Wednesday, July 20, 2016

न्याय-विभागः

तत्त्वान्वेषणे साधनसरणिः
डा. नवीनहोळ्ळः
सहायकाचार्यः, नव्यन्यायविभागः
अध्यात्मविद्या हि विद्यास्वशेषासु वेदवेदाङ्‍गप्रभृतिषु निरतिशयमुत्कर्षमावहतीति निर्विवादम् । श्रूयते इतरविद्यापेक्षया आत्मविद्यायाः परत्वम् ’द्वे विद्ये वेदितव्ये परा चैवापरा च । अथ परा यया तदक्षरमधिगम्यते’ इति। गीतासु च ’अध्यात्मविद्या विद्यानाम्’ इति । उपनिषत्सु विस्तरेण प्रतिपादितायाः ब्रह्मविद्यादिशब्दैः व्यपदिश्यमानाया अस्याः दुरधिगम्यत्वं श्रुतिःसदृष्टान्तमाह ’क्षुरस्य धारा निशिता  दुरत्यया दुर्गं पथस्तत्कवयो वदन्ति’ इति ।  सर्वानर्थपरम्पराणां मू‍लोच्छे‍द‍न‍स‍म‌र्था‍याः निरतिशयानन्दाविर्भावकपरमपुरुषार्थसमधिगणमैकहेतोः आत्मविद्यायाः सम्प्राप्तौ अनुसरणीयां साधनसरणिं सुस्पष्टमादर्शयति श्रीमच्छङ्‍करभगवत्पादप्रणीतः ’विवेकचूडामणिः’ ।
                   जन्तूनां नरजन्म दुर्लभमतः पुंस्त्वं ततो विप्रता
                        तस्माद् वैदिकधर्ममार्गपरता विद्वत्त्वमस्म्मात् परम् ।
                आत्मानात्मविवेचनं स्वानुभवो ब्रह्मात्मना संस्थितिः
                        मुक्तिर्नौ शतकोटिजन्मसु कृतैः पुण्यैर्विना लभ्यते ॥
          जन्तुभिः क्रमशः समधिगन्तव्यनि साधनानि सोपानक्रमेण निर्दिश्यन्ते, मानुषजन्म-पुरुषत्वं-विप्रत्वं-वेदो   क्तधर्मानुष्ठानपरता-वेदान्तवाक्यश्रवणपूर्वकज्ञानप्राप्तिः - युक्तिपूर्वकम् आत्मानात्मविवेचनं -निदिध्यासनपूर्वक ब्रह्मसाक्षात्कारः, वासनाक्षयमनोनाशाभ्यां ब्रह्मभावेन अवस्थानमिति।
          आत्मज्ञानप्राप्तेः प्रथमं साधनं मानुषजन्मैव। मानुषशरीरं हि ’चतुरशीतिलक्षयोनिपरिणतं’ इति स्मर्यते, ’न मानुषं विनाऽन्यत्र तत्त्वज्ञानं तु लभ्यते’ इति च। यतोहि ज्ञानप्राप्तेः बहिरङ्‍गसाधानानां वेदोक्तकर्मणां यथाविध्यनुष्ठानसामर्थ्यं स्त्रीणां न विद्यते । द्वितीयं साधनं पुंस्त्वम्। ज्ञानप्राप्तेरन्तरङ्‍गसाधनस्य सन्यासाश्रमस्य ब्राह्मणैकाधिकारिकतया, ब्राह्मणस्यैव ऐदम्पर्येण ब्रह्मविचारः सुघटः, न तु क्षत्रियादीनाम् । चिन्ताविक्षेपहेतूनां बाह्यव्यापाराणां सत्त्वात् । अतो विप्रत्वम् अग्रिम साधनम्। अत्र चिन्त्यते । ननु पशुजन्मनि अज्ञाननिवृत्तिपूर्वकमोक्षावाप्तिः गजेन्द्रादीनां स्मर्यते,
’गजेन्द्रो भगवत्स्पर्शात् विमुक्तोऽज्ञानबन्धनात् ।
प्राप्तो भगवतो रूपं पीतवामाश्चतुर्भुजः ॥ (भागवतम् ८.४.६)’
          स्त्रीजन्मनि ब्रह्मवादित्वं योगसमाधिसम्पतिश्च देवहूत्याः स्मर्यते,
’स्वमात्रा ब्रह्मवादिन्या कपिलोऽनुमतो ममौ ॥’ (भागवतम् ३.३३.१२)
ध्यायती भगवद्रूपं यदाह ध्यानगोचरम् ।
सूतः प्रसन्नवदनं समस्तव्यस्तचिन्तया ॥
भक्तिप्रवाहयोगेन वैराग्येण बलीयसा ।
युक्तानुष्ठानजातेन ज्ञानेन ब्रह्महेतुना ॥
ब्रह्मव्यवस्थितमतिर्भगवत्यात्मसंश्रयि ।
नित्यारूढसमाधित्वात् परावृत्तगुणभ्रमा ॥ (३.३३.२७)
स्वाङ्गं तपोयोगमयं मुक्तकेशं गताम्बरम् ।
देवगुप्तं न बुबुधे वासुदेवप्रविष्टधीः ॥ (२९)
योगपाटवं दाक्षायण्याः स्मृतम् –
कृत्वा समानवनिलौ जितासना सोदानमुत्थाप्य च नाभिचक्रतः ।
       शनैर्हृदि स्थाप्य धियोरसि स्थितं कण्ठाद् भ्रुवोर्मध्यमनिन्दितानयत् ॥ (४.४.२५)
ततः स्वभर्तुश्चरणाम्बुजासवं जगद्गुरोश्चिन्तयती न चापरम् ।
ददर्श देहो हतकल्मषः सती सद्यः प्रजज्वाल समाधिजाग्निना ॥
मन्त्रद्रष्टृत्वं ब्रह्मवादित्वं च स्मर्यते घोषादीनाम् –
घोषा गोधा विश्ववारा अपालोपनिषन्निषत् ।
ब्रह्मजाया जुहूर्नाम अगस्त्यस्य स्वसादितिः ॥
इन्द्राणी चेन्द्रमाता च सरमा रोमशोर्वशी ।
लोपामुद्रा च नद्यश्च यमी नारी च शश्वती ॥
श्रीर्लाक्षा सार्पराज्ञी वाक् श्रद्धा मेधा च दक्षिणा ।
रात्री सूर्या च सावित्री ब्रह्मवादिन्य ईरिताः ॥ (बृहद्देवता २.८४)
स्त्रीजन्मने ब्रह्मभावापत्तिश्च स्मर्यते देवहूत्याः –
एवं सा कपिलोक्तेन मार्गेणाचिरतः परम् ।
आत्मानं ब्रह्म निर्वाणं भगवन्तमवाप ह ॥ (भागवतम् ३.३३.३०)
एवं क्षत्रियजन्मनि ब्रह्मज्ञानित्वं जनकादीनां स्मर्यते । तथा च मनुष्यत्व-पुंस्त्व-विप्रत्वानां मोक्षसाधनत्वं तत्त्वज्ञानसाधनत्वं वा व्यभिचारात् दुर्घटम् इति चेत् उच्यते – तत्त्वज्ञानकारणीभूतानां श्रवणमनननिदिध्यासनानाम् अनुष्ठानोपयोगितया मनुष्यत्व-पुंस्त्व-विप्रत्वानां तत्वज्ञानसाधनत्वं, न तु साक्षात् तत्साधनत्वम् । गजेन्द्रादिश्च पूर्वजन्मनि मानुषशरीरे भगवत्परायणो भूत्वा तानि साधनानि अन्वतिष्ठदेव । तत्फलीभूतस्य तत्त्वसाक्षात्कारस्य मोक्षस्य च प्राप्तौ प्रतिबन्धकीभूतान् ऋषिशापायत्तकौञ्जरजन्मवशात् फलं विलम्बितम् ।
स्मर्यते हि –
’स वै पूर्वमभूद्राजा पाण्ड्यो द्रविडसत्तमः ।
इन्द्रद्युम्न इति ख्यातो विष्णुव्रतपरायणः ॥
विप्रावमन्ता विद्यतां तमोऽन्धं यथा गजः स्तब्धमतिः स एव । (८.४.१०)
एवं शप्त्वा गतोऽगस्त्यो भगवान् नृप सानुगः ।
इन्द्रद्युम्नोऽपि राजर्षिर्दिष्टं तदुपधारयन् ।
आपन्नः कौञ्जरीं योनिम् आत्मस्मृतिविनाशिनीम् ॥
देवहूतीप्रभृतीनां तु इह स्त्रीजन्मनि योगसमाध्यादिसाधनानुष्ठानेऽपि ब्रह्मभावापत्तावपि च न पुंस्त्वस्य साधनत्वभङ्गः । स्थैर्यधैर्यादिमत्त्वरूपस्यैव पुंस्त्वस्य अत्र विवक्षितत्वात् , तस्य च तासु अक्षतत्वात् । न हि श्मश्वादिमत्वरूपं तदभिव्यङ्ग्यजातिविशेषरूपं वा पुंस्त्वमत्र विवक्षितुमुचितं, तस्य अकिञ्चित्करत्वात् । अपि तु चाञ्चल्य-अबलत्व-अशुचित्व-कामित्वमत्वस्त्रीत्वस्य विरुद्धे स्थैर्य-धैर्य-शुचित्व-अकामित्वमत्वरूपमेव पुंस्त्वम् । तस्यैव मोक्षसाधनानुष्ठानोपयोगित्वात् ।
          एवं जनकप्रभृतीनाम् इह क्षत्रियान्व्वयप्रसूतत्वेऽपि रज उपसर्जनसत्त्वप्रधानतारूपं विप्रत्वम् अक्षतमेव । अतो न विप्रत्वस्य साधनताभङ्गप्रसङ्गः इति ।
विप्रत्वं प्राप्य यथाविधि वेदोक्तकर्मणि अनुतिष्ठता पुरुषेण वेदान्तवाक्यश्रवणादियोग्यतारूपं साधनचतुष्टयं सम्पादनीयम् ।
तत्राद्यं साधनं नित्यानित्यवस्तुविवेकः।  ’ब्रह्मसत्यं जगन्मिथ्येत्वेवं रूपो विनिश्चयः । सोऽयं नित्यानित्यवस्तुविवेकः समुदाहृतः ॥’ ततो वैराग्यम् - दर्शनस्पर्शनादिना अनुभूयमाने  ऐहिकदेहादिभोग्यवस्तुनि, श्रूयमाणे आमुष्मिकदिव्यदेहादिभोग्यवस्तुनि च काकविष्ठायामिव असह्यबुद्धिः ’कदापि ईदृशपदार्थ सम्बन्धो मा भूदिति’ वैराग्यमुच्यते । ’तद् वैराग्यं जिहासा या दर्शनश्रवणादिभिः । देहादिब्रह्मपर्यन्ते ह्यनित्ये भोग्यवस्तुनि’॥ साधनचतुष्टये प्रधानं चित्तशुद्ध्यपरपर्यायम् इदं वैराग्यमेव वैदिककर्मानुष्ठानस्य फलम् । ’चित्तस्य शुद्धये कर्म न तु वस्तूपलब्धये’ । तत्रापि तीव्रवैराग्यमेव साधकं साधनपथे समुन्नयति न तु आपातवैराग्यम् । वैराग्यस्य हेतुः देहादिविषयेषु दोषदर्शनम् ’ विरक्तितीव्रत्वनिदानमाहुः भोग्येषु दोषेक्षणमेव सन्तः’ । ततः शमादिषट्‍कसम्पत्तिः (i) भोग्येषु आद्यन्तवत्त्व-बहुवित्तव्ययायाससाध्यत्व-परिणतिविरसत्त्वादिदोषान् पुनः पुनरनुसन्धाय तेभ्यो विषयेभ्यः मनः परावर्त्य सगुणे निर्गुणे वा ब्रह्मणि मनसो नियमेन अवस्थापनं शमः’विरज्य विषयव्रातात् दोषदृष्ट्या मुहुर्मुहुः । स्वलक्ष्ये नियतावस्था मनसः शम उच्यते ।’(ii) श्रवणादि पञ्चज्ञानेन्द्रियाणि वागादि पञ्चकर्मेन्द्रियाणि च शब्दादिभ्यः स्वविषयेभ्यः पराङ्मुखीकृत्य तेषामिन्द्रियाणां गोलकेषु कर्णशष्कुल्यादि प्रदेशेषु उपरतव्यापारतासम्पादनं दम इत्युच्य्ते । ’विषयेभ्यः परावर्त्य स्थापनं स्वस्वगोलके । उभयेषामिन्द्रियाणां स दमः परिकीर्तितः’ (iii)यथा तटाकजलं कुल्याद्वारा निर्गत्य क्षेत्राकारेण परिणमते तथा अन्तस्थं मनः श्रोत्रादीन्द्रियद्वारा बहिरागत्य शब्दादिविषयाकारेण परिणमते। स एव परिणामो वृत्तिरुच्यते। इन्द्रियेषु निगृहीतेषु अन्तःस्थमनसः बाह्यविषयाकारा वृत्तिः न जायते । एषा मनसः बाह्यविषयाकाराप्राप्तिरेव उपरतिः । ’बाह्यानालम्बनं वृत्तेरेषोपरतिरुत्तमा’ (iv) शैत्योष्णादिजनितानां सकलदुःखानां कम्बलव्यजनादिभिः प्रतीकारं अकृत्वा, विनाचिन्तां विलापञ्च यत् सहनं सा तितिक्षा । ’सहनं सर्वदुःखानाम् अप्रतीकारपूर्वकम् । चिन्ताविलापरहितं सा तितिक्षा निगद्यते’(v)’तत्त्वमसि’ इत्यादिवेदवाक्ये तदनुसारिगुरुवाक्ये च ’इदम् अबाधितार्थबोधकम्’ इति यो दृढविश्वासः स श्रद्धा’शास्त्रस्य गुरुवाक्यस्य सत्यबुध्यवधारणा । सा श्रद्धा कथिता सद्भिः यया वस्तूपलभ्यते’॥ सङ्कल्पविकल्पात्मकतो विनिर्मुक्तयाः अध्यवसायात्मिकायाः बुद्धेः सर्वदा शुद्धे ब्रह्मणि सम्यग् अवस्थापनं समाधानम् । ’सम्यगास्थापनं बुद्धेः शुद्धे ब्रह्मणि सर्वदा । तत्समाधानमित्युत्त्कं न तु चित्तस्य लालनम्’ । मुमुक्षा-अज्ञानेन कल्पितान् अहङ्‍कार-प्राण-बुद्धि-मन-इन्द्रिय-देहान्-शुद्धात्मस्वरूपज्ञानेन मोक्तुमिच्छा । ’अहङ्‍कारादिदेहान्तान् बन्धान् अज्ञानकल्पितान् । स्वस्वरूपावबोधेन मोक्तुमिच्छा मुमुक्षता’
इत्थं दृढवैराग्यवान् साधनचतुष्टयसम्पन्नः प्रसक्त सकलकर्मसंन्यासपूर्वकं गुरुं ब्रह्मणि लीनमनस्कं समाश्रयेत् । गुरुसन्निधौ वेदान्त वाक्यश्रवणं, ततः श्रुतार्थस्य दार्ढ्याय उपपत्तिभिः चिन्तनरूपं मननम् आत्मानात्मविवेचनं कुर्यात् । त्वङ्‍मासं रुधिरादिभिः समुत्पन्नं जीवस्य सुखदुःखोपलब्धिसाधनं  स्थूलशरीरमित्युच्यते, नैतद् आत्मा । जन्मजरामरणादयः स्थूलस्य धर्माः, नात्मनः । पञ्चज्ञानेन्द्रियाणि पञ्चकर्मेन्द्रियाणि पञ्चप्राणाः पञ्चसूक्ष्मभूतानि मनोबुद्‍ध्‍यह्‍ङ्‍कारचित्तानि अविद्याकामकर्माणि एतत्सर्वं मिलितं सूक्ष्मशरीरमित्युच्यते । एतदेव ’लिङ्‍गशरीरं जीवस्य भोगहेतुरनादि आमोक्षं स्थास्यति, नैतदात्मा । अन्धत्वादयः सूक्ष्मशरीरान्तर्गतेन्द्रियादीनां धर्माः, न तु आत्मनः । सत्त्वरजस्तमोरूपगुणत्रयमयी सकलजगदुत्पत्तिहेतुभूता माया अविद्यापदबोद्‍ध्या अव्यक्तनाम्नी शक्तिः कारणशरीरमित्युच्यते, नेयमात्मा । मायायाः सत्त्वरजस्तमोगुणानां कार्यरूपाः क्रमेण तिस्रः शक्तयः ज्ञानशक्तिः विक्षेपशक्तिः आवरणशक्तिः इति । विक्षेपशक्तितः रागदुःखादयो जायन्ते, आवरणशक्तितः अज्ञानालस्यादयो जायन्ते । ज्ञानशक्तितः  अमानित्वश्रद्धाभक्यादयो जायन्ते । मायातत्कार्यभूतं जगदिदं सूक्ष्मस्थूलदेहपर्यन्तं सर्वम् अनात्मजातं मिथ्यैव । ’माया मायाकार्यं सर्वं महदादि देहपर्यन्तम् । असदिदमनात्मतत्वं विद्धि त्वं मरुमरीचिका कल्पम् ॥’(125)शरीरत्रयव्यतिरित्त्कः आत्मा नित्यः सत्यश्च जाग्रत्स्वप्नसुषुप्त्याख्यावस्थात्रयेऽपि साक्षी भवति । मायायाः आवरणविक्षेपशक्तिभ्यां आत्मनः बन्धः समागतः ’एताभ्यामेव शक्तिभ्यां बन्धः पुंसः समागतः । याभ्यां विमोहितो देहं मत्वात्मानं भ्रमत्यम् ॥’ ( 146) गाढतमोमय्या आवरणशक्त्या आत्मनि आवृते सति राजसी तीव्रविक्षेपशक्तिः पुरुषं बहुविधदुःखैः क्षपयति । यथा नभसो नैल्यं न वास्तवं तथैव निर्विकारस्य निस्सङ्‍गस्यात्मनः [1]देहादिसम्बन्धरूपः संसारः न वास्तवः, अपि तु भ्रान्तिमूलकः । यथा पुरुषस्य भ्रान्त्या रज्ज्वज्ञानरूपया रज्जौ सर्पः कल्प्यते,रज्जुसाक्षात्कारेण रज्ज्वज्ञाननिवृत्तौ निवर्तते,तथा बुद्धेः भ्रान्त्या आत्मतत्त्वाज्ञानरूपया निर्गुणे आत्मनि जीवभावः कल्पितः, आत्मतत्त्वसाक्षात्कारेण निवर्तते आत्मतत्त्वाज्ञानमपि निवर्तते । ’बुद्धेःभ्रान्त्या प्राप्तो जीवभावो न सत्यो मोहापाये नास्त्यवस्तु स्वभावात्’(198)’रज्ज्वां सर्पे भ्रान्तिकालीन एव भ्रान्तेर्नाशे नैव सर्पोऽस्ति तद्वत्’ (199) इत्थं श्रवणमननाभ्यां असम्भवनायाः संशयभावनायाश्च निवृत्तौ श्रुतात्मतत्त्वस्य दार्ढ्ये परमार्थतत्त्वस्य ध्यानं निदिध्यासनं निरन्तरं चिरकालं कुर्यात् ।
