थायां, प्रथमा
विभक्तौ सुराः, सुरासौ, सुरासः इति
रूपाणि सिध्यन्ति । तत्र प्रथमाविभक्तावेकवचने सुरास् स् इत्यवस्थायां
विभक्तिसकारस्यानेनैव सूत्रेण लोपः । परं सूत्रे यद्यपृक्तग्रहणं न स्यात्,
तर्हि सुरास् इत्यत्र अवयवसकारस्यापि लोपः स्यात् । अपृक्तग्रहणे तु
सकारस्य न लोपः, तस्य एकाल्प्रत्ययत्वाभावादिति ।
दीक्षितैरेतन्निराकृतम् । सूत्रे
तिस्योः साहचर्यात् सु इत्यस्यापि विभक्तिप्रत्ययत्वेनेह ग्रहणम् । अन्यथा ‘अभैत्सीत्’ इत्यदावपि सिचः सकारस्य लोपापत्तिः । ‘प्रत्ययाप्रत्यययोः प्रत्ययस्यैव ग्रहणम्’ इति
परिभाषया च सुरास् स् इत्यत्र प्रत्ययसकारस्यैव ग्रहणं, न तु
धातुसकारस्य । तस्मादपृक्तस्याग्रहणेऽपि इह प्रत्यय सकारस्यैव लोपसम्भवात्
प्रत्युदाहरणमिदं न युक्तमिति ।
सूत्रेऽस्मिन् अपृक्तपदं, हल्पदद्वयं, दीर्घपदं, तिस्योश्च
ग्रहणमकृत्वा ‘ङ्यापः सोः’ इति
सूत्रयितुमुचितमिति मनोरमायां निष्कर्षरूपेण उक्तम् । सुराः सुरासौ इत्यादौ तु
सूत्रे तिस्योरभावेऽपि, ङ्याभ्यां साहचर्यात्
प्रत्ययग्रहणपरिभाषया च सोः प्रयत्वेन ग्रहणं सम्भवत्येव । हल्ङ्याब्सूत्रे भाष्ये
‘‘यदि पुनरयमपृक्तलोपः संयोगान्तलोपो विज्ञायेत’’ इत्युक्त्वा ‘‘द्विहलपृक्तग्रहणं तिस्योश्च ग्रहणं न
कर्तव्यं भवति’’ इति समाहितम् । तत्र द्विहलपृक्तग्रहणं
तिस्योश्च ग्रहणाभावे ये ये च दोषाः समुत्पन्नाः, ते च
मार्गान्तरेण परिहृत्य “न चेद्विज्ञायते, द्विहलपृक्तग्रहणं तिस्योश्च ग्रहणं कर्तव्यमेव” इति
संसाधितम् । एतद् भाष्यबलात् ‘ङ्यापः सोः’ इति न्यासोऽस्तु इति दीक्षिताः आशेरते ।
***************************************************
पाणिनीयं सुभाषितम्
एल्.सविता आर्या
व्याकरणाध्यापिका
सच्चिदानन्दपरमेश्वरकृपया विशालकारूण्यातिशयात्सल्लक्ष्याच्च
जगति शान्ति-सुख-समृद्धयो वर्षन्ति, प्रभवन्ति च । महान्तः महर्षयः लोकान् समुद्धर्तुं
भूयः प्रसादयन्ति । अमीषां सतां सम्प्राप्त्यै भारतं भाति पुण्यतरम् । न नगाः,
न नद्यो, नोपवनानि केवलं राष्ट्र्स्य कस्यचन
महिम्नो निदानम् । असौ हि केवलं ऋद्धिर्भौतिकी । आध्यात्मिकता हि शाश्वतिकी
शान्तिः समृद्धिश्च । सा च सदाचारमूला धर्मार्थकामाद्याश्रिता । “आचारः परमो धर्मः“ इति खलु आर्षवचनम् ।
तदाचारसंरक्षोपायविधास्वन्यतमा सुभाषितपरम्परा । सुभाषितानि तदेकवृत्या काव्यादिष्वानुषङ्गिकवृत्या
च लोकहिताय सद्भिर्महद्भिर्व्याहारिषत । समाजे वा निकाये वा यदनुत्तमं