निर्गुणतया अतीवसूक्ष्मं स्वप्रकाशसदानन्दरूपम् आत्मयाथात्म्यं शरीरादिस्थूलवस्तुविषयिण्या अन्तःकरणवृत्त्या व्याप्तुं न शक्यते । अत्यन्तनिर्मलान्तःकरणैः मुमुक्षुभिः अत्यन्तसूक्ष्मया प्रपञ्चविषयिण्या अखण्डाकारया अन्तःकरणवृत्त्या आत्मतत्त्वं विषयीकर्तुं शक्यते । निरन्तरचिरकालध्यानाभ्यासवशात् अन्तःकरणं सत्त्वरजस्तमोमलं परित्यज्य विपरीतभावनादिदोषशून्यं सत् निर्वृत्तिकं ब्रह्ममात्रावशेषं भवति । तदा अप्रयनेनैव ब्रह्मस्वरूपभूतानन्दरसानुभावकः सकलविकल्परहितः निर्विकल्पः समाधिः सम्पद्यते ।
निर्विकल्पप्रात्युपायाः –  योगस्य प्रथमं द्वारं वाङ्निरोधोऽपरिग्रहः ।
                                निराशा च निरीहा च नित्यमेकान्तशीलता ॥
वाङ्निरोधः मौनम् । व्यवहारेण मनोवृत्तीना वर्धनात् । अपरिग्रहः - शरीरस्थितिमात्रसाधनातिरिक्तभोगसाधनानां अस्वीकारः । तत्स्वीकारे तद्रक्षणादौ व्याप्रियमाणस्य चित्तस्य वृत्तिनिरोधाऽसम्भवात् । निराशा-वैराग्यं । निरीहा-कर्मभ्यः उपरतिः । एकान्तशीलता- विजनवासः। इच्छायां,कर्मणि,जनसङ्‍घे स्थितौ च चित्तविक्षेपात् । एवम् आत्मानात्मविवेचनजन्यः आत्मस्वरूपयाथात्म्यानुभवोऽपि साधनम् ।
निर्विकल्पयोगस्य फलम्-निर्विकल्पक समाधिनैव ब्रह्मतत्त्वं स्फुटं करतलामलकवत् अवगम्यते, नान्यथा । निर्विकल्पेनैव मिथ्याज्ञानजनितानां समस्तवासनानां नाशः,सञ्चिताखिलकर्मणां नाशो भवति । अन्तः बहिः सर्वत्र सर्वदा आत्मस्वरूपं प्रकाशते । ’अनन्तं निर्विकल्पकम्’(365)
ज्ञानप्राप्तेः प्रतिबन्धकानि-
लोकवासनाया जन्तोः शास्त्रवासनयापि च ।
देहवासनया ज्ञानं यथावन्नैव जायते ॥(272)
सर्वे जनाः यथा मां न निन्दन्ति यथा स्तुवन्ति तथैव चरिष्यामि इत्यभिनिवेशः लोकवासना । इयम् अत्यन्त प्रतिबन्धिका । बहूनि शास्त्राणि अध्येष्ये इत्याद्यभिनिवेशरूपा शास्त्रवासना । प्रतिष्ठादिद्वारा भुक्तिमात्रहेतुत्वात् मुक्तिविरोधात् दर्पहेतुत्वात् इयं प्रतिबन्धिका । देहवासना नानाविधा, देहे आत्मत्वभ्रान्तिः, देह गुणाधानभ्रान्तिः देहे दोषापनयनभ्रान्तिरित्यादिः
अत एव-
लोकानुवर्तनं त्यक्त्‍वा  त्यक्त्‍वा देहानुवर्तनम् ।
शास्त्रानुवर्तनं त्यक्त्‍वा  स्वाध्यासापनयं कुरु ॥ (271)
प्रमादोऽपि यत्नेन वारणीयः । जातविवेकोऽपि कदाचिदपि ब्रह्मनिष्ठायां प्रमादम् अनवधानं नाश्रयेत् । ज्ञानिनोऽपि यत्नेन वारणीयः । ज्ञानिनोऽपि चित्तम् ईषद् लक्ष्याद् ब्रह्मणः च्युतं चेत् बहिर्मुखं सत् ततस्ततः अहङ्‍कारात् बुद्धिमनः प्राणेन्द्रियदेहविषयेषु निपतेत् ।
              इत्थम् अप्रमादेन निरन्तरध्यानाभ्यासवशात् निर्विकल्पसमाधिं प्राप्य साक्षात्कृतब्रह्मणः अविद्यादिनाशात् ब्रह्मात्मना संस्थितिरूपो मोक्षः सम्पद्यते ।
चिन्त्यते  – ब्रह्यतत्त्वसाक्षात्कारं प्रति चित्तवृत्तिनिरोधरूपस्य निर्विकल्पस्यैव कारणत्वं भगवत्पादसम्मतं प्रतीयते निर्विकल्पसमाधिना स्फुटं ब्रह्मतत्त्वमवगम्यते ध्रुवम् । नान्यथा चलतया मनोगतेः प्रत्ययान्तरविमिश्रितं भवेत्’(366)’तस्माच्चितनिरोध एव सततं कार्यः प्रयत्नान्मुनेः’(369)इति वचनात् ।
          चित्तनाशं प्रत्यपि निर्विकल्पकस्य कारणत्वं तत्सम्मतं प्रतीयते ’समाधिनाऽनेन समस्तवासनाग्रन्थेर्विनाशोऽखिलकर्मनाशः’(364) इति वचनात् ।
जीवन्मुत्त्किविवेककारास्तु शुद्धात्मतत्त्वसाक्षात्कारे न हि निर्विकल्पसमाधिरेक एव उपायः चिज्जडविवेकेनापि साक्षात्कारसम्भवात् ।
अत एवाह वसिष्ठः – ’द्वौ क्रमौ चित्तनाशस्य योगो ज्ञानं च राघव ।
                        योगस्तद्वृत्तिरोधोहि ज्ञानं सम्यगवेक्षणम् ॥
                        असाध्यः कस्यचिद्योगः कस्यचिद् ज्ञाननिश्चयः।
                        प्रकारौ द्वौ ततो देवो जगाद परमेश्वरः ॥’ इति ।
न च विवेकोऽपि योगे पर्यवस्यति, विवेकदर्शनवेलायां आत्ममात्रगोचरायाः एकाग्रवृत्तेः क्षणिक सविकल्पसमाधिरूपत्त्वात्  इति वाच्यम् । सविकल्पकनिर्विकल्पकयोर्वृत्त्यवृत्तिभ्यां स्वरूपभेदस्य स्फुटत्वात् साधनतोऽपि भेदसत्त्वाच्च इत्याहुः ।
          गूढार्थदीपिकाकारा अपि एतदेव अभिप्रयन्ति । स्पष्टयन्ति च यथा हि चित्तवृत्तिनिरोधः साक्षिसाक्षात्कारहेतुः तथा जडविवेकेन सर्वानुस्यूतचैतन्यपृथक्करणमपि, नावश्यं योग एवापेक्षितः । अत एवाह वसिष्ठः’द्वौ क्रमौ.....। साक्षिणः सकाशात् तदुपाधिभूतचित्तस्य पृथक्करणात् तददर्शनरूपस्य चित्तनाशस्य उपायद्वयम्। एकोऽसंप्रज्ञातसमाधिः, यत्र सर्ववृत्तिनिरोधात् अन्तःकरणसत्त्वं नानुभूयते । द्वितीयः साक्षिणि कल्पितं साक्ष्यम् अनृतत्वात् नास्त्येव, साक्ष्येव परमार्थसत्यः केवलो विद्यत इति विचारः । तत्र प्रथममुपायं प्रपञ्चपरमार्थतावादिनो हैरण्यगर्भादयः प्रपेदिरे । चित्तस्य अदर्शनेन साक्षिदर्शने प्राप्तव्ये चित्तवृत्तिनिरोधातिरिक्तोपायाऽसम्भवात्, चित्तस्य तन्मते परमार्थत्वात् । श्रीमच्छङ्‍करभगवत्पूज्यपादमतोपजीविनस्त्वौपनिषदाः प्रपञ्चमिथ्यात्ववादिनः द्वितीयमेवोपायमुपेयुः । अधिष्ठानज्ञानदार्ढ्ये सति तत्र कल्पितस्य बाधितस्य चित्तस्य तद्वृत्तेश्च अदर्शनम् अनायासेनैव उपपद्यते इति । अत एव भगवत्‍पूज्यापादाः कुत्रापि ब्रह्मविदां योगापेक्षां न व्युत्पादयां बभूवुः अत एव चौपनिषदाः ब्रह्मसाक्षात्काराय वेदान्तवाक्यविचार एव प्रवर्तन्ते,न तु योगे इति ।
          भाष्योत्कर्षदीपिकाकारास्तु नैतत् सहन्ते । ’आत्मा वाऽरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्य’ इत्यादिश्रुत्या ध्यानयोगस्य साक्षात्कारकारणतायाः अभिहितत्वात् । शमादिघटितसाधनचतुष्टयसम्पन्नस्यैव ब्रह्मविचारे अधिकारस्य जिज्ञासासूत्रे निर्णीततमा निरुक्तविचारात्मकसम्यगवेक्षणस्य वृत्तिनिरोधसाध्यां चित्तैकाग्रतां विना अनुपपत्तेः । वसिष्ठवचनं  तु न साक्षिसाक्षात्कारे हेतुद्वयकथनपरम्, अपितु चित्तनाशे क्रमद्वयकथनपरम् । चित्तैकाग्रतोत्तरं विचारात्मकेन सम्यगवेक्षणेन वृत्तिनिरोधेन वा चित्तनाशः विषयतश्चित्तनिवृत्तिरूपः सम्पादनीयः इति । अत्र तत्त्वं तु अनुभवैकगम्यम् इति शम्  ।
************************************************************************
अन्यथाख्यातिः
नागहर्षिणी. आर्
आचार्य द्वितीयवर्षम्
इह खलु संसारार्णवे प्लवमानानामशेषजनिमतां दुःखजातस्य मिथ्याज्ञानमेव मूलकारणम् । तदुन्मूलनपूर्वकं परमपुरुषार्थभूतनिःश्रेयसस्याधिगमाय तत्त्वदर्शिनो महर्षयः अधिकारिभेदेन नैकानि दर्शनानि तत्त्वनिरूपणपराणि व्यरचयन् । निरसनीयस्य मिथ्याज्ञानस्य याथात्म्यनिर्धारणाय समेऽपि दार्शनिकाः भूयसो विचारान् व्यदधुः । त एव विचाराः ’ख्यातिवाद’ इति नाम्ना सम्प्रति विप्रतिपत्तिपौष्कल्येन भारतीयदर्शनेष्वसाधारणपदम् अलङ्कुर्वन्ति । सौगतेषु वैभाषिकसौत्रान्तिकयोगाचाराणां सम्मता आत्मख्यातिः, माध्यमिकानाम् असत्ख्यातिः, मीमांसकेषु प्राभाकराणाम् अख्यातिः, नैयायिकानाम् अन्यथाख्यातिः, वेदान्तिनाम् अनिर्वचनीयख्यातिः इति प्राधान्येन पञ्चधा प्रवहति ख्यातिविचारधारा । तदुक्तम् –
“आत्मख्यातिरसत्ख्यातिरख्यातिः ख्यातिरन्यथा ।
तथानिर्वचनख्यातिरित्येतत्ख्यातिपञ्चकम्” ॥
“अप्रमा च प्रमा चेति ज्ञानं द्विविधमिष्यते” इति ज्ञानद्वैविध्यं सर्वानुभवसिद्धम् । तत्त्वचिन्तामणौ प्रत्यक्षखण्डान्तर्गतस्य प्रामाण्यवादस्यान्ते नव्यन्यायप्रवर्तकैः श्रीमद्भिः गङ्गेशोपाध्यायैः प्रमालक्षणं सिद्धान्तितम् ’उच्यते । यत्र यदस्ति तत्र तस्यानुभवः प्रमा । तद्वति तत्प्रकारकानुभवो वा’ इत्यादिग्रन्थेन । तद्वन्निष्ठविशेष्यतानिरूपिततन्निष्ठप्रकारताकत्वे सति अनुभवत्वमिति प्रमालक्षणं निर्गलितम् । तत्र सत्यन्तदलं भ्रमेऽतिव्याप्तिवारणाय निवेशितम् । पुरोवर्तिनि शुक्त्यादौ चक्षुषा सन्निकृष्टे सति उत्पद्यमानस्य ’इदं रजतम्’ इति भ्रमस्य रजतत्वाभाववन्निष्ठविशेष्यतानिरूपितरजतत्वनिष्ठप्रकारताकत्वमस्ति, न तु रजतत्ववन्निष्ठविशेष्यतानिरूपितरजतत्वनिष्ठप्रकारताकत्वम् । अतः न तत्रातिव्याप्तिः प्रमालक्षणस्येति सत्यन्तदलसार्थक्यमुपपद्यते । अख्यातिवादिनः मीमांसकैकदेशिनः प्राभकारास्तावत् रजतत्वादिप्रकारकाणां सर्वेषां ज्ञानानां रजतत्वादिमन्निष्ठविशेष्यतानिरूपितरजतत्वादिनिष्ठप्रकारताकत्वमेव उररीकुर्वन्ति । तन्मते तदभाववन्निष्ठविशेष्यतानिरूपिततन्निष्ठप्रकारताकस्य ज्ञानस्य अप्रसिद्ध्या तत्रातिव्याप्तेः अप्रसक्त्या सत्यन्तदलस्य वैयर्थ्यम् ।
                   भ्रमात्मकमेकं विशिष्टज्ञानं नास्ति, शुक्त्यादौ ’इदं रजतम्’ इत्यादिभ्रमस्थले ज्ञानद्वयं भवति । ’इदम्’ इति पुरोवर्तिशुक्त्यादिविषयकं प्रत्यक्षम् । ’रजतम्’ इति रजतविषयकस्मरणम् । तत्राद्यस्य रजतत्वप्रकारकत्वं नास्ति । द्वितीयस्य रजतत्वप्रकारकत्वेऽपि रजतत्वाभाववन्निष्ठविशेष्यतानिरूपकत्वं नास्ति । रजतत्वशून्यस्य शुक्त्यादेः तत्र रजतत्वधर्मितया अभानात् । तत्र स्थले जायमानायाः विसंवादिन्याः रजतार्थिपुरुषप्रवृत्तेस्तु रजतत्वाभाववन्निष्ठविशेष्यतानिरूपितरजतत्वनिष्ठप्रकारताकत्वं विद्यते । तथा च तदभाववन्निष्ठविशेष्यतानिरूपिततन्निष्ठप्रकारताकत्वरूपं व्यधिकरणप्रकारताकत्वं प्रवृत्तौ प्रसिद्धं ज्ञाने तु नाङ्गीक्रियत इति ।