भद्रंकरं च तद् रत्नमिति प्राहुः प्राञ्चः ।
पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभषितम् ।
सत्कविभणितिर्हि श्रुता वा श्राविता वा कमप्त्यानन्दमावहति
चेतः सुखाकरोति ज्ञानविवर्धनाय च भवति । मिते सुभषितभृङ्गारेऽमितो रसो विद्यत इति
विदितं विदाम् । सुभाषिताविष्कारवृत्तवर्णनं दुःशकम् । संस्कृतसाहित्ये नैकानि
जीवनमूल्यसङ्गुम्फितानि सुभाषितानि समाहितानि । तत्र च रामचन्द्रभट्टः सभ्याभरणम् इत्याख्ये ग्रन्थे तादृशसरणिमनुसरन् व्याकरणशास्त्रमादाय तद्गतसूत्राणां
सरलतया लोकभाषानुस्यूततया विवेचनाय नैतिकाचारशीलशिक्षायाः प्रसाराय च
सुभाषितसंकलनात्मकं विवरणं चकार । तद्यथा – सज्जनानां
सादृश्यं “समासस्य” इति
समासान्तोदात्तत्वविधायकसूत्रेण प्रतिपिपादयिषति ग्रन्थकारः
।
समस्तमुच्चतां नेतुं
रचितानेकरीतयः ।
इह श्लोकस्य सुभाषितपक्षे
समासोदात्तविधायकशास्त्रेण सुजनानां साम्यं भजते दृन्भूः (ग्रन्थकर्त्ता) । “समासस्य“[3] इति सूत्रेण समासे उदात्तविधिः । तत्सदृशाः उदात्तगुणगरिष्ठास्ते सज्जनाः
इति ।
समसनं समासः । एकत्रीकरणमित्यर्थः । अर्थात् समस्ते
सम्पूर्णे मानवसमाजे तस्य सज्जनस्य उदासीनो शतत्रुर्वा भवेत् (प्रत्येकं जीवने
त्रयः पक्षाः उत्पद्यन्ते एव, मित्रोदासीनशत्रवश्चेति)
तदेवमुक्तं –
मुनेरपि वनस्थस्य स्वानि कर्माणि कुर्वतः ।
तेषां समाजे मित्रेषु, उदासीनेषु शत्रुषु वा ख्यातिं
महत्वं प्रापयितुं सः साधुः रचितानेकरीतयः भवति । रचिताः अनेकाः रीतयः
प्राप्त्यनुकूला उपाया यैस्ते रचितानेकरीतयः । भिन्न-भिन्नप्रकारकोपायान् विचारयति
निष्पादयति यथा, तद्वदेव समासोदात्तविधायकशास्त्रं “समासस्य”[5] इति । समासस्यान्त
उदात्तो भवतीति सूत्रार्थः । एतदपि शास्त्रं नाना प्रकारेण निष्पादितं समस्तं
समासनिष्ठं राजपुरूष-ब्राह्मणसमिदादि पदमुच्चतामुदात्ततां गमयितुं
सामान्यविशेषभेदेन अनेकोपायैर्यतते, साधयति च । इति
सुभाषितपक्षे ।
दृष्टान्तयति दार्ष्टान्तिकः व्याकरणपक्षे – ’राजपुरूष’ इत्यत्र
राजशब्दे तावत् “कनिन्युवृषितक्षिराजिधन्विद्युप्रतिदिवः”
इत्युणादिसूत्रेण कनिन् प्रत्ययान्तत्वात् “ञिनित्यादिर्नित्यम्”[6] इति नित्स्वरेणाद्युदात्तत्वम् । एवं हि पुरूष शब्दः “पुरः कुषन्“ इत्युणादिना कुषन् प्रत्ययान्तो
व्युत्पाद्यते । शब्दोऽयमपि नित्स्वरेणाद्युदात्तः । कृते समासे पदानां हि पृथक्
स्वरः प्रसज्येत, यदीदं शास्त्रं नोच्येत । अतस्तपवादोऽयं