                   प्रेक्षावदनुभवसिद्धस्य अतस्मिन् तद्बुद्धिरूपस्य अयथार्थानुभवस्य अपलपितुमशक्यत्वात् अवश्यमङ्गीकार्यः । तदभाववन्निष्ठविशेष्यतानिरूपिततन्निष्ठप्रकारताकमेकं विशिष्टज्ञानमेव भ्रमः । शुक्तिं दृष्ट्वा जायमानमिदं रजतमिति ज्ञानमयथार्थज्ञानम् । तदेव अप्रमेति भ्रम इति च उच्यते । तदेव च नैययिकमते अन्यथाख्यातिरित्युच्यते । तत्र पुरोवर्तिनि रजतत्वस्य असत्वेऽपि उपनयसन्निकर्षेण तत्र तस्य भानम् । तस्य रजतत्वप्रकारकत्वादेव तदुत्तरं रजतार्थिनः तत्र प्रवृत्तिरुपपद्यते । तत्र ज्ञानद्वयमिति तु न स्वीकर्तुं शक्यं, ज्ञानद्वयस्याननुभवादिति नैयायिकानामाशयः । अत एव ते अन्यथाख्यातिवादिन इत्युच्यन्ते । जानाति-इच्छति-यतते इति न्यायेन प्रवृत्तित्वावच्छिन्नं प्रति पुरोवर्तिधर्मिकेष्टतावच्छेदकरजतत्वादिप्रकारकज्ञानं कारणमिति सामान्यकार्यकारणभावः संवादिप्रवृत्तिस्थले अन्वयव्यतिरेकाभ्यां निर्णीतः । पुरोवर्तिनि ’इदं रजतम्’ इत्याकारके विशिष्टज्ञाने सति तत्र रजतत्वप्रकारकप्रवृत्युदयात् तद्विरहे तदभावात् ।
          अन्यथाख्यातिसामग्रीनिरूपणम् -
          ननु  विशिष्टज्ञानस्य प्रवर्तकत्वोपगमे विसंवादिप्रवृत्तेरनुपपत्तिः तत्कारणस्य शुक्तिधर्मिकस्य रजतत्वप्रकारकस्य विशिष्टज्ञानस्य सामग्रीविरहेण तत्रोत्पत्यसम्भवादिति चेत् ।
          न । संस्कारेन्द्रियाभ्यां धर्मधर्मिणौ तत्तेदमंशौ अवगहमानं ’सोऽयं देवदत्तः’ इत्यादिप्रत्यभिज्ञानमिव संस्कारेन्द्रियाभ्यां रजतत्वेदमंशौ अवगाहमानम् ’इदं रजतम्’ इति एकं विशिष्टप्रत्यक्षमपि उत्पत्तुमर्हति ।
          अन्यथाख्यातौ प्रत्यक्षप्रमाणोपन्यासः -
अन्यथाख्यातिसाधने प्रत्यक्षप्रमाणमुपलभ्यते । तथाहि – शुक्तौ ’इदं रजतम्’ इति प्रतीत्युदयानन्तरम् ’इदं रजततया जानामि’ इत्यनुव्यवसायो जायते । तेन च पुरोवर्तिविशेष्यकरजतत्वप्रकारकज्ञानं विषयीक्रियते । तदेव ज्ञानं पुरोवर्तिनं शुक्त्यादिकम् अन्यथा- रजतत्वादिना अवगाहमानम् अन्यथाख्यातिरित्यभिधीयते । इत्थम् अनुव्यवसायसाक्षिकमेव अन्यस्य अन्यथाभानम् । यो व्यवसायो हि येन प्रकारविशेष्यभावेन यान् विषयान् अवगाहते, तानेव विषयान् तदुपरक्तं तमेव प्रकारविशेष्यभावं तदुपरक्तं तमेव व्यवसायञ्च अवगाहते अनुव्यवसायः । ’अयं घटः’ इति व्यवसायोत्तरं जायमानः अनुव्यवसायः घटत्वप्रकारकव्यवसायाऽविशेष्यान् पटादीन् न घटत्वप्रकारकज्ञानविशेष्यत्वेन अवगाहते । नापि घटत्वाऽविषयकं ’अयं पट’ इति ज्ञानं घटत्वविषयकत्वेन अवगाहते । अनुव्यवसायस्य भ्रमत्वे कदाचित् घटज्ञानोत्तरं ’पटं जानामि’ इत्यनुव्यवसायप्रसङ्गः । तथा च भ्रमात्मकस्य विशिष्टज्ञानस्यानुपगमे ’इदं रजततया जानामि’ इत्यनुव्यवसायः नोपपद्येत ।
          अनुमनेन अन्यथाख्यातिसाधनम्
          प्रवृत्तिविशिष्टज्ञानयोः सामान्यकार्यकारणभावम् अवलम्ब्य विसंवादिप्रवृत्तिकारणतया अन्यथाख्यातिः साधयितुं शक्यते । अनुमानप्रयोगस्तु – “विसंवादिप्रवृत्तिः विशिष्टज्ञानसाध्या प्रवृत्तित्वात् सत्यप्रवृत्तिवत् “ इति । तदर्थस्तु – शुक्तिविशेष्यकरजतत्वप्रकारकप्रवृत्तिः स्वप्रकारतासमानाधिकरणप्रकारतानिरूपितस्वविशेष्यतासमानाधिकरणविशेष्यताकत्वस्वसाध्यत्वोभयसम्बन्धेन ज्ञानविशिष्टा प्रवृत्तित्वात् रजतविशेष्यकरजतत्वप्रकारकप्रवृत्तिवत् इति । प्रवृत्तिं प्रति तत्समानप्रकारविशेष्यकस्य ज्ञानस्य कारणतायाः क्लृप्ततया अनुभूयमानायाः शुक्तिविशेष्यकरजतत्वप्रकारकप्रवृत्तेः शुक्तिविशेष्यकरजतत्वप्रकारकज्ञानमन्तरानुपपद्यमानतया तज्ज्ञानोपगमेन अन्यथाख्यातिसिद्धिः निष्प्रत्यूहैव ।

************************************************************************

आत्यन्तिकी दुःखनिवृत्तिः अपवर्गः
विदितचरमेव इदं हि समेषां यत् विद्वत्समाजे पदार्थानां निर्दुष्टस्वरूपनिर्वचनपरत्वेन प्रसिद्धिमापन्नं न्यायशास्त्रं गुणगौरवेण दर्शनशास्त्रेषु विशिष्टं स्थानं भजत इति । नापरं शास्त्रं विद्यते यत् एकमप्यविहाय कृत्स्नमपि जगज्जातं तत्वातत्वनिर्णयपुरस्सरं सप्तसु पदार्थेषु अन्तर्भावनाय प्रवृत्तम् । अर्थात् शास्त्रमिदं समस्तमपि जगत् पदार्थेषु विभज्य लक्षणप्रमाणाभ्याम् एकैकस्य पदार्थस्य तदन्तर्भूतानां भेदोपभेदानां तत्वं सुष्टु निरूपयितुं प्रयतते ।अत अत एवास्मिन् शास्त्रे साक्षात्परम्परया वा सर्वेषां विचाराणां पदार्थत्वेनान्तर्भावादस्य शास्त्रस्य सार्वत्रिकत्वं सर्वशास्त्रोपकारकत्वं च सिध्यति ।  इत्थं सर्वशास्त्रसहकारितया तीक्ष्णमतिप्रवर्धकतया प्रशंसितेऽस्मिन् शास्त्रे विचारितेषु विचारेषु मोक्षविचारोऽपि विचारणीयो विचारः । श्रुतिप्रतिपादितेषु धर्मार्थकाममोक्षाख्येषु चतुर्विधपुरुषार्थेषु चरमभूतः सर्वैरप्यर्जनीयः पुरुषार्थः मोक्षः । अपवर्गः इत्यस्यैव नामान्तरम् । यथा वेदान्तप्रभृतिषु विविधशास्त्रेषु तत्तच्छास्त्रसिद्धान्तानुगुणम् अपवर्गस्वरूपविवेचनं कृतं दृश्यते । तथैव प्रमाणादिषोडशपदार्थानां तत्वावगमेन निःश्रेयससिद्धिर्भवतीति प्रतिपादयति न्यायशास्त्रेऽपि स्वशास्त्रपरिभाषया अपवर्गस्वरूपं सिद्धान्तितम् । तदत्र सङ्क्षेपेण निरूप्यते ।
नैयायिकैः दुःखानामात्यन्तिकी निवृत्तिरपवर्गः इत्यभ्युपगम्यते । एतन्मते सर्वस्याप्यनुभूयमानस्य सुखस्य अनित्यत्वान्मोक्षस्य सुखरूपत्वं न सम्भवति । तथा च सुखस्य अपवर्गस्वरूपत्वस्वीकारे मोक्षस्याप्यनित्यत्वापत्तिः। शाश्वतसुखस्य क्वचिदप्यवर्तमानत्वात् मोक्षः दुःखनिवृत्तिरूप एव न तु सुखं । तथा च दुःखम् एकविंशतिविधम् । शरीरं षडिन्द्रियाणि षड्विषयाः षड्बुद्धयः सुखं दुःखं चेति । दुःखायतनत्वेन शरीरं दुःखम् । इन्द्रियाणि विषयाः बुद्धयश्च एतानि तत्साधनानि भवन्ति अतः एतानि दुःखे एवान्तर्भवन्ति ।  सुखमपि दुःखस्य बीजभूतम् । अत एव सुखमपि दुःखस्वरूपमेव । दुःखं हि स्वरूपतो दुःखमेव । अत एतेषां दुःखानाम् आत्यन्तिकी निवृत्तिरेव अपवर्ग इति ।
किमेवं दुःखानामात्यन्तिकी निवृत्तिरपवग इति वक्तव्यम् ? केवलं दुःखानां निवृत्तिरेव अपवर्ग इति कथनेनैव चरितार्थत्वादिति चेत् , न । यदि केवलं दुःखनिवृत्तिरपवर्गः इत्युच्यते तदा सांसारिकदुःखनिवृत्तेरपि अपवर्गरूपत्वमङ्गीकर्तव्यं भवति ।  अतः केवलं  दुःखनिवृत्तिरपवर्ग इत्यनुक्त्वा आत्यन्तिकी दुःखनिवृत्तिरपवर्गः इत्युक्तम् । तथा च सांसारिकी या दुःखानां निवृत्तिः सा आत्यन्तिकी दुःखनिवृत्तिर्भवितुं नार्हति । अत्रात्यन्तिकत्वं नाम स्वसमानाधिकरणदुःखप्रागभावासमानाधिकरणत्वमित्यर्थः । तेन स्वसमानाधिकरणदुःखप्रागभावासमानाधिकरणदुःखनिवृत्तिरपवर्ग इति आत्यन्तिकी दुःखनिवृत्तिरिति पदस्यार्थः ।  संसारकाले उत्पद्यमानानां सर्वेषामपि दुःखानांविनाशकाले पुनरग्रे उत्पत्स्यमानानां दुःखानां प्रागभावो वर्तते ।  तेन सांसारिको यो दुःखध्वंसः स सर्वो‍पि स्वसमानकालीनदुःखप्रागभावकालीन एव भवति । परमात्यन्तिकी दुःखनिवृत्तिर्न तथा । मोक्षावस्तायां हि जायमानाया दुःखनिवृत्तेः परं कस्यापि दुःखस्योत्पत्तिर्न संभवति । तेन मोक्षकालीनदुःखनिवृत्तिसमानकाले कस्यापि अग्रिमदुःखस्य प्रागभावोऽपि न तिष्ठति । अतो मोक्षकालीनो यो दुःखध्वंसः स्वसमानकालीनदुःखप्रागभावासमानकालीन एव भवति । तादृशदुःखध्वंसः संसारकाले नानुभूयते इति ।
यद्येतादृशदुःखनाश एव मोक्ष इति कथ्यते तर्हि प्रमाणादिषोडशपदार्थानां तत्त्वज्ञानान्निःश्रेयससिद्धिरिति सूत्रोक्तरीत्या मोक्षस्य तत्वज्ञानसाध्यत्वं कथं सिध्यतीति प्रश्नः । तस्य समाधानमित्थम्- तत्त्वज्ञानेन मिथ्याज्ञानवासनानाशः वासनानाशे च दोषस्य वासनाविशिष्टरागादेरभावः , विशेषणाभावे विशिष्टाभावात् , तादृशरागादिरूपहेत्वभावे च प्रवृत्तेर्धर्माधर्मरूपाया अभावोऽनुत्पत्तिः , तदनुत्पादे प्रारब्धकर्माधीनदेहान्य-देहसम्बन्धरूपजन्माभावः , भोगतत्त्वज्ञानाभ्यां प्रारब्धतद्भिन्नकर्मनिवृत्तिरिति जन्माभावे दुःखानुत्पाद इति । तथा च स्वसमानाधिकरणदुःखसमानकालीनत्वस्वरूपविशेषणांशे तत्त्वज्ञानस्य प्रयोजकत्वात् मुक्तेः तत्वज्ञानसाध्यता सिध्यति । तथा च सूत्रं- "दुःख-जन्म-प्रवृत्ति-दोष-मिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः" इति ।
नव्यनैयायिकास्तु योग्यविभुविशेषगुणनाशं प्रति स्वोत्तरवृत्तिगुणानां कारणत्वात् स्वोत्तरोत्पन्नगुणेनैव दुःखध्वंसरूपमुक्तिसम्भवेन तत्र तत्त्वज्ञानस्य अपेक्षा न सम्भवतीति दुःखपदस्य दुःखकारणीभूतदुरितपरतया व्याख्यानं कुर्वन्ति । दुरितं हि न योग्यविभुविशेषगुणः । अतस्तस्य स्वोत्तरोत्पन्नगुणेन नाशो न सम्भवति । तादृशदुरितनाशरूपमोक्षः तत्वज्ञानेनैव सम्भवतीति वदन्ति ।
इत्थं दुःखनिवृत्तिरूपमुक्तेस्तत्त्वज्ञानसाध्यत्वं  सङ्क्षेपेण निरूपितम् । पुनरपि कस्चिदाक्षेपः चतुर्विधपुरुषार्थेषु सर्वैरप्यर्थ्यमानत्वात्  अपवर्गो हि परमपुरुषार्थ इति सिद्ध एव । स चापवर्गः दुःखनिवृत्तिरूप इत्युररीकृतमस्माभिः । परं एवं भूतस्यापवर्गस्य पुरुषार्थता कथं सिद्ध्यतीति प्रश्नः । तथा च उदयनाचार्यकृतेपरिशुद्धिनामके व्याख्यानग्रन्थे पूर्वपक्षोपस्थापनपुरस्सरं आदौ दुःखनिवृत्तेः पुरुषार्थत्वं निराकृतम् । अन्ते च समादानोपस्थापनपुरस्सरं पुनस्तस्य पुरुषार्थत्वं व्यवस्थापितम् च । तदत्र सङ्क्षेपेण निरूप्यते
अत्र पूर्वपक्षः- दुःखनिवृत्तिर्हि पुरुषार्थ एव किन्तु स्वरूपतो तस्य पुरुषार्थता न सिद्ध्यतीति। अस्यायमाशयः - यदा दुःखं नानुभूयते तदैव सुखं भवति । यथा सृक्चन्दनवनितादिनि सुखार्थिनां सुखप्राप्तौ सुखसाधनानि भवन्ति तथैव दुःखाभावोऽपि सुखसम्पादनद्वारा सुखसाधनं भवति । किन्तु तदेव तस्य पुरुषस्य न समीहितमिति । यदा दुःखाभावो वर्तते तदैव सुखमनुभवितुं शक्यमतस्तदर्थमेव दुःखं निवर्तयितुं प्रवर्तते इति ।
अत्र समाधानम् – तन्न । यदि कश्चित् सुखप्राप्त्यर्थमेव दुःखनिवृत्तिमिच्छतीत्युच्यते तर्हि भोजनादिसुखानुभूतिदशायामेव बुभुक्षादिदुःखानां निवृत्तिदर्शनात् बुभुक्षादिदुःखानां निवर्तनाय भोजनादिसुखं प्राप्तुं प्रवर्तते एतेन अत्र दुःखनिवृत्तिरिव सुखमपि तस्य नाभीप्सितमित्यपि उपपादयितुं शक्यमस्ति । एतेन सुखस्यापि पूर्वोक्तरीत्या स्वरूपतः पुरुषार्थत्वं न स्यात् । अतः एवं न भवितुमर्हति । यथा लोके दुःखानुभूतेरसत्वदशायामपि क्वचित् ‘अहं सुखी स्या’मिति सुखविषयकप्रवृत्तेर्दृष्टत्वात् सुखमेव तस्याभीप्सितमिति वक्तुं युक्तं तथैव यद्यपि सुखं नानुभूयमानमस्ति तथापि ‘दुःखं हास्या’मीति  दुःखनिवृत्तिविषयकप्रवृत्तेः क्वचिद्दृष्टत्वात् दुःखनिवृत्तिरपि पुरुषस्य समीहितेति वक्तुं युक्तमेव । यदा सुखस्यानुभूतिरस्ति तदा दुःखस्याभावः , यदा दुःखाभावः तदा सुखस्यानुभूतिरिति सुखदुःखनिवृत्योः समव्याप्तिः प्रतीयते ।अत एव परस्परमनयोर्निरपेक्षमेव  पुरुषार्थत्वं सिद्ध्यति ।
अत्र पुनराक्षेपः- अस्त्वनयोः पुरुषार्थत्वमथापि दुःखनिवृत्तेस्तु अनुभूयमानतयैव पुरुषार्थत्वं सिद्ध्यति अन्यथा न सिद्ध्यति । यथा विषसेवनादिभिर्जायमानायां मोहावस्तायां दुःखनिवृत्तेर्विद्यमानत्वेऽपि तन्नानुभूयते । अतस्तादृशदुःखनिवृत्यर्थं कस्यापि प्रवृत्तिर्न दृष्यते । यद्येवम् तर्हि मोक्षावस्तायामपि  दुःखनिवृत्तेरननुभूयमानत्वात् मोक्षोऽपि पुरुषार्थो भवितुं नार्हति । तदुक्तं
          ‘दुःखाभावोऽपि नावेद्यः पुरुषार्थतयेष्यते ।
          न हि मूर्छाद्यवस्थार्थं प्रवृत्तो दृष्यते सुधीः ॥’
अत्र समाधानम्- नैवं मन्तव्यम् । अननुभूयमानापि दुःखनिवृत्तिः पुरुषार्थो भवितुमर्हति ।   तदित्थम् । लोके क्वचित् पुत्रादिवियोगवशादनुभूयमानस्य सोढुमशक्यस्य दुःखस्य निवर्तनाय केषाञ्चिद्विषसेवनादिषु प्रवृत्तिर्दृष्यते । केवलं विषसेवनादिकर्माचरणं शास्त्रनिषिद्धमिति मन्वाना विवेकिनो न तावत् प्रवर्तन्ते । एतेन तादृशकर्मणां पुरुषार्थत्वं निराकर्तुं न शक्यते । यतो हि परस्त्रीकामनादिषु  हीनकर्मसु शास्त्रनिषेधाङ्कुषनिवारिताः प्रेक्षावन्तो न प्रवर्तन्ते । किन्तु तत्राप्यनुभूयमानमल्पीयः सुखमपि  पुरुषार्थ एव । परन्तु सुखमिदं महतः अनर्थस्य कारणं भवतीत्येव वैलक्षण्यम् । अन्यथा एतादृशकर्मणां निषेधं वदतां शास्त्रवाक्यानां वैयर्थ्यं स्यात् । तस्मात् विषसेवनपरस्त्रीकामनादिकर्मणां पुरुषार्थत्वं सिद्ध्यतोऽपि तेषां लोकशास्त्रविरोधाद्विवेकिनां तत्र प्रवृत्तिर्न जायते । किन्तु एत एव विवेकिनः घनतरसांसारिकदुःखस्य निवर्तनायैव तीव्रतररोगादिभिः परिपीडिताः अपि दुःखमनुभवन्त एव प्रयागादिषु वटप्रपातनिराहारादिभिः देहत्यागे प्रवृत्ताः भवन्ति । अत्र न कोऽपि लोकशास्त्रविरोधो दृष्यते  । दुःखनिवृत्यर्थमेव प्रेक्षावतां प्रवृत्तिर्दृष्यते न तु दुःखनाशमनुभविष्यामीति । यद्यनुभूयमाना दुःखनिवृत्तिरेव पुरुषार्थ इति कथ्यते तर्हि लोके अनुभूयमानायाः रोगकण्टकादिजन्यदुःखनिवृत्तेः पुरुषार्थत्वं न स्यात् । तादृशदुःखनिवृत्तेः सर्वदा अनुभवविरहात् सुषुप्त्यवस्थायां कस्याप्यनुभवस्यावर्तमानत्वाच्च । यदि किञ्चित्कालमात्रमनुभूयमानायाः  दुःखनिवृत्तेरेव पुरुषार्थत्वमङ्गीकर्तुमिष्यते तर्हि मुमुक्षुणां समाधिप्रभावात् किञ्चित्कालं दुःखनिवृत्तेरनुभूयमानत्वादस्यापि पुरुषार्थत्वमक्षतमेव ।इत्थं यथाकथञ्चित् पुरुषैरर्थ्यमानत्वात् सुखं वा भवतु दुःखनिवृत्तिर्वा भवतु एतदुभयमपि स्वरूपतो पुरुषार्थ एव ।
पुनरप्यत्र आक्षेपः- सांसारिकं  सुखं हि दुःखमिश्रितत्वात् न तदुपादेयमिति तु सत्यमेव । तर्हि साम्सारिकं दुःखमपि सुखमिश्रितत्वात् तस्यापि उपादेयत्वं स्यादेवकुतो निराक्रियते ? इत्थं उपादेयभूतं दुःखं कथं वा हेयं भवितुमर्हति ? तर्हि लोके कुत्रापि हेयवस्तु किमपि न भवत्येव । तथा च मोक्षप्राप्तेः का वा आवश्यकता । तदुक्तम् ।
‘यस्य दुःखमुपादेयं हेयं तस्य किमुच्यताम् ।
हेयहीनस्य का मुक्तिः केन वाप्युपदिश्यते ॥’ इति
समाधानम्- तन्न । मधुविषसम्पृक्तान्नस्य भोजने प्रवृत्तस्य  रमणीयं क्षणिकसुखं भवति तथापि परिणामे घोरं दुःखमेव जायते । अतो विवेकिनस्तत्र न प्रवर्तन्ते । तथैव सांसारिकं सुखमपि किञ्चित्कालावस्तायि , ततःपरं तादृशसुखं दुःखमेव सञ्जनयति । अतः सांसारिकं सुखं हेयमेव न तूपादेयम् । हेयस्य सर्वदा वर्जनीयत्वात् सांसारिकसुखमपि वर्जनीयमेव । इत्थं दुःखनिवृत्तेः पुरुषार्थत्वं सिद्धम् । तथा च आत्यन्तिकी दुःखस्य या निवृत्तिः स एव अपवर्गः । स एव परमपुरुषार्थ इति सर्वं सुष्टूपपादितमेव ।
*******************************************************************************
डा.नवीन वर्याः
न्यायविभागः
विनापदसमभिव्याहॄतद्वितीयाविभक्त्यर्थविचारः
        “दण्डं विना न घटः उत्पद्यते” “रासभं विनापि घटः उत्पद्यते” इत्यादौ विनापदार्थः अभाववान् ।“दण्डं विना न घटः उत्पद्यते” इत्यादौ विनापदसमभिव्याहॄतद्वितीयायाः अनुयोगित्वमर्थः।तस्य च विनापदार्थैकदेशे अभावे आश्रयतया अन्वयः। विनापदार्थस्याभाववतः धात्वर्थे उत्पत्तौ आधेयतासम्बन्धेनान्वयः।तथा च दण्डनिरूपितानुयोगिताश्रयाभाववद्वृत्त्युत्त्पत्तिकत्वाभाववान् घटः इति बोधः  जायते । “रासभं विनापि घटः उत्पद्यते” इत्यादौ च रासभनिरूपितानुयोगिताश्रयाभाववद्वृत्त्युत्त्पत्ति-
कत्वाश्रयः घटः इति बोधो  जायते।
        न च निपातार्थेन समं नामार्थस्य भेदेनान्वयस्य सम्भवात् निपाताख्यविनापदार्थेन समं नामार्थस्य दण्डस्य भेदेनान्वयः अस्तु । किं द्वितीयायाः अनुयोगित्वार्थकत्वेनेति वाच्यम् । विभक्तेः सम्भवति सार्थकत्वे निरर्थकत्वमनुचितमिति न्यायेन द्वितीयायाः अनुयोगित्वार्थकत्वे न किञ्चित्बाधकम्।
        एवं “दण्डं विना न घटः” इत्यादौ दण्डाभाववन्निष्टः घटाभावः इत्याकारकबोध- सम्भवात् घटाभावानुयोगितावच्छेदकत्वं दण्डाभावे भासते इत्युपगन्तव्यम्। अर्थात् दण्डाभावव्यापकत्वं घटाभावे भासते । यदि व्यापकत्वभानं नानुमन्यते तर्हि रासभं विना न घटोत्पत्तिः द्रव्ये न गन्धः इत्यादिप्रयोगापत्तिः। तथा हि रासभाभाववति क्वचित् घटोत्पत्त्यभावदर्शनात् द्रव्यत्ववति जलादौ गन्धाभावसम्भवाच्च “रासभं विना न घटोत्पत्तिः” “द्रव्ये न गन्धः” इत्यादिप्रयोगापत्तिः।एतादृशप्रयोगानां प्रामाणिकतावारणाय विनापदसमभिव्याहारस्थले व्यापकत्वभानमङगीकर्तव्यम्। तथा च निरुक्तस्थले घटोत्पत्त्यभावे रासभाभावव्यापकत्वविरहात् गन्धाभावे द्रव्यत्वव्यापकत्वविरहाश्चेति न तत्र रासभं विना न घटोत्पत्तिः द्रव्ये न गन्धः इत्यादिप्रयोगापत्तिः।
        अथवा अभाव एव विनापदार्थः न तु अभाववानिति । “दण्डं विना न घटः”  इत्यादौ विनापदसमभिव्याहॄतद्वितीयायाः अनुयोगित्वमर्थः।तस्य च विनापदार्थाभावे आश्रयतया अन्वयः। तादृशदण्डाभावस्य प्रयोज्यतासम्बन्धेन घटाभावे अन्वयः। तथा च प्रयोज्यतासम्बन्धेन दण्डाभावविशिष्टः घटाभावः इत्यन्वयबोधः निरुक्तवाक्यात् जायते । रासभाभावप्रयोज्यतायाः घटोत्पत्त्यभावे विरहात् रासभं विना न घटोत्पत्तिरित्यादिप्रयोगस्य न प्रामाणिकता ।  यद्यत्र प्रयोज्यप्रयोजकभावभानं नोपगम्यते । तर्हि दण्डाभाववत्यपि प्रदेशे घटस्य सत्वात् घटोत्पत्त्यनन्तरं जायते इत्यस्याध्याहारं विना “दण्डं विना न घटः” इति प्रयोगोपपत्तिः न स्यात् । विनापदसमभिव्याहारस्थले प्रयोज्यप्रयोजकभावभानोपगमादेव दण्डाभाववति घटादेः वृत्तावपि जायते इत्यस्याध्याहारं विनैव दण्डं विना न घटः इति प्रयोगोपपत्तिः।
 एवं विनापदस्य अभावार्थकत्वे दीधितिकृतामपि  सम्मतिरस्ति । तथा हि तत्त्वचिन्तामणिदीधितौ अविनाभावो व्याप्तिः इत्यत्र साध्यं विना साध्याभाववति यो अभावः इति व्याख्यातम् । तत्र सप्तम्यन्तेन मतुपा संसर्गविधया भासमानं तदधिकरणनिष्ठत्वमेवोपात्तम् । न तु विनापदार्थत्वेन अधिकरणं, यदि  साध्याभाववति इति व्याख्यायां अभावाधिकरणपर्यन्तं विनापदार्थः इति दीधितिकृतां सम्मतं स्यात् तर्हि मतुपा अपदार्थविवरणं कृतं स्यादिति आपद्येत। तथा च दीधितिकृतामपि विनापदस्य अभावार्थकत्वे निर्भर इति यावत्।न च विनापदोत्तरलुप्तसप्तम्यर्थ एव अभाववति इति सप्तम्या विवृत इति वाच्यम् । विनापदस्य निपातत्वात् निपातोत्तरविभक्तेः निरर्थकत्वात्। अत एव सर्वत्र  निपातोत्तरं साधुत्वार्थं प्रथमैवेति शाब्दिकाः।
“विना वातं वृक्षः पतितः” इत्यादौ विनापदसमभिव्याहॄतद्वितीयायाः अनुयोगित्वमर्थः।तस्य च विनापदार्थाभावे आश्रयतया अन्वयः। तस्य च अभावस्य आश्रयतया वृक्षे अन्वयः। तथा च वाताभावविशिष्टःवृक्षः पतनाश्रयाभिन्नःइति शाब्दबोधः।
“पुत्रं विना पिता गतः” इत्यादौ पुत्रपदस्य पुत्रगमने लक्षणा।पुत्रमित्यत्र द्वितीयायाः अनुयोगित्वमर्थः।तस्य च विनापदार्थाभावे आश्रयतया अन्वयः। तस्य च अभावस्य समानकालीनत्वसम्बन्धेन गतः इति पदघटकधात्वर्थे गमने अन्वयः। तथा च समानकालीनत्वसम्बन्धेन पुत्रगमनाभावविशिष्टगमनकर्त्रभिन्नः पिता इति शाब्दबोधः।


                -----------------------------------------------------
       || जीवानां विकासक्रमः ||
राजेश् हेगडे
आचार्यद्वितीयवर्षः
श्रीमद्भागवतपुराणे जीवानां विकासक्रमः परमलक्ष्यञ्च इत्थमुपवर्ण्यते ।
जीवाः श्रेष्ठाः ह्यजीवानां ततः प्राणभृतः शुभे ।
                ततः सचित्ताः प्रवरास्ततश्चेन्द्रियवृत्तयः ॥
(श्री.म.भा.म.पु - ३ स्क.२९अ.२८ श्लोक ।)
-         जगतीतले अचेतनेभ्यः मृत्पाषाणादिभ्यः सचेतनाः वृक्षादयः श्रेष्ठाः । सचेतनेषु स्वासोच्छ्वासवन्तो जङ्गमाः श्रेष्ठाः । स्वासोच्छ्वासवत्सु जीवेषु सचित्ताः समनस्काः जीवाः उत्तमाः भवन्ति । समनस्केषु जीवेषु पुनः इन्द्रियद्वारा उपरसादि ज्ञानवन्तः जीवाः प्रवराः भवन्ति ।
तत्रापि स्पर्शवेदिभ्यः प्रवराः रसवेदिनः ।
तेभ्यो गन्धविदः श्रेष्टास्ततः शब्दविदो वराः ॥
( श्री.म.भा.म.पु – ३ स्क. २९ अ. २९ श्लोक)
-         इन्द्रियवत्सु जीवेषु पुनः स्पर्शवेदिभ्योपि रसज्ञाः मीनादयः प्रवराः भवन्ति । स्पर्शरसवेदिषु भृङ्गादयः स्पर्शरसगन्धवेदिनः श्रेष्ठाः । गन्धविद अपेक्षया शब्दविदः  श्रेष्ठाः ।
रूपभेदविदस्तत्र ततश्चोभयतोदतः ।
तेषां बहुपदाः श्रेष्टाश्चतुष्पादस्ततो द्विपात् ।
( श्री.म.भा.म.पु - ३.स्क.२९ अ.३०श्लो)
-         शब्दविद्भ्यः जीवेभ्यः रूपविदः काकादयः श्रेष्ठाः । रूपविदपेक्षया उभयतोदत [उभयतो दत्ताः येषां ते] उत्तराधरदन्तयुक्ताः कीटविशेषाः श्रेष्ठाः ।  तेभ्यः अपादेभ्यः बहुपादयुक्ताः शरभादयः श्रेष्ठाः । ततः चतुष्पाद गवादयः श्रेष्ठाः ।  ततः द्विपादयुक्तमनुष्याः श्रेष्ठाः ।
ततो वर्णश्च चत्वारस्तेषां ब्राह्मण उत्तमः ।
ब्राह्मणेष्वपि वेदज्ञो ह्यर्थज्ञोऽभ्यधिकस्ततः ।।
(श्री.म.भा.म.पु -  ३.स्क.२९अ.३१श्लो.)