योगः उच्यते । समासनिष्ठपदानां तत्तत् स्वरे प्राप्ते तदपवादतया
समासविधायकशास्त्रेण समासान्तोदात्तत्वं “समासस्य”[7] इति सूत्रेण
विधीयते । तेन नानापदस्वरस्यापवाद इत्युक्तम् । “अनुदात्तं
पदमेकवर्जम्“[8] इति योगेन च शेषनिघातः ।
’राजपृषत्’ ’बाह्मणसमित्
’ इत्यादावपि “समासस्य” इति समासोदात्तविधायकशास्त्रेण अन्तोदात्तत्वे विहिते, योऽत्र समासस्यान्तो दकारः नासौ स्वरभाक्; यश्च ततः
पूर्वोऽकारः नासौ समासस्यान्तः, तकारेण व्यवहितत्वात् । अत
आह-“स्वरविधौ व्यञ्जनमविद्यमानवत्”[9] इति । समासे येऽचः पूर्वे तदपेक्षया
परस्याचः अन्तोदात्तत्वं वेदितव्यम् । एवञ्च यथाकथञ्चिदपि समासस्य
एकत्रीकृतपदसमूहस्य उदात्त-शास्त्रेण उदात्तत्वं शास्ति । इति व्याकरणपक्षः ॥
एवञ्च सज्जनदुर्जनयोः प्राकृतिकस्वभावभेदः
तद्धित-प्रत्ययेन तुल्यमिति सिसाधयिषति उत्तरश्लोकेन :-
स्वभावादेवैकः कलयति सदा साधुवचनम्,
स्वभावादन्यस्मिन्नपि न सहते यत्तदपरः ।
समानेऽप्याकारे खलसुजनयोर्भेदकमिदम्,
सुभाषितपक्षे- इह खलु जगति दृष्टिपथानुगमे
सुजनदुर्जनौ शरीराद्याकारेण समानौ सन्तावपि स्वभावतः विषमौ वर्तेते । तद्यथा
सज्जनः स्वस्वभावात् आनन्दकाले विषादकाले वा सर्वदा प्राणिमात्रं प्रति साधुवचनानि, साधुव्यवहारांश्च व्यवहरति,
दुर्जनवचनमपि सरलया कलयति । दुर्जनस्तु अपरैरुक्तानि सुष्ठुवचांसि
अपि दुर्जनस्वभावनिरतत्वात् दुष्टत्वेनैव विचार्य न तत् सहते इति; एवं समानेऽप्याकारे तत्तत्स्वभावगतभेदेन उभयोरपि खलसुजनयोर्भेदः
स्पष्टायते ।
व्याकरणपक्षे- अनयोः सुजनदुर्जनयोस्तौल्यं कथं
विभेद्यते इत्याकांक्षायां श्लोककारः रामचन्द्रभट्ट उवाच - तद्धितायते इति ।
तद्धित इव आचरतीत्यभिप्रायः । “तद्धिताः”[11] इत्यधिकारसूत्रम् आपञ्चमाध्यायमधिक्रियते । अधिकारेऽस्मिन् यत् प्रत्ययः,
य प्रत्ययश्च सूत्रद्वयेन विधीयते ।
नानुबन्धकृतमसारूप्यमिति परिभाषावचनमनुसृत्य
वर्णसाम्येन उभयप्रत्यययोस्तुल्येऽपि परस्परं भेदकत्वमस्त्येव । किमिदं यत्
समानेऽप्याकारे भेदकत्वेन परिगण्यते इति चेत् यथा “शरण्यः” शरणे
साधुरिति पदार्थः । “कर्मण्यः” कर्मणि साधुरिति । साध्वर्थविवक्षायां “तत्र
साधुः” इति सूत्रेण सप्तमीसमर्थप्रातिपदिकात्
साध्वर्थे विधीयमानः यत् प्रत्ययः स्वभावात् प्रकृतितः विधिवशात् साधुवचनं
साध्वर्थाभिधानतामङ्गीकरोति ।
“सतीर्थ्यः” इति लक्ष्ये “समानतीर्थे वासी”[12] इति सूत्रेण सप्तमीसमर्थात् समानतीर्थशब्दात्
वासी इत्यमुष्मिन्नर्थे यत् प्रत्ययः । साधु इति निवृत्तम् । वासी इति