-      मनुष्याः चतुर्विधाः भवन्ति । यतो हि चत्वारो वर्णाः वर्तन्ते । ब्राह्मण-क्षत्रिय- शूद्र - वैश्य इति । तेषां वर्णानाम् मध्ये ब्राह्मणोत्तमः । ब्राह्मणेष्वपि जातिः ब्राह्मणापेक्षया वेदाध्यायी विप्रः महान् भवति । ततः वेदार्थवित् महान् ।
अर्थज्ञात्संशयच्छेत्ता ततः श्रेयान् स्वकर्मकृत् ।
     मुक्तसङ्गस्ततो भूयानदोग्धा धर्ममात्मनः ॥
(श्री.म.भा.म.पु - ३ स्क.२९अ.३२श्लो)
-         अर्थज्ञानवतः अपेक्षया सर्वसन्देहनिवारकः ब्राह्मणः श्रेयान् । तत्र श्रेष्ठः द्विविधो ब्राह्मणः भवति । तत्र स्वधर्मानुष्टानशून्यात् ब्राह्मणात् स्वधर्मानुष्टानरथः श्रेष्ठः । स इन्द्रसमः श्रेष्ठः । ततः यः धर्माचरणे फलाकाङ्क्षारहितः सः निष्कामः श्रेष्ठः ।
तस्मान्मय्यर्पिता शेषक्रियार्थात्मा निरन्तरः ।
मय्यर्पितात्मनः पुंसो मयि संन्यस्तकर्मणः ।
तपस्यामि परं भूतमकर्तः समदर्शनात् ॥
(श्री.म.भा.म.पु - ३ स्क.२९अ.३३श्लो)
-         निष्कामकर्मणोऽपि ब्राह्मणात् भगवति अर्पितानि सकलानि कर्माणि कर्मफलानि च अर्थाः देहगेहादयः मनोबुद्धिचित्ताहङ्काराः येन सः श्रेष्टः भवति ।भगवति न्यस्तात्मरक्षाभरात् प्रयोजककर्तरि क्रियाफलप्रदे संन्यस्तकर्मणः तस्मात् सर्वक्रियाप्रवर्तकेऽन्तर्यामिणि मध्येवानुसंहितक्रिया कर्तृत्वात् । अत एव स्वस्मिन् कर्तृत्वादिभिन्नरहितात् वासुदेव एव सर्वं करोति कारयति च ।नाहं स्वातन्त्र्येण किञ्चित्करोमीति ज्ञानवत इत्यर्थः । कृत्स्नं जगद् ब्रह्मात्मकमिति ज्ञानवत उत्कृष्टम् जीवम् न पारयामि ।
वासुदेवार्पणमस्तु

 **********************************************************************

वैशेषिकदर्शनदृष्ट्या आधुनिकरासायनिकशास्त्रे द्रव्यविवेचनम्
          द्रव्यनिरूपणे न्याय-वैशेषिकदर्शनाभ्यां साकं आधुनिकरासायनिकशास्त्रस्य कुत्रचित्1  सैद्धान्तिकवैषम्यं दृश्यते । तदत्र निरूप्यते । तत्रादौ न्याय-वैशेषिकदर्शनम् । क्रियागुणवत् समवायिकारणमिति द्रव्यलक्षणम्2 । पृथिव्यापस्तेजो वायुराकाशं कालो दिगात्मा मन इति द्रव्याणि3 । रूपरसगन्धस्पर्शवती पृथिवी4 । रूपरसस्पर्शवत्य आपो द्रवाः स्निग्धाः5 । तेजो रूपस्पर्शवत्6 । स्पर्शवान् वायुः7 । अयं विभागः गुणाधारितः । गन्धवत्व-शीतस्पर्शवत्व-उष्णस्पर्शवत्व-रूपरहितस्पर्शवत्वानां क्रमेण विभाजकलक्षणत्वात् । एषां लक्षणानां प्रत्यक्षविरोधप्रयुक्तऽव्याप्त्यादिदोषशङ्कानिराकरणौपयिकव्यवस्थाः व्याख्यानश्रेण्यां बहुधा दृश्यन्ते, पाषाणादावनुद्भूतगन्धः, उष्णजले तेजोगतमौष्ण्यं, चक्षुरिन्द्रियादावनुद्भूतस्पर्शः, धूमादौ पृथिवीगतरूपं तेजोगतमौष्ण्यञ्चेत्यलं परीक्षा ।
          पृथिव्यादीनामवयवधारायाः अन्तिमं स्थानं परमाणुः । स च पृथिव्यादिभेदेन चतुर्विधः, स्थूले चातुर्विध्यदर्शनात् । द्वयोः पार्थिवपरमाण्वोः संयोगात् पार्थिवद्व्यणुकमुत्पद्यते, त्रयाणां पार्थिवद्व्यणुकानां संयोगात् पार्थिवत्र्यणुकमुत्पद्यते, एवमग्रे, जलादिष्वपि, इत्यवयवधाराक्रमः ।
          रासायनिकशास्त्रे द्रव्यम् (Matter) इति अनित्यानामेव द्रव्याणां व्यपदेशः गुरुत्ववत्वं, स्वस्थित्यर्थं स्थानसापेक्षत्वं वा द्रव्यत्वम्8 द्रव्यं चतुर्विधम्पृथिवी (Solid), आपः (Liquid), वायुः (Gas), प्लास्मा (Plasma)9 इति | निश्चित परिमाण-आकृति-उभयवत्वं पृथिवीत्वम् निश्चितपरिमाणवत्वे सति आकृतिराहित्यं जलत्वम् । यथा घटे वर्त्तमानं घटाकृतिमज्जलं चषके स्थाप्यते चेत् चषकाकृतिं प्राप्नोति10 निश्चितपरिमाण-आकृति-उभयराहित्यं वायुत्वम् विभागश्चायं तदीयावयवानां प्रचयाधारितः11 यत्र अवयवेषु दृढसंयोगः सा पृथिवी, ततः दुर्बलसंयोगः यत्र तत् जलं, ततोऽपि न्यूनः वायौ, ततोऽपि न्यूनः प्लास्मायामिति अवयवानां चलनस्वातन्त्र्यं पृथिव्यां नास्त्येव, जले ईषदस्ति, वायौ ततोऽप्यधिकं, प्लास्मायाञ्च अत्यधिकमस्ति औष्ण्यप्रदानेन शीतीकरणेन वा क्वचित् द्रव्यम् उक्तचतुर्षु अवस्थासु परिणामयितुं शक्यते12 तद्यथा पृथिव्या उष्णीकरणेन जलं, तदुष्णीकरणेन वायुः, तदुष्णीकरणेन प्लास्मा जायते, एवं शीतीकरणेन प्लास्मातः पृथिवीपर्यन्तं परिणामः जायते
                   द्रव्यस्यैव अन्योऽपि कश्चन विभागक्रमः दृश्यते पूर्वोक्तविभाग अवयवसंयोगदार्ढ्याधारितश्चेदुच्यमान अवयवानां वैविद्ध्याधारितः । अत एवात्र प्रत्येकं विभागे पार्थिवादिप्रभेदवतामन्तर्भावः भवति । द्रव्यं द्विविधम्शुद्धद्रव्यं (Pure Substance), मिश्रितद्रव्यम् (Mixtures) इति सामान्यभौतिकप्रक्रियाद्वारा यादृशद्रव्यस्य अवयवविभाग अशक्यः तत् शुद्धद्रव्यम् सुवर्णम् (Gold-Au), आम्लजनकं (Oxygen-O), जलम् (Water-H2O) इत्यादीन्युदाहरणानि सामान्य भौतिकप्रक्रियाद्वारा यादृशद्रव्यस्य अवयवविभागः शक्यः तत् मिश्रितद्रव्यम् लवण-जलमिश्रितम्, अन्तरिक्षवायुः, मृत्पाषाणयोर्मिश्रितमित्यादीन्युदाहरणानि
          शुद्धद्रव्यं पुनः मूलकं(Elements), मूलककम्(Compounds) इति द्विधा विभक्तम्
          अणु-सजातीयाणुजन्याणुक-अन्यतरजन्यं मूलकम्13 मूलकमिति विभागे केवलमेकविध अवयवा एव भवन्ति अवयव अणुः (Atom), अथवा सजातीय-अणूनां संयोगेन उत्पद्यमानं अणुकं (Molicule) वा भवति विक्षारद्रव्यङ्कारीयं (Sodium-Na), ताम्रं (Copper-Cu), जलजनकम् (Hydrogen-H), आम्लजनकमित्यादीन्युदाहरणानि अत्र प्रत्येकस्मिन् द्रव्ये तज्जातीय अणु अथवा अणुकमेव भवन्ति एते प्रत्येकमपि अणुः अथवा अणुकं, अन्यद्रव्यगत(सुवर्णादिगत) अणुः अथवा अणुकात् विलक्षणगुणयुक्ताः भवन्ति विक्षारद्रव्यङ्कारीय-ताम्र-इत्यादिषु अणुः एव अवयवः, अर्थात् बहूनाम् अणूनां संयोगेन स्थूलद्रव्यस्य उत्पत्तिः । एतदणुजन्यमूलकस्योदाहरणम् ।  
          जलजनकं, आम्लजनकमित्यादिष्वणुकं भवति अवयवः, अर्थात् आदौ अणूनां संयोगेन अणुकं जायते, तादृशाणुकानां संयोगेन स्थूलद्रव्यस्योत्पत्तिः स्थूलजलजनके जलजनक-अणुद्वयं मिलित्वा आदौ ..’(H2) इति जलजनक-अणुकमुत्पद्यते, तादृशाणुकानां बहूनां मेलनेन स्थूल जलजनकवायोरुत्पत्तिः एवं स्थूल आम्लजनके आम्लजनक-अणुद्वयं मिलित्वा आदौ ..’ (O2) इत्याम्लजनक-अणुकमुत्पद्यते, तादृश अणुकानां बहूनां मेलनेन स्थूल आम्लजनकवायोरुत्पत्तिः | अन्येषु कतिपयद्रव्येषु, सजातीयानां द्वयाधिक अणूनां संयोगादुत्पद्यमानान्यणुकानि मिलित्वा स्थूलमूलकमुत्पादयन्ति14 । एतान्यणुकजन्य मूलकस्योदाहरणानि । तथा मूलकमिति विभागे, अणुः, अणुद्वययुक्तमणुकम्, अणुत्रययुक्तमणुकम् अणुचतुष्टययुक्तमणुकमित्यादय अवयवभूताः भवन्ति तादृशानां द्वयानां त्रयाणां सहस्राणां वा संयोगादुत्पद्यमानं सर्वं स्थूलमेव15
          विविधमूलकजन्यं मूलककम् मूलककमिति विभागे द्वयोः, तदधिकानां वा भिन्नजातीयअणूनां संयोगेन उत्पद्यमान-अणुकमेव अवयवः भवितुमर्हति, तु अणुः अङ्गाराम्लवायुः (Carbon Dioxide), जलं, अन्नजम् (Sugar) इत्यादीन्युदाहरणानि एकः अङ्गार-अणुः, द्वौ आम्लजनक-अणू मिलित्वा ..1..2 (CO2) इति अङ्गाराम्लवायोरणुकमुत्पद्यते । बहूनि अङ्गाराम्लवायोरणुकानि मिलित्वा स्थूल-अङ्गाराम्लवायुमुत्पादयन्ति । अत्र अङ्गार आम्लजनकञ्च भिन्नजातीये एको जलजनक-अणुः, द्वौ आम्लजनक-अणू मिलित्वा ज..2..1 (H2O) इति जलस्य अणुकमुत्पादयन्ति । बहूनि जल-अणुकानि मिलित्वा स्थूल जलमुत्पादयन्ति । अन्नजे च षट् अङ्गार-अणवः, द्वादश जलजनक-अणवः, षट् आम्लजनक-अणवश्च मिलित्वा अ..6..12..6 (C6H12O6) इति अन्नजस्य अणुकमुत्पादयन्ति । बहूनि अन्नज-अणुकानि मिलित्वा स्थूल अन्नजमुत्पादयन्ति16
          इथं मूलकमिति विभागीयानाम् अवयवभूतेष्वणुकमित्याख्येषु विविध अणवः सुनिश्चितसंख्यायां संयुज्यन्ते । अणोः संख्यायां भेदे सति द्रव्यमेव भिन्नं भवति । यथा H2O जलं भवति, H2O2(Hydrogen peroxide) तु प्रकोष्ठादिशुद्धीकरणार्थमुपयुज्यमान विषलायनि । तथा च अणुके कीदृशः अणुः वर्तते, सोऽपि कियत्संख्याकः वर्त्तते इति उभयमपि तस्य पदार्थस्य स्वभाव-गुणादीन् नियमयति ।
          मूलककमिति विभागे अणुकं, तदवयवीभूताण्वपेक्षया विलक्षण-स्वभाव-गुणान् प्रकटयति । यथा जलजनकम् आम्लजनकञ्च वायवीयपदार्थौ, तयोः संयोगात् जलमुत्पद्यते । जलजनक-वायुः अग्निसंयोगे भीकर स्फोटशब्देन ज्वलति, आम्लजनक-वायुः सर्वत्र दहनार्थम् अत्यन्तापेक्षितवायुरिति विख्यातः, तयोर्संयोगादुत्पन्नं जलं तु अग्निशमनार्थमुपयुज्यते ।
          भौतिकप्रक्रियया ज..2  इति अणुकं ज.ज इत्यणुरूपेण, ..2 इति अणुकं आ.. इत्यणुरूपेण, ..2..1 इति अणुकं ज.. इत्यणुरूपेण एवं आ.. इत्यणुरूपेण, ..1.2 इति अणुकं अ.र एवं आ.. इत्यणुरूपेण विभक्तुं न शक्यते । तथापि रासायनिकप्रक्रिया द्वारा तादृशविभागः शक्यः ।
          मिश्रितद्रव्यं पुन ऐकात्म्यद्रव्यं (Homogenious), नैकात्म्यद्रव्यम् (Hetrogenious) इति द्विधा विभज्यते ।
          विविधमूलक-मूलकक-अन्यतरजन्यत्वे सति एकात्मभाववत्वम् एकात्मद्रव्यत्वम् । एकात्मभावश्च प्रत्येकघटकस्य प्रत्यक्षायोग्यत्वे सति घटितस्य प्रत्यक्षयोग्यत्वम् । एकात्मद्रव्यमिति विभागे तद्घटकपदार्थानां मिश्रणमथवा संयोगः सर्वत्र द्रव्ये एकधा भवति । लवण-जल-मिश्रितम्, अन्तरीक्षवायुरित्यादीन्युदाहरणानि । एको विक्षार-द्रव्यङ्गारीय अणुः, एको लवणङ्गारीय (Chlorine-Cl) अणुः च मिलित्वा उत्पद्यमानानि यानि वि... (NaCl) इति लवण-अणुकानि, तानि मिलित्वा स्थूललवणमुत्पद्यते । जलञ्च ज..2.. अणुकानां मेलनेन उत्पद्यते । एतदुभयमपि मिलित्वा लवण-जल-मिश्रितम् इति मिश्रितम् उत्पद्यते । तत्र मिश्रिते सर्वत्र जलस्य लवणस्य च मिश्रणं एकधा भवति । एवं अन्तरिक्षवायौ जलजनकं, आम्लजनकं, अङ्गाराम्लवायुः, इत्यादयः भवन्ति । तेषां मिश्रणञ्च प्रायः अन्तरिक्षे सर्वत्र एकरूपेण भवति ।
          विविध मूलक-मूलकक-ऐकात्म्यद्रव्य-अन्यतरजन्यत्वे सति नैकात्मभावत्वम् नैकात्मद्रव्यत्वम् ।  नैकात्म्यद्रव्यम् इति विभागे तद्घटकपदार्थानां  मिश्रणं सर्वत्र एकरूपेण न भवति । लवण-शर्कर-मिश्रितं, मृत्-पाषाण-मिश्रितं, जल-लवण-मिश्रिते पाषाणखण्ड इत्यादीन्युदाहरणानि । अत्र घटकानां विभागः सुलभतया कर्तुं शक्यते ।
          मिश्रितद्रव्यविभागीयानामवयवविभागः भौतिकप्रक्रियया संभवति । एवमत्र (शुद्धद्रव्यवत्) घटकानां सङ्ख्या न निश्चिता । अर्थात् जल-लवण-मिश्रिते किञ्चित् लवणं वा भवतु अधिकं लवणं वा भवतु, तत् जल-लवण-मिश्रितमेव । एवमन्यत्रापि उदाहरणेषु । किन्तु शुद्धद्रव्ये नैवं, यथा अङ्गारवायौ एक अङ्गाराणुः,  द्वौ आम्लजनकाणू इति स्थितौ एकस्य आम्लजनकाणोः न्यूनतायां सत्यां तत् अ... (Carbon Monoxide- CO) इति विषवातकं भवति, यस्य श्वसनेन तत्क्षणे मृत्युर्भवति ।
           रासायनिकमते पृथिव्यादिप्रभेदवदवयवधाराया अन्तिमं स्थानं क्वचिदणुः क्वचिच्च अणुकमिति अनेन निरूपितम्16 । अणुकस्यावयव अणुः18 118 मितानि अणवः विलक्षणतया संयुज्य अनेककोटि विविधऽणुकानि उत्पादयन्ति19 । अणोः अवयवाः इलक्ट्रोण् (Electron-e-), प्रोट्टोण् (Proton-p+), न्यूट्रोण् (Neutron-n0)20 । इलक्ट्रोण्, प्रोट्टोण्, न्यूट्रोण् च परस्परं विजातीयाः । एतेषां विजातीयसंयोगात् 118 मिताः विविधा अणव उत्पन्नाः ।  यथा एकं p+, एकं n0, एकं e- च अनयोर्मेलनेन योऽणुः उत्पद्यते सः जलजनको भवति । 26 p+, 26 n0, 26 e- एषां मेलनेन यो अणु उत्पद्यते स अयः भवति । इत्थं प्रोटोण् (p+) सङ्ख्या अणुगतगुणान् निश्चिनोति । यदि 47 p+ भवति तर्हि तत् रजतं, यदि 79 p+ भवति तर्हि सुवर्णम् इति । यदि च 80 p+ भवति तर्हि तत्  मेर्कुरि (Mercury) भवति, यद् जलीयावस्थायां (Liquid state) भवति |
1. विभागः, अवयवधारा इति अंशद्वयमेव स्वीकृतम् ।                                  2. वै. सू. १. १. १५
3. वै. सू. १. १. ५ (रासायनिकशास्त्रे अनित्यानामेव द्रव्याणां विचारः कृत इति तन्मात्रमत्रापि क्रियते ।)
4. वै. सू १. २. १            5. वै. सू १. २. २            6. वै. सू १. २. ३            7. वै. सू १. २. ४
8. Anything which has mass and occupies space is called matter.
9. रासायनिकशास्त्रे तेजसः द्रव्यत्वं नाऽङ्गीकृतम् ।वाय्वनन्तरतया प्लास्मा इति अतिरिक्तद्रव्यमङ्गीकृतम्
10. परिमाणम् – Volume, आकृतिः – Shape अत एव रासायनिकज्ञैः मेर्कुरि (Mercury-Hg) अपि जलम् (Liquid) इति स्वीक्रियते । एवं Bromine-35, Caesium-55, Rubidium-37, Francium-87, Gallium-31 एते अपि जलीयावस्थायां वर्त्तन्ते । न्यायवैशेषिके तु ज..2..1 एव जलमिति स्वीकृतम् ।  11. न्यायवैशेषिके पृथिव्यादिविभागः गुणाधारितः
12. पार्थिवादीनां जलादिरूपेण परिणामः न्यायवैशेषिके स्वीकृतः, तत्तद्गुणानामन्यत्रासत्वात् प्रचयाधारितविभागवादे तु नात्र दोषः
13. साजात्यञ्च जलजनकत्व-आम्लजनकत्वादिना । तादृशजातयः 118 संख्याकाः । तेन मूलकान्यपि 118 संख्याकानि । न्याय-वैशेषिके परमाणूनां साजात्यं पृथिवीत्वादिना, तेन तादृशजातयः चतस्र एव ।
14. न्यायवैशेषिके द्व्यणुकानां संयोगमन्तरा द्वयाधिक परमाणूनां संयोगासवयव्युत्पत्तिः स्वीक्रियते
15. न्यायवैशेषिके परमाणुः, द्व्यणुकं, त्र्यणुकमित्येव क्रमेण स्थूलस्योत्पत्तिः।आद्यद्वयं सूक्ष्मं, अग्रे सर्वं स्थूलम्
16. अङ्गाराम्लवायुः, जलं, अन्नजमित्यादीनां अणुः न विद्यते, तेषां अवयवधारायाः अन्तिमस्थानं न अणुः, अपितु अणुकं एव । न्यायवैशेषिकानामिदं न सम्मतम् । एवं वायुद्वयसंयोगात् जलोत्पत्तिः, वायु पृथिवी संयोगात् वायूत्पत्तिः इत्यादिः न स्वीक्रियते ।
17. न्यायवैशेषिके परमाणुरेव अवयवधाराया अन्तिमस्थानम्
18. अणुके एतवन्त एव अणवः भवन्ति इति न निश्चितम् । विविधद्रव्याणां अणुके अणुसंख्या विभिन्ना भवति । न्यायवैशेषिके तु अणुके अणुसंख्या निश्चिता
19. न्यायवैशेषिके परमाणूनां विलक्षणसंयोगः स्वीकृतः चतुर्विधानां परमाणूनां संयोगात् स्थूलप्रपञ्चस्योत्पत्तिः
20. न्यायवैशेषिके परमाणोः अवयवाः सन्ति अत एव पृथिव्यादिप्रभेदवतामवयवधारेति अणोः अवयवभूतेषु पृथिव्यादिभेदः नास्तीति यावत्

*********************************************************************************************************************

न्यायनये वृत्तिपदार्थविमर्शः
लोके हि प्रेक्षावतदनुभवसिद्धप्रत्यक्षानुमित्युपमितिशाब्दबोधाख्यचतुर्विधप्रमित्यनुरोधेन प्रत्यक्षानुमानोपमानशब्दाख्यानि चत्वारि प्रमाणान्यङ्गीकृतानि प्रमाणपटुभिर्नैयायिकैः, सूत्रितञ्च भगवता गौतमेन ’प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि’ इति (गो.न्या.सू.) । चतुर्विधप्रमासु प्रत्यक्षादिविलक्षणा शाब्दप्रमा च वृत्तिज्ञानसहकृतपदज्ञानेन पदार्थोपस्थितिद्वारा जायमाना तथोपस्थितपदार्थानां परस्परसंसर्गावगाहिनी प्रतीतिः । तत्र पदज्ञानं करणं, पदज्ञानजन्यपदार्थोपस्थितिः अवान्तरव्यापारः, वृत्तिज्ञानं सहकारिकारणम् इति विवेकः ।  तदुक्तम्-
’पदज्ञानं तु करणं द्वारं तत्र पदार्थधीः ।
शाब्दबोधः फलं तत्र शक्तिधीः सहकारिणी ॥’ इति ॥ (का-८१ पृ सं २६५)
शाब्दबोधे च वृत्या पदज्ञानजन्यैवपदार्थोपस्थितिः कारणं (व्यापारः) न तु यथाकथञ्चित् पदार्थोपस्थितिः । अन्यथा घटादिशब्दश्रवणात् समवायेन तदाश्रयस्य आकाशस्योपस्थितौ घटशब्दजन्यशाब्दबोधे आकाशस्यापि भानप्रसङ्गः । वृत्या तु घटादिशब्दात् आकाशस्य भानं न सम्भवतीति न दोषः । वृत्तिश्च शाब्दबोधहेतुभूतपदार्थस्मरणानुकूलः पदपदार्थयोः सम्बन्ध एव । सा च मुख्यवृत्तिः, जघन्यावृत्तिरितिद्विविधा । मुख्यावृत्तिरेव शक्तिः, अभिधा इति, जघन्यावृत्तिश्च लक्षणा भक्तिरिति चाभिधीयते । घटपटादिपदेभ्यः, पाणिन्याद्याधुनिकसङ्केतितनदी-वृध्यादिपदेभ्यश्च शाब्धबोधः तत्सङ्केतज्ञादेव भवितुमर्हति नान्यथेति सर्वानुभवसिद्धम् ।
स च सङ्केतो आधुनिकसङ्केतो नित्यसङ्केतश्चेति द्विविधः, आधुनिकसङ्केत एव परिभाषेत्युच्यते । तया चार्थबोधकं पदं पारिभाषकं यथा पाणिन्यादिसंकेतितं ’यूस्त्र्याख्यौ नदी’, वृद्धिरेचि’ इत्यादौ श्रूयमाणं नदी वृध्द्यादिपदम् । नित्यसङ्केतस्तु शक्तिरित्यपरपर्यायः “अस्मात्पदात् अयमर्थो बोद्धव्यः” इत्याकारकः अर्थविशेष्यकैतत्पदजन्यबोधविषयत्वप्रकारकः, “इदं पदममुमर्थं बोधयतु इत्याकारक एतत्पदविशेष्यकैतदर्थविषयकबोधजनकत्वप्रकारको वा ईश्वरसङ्केत एव । विशेष्यतासम्बन्धेन तत्पदजन्यबोधविषयत्वप्रकारकेश्वरेच्छावत्वमेव तत्पदशक्यत्वम् । यथा “घटः घटपदजन्यबोधविषयो भवतु” इत्याकरकः ईश्वरसङ्केतः घटपदशक्तिः । विशेष्यतया तादृशसङ्केतवत्वात् घटः शक्यः, तद्वाचकं घटपदं च शक्तम् ।
आक्षेपसमाधाने
ननु तत्पदबोद्धव्यत्वप्रकारकेश्वरेच्छाविशेष्यत्वस्य तत्पदशक्यत्वे, एकस्याः एव ईश्वरेच्छायाः घटपटादिनिखिलजगद्विषयकत्वेन घटादिपदबोद्धव्यत्वप्रकारकेश्वरेच्छा विशेष्यत्वस्य पटादावपि सत्वात् पटादीनामपि घटादिपदशक्यत्वापत्तिः । अपि च तादृश शक्तेः पद-पदार्थसम्बन्धत्वमेव न घटते तस्याः द्विनिष्ठत्वादिरूपसम्बन्धस्वरूपत्वाभावात् ।“ सम्बन्धो हि सम्बन्धिभ्यां भिन्नो द्विनिष्ठो विशिष्टबुद्धिनियामकश्च” इति भाष्यवचनात् इति चेत् न |
ईश्वरेच्छायाः ऐक्येपि, न सा पटांशे घटपटबोधव्यत्वमवगाहते, किन्तु घटांशे एव अन्यथा तस्याः विसंवादित्वापत्तेः । तत्पदबोद्धव्यत्वनिष्ठप्रकारतानिरूपितभगवादिछीयविशेष्यतावत्वं एव तत्पदशक्यत्वम् । घटपदबोद्धव्यत्वनिष्ठप्रकारतानिरूपितत्वस्य पटवृत्तिभगवदिछीयविशेष्यतायां विरहान्न दोषः । अपि च यथा आधेयता-आधारता-तदुभयान्यतमस्वरूपाणां आधाराधेयभावादीनां, अभेदादीनां च द्विनिष्ठत्वाभावेऽपि सम्बन्धत्वं तथैवात्रापि निर्वाहात् । यथा वा आधारतादीनां स्वरूपेण आधारे, निरूपकतासम्बन्धेन चाधेये च वृत्तित्वं, तथा भगवदिच्छायाश्च विशेष्यतया अर्थे, परम्परया च पदेऽपि सत्वात् इति द्विनिष्ठत्वं सम्भवत्येव । वस्तुतः सम्बन्धस्य द्विनिष्ठत्वं नापेक्षितम् अपि तु द्विसम्बन्धित्वमेव । तदपि न सर्वत्र यतो हि द्विसम्बन्धित्वाभावेऽपि अभेदस्य सम्बन्धत्व स्वीकारात् । नापि विशिष्टबुद्धिनियामकत्वरूपं वा तत् । किं तत्र नियामकत्वं जनकत्वस्वरूपम् आहोस्वित् विषयत्वरूपम् । आद्ये परमाणुसंयोगे अव्याप्तेः, अतीन्द्रिययोः परमाण्वोः विशिष्टप्रत्यक्षासम्भवेन, अनुमित्यात्मकपरमाणुद्वयविशिष्टबुद्धिजनकत्वस्य संयोगे विरहात् । नापि विषयत्वरूपं तत्, तस्य नापि वस्तुमात्रसाधारणत्वात् सर्वत्रातिव्याप्तेश्च । यदि विषयत्वं चात्र प्रकारतानिरूपितं विशेष्यताभिन्नविषयत्वं, तदा संयोगेन द्रव्यत्वप्रकारकभ्रममादाय संयोगस्य द्रव्यत्वसम्बन्धत्वापत्तेः । प्रमाम्न्तर्भाव्य विषयतानिर्वचने सति तेन सम्बन्धेन तद्वद्विशेष्यकत्वे सति तेन सम्बन्धेन तत्प्रकारकत्वरूप प्रमात्वस्य सम्बन्धत्वघटितत्वेन अन्योन्याश्रयप्रसङ्गः । अतः तस्य सम्बन्धत्वं तत्प्रतियोगिकत्वस्वरूपं, तस्मिन् सम्बन्धत्वं च तदनुयोगिकत्वस्वरूपं वाच्यम् । अत एवोक्तं भट्टाचार्यैः सिद्धान्तन्यप्तिलक्षणविचारावसरे “दर्शितं च नियमाघटितं सम्बन्धत्वम् इति । ईश्वरेच्छायाम् अर्थानुयोगिकत्वस्य पदप्रतियोगिकत्वस्य च सत्त्वात्, न दोषः ।
अयमत्र विशेषः, ईश्वरसङ्केत एव शक्तिः, न तु ईश्वरज्ञानं, गौरवात् । ईश्वरसङ्केतस्य शक्तित्वेऽपि संकेतत्वेनैव तज्ज्ञानं कारणं, अनीश्वरवादिनां शाब्दबोधोदयात्, तथा च परिभाषाज्ञानसाधारणी शक्तिज्ञाननिष्ठकारणता, इति शक्तिज्ञानशाब्दबोधयोः नातिरिक्तकार्यकारणभावः । पाणिन्यादि सङ्केतितनदीवृध्द्यादिपदजन्यबोधस्थले आधुनिकसङ्केतात्मकपरिभाषाज्ञानकारणत्वस्य सर्वानुभवसिद्धत्वात् । ईश्वरज्ञानस्य शक्तित्वाङ्गीकारे, शाब्दबोधं प्रति शक्तिज्ञानस्यातिरिक्तं कारणत्वं कल्पनीयं तत्कारणत्वस्याक्लृप्तत्वात् ।
ननु आधुनिकेच्छायाः इव आधुनिकज्ञानस्यापि परिभाषात्वम् अङ्गीक्रियते, तज्ज्ञानकारणत्वस्य नदीवृध्द्यादिपदज्ञानजन्यबोधस्थले क्लृप्तत्वात् । ईश्वरज्ञानात्मकशक्तिज्ञानस्यापि आधुनिकज्ञानरूप परिभाषाज्ञानसाधारणकारणत्वाङ्गीकारेण नातिरिक्तकारणत्वकल्पनमिति चेत् न आधुनिक ज्ञानस्य परिभाषात्वं न सम्भवति । अन्यथा अस्मदादीनामपि नदीवृध्द्यादिशब्दाः ईदूदन्तनित्यस्त्रीलिङ्गशब्दबोधकाः इति ज्ञानसम्भवेन, तादृशार्थे नद्यादिशब्दाः अस्मदादिभिः परिभाषिताः इति व्यवहारस्य प्रामाणीकत्वापत्तेः । “ते च शब्दाः निरुक्तार्थे पाणिनिनैव परिभाषिताः” इत्येव प्रामाणिको व्यवहारः । एवं “घटशब्दो घटबोधकः” इति ज्ञानसम्भवेन  वाचकानामपि घटादिशब्दानां परिभाषात्वापत्तिः । अतः आधुनिकज्ञानं न परिभाषा अपि तु आधुनिकसङ्केत एव । एवं ईश्वरज्ञानं न शक्तिः किन्तु ईश्वरसङ्केत एव, अन्यथा अतिरिक्तकार्यकारणभावकल्पनाप्रयुक्तगौरवात् ।
लक्षणावृत्तिविचारः – जघन्या वृत्तिरेव “लक्षणा इत्यभिधीयते । सा च शक्यार्थसम्बन्धरूपा । ’गङ्गायां घोषः’ इत्यादि वाक्यात् “तीरवृत्तिर्घोषः” इत्याकारकः शाब्दबोधो जायते । तत्र तीरवाचकपदाभावेऽपि तस्य शाब्दबोधे प्रकारतया भानात् तद्वाक्यघटकगङ्गापदस्यैव तदर्थोपस्थापकत्वमङ्गीक्रियते गत्यन्तराभावात्, पदादनुपस्थापितस्यार्थस्य शाब्दबोधे संसर्गविधया भानसम्भवेऽपि प्रकार-विशेष्यविधया भानासम्भवाच्च । तथा च गङ्गापद-तीरयोः शाब्दबोधौपयिकतीरोपस्थितिप्रयोजकः कश्चन सम्बन्धो वक्तव्यः, पदज्ञानस्य “एकसम्बन्धिज्ञानम् अपरसम्बन्धिस्मारकम्” इति विधयैव पदार्थोपस्थापकत्वनियमात् । स च सम्बन्धः शक्यार्थसम्बन्धरूपः शाब्दबोधानुकूलपदार्थोपस्थितिप्रयोजकत्वेनाभिमतः, सैव लक्षणेत्युच्यते । ’गङ्गायां घोषः’ इत्यत्र गङ्गापदस्य स्वशक्यार्थप्रवाहसामीप्यं लक्षणा । तया वृत्या गङ्गापदात् तीरस्योपस्थितिर्जायते, एकसम्बन्धिज्ञानविधया । अत्र गङ्गापदस्य बहुष्वर्थेषु सम्बन्धग्रहात् तेषां सर्वेषां उपस्थितिसम्भवेऽपि तच्छक्यार्थप्रवाहे घोषपदार्थ अन्वयानुपपत्त्यादिप्रतिसन्धाने सति लक्षणयोपस्थापिते तीरे प्रकरणादिना वक्तृतात्पर्यं अवधार्यते । ततः गङ्गापदात् तीरविषयकः शाब्दबोधो जायते ।
तात्पर्यानुपपत्तिरेव लक्षणाबीजं नत्वन्वयानुपपत्तिः, अन्यथा यष्टिधरबोधतात्पर्येण प्रयुक्ते ’यष्टीः प्रवेशय’ इत्यादिवाक्यघटकयष्टिपदे लक्षणानुपपत्तेः, यष्टिषु प्रवेशान्वयानुपपत्तेरभावात् । किन्तु यष्टीनां प्रवेशे भोजनतात्पर्यानुपपत्या यष्टिपदस्य यष्टिधरेषु लक्षणा अङ्गीक्रियते । अत एवोक्तम् - “लक्षणा शक्यसम्बन्धस्तात्पर्यानुपपत्तितः” इति ।
सा च त्रिविधा – जहल्लक्षणा, अजहल्लक्षणा, जहदजहल्लक्षणा चेति । यस्मिन् लक्ष्यार्थविषयकशाब्दबोधे शक्यार्थस्याविषयत्वं तद्शाब्धप्रयोजिका लक्षणा जहल्लक्षणा (लक्ष्यतावच्छेदकरूपेण लक्ष्यार्थमात्रबोधप्रयोजिका लक्षणा) । यथा – मञ्चाः क्रोशन्ति, यष्टीः प्रवेशय इत्यादौ मञ्चयष्टिपदयोः पुरुषत्वावच्छिन्ने लक्षणा ।
यत्र लक्ष्यार्थविषयकशाब्दबोधे वाच्यार्थस्यापि विषयत्वं तद्बोधप्रयोजिका अजहल्लक्षणा (लक्ष्यतावच्छेदकरूपेण लक्ष्य-शक्योभयार्थ बोधप्रयोजिका) । यथा – छत्रिणो यान्ति इत्यत्र छत्रपदस्य एकसार्थे (एकसंघे) लक्षणेति एकसार्थत्वेन छत्रि-अच्छत्रि उभयविषयको बोधः । ’काकेभ्यो दधि रक्ष्यताम्’ इत्यत्र काकपदस्य दध्युपघातुकत्वावच्छिन्ने लक्षणा । तत्र तेन रूपेण काक-तदितरेषां शाब्दे भानं सम्भवति ।