प्रत्ययार्थः । वसतीति वसी । निपातनादेव णिनिः,
ग्रह्यादेराकृतिगणत्वाद्वा साधुरिति । अथवा वसनं वासः
वासोऽस्यास्तीति वासी, मत्वर्थीयो इनिः । समाने तीर्थे गुरौ
वासी सतीर्थ्यः = सहाध्यायी । यत् प्रत्ययपरकतीर्थशब्दे उत्तरपदे समानस्य सभावः “तीर्थे ये”[13] इति लक्षणेन ।
’वासी’ इत्यरर्थे
विधीयमानोऽयं तद्धितः यत् प्रत्ययः साध्वर्थं निवर्तते । तत्तदाकारदृष्टया
भेदरहितौ समानावपि तद्धितप्रत्ययौ स्वभावात् प्रकरणवशात् प्रकृतार्थत्वात् साध्वर्थं
साधुवचनं नैव सेव्येते । भेदकत्वं संगृह्येते एव । तथा च समानेऽप्याकारे खलसुजनयोः
स्वभावतस्तु तयोर्भेद एव मानम् । अत उक्तं शलोके –
खलसुजनयोः स्वभावः तद्धितायते इति ॥
*****
अथ सज्जनप्रशंसामेव पुनः पद्यान्तरे अनुसरति अत्र
दृन्भूः (ग्रन्थकारः) –
अनीचसङ्गप्रणया महान्तः परोन्नतेर्ये परितोषवन्तः
।
प्रकृतश्लोके सज्जनानां सादृश्यमुपमानोपमेयभावेन
सुधिया कल्प्यते । ते सज्जनाः कीदृशाः इति श्लोकस्थ तृतीयपादे स्पष्टीकृतम् – पूर्वोच्चारितेन
आमन्त्रितसंज्ञकसम्बुद्धिपदेनोपमेयास्सन्ति सन्तः महान्तः ।
सम्बुद्धिपदतुल्यताङ्गताः सुजनाः महता प्रयत्नेन नयनातिथित्वं नेयाः, नाम दानादिप्रशंसायोग्यत्वं प्रापणीयाः अवश्यं
प्रशंसार्हाः भवन्ति ।
श्लोकाङ्किते प्रथमचरणे इतोऽपि तेषां वैशिष्ट्यं
सूच्यते । कीदृशास्ते सन्तः ? इति प्रश्नपूर्वकसमाधिः ’अनीचसङ्गप्रणयाः’ इति । अर्थात् नीचानां खलानां सङ्गः प्रणयः प्रीतिर्येषां ते
नीचसङ्गप्रणयाः । तद्भिन्नाः अमी सज्जनाः, नीचसङ्प्रणयः
प्रीतिर्न विद्यते तेषु, समानशीलव्यसनेषु मैत्री इति वचनात्
। नाम दुष्टस्वभावविरताः इति । दुष्टस्वभावश्चोच्यते –
खलः सर्षपमात्राणि परच्छिद्राणि पश्यति ।
तथा च परोन्नतेर्ये परितोषवन्तः ते सज्जनाः इति
सज्जनानां गुणप्रकर्षः । परेषामुन्नतिं
दृष्ट्वा ऐश्वर्यसुखाद्यभिवृद्धिञ्चावलोक्य ये सतुष्यन्ति, न
तत्र असूयावन्तः, ते न द्विष्यन्ति । परेषां =
मित्रशत्रूदासीनानामित्यर्थः । शत्रूणामपि ऐश्वर्याद्यभिवृद्धिमवलोक्य ये
नासूयन्ति, नेर्ष्यन्ति, प्रत्युत्
परितोषवन्तः भवन्ति ते सज्जनाः ।
असूयेर्ष्यादिभावनानामविद्यमानवत्वादेव ते सज्जनाः साधवः प्रशंसार्हाः, इत्येवं तावत् सुभाषितपक्षः ।
अथ च व्याकरणपक्षे स्वरविषयक-आलोचनायां तु
कथञ्चैतेषां सतां सम्बुद्धिपक्षेसादृश्यमिति चेत् हे देवदत्त ! हे यज्ञदत्त ! अत्र आष्टमिकेन “आमन्त्रितस्य च”[16] इति योगेन आमान्त्रितपदस्य अनुदात्तता । ’देवदत्त