यत्र वाच्यार्थैकदेशपरित्यागेन एकदेशान्वयबोधः (शक्यतावच्छेदकपरित्यागेन व्यक्तिमात्रबोधः) तत्प्रयोजिका जहदजहल्लक्षणा । यथा “तत्त्वमसि” इत्यादौ सर्वज्ञत्वविशिष्टचैतन्यं तत्पदार्थः, अल्पज्ञत्वविशिष्टचैतन्यं त्वं पदार्थः । तत्र शक्यतावच्छेदक सर्वज्ञत्वाल्पज्ञत्वयोः परित्यागेन चैतन्ययोरभेदबोधो जायते ।
वाक्ये तु शक्तेरभावात् शक्यसम्बन्धरूपलक्षणापि नाङ्गीक्रियते नैयायिकैः । “गभीरायां नद्यां घोषः” इत्यादौ विशेष्यवाचक नदीपदस्यैव गभीरनदीतीरे लक्षणा, गभीरपदं तात्पर्यग्राहकम् इति पदलक्षणयैवोपपत्तौ वाक्ये न लक्षणा । अत एव समासस्यापि शक्तिर्नाङ्गीक्रियते । तद्घटकपदेषुलक्षणास्वीकारणैव सर्वसामञ्जस्यात् ।
आलङ्कारिकास्तु व्यजनाख्यामातिरिक्तां वृत्तिमुररीकुर्वन्ति । व्यजना नाम तात्पर्यविषयातिरिक्तार्थबोधानुकूलः व्यापारविशेषः । शब्दैः प्राकरणिकार्थबोधानन्तरं तैरेवशब्दैः उत्पद्यमानः अप्राकरणिकार्थविषयकः शाब्दबोधः न शक्तिसाध्यः अपि तु व्यजनानिर्वाह्यः ।
गच्छ गच्छति चेत् कान्त पन्थानः सन्तु ते शिवाः ।
ममापि जन्म तत्रैव भूयाद् यत्र गतो भवान् ॥ 
इत्यादौ शक्त्या तत्तच्छब्दैः वाक्यार्थबोधानन्तरं ’इतस्तव गमने ममापि मरणं भविष्यति’ इति अप्राकरणिकार्थबोधस्तु व्यञ्जनयैव निर्वाह्यः । एवं “गतोस्तमर्कः” इत्यादि वाक्यप्रयोगे कृते मानिनीं प्रति ’हठं मागाः’ इति, ब्राह्मणान् प्रति सन्ध्या उपास्यताम् इति, वणिजः प्रति पण्यान्यपसार्यन्तामिति च बहूनां बहुविधार्थप्रत्ययो जायते । स च व्यजनावृत्यैव, न तु शक्त्या नापि लक्षणया । अतः व्यजनाख्या अतिरिक्तवृत्तिरप्यवश्यं स्वीकरणीया इति चेत् न, व्यजनायाः शाब्दबोधानुकूलपदार्थोपस्थितिजनकज्ञानविषयीभूतपद-तदर्थः संबन्धत्वरूप वृत्तिलक्षणानाक्रान्तत्वात् । यतो हि शक्तिलक्षणान्यतरसम्बन्धज्ञानसहकारेण पदज्ञानात् यथा शाब्दानुकूल पदार्थोपस्थितिः जायते । तथा व्यञ्जनाज्ञानेन तादृशपदार्थोपस्थितिः न जायते । ’गच्छ गच्छसि चेत् कान्त’ इत्यादौ तादृश बोधस्तु अनुमित्यात्मकः एव न शाब्दः । व्यञ्जनायाः अनुमानेन अन्यथा सिद्धत्वात् । इयं मद्गमनोत्तरकालिकप्राणवियोगवती विलक्षणशब्दप्रयोक्तृत्वात् मरणं विना पुनर्जन्मासम्भवाद् वा इत्याद्यनुमानेन मरणस्यानुमेयत्वाच्च । अतः अनुमानादिना व्यङ्ग्यार्थबोधस्य निर्वाहसम्भवात् व्यञ्जनायाः अतिरिक्त वृत्तित्वकल्पनं नावश्यकम् । नानार्थकस्थलेऽपि शक्त्यादिना प्रकृतार्थकशाब्दबोधे जाते सति तदुत्तरं जायमानः अप्रकृतार्थ विषयकः चमत्कारजनकः प्रत्ययः मानससाक्षात्कार एव न तु शाब्दबोधः प्रमाणाभावात् । तथा च शाब्दबोधजनकपदार्थोपस्थित्यनुकूलपद-पदार्थसम्बन्धरूपा वृत्तिः शक्ति-लक्षणा भेदेन द्विविधैवेति न्यायसिद्धान्तः ।

***********************************************************************************

॥श्रीः॥
संयोगस्य अव्याप्यवृत्तित्वम्
                   दर्शनं नाम वस्तुतत्त्वनिरूपकः श्रेष्ठपुरुषप्रवर्तितो विशिष्टशब्दसन्दर्भः । तथा चाऽह न्यायकोशकारः “दर्शनं तत्त्वज्ञानसाधनं शास्त्रम्” इति । तच्च दर्शनं नास्तिकास्तिकभेदेन द्विविधम् । तत्र बौध्दचार्वाकादिदर्शनानि नास्तिकदर्शनानि । न्यायवैशेषिकसांख्ययोगपूर्वोत्तरमीमांसादर्शनानि आस्तिकदर्शनानि । एषु आस्तिकदर्शनेषु सर्वशास्रोपकारकत्वात् न्यायवैशेषिकदर्शनयोः प्राधान्यं वर्तते । तत्र वैशेषिकदर्शनानुगुणं द्रव्यगुणकर्मसामान्यविशेषसमवायाभावाः इति सप्तपदार्थाः अङ्गीकृताः । तत्र गुणाः चतुर्विंशतिविधाः । बुध्दिसुखदुःखेच्छाद्वेषप्रयत्नधर्माधर्मभावनानां संयोगविभागयोश्च अव्याप्यवृत्तित्त्वं न्यायमते अङ्गीकृतम् । तदुक्तम् “अथ प्रादेशिको भवेत् वैशेषिको विभुगुणाः संयोगादिद्वयं तथा” इति (कारिकावली) । तत्र अन्यतमस्य संयोगस्य अव्याप्यवृत्तित्त्वमत्र विचार्यते ।
संयोगस्य यावद्द्रव्यवृत्तित्वमिति सिद्धान्तानुगुणं नित्यद्रव्येषु जन्यद्रव्येषु च सर्वत्र संयोगः भवत्येव । जन्यद्रव्येषु संयोगः भवतीत्यत्र न काप्यनुपपत्तिः । परन्तु नित्यद्रव्येषु परमाणुषु गगनादौ च संयोगः कथं भवितुमर्हति ? संयोगस्याऽव्याप्यवृत्तित्वात् , तद्धि अवच्छेदकमन्तरा न सम्भवति । तथा हि यद्येकस्मिन् परमाणावितरस्य परमाणोः किञ्चिदवयवावच्छेदेन संयोगो अङ्गीक्रियते तदा परमाणोः सावयवत्वं स्यात् । तेन परमाणोः नित्यत्वं बाध्यते । यदि किञ्चिदवयवावच्छेदेन संयोगः नाङ्गीक्रियते तदा परमाणौ सर्वात्मना संयोगः भवतीति वक्तव्यमापतति । एवं सति संयोगस्य अव्याप्यवृत्तित्वं भज्येत । एवं परमाणोः परमाणुना सर्वात्मना संयोगे परिमाणोपचयानुपपत्तेः । यतः लोके अवयवयोः सर्वात्मना संयोगेन जायमानावयविनः द्रव्यस्य परिमाणोपचयः न केनाऽपि दृष्टः । यदि निरवयवयोरपि परमाण्वोः संयोगः स्वभावत एव भवतीत्यङ्गीक्रियते तर्हि परमाणु संयोगवति परमाणुसंयोगाभावस्य स्वीकरणीयताऽऽपतति । न चैवं सम्भवति, अवच्छेदकमन्तरा विरुध्दयोः भावाभावयोरेकत्र समावेशायोगात् । परमाणौ अवच्छेदकभेदः भवितुं नार्हति परमाणोः निरवयवत्वात् ।
यद्यपि प्राच्यादिदिग्विशेषावच्छिन्नः संयोगः परमाणौ सम्भवतीति कल्पयितुं शक्यम्, अथापि देशविशेषावच्छिन्नत्वं विना दिगवच्छिन्नत्वस्य कुत्रापि संयोग अदर्शनात् परमाणौ अवच्छेदकभेदः न सिध्यति । परमाणुग्राहकप्रमाणेन परमाण्वोः निरवयवत्वं सिध्यति, तेन परमाणौ देशावच्छिन्नत्वं नास्ति चेदपि दिग्विशेषमात्रावच्छिन्नः संयोगः परमाण्वोः भवतीति न वक्तव्यम्, परमाणुसंयोगानुपपत्तिरूपप्रतिकूलतर्कपराहततया निरवयवपरमाण्वोः सिध्देरेवासम्भवात् ।
दिग्विशेषावच्छिन्नः संयोगो देशावच्छिन्नोऽपि  भवत्येवेति नियमानङ्गीकारेऽपि परमाण्वोः दिग्विशेषावच्छिन्नः सांयोगः स्वीकर्तुमेव न शक्यते । तथाहि अन्तरालवर्तिनि परमाणौ प्राचीस्थितपरमाणोः संयोगः प्राच्यवच्छेदेन भवति तदभावश्च प्रतीच्यवच्छेदेन भवति । प्रतीचीस्थपरमाणोश्च संयोगः प्रतीच्यवच्छेदेन भवति तदभावश्च प्राच्यवच्छेदेन भवति परमाणोः मूर्तत्वात् इति स्वीकारो न सम्भवति, निरवयवस्य परमाणोः कश्चित् प्राचीस्थः कश्चिच्च प्रतीचीस्थः इत्यस्यैव दुर्वचत्वात् । यतो हि सावयवस्य कश्चिदवयवः प्राचीस्थः कश्चिच्च प्रतीचीस्थो भवति । प्राचीस्थावयवे च यः संयोगः स तत्र प्राच्यवच्छिन्नो व्यवह्रियते, प्रतीचीस्थावयवे च यः संयोगः स प्रतीच्यवच्छिन्नत्वेन  व्यवह्रियते । तथा च सावयवत्वमन्तरा परमाण्वोः प्राचीप्रतीच्यवच्छिन्नौ संयोगौ कथं सम्भवतः ?
परमाण्वोः व्याप्यवृत्तिसंयोगस्वीकर्तव्य इति न काप्यनुपपत्तिः । न चैवं सति संयोगत्वावच्छेदेन अव्याप्यवृत्तित्वनियमस्य परमाणुसंयोगे कालिकाव्याप्यवृत्तित्वमादाय निर्वोढुं शक्यत्वेऽपि संयोगत्वावच्छेदेन दैशिकाव्याप्यवृत्तित्वनियमः निर्वोढुं न शक्यते इति वाच्यम् । यतो  हि  यो यः संयोगः स सर्वोऽपि स्वाश्रयसमवायिदेशावच्छिन्नो भवतीति व्याप्तिं स्वीकृत्य संयोगत्वावच्छेदेन स्वाश्रयसमवायिदेशावच्छिन्नत्वं साधयितुं न शक्यते सावयववृत्तिसंयोगत्वस्योपाधित्वात् । किञ्च संयोगत्वावच्छेदेन स्वाश्रयसमवायिदेशावच्छिन्नत्वमिति नियमः यदि स्वीक्रियते तर्हि परमणुकल्पनाया एव वैयर्थ्यप्रसङ्गः । असंयुक्तपरमाण्वोः द्रव्यारम्भकत्वाभावेन निष्प्रयोजनत्वात् अतः परमाण्वोः व्याप्यवृत्तिसंयोग एव स्वीक्रियते ।
ननु दैशिकाव्याप्यवृत्तिसंयोगादेव परिमाणोपचयः लोके दृष्टः, अतः व्याप्यवृत्तिसंयोगात् परिमाणोपचयः कथं भवति ? इति चेत् – संयोगस्य स्थूलारम्भकतायाम् अव्याप्यवृत्तित्वस्य अतन्त्रत्वात्, क्वचित् व्याप्यवृत्तिसंयोगस्य स्थूलारम्भकत्वस्वीकारे बाधकाभावात् । व्याप्यवृत्तेः परमाणुसंयोगादस्थूलस्यैव द्व्यणुकस्योत्पत्तिस्वीकारात् । स्थूलस्य त्रसरेणोरारम्भका द्व्यणुकसंयोगाश्च अव्याप्यवृत्तय एव, द्व्यणुकानां सावयवत्वात् । 
अस्तु परमाण्वोः व्याप्यवृत्ति संयोगः, परन्तु वृक्षे विभुसंयोगस्य अव्याप्यवृत्तित्वं कथं स्वीक्रियते ? यतो हि आकाशस्य अवयवो वा दिग्विशेषो वा न वर्तते । वृक्षोत्पत्तिक्षणे आकाशवृक्षसंयोगः, तदभावः वृक्षोत्पत्तिपूर्वक्षणे वा वृक्षध्वंसानन्तरं वा वर्तते इति कालविशेषावच्छेदेन विभुसंयोगः तदभावश्च वर्तत इति उच्यते यदि तदपि न संभवति । यतो हि ध्वंसप्रागभावयोरत्यन्ताभावविरोधित्वमिति प्राचीनानां मतम् । विभुसंयोगस्य ध्वंस प्रागभाववति वृक्षे तदत्यन्ताभावः स्थातुं नार्हति नव्यानां मते केवलं कालविशेषावच्छेदेन विभुसंयोगाः तदभावाश्च भवन्तीति स्वीक्रियते । प्रतियोग्यनवच्छेदकस्य अभावावच्छेदकत्वमिति नियमानुगुणं ये ये मूलाग्राद्यवच्छिन्नसंयोगाः तत्तदभावाः अग्रमूलाद्यवच्छिन्नाः भवन्तीति  चेन्न । मूलाग्राद्यवच्छिन्नाकाशसंयोगव्यक्तीनां भेदे प्रमाणाभावात् ।
ननु मूलाग्राद्यवच्छिन्नाकाशसंयोगव्यक्तीनामभेदे व्यभिचारः । यतो हि समवायेन मूलाग्राद्यवच्छिन्नसंयोगान्प्रति तादात्म्येन क्रमशः मूलाग्रादिः कारणमिति कार्यकारणभावः । यदि नानावयवावच्छिन्नसंयोगव्यक्तीनामभेदः स्वीक्रियते तर्हि यत्र मूलावच्छिन्नाकाशसंयोगः तत्र तादात्म्येनाग्रं नास्ति । एवं यत्र अग्रावच्छिन्नाकाशसंयोगः तत्र तादात्म्येन मूलं नास्तीति व्यभिचारः । एवं मूलादिमात्रावच्छिन्नपिपीलिकादिसंयोगानाम् अग्रावच्छेदेनोत्पत्तिः स्यात्, तथैव एतद्वृक्षवृत्तिविभुसंयोगानां वृक्षान्तरावयवावच्छेदेनोत्पत्तिः स्यात् । अतः एतद्दोषवारणाय अवच्छेदकभेदेन संयोगभेदः अङ्गीकरणीयम् एव इति चेत् ।
 उच्यते - वृक्षादौ विभुसंयोगस्य व्याप्यवृत्तितया व्याप्यवृत्तेरवच्छेदकानभ्युपगमेन मूलाद्यवच्छिन्नत्वविरहेण विभुसंयोगं प्रति मूलादीनां हेतुत्वं नास्ति । यदि व्याप्यवृत्तिसंयोगस्यावच्छेदकमुपगम्यते तर्हि मूलाग्रादिनिष्ठावच्छेदकतासंबन्धरूपजन्यतावच्छेदकसंबन्धेन विभुसंयोगं प्रति तादात्म्येन क्रमेण मूलाग्रादिः कारणम् इति कार्यकारणभावस्वीकारे पूर्वोक्तरीत्या व्यभिचारो न संभवति, कार्यतावच्छेदकसंबन्धभेदात् ।
द्रव्ये विभुसंयोगस्य व्याप्यवृत्तित्वं स्वीकर्तुं न शक्यते । यतो हि गगने विद्यमानमूर्तद्रव्यसंयोगव्यक्तीनां गगनस्य निरवयवत्वेन अवयवविशेषरूपावच्छेदकभेदाभावेऽपि प्राच्यादिदिग्विशेषरूपावच्छेदकभेदसत्वात्, तत्तद्दिगवच्छिन्नसंयोगस्य दिगन्तरावच्छेदेन अभावस्य सुलभत्वात् गगने यावत्संयोगविशेषाभावरूपहेतोः निर्विवादतया ततः गगने संयोगसामान्याभावसाधनसम्भवात् । तथा च परमाणुसंयोगः व्याप्यवृत्ति, द्वणुकादारभ्य सर्वेषां द्रव्याणां विभुद्रव्याणां च संयोगस्य अव्याप्यवृत्तित्वं न्यायमते स्वीक्रियते ।

**********************************************************************************
एकवाक्यत्वम्
पदगतं वाक्यगतं क्वचित् प्रकरणगतं एकवाक्यत्वं शास्त्रेषु दरीदृश्यते। तत्प्रयोज्यविषयतया
 साक्षात्परम्परया वा निरूपिता या विषयता तत्प्रयोजकत्वमेव पदनिष्ठं तदेकवाक्यत्वम्। तथा हि – ‘धवखदिरौइति शब्दश्रवणेन धवखदिरौभयनिष्ठविशेष्यतानिरूपितद्वित्वनिष्ठप्रकारताकबोधो जायते। धवपदजन्यधवोपस्थितिवशात् धवः शाब्दबोधे भासते। एवं खदिरपदजन्यखदिरोपस्थितिवशात् खदिरः शाब्दबोधे भासते।द्विवचनप्रत्ययजन्य द्वित्वोपस्थितिवशात् द्वित्वं शाब्दबोधे भासते।