पचसि’ इत्यादौ च “तिङ्ङतिङः”[17] इति
लक्षणेन तिङन्तस्य निघातः प्राप्तः । तस्य चानुदात्तत्वस्य “आमन्त्रितं पूर्वमविद्यमानवद्”[18] इत्याष्टमिकसूत्रेण
आमन्त्रितसंज्ञकदेवदत्तपदस्य अविद्यमानवत्वेन निर्वचनात् नीचतां निवार्य
धातुस्वरेण=प्रकृतिस्वरेण अर्थात् साधुस्वभावेन उदात्ततामुन्नतिं सम्पादयितुम्
आमन्त्रितसंज्ञकपदं स्वयमविद्यमानवद्भावमाश्रित्य तं = परपदं = तिङन्तमुदात्ततया
अलङ्करोति । अतः प्रकृतपद्ये सम्बुद्धिपदेनोपमेयास्सन्ति सन्तः । एवञ्च
उदात्तस्वरेण गतानां साधूनां सतां परोन्नतिं प्रति सन्तोषवत्त्वं बोध्यम् ॥
“इत्योम् शम्”
[1] चाणक्यनीतिदर्पणम् १४-९
[2] सभ्याभरणम् ३/१६
[3] अष्टा.सू.स.(६/१/२२३)
[4] महा.भा.१२/४१/४२
[5] अष्टा.सू.सं.(६/१/२२३)
[6] अष्टा.सू.सं.(६/१/१९७)१
[7] अष्टा.सू.सं.(६/१/२२३)
[8] अष्टा.सू.सं.(६/१/१०७)
[9] (व्या.महा.प.३६)
[10] सभ्यभरणम् ३/२
[11] अष्टा.सू.स.(४/१/७६)
[12] अष्टा.सू.स.(४/४/१०७)
[13] अष्टा.सू.स.(६/३/८६)
[14] सभ्याभरणम् २/११
[15] महा.भा.१.३०.६९
[16] अष्टा.सू.सं(८/१/१९)
[17] अष्टा.सू.सं(८/१/२८)
[18] अष्टा.सू.सं(८/१/७२)
*************************************************************************************************
श्रीः
श्रीः
अनुवाद:- उमामहेश्वरः एन्
शोधच्छात्रः
हैन्दवीयजयघोषवादनैः प्रेरयाम
नवभारतम्
ग्रामनगरगिरिकाननादिषु सात्त्विककिरणं
वितराम।
पुनरपि दिक्षु प्रसरतु नियतं
मोक्षचिन्तनं सर्वत्र
पलायनमिह नो नानुमन्यते
पार्थसारथेर्दिव्यभुवि॥
भाषा भिन्ना वेषो भिन्नस्तथापि
जीवनमेकरसम्
सहस्रवत्सरसमरविजेत्री
पावनहिन्दूजीवकला।
सङ्घर्षे समराङ्गणभूमौ
दरीदृश्यते चैतन्यम्
ग्रामे ग्रामे प्रतिनवचित्तं
सन्देशोऽयं हिन्दूनाम्॥
उच्चनीचजनजातिमतानां भेदभावना
दूरमगात्
स्नेहगुणानां पवित्रगङ्गा
सिञ्चति जनहृदि भावभुवम्।
दशप्रहरिणी दुर्गारूपा भारतमाता
सायाति
क्षात्रतेजसा निहत्य दुष्टान्
निर्भयलोकं सृष्टवती॥
मुक्तिपथेषु मार्गदर्शनं कुरुते
खलु सुरभारती
विश्वस्तवकल्याणप्रेरणां तनुते
भारतभूरेषा।
तत्समध्येये समर्पयतु ननु
जनगतजीवितकाललवं
जागर्यायाः पवित्रकार्ये
सहकुरुतादिह सर्वगृहम्॥
ಹಿಂದುತ್ವದ ಜಯಘೋಷವ ಮೊಳಗಿಸಿ ನಾಡನು ಜಾಗೃತ ಗೊಳಿಸೋಣ ಎನ್ನುವ ದೆಶಭಕ್ತಿ ಗೀತೆಯ ಅನುವಾದ
**********************************************************************************
No comments:
Post a Comment