अतः शाब्दबोधीय धवनिष्ठविशेष्यतायाः धवखदिरौ इत्येतादृश वाक्यघटकीभूतधवपदनिष्ठप्रयोजकतानिरूपितप्रयोज्यत्वमस्ति। खदिरनिष्ठशाब्धबोधीयविशेष्यतायाः निरुक्तवाक्यघटकखदिरपदनिष्ठप्रयोजकतानिरूपिताप्रयोज्यत्वमस्ति। किं च शाब्दबोधे द्वित्वस्य धवखदिरोभयस्याऽपि प्रकारत्वात्  धवनिष्ठविशेष्यतानिरूपितद्वित्वनिष्ठप्रकारतानिरूपितत्वं खदिरनिष्ठविशेष्यतायां वर्तते।  तथा च धवपदप्रयोज्या या  शाब्दबोधीया धवनिष्ठा विशेष्यता परम्परया तन्निरूपिता या शाब्दबोधीया खदिरनिष्ठविशेष्यता तत्प्रयोजकत्वं खदिरपदे विद्यते। तस्मात् खदिरपदस्य धवपदेन एकवाक्यता उपपद्यते।
                ‘अयमेति पुत्र राज्ञः पुरुषोपसार्यताम्इत्यत्र राजपदपुरुषपदयोः ईदृश एकवाक्यता न भवति ।
                वाक्यगतं एकवाक्यत्वं    विशिष्टैकार्थप्रतिपादकत्वं, तदुत्थाप्याकांक्षानिवर्तकत्वतन्निवर्तनीयाकांक्षोत्थापकत्वान्यतरवत्वं वा। प्रतिज्ञाहेतुवाक्ययोः एकवाक्यत्वं इत्थं सम्भवति। तथा हि- “पर्वतो वह्निमान्इति प्रतिज्ञावाक्यात्  ‘पर्वतः वह्निमद्भिन्नःइति बोधः भवति।धूमात्इति हेतुवाक्यात्  ‘धूमज्ञानज्ञाप्यत्वंइति बोधः भवति। तथा च प्रतिज्ञाहेतुवाक्यसमुदायात्पर्वतः धूमज्ञानज्ञाप्यवह्निमद्भिन्नःइति विशिष्टार्थबोधः भवति। इत्थं च विशिष्टकार्थप्रातिपादिकत्वेकवाक्यत्वं प्रतिज्ञाहेतुवाक्ययोः भवति इति समन्वयः। एवमेवपर्वतो वह्निमान्इति प्रतिज्ञावाक्येन  जनिता या आकांक्षाकुतो वह्निमान्इत्याकारिका ज्ञापकज्ञानविषयिणी आकांक्षा, तन्निवर्तकत्वं’ ‘धूमात्इति हेतुवाक्यस्य अस्ति। एवं धूमात् इति हेतुवाक्येन निवर्तनीया या आकांक्षाकुतो वह्निमान्’ इत्याकारिका ज्ञापकज्ञानविषयिणी आकांक्षा। तदुत्थापकत्वंपर्वतो वह्निमान्इति प्रतिज्ञाया अस्ति इति प्रतिज्ञाहेत्वोः एकवाक्यत्वम्। क्वचित् प्रतिज्ञानिगमनयोः एकवाक्यता संभवति ।
परन्तु उदाहरणादिवाक्यानां एकवाक्यत्वं तु  न संभवति।    
                        प्रकणगतम् एकवाक्यत्वं च “साकांक्षत्वे  सति एकार्थप्रतिपत्तिपरत्वम्”। तदेव जैमिनिसूत्रेऽपि  उक्तम्अर्थैक्यादेकं वाक्यं  साकांक्षां चेद्विभागे स्यादिति। साकांक्षकत्वे सति एकार्थप्रतिपत्तितात्पर्येण उच्चारितत्वम् एकवाक्यत्वम् इत्यर्थः। प्रत्यक्षग्रन्थानुमानग्रन्थयोः एकवाक्यत्वं सम्भवति।
इत्थम् - प्रत्यक्षग्रन्थश्रवणात्किमस्य उपजीवकम्
इत्याकारिका उपजीवकविषयिणी आकांक्षा उदेति। तन्निवर्तकत्वं अनुमानग्रन्थस्य अस्ति। यतो हि अनुमानग्रन्थश्रवणेन अनुमानविषयकं ज्ञानं जायते। अनेन ज्ञानेनप्रत्यक्षोपजीवकं किम्इति आकांक्षा निवर्तते। इत्थञ्च प्रत्यक्षग्रन्थस्य अनुमानग्रन्थेन या आकांक्षा निवर्तनीया उपजीव्यज्ञानविषयिणी आकांक्षा  तदुत्थापकत्वं प्रत्यक्षे अस्ति इत्यतः प्रत्यक्षानुमानयोः साकांक्षत्वम् अस्तीति एकवाक्यत्वं उपपद्यते।
साकाङ्क्षत्वे सति एकार्थप्रतिपत्तितात्पर्येण उच्चारितत्वम् एकवाक्यत्वमिति। केवल एकार्थप्रतिपत्तितात्पर्येण उच्चारितत्वं एकवाक्यत्वमिति यदि उच्यते  तर्हिघटोऽस्ति  कलशोऽस्तिइति वाक्ययोः मध्ये , घटोऽस्ति इति वाक्यं सत्ताश्रयं घटं प्रतिपादयति। एवं कलशोऽस्तीत्यपि वाक्यं सत्ताश्रयं घटमेव बोधयतीति एकार्थप्रतिपत्तितात्पर्येण उच्चरितत्वमस्तीति अतिव्याप्तिः। अतः तद्वारणाय साकाङ्क्षत्वम् इति निवेशनीयम्। साकङ्क्षत्वं चतदुत्थाप्य आकाङ्क्षा निवर्तकत्वतन्निवर्तनीय आकाङ्क्षा उत्थाप्यकत्व अन्यतरत्वम् इति। तादृश साकाङ्क्षत्वदलनिवेशे तु, घटोऽस्ति  इत्यनन्तरं कुत्रास्ति? इति आकाङ्क्षा स्यात् कदाचित्। तन्निवर्तकत्वं कलशोऽस्ति इति  वाक्यस्य नास्ति। एवमेव तन्निवर्तनीय आकङ्क्षा उत्थापकत्वं घटोऽस्ति इति वाक्यस्य नास्ति। अतः एतादृश साकङ्क्षत्वं नास्तीति तादृश वाक्यद्वयोः एकवाक्यत्वं नास्ति इति नातिव्याप्तिः। केवल साकाङ्क्षत्वमेव एकवाक्यत्वमितुच्यते चेत्,भूतल घटवत्, कम्बुग्रीवादिमान् इति वाक्यस्य च एकवाक्यतापत्तिः।
                ‘भूतलं घटवत्इति श्रवणानन्तरंको घटः?इति आकाङ्क्षा जायते। तदा कम्बुग्रीवदिमान् इत्युक्तम्। भूटलं घटवत्इति वाक्येन ,उत्थाप्या या आकाङ्क्षाको घटः?’ इत्याकाङ्क्षा तन्निवर्तकत्वं कम्बुग्रीवादिमान् इति वाक्यस्य अस्ति।कम्बुग्रीवादिमान् इति उत्तरवाक्यनिवर्तनीया या आकाङ्क्षाको घटः?’ इत्याकाङ्क्षा तदुत्थापकत्वंभूतल घटवत्इति वाक्यस्य अस्ति इत्यतः एकवाक्यतापत्तिः। तद्वारणाय एकार्थप्रतिपत्तिपरत्वमिति दलं निवेशनीयम्। तन्निवेशेतुभूतल घटवत्’कम्बुग्रीवादिमान्’ इति वाक्ययोः एकार्थप्रतिपत्तिपरत्वाभावात् नातिव्याप्तिः।
यतः कम्बुग्रीवादिमान् इति वाक्यं कम्बुग्रीवादिमन्तं प्रतिपादयति। परन्तु  अत्र आशङ्का-अर्थैक्यत्वात् एव एकार्थप्रतिपादकत्वं भवतु इति। यतः घटरूपः एकः अर्थः ग्रह्यते तथा च तत्प्रतिपादकत्वं द्वयोः अपि वाक्ययोः अस्तीति फलति। अतः एकवाक्यतापतिः अस्त्येव। अतः निरुक्त स्थले अतिव्याप्तिः न वार्यते खलु इति चेत् ,साकाङ्क्षत्वे सति एकार्थप्रतिपत्तिपरत्वं  इति द्वाभ्यां दलाभ्यां परस्परसहकारेणविशिष्टेकार्थप्रतिपादकत्वमित्यर्थः स्वीक्रियते। एवं सति ’भूतलं घटवत्’ इति वाक्यात् अर्थप्रतिपत्तिः जननीयायां ’कम्बुग्रीवादिमान्’ इति वाक्यस्य आवश्यकता नास्ति। ’कम्बुग्रीवादिमान्’ इति वाक्यं विनापि भूतलं घटवत्इति वाक्यं स्वार्थप्रतिपत्तिं जनयत्येव। एवं कम्बुग्रीवादिमानिति वाक्यमपिभूतलं घटवत्इति वाक्यं विनापि स्वार्थप्रतिपत्तिं जनयत्येव। अतः परस्परसहकारेण एकार्थप्रतिपत्तिपरत्वं नास्ति इति एकवाक्यता वारणम्। विशिष्टैकार्थप्रतिपत्तिप्रयोजकत्वप्रकारकाभिप्रायविषयत्वम् एकवाक्यत्वम् इति दलद्वयसमुदितार्थः। प्रकृते च प्रत्यक्षपरिच्छेदानुमानपरिच्छेदयोः मिलित्वा विशिष्टैकार्थविषयकशाब्दबोधजनकत्वेऽपि प्रत्यक्षानुमानउपमानशब्दचत्वारिप्रमाणानीत्यप्रामाण्यशङ्कनास्कन्दितनिश्चयं प्रति परिच्छेदचतुष्टयस्यैव कथञ्चिदुपयोगित्वं अस्ति। प्रत्यक्षानुमानपरिच्छेदौ एकार्थप्रतिपत्तिप्रयोजकौ भवेताम् इत्यभिप्रायेण मणिकारेण प्रत्यक्षग्रन्थ अनुमानग्रन्थौ निरूपितौ। अतः तादृश प्रतिपत्तिप्रयोजकत्वप्रकारकाभिप्रायविषयत्वरूपमेकवाक्यत्वं प्रत्यक्षानिगमनयोः भवति।

                                                    -वाणी मञ्जुनाथ हेगडे
                                                    आचार्य प्रथमवर्षः
 ****************************************************

प्रत्यक्षप्रमाणम्
युवराज घिमिरे, शोधच्छात्रः
राजीवगान्धीपरिसरः शृङ्गेरी
        विदितमेव सर्वेषां यदस्मिन् भारतवर्षे आस्तिकनास्तिकभेदभिन्नानि बहूनि दर्शनानि विद्यन्ते । तत्र वेदप्रामाण्याभ्युपगन्तृप्रवर्तितानि आस्तिकत्वेन परिगणितानि । तेषु महर्षिगौतमप्रणीतं न्यायदर्शनमन्यतमम् । एतच्च दर्शनं परमकारुणिकेन महामुनिना गौतमेन तापत्रयपराहतानां संसारिणां सन्तापोपशमनाय प्रवर्तितम् । न्यायदर्शनमिदमात्मादितत्त्वप्रतिपादकत्वेन यथा अध्यात्मविद्या तथा संशयप्रयोजनादीनां तत्त्वव्युत्पादनेन लौकिकविद्याऽपि । प्रमाणैरर्थपरीक्षणं न्यायःइति भाष्यकारवचनानुसारेण शास्त्रेऽस्मिन् प्रमाणानां प्रामुख्यं वर्तते । तथा च शास्त्रेऽस्मिन् चत्वारि प्रमाणानि स्वीकृतानि । प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानीति । तत्र साक्षात्कारिप्रमाकरणं प्रमाणं प्रत्यक्षमित्यभिधीयते । तद्व्युत्पत्तिस्तु अक्षस्याक्षस्य प्रतिविषयं वृत्तिः प्रत्यक्षम् । अक्षशब्दः अत्र ज्ञानेन्द्रियपरः । अतः तत्तज्ञानेन्द्रियं प्रति नियतं तत्तत्प्रत्यक्षं भवति । तच्च चाक्षुषादिभेदेन अनेकविधम् । साक्षात्कारश्च इन्द्रियार्थसंयोगः । तत एव प्रमा उत्पद्यते । ततश्च पदार्थाः प्रमीयन्ते ।  प्रत्यक्षं च द्विविधं निर्विकल्पकसविकल्पकभेदेन । तस्याः साक्षात्कारिण्याः प्रमायाः करणं त्रिविधं भवति । कदाचिदिन्द्रियं, कदाचिदिन्द्रियार्थसम्बन्धः, कदाचिच्च ज्ञानम् । ज्ञानोत्पत्तौ अयमस्ति क्रमः ।
 प्रत्यक्षेच्छया प्रथममात्मा मनसा संयुज्यते, मनस्तदिन्द्रियेण, इन्द्रियं च पदार्थेन, ततश्च प्रथमं निर्विकल्पकं ज्ञानम् । तच्च इदं किञ्चिदित्याकारकं नामजात्यादियोजनारहितं भवति । तस्य निर्विकल्पकस्य ज्ञानस्य इन्द्रियमेव करणम् । छिदायाः परशुरिव । यदा च विशिष्य ज्ञातुमुपक्रमते तदा इन्द्रियस्यार्थेन विशेषसम्बन्धे सति विशेषणविशेष्यादिरूपं यज् ज्ञानमुत्पद्यते अयं घटः अयं पटः इत्याकारकं, तदा इन्द्रियार्थसन्निकर्षः करणं भवति । इन्द्रियेणार्थसम्बन्धे पूर्वमुक्तनिर्विकल्पकज्ञानम् इन्द्रियव्यापाररूपतामावहति । तच्च सविकल्पकज्ञानस्य अवान्तरव्यापाररूपम् । अर्थात् आभ्यन्तरव्यापाररूपम् । सविकल्पकज्ञानं तस्य फलं भवति । इन्द्रियमिन्द्रियार्थसन्निकर्षं च करणमुक्त्वा निर्विकल्पकज्ञानस्य करणत्वमुच्यते । तथा हि इन्द्रियार्थसन्निकर्षजन्यपदार्थबोधे तात्त्विकविचारः उत्पद्यते । अर्थात् इन्द्रियगोचरे पदार्थे किं वास्तविकं किमवास्तविकमिति । यद्वास्तविकं तदेव अत्र ग्राह्यम् । यच्चावास्तविकं तदुपेक्षणीयमित्यादिरूपेण पूर्वज्ञातपदार्थे हानोपादेयादिबुद्धयो जायन्ते । तदा निर्विकल्पकज्ञानमेव करणं भवति । तत्र सविकल्पकज्ञानमवान्तरव्यापारो भवति । सविकल्पकज्ञानस्य च फलं तदा हानोपादेयादिबुद्धय एव भवन्ति । अवान्तरव्यापारस्य लक्षणं चैवम् । तज्जन्यत्वे सति तज्जन्यजनकत्वमिति । यथा कुठारदारुसंयोगः आदौ कुठारजन्यो भवति । अर्थात् कुठारः प्रथमं दारुणि स्वं संयुनक्ति । ततश्च छिदा जायते । यच्च छिदा कुठारदारुसंयोगस्य फलम् । तस्मिन् फले प्राथमिकः कुठारदारुसंयोगाद्यवान्तरव्यापारो भवति । स च अवान्तरव्यापारः तज्जन्यः । तेन जन्या या छिदा तस्य जनको भवति ।
        अस्मिन् विषये मतभेदोऽपि आचार्याणां दृश्यते । तर्कभाषायां एवं लक्षितम्- सविकल्पकादीनामपि इन्द्रियमेव करणम् । तथा च यावन्ति त्वान्तरालिकानि सन्निकर्षादीनि तानि सर्वाणि अवान्तरव्यापाराः भवन्ति । अर्थात् वस्तुसाक्षात्काराय प्रसृतमिन्द्रियं यावत्पूर्णवस्तुसाक्षात्कारं यद्यदनुभवति, यद्यद्करोति, यद्यज्ज्ञानमुपपादयति तत्तत्सर्वमेवावान्तरव्यापारपदेन व्यपदेष्टुं शक्यते । अत एतेन सिद्ध्यति यत् प्रत्यक्षविषये द्विविधमतं प्रचलितमासीदिति । आद्यं सारं प्रत्यक्षं त्रिविधकरणान्वितम्, द्वितीयं तु एकविधमेव । सङ्क्षेपेण त्रिविधकरणव्यापारादीनां स्वरूपमित्थम्-
करणम्                           अवान्तरव्यापारः                   फलम्
इन्द्रियम्                       इन्द्रियार्थसन्निकर्षः              निर्विकल्पकज्ञानम्
इन्द्रियार्थसन्निकर्षः           निर्विकल्पकज्ञानम्             सविकल्पकप्रमा
निर्विकल्पकज्ञानम्           सविकल्पकप्रमा                हानोपादानोपेक्षाबुद्धयः
        उपर्युक्तदिशा त्रिविधकरणस्वीकरणं विहाय केचन विद्वांसः  त्रिविधां प्रत्यक्षप्रमां मन्वानाः अपि न तस्य त्रिविधकरणत्वं मन्वते । स्यान्मतभेदस्याधारः । कारणस्य स्वरूपविषयकमतभेद एव । प्रथममतानुसारॆण यस्य व्यापारस्याविलम्बेन फलोत्पत्तिर्जायते तदेव करणम् । यथोक्तम्-फलायोगव्यवच्छिन्नं करणम्तदनुसारं निर्विकल्पकप्रमायाः उत्पत्तौ तु इन्द्रियं करणतामर्हति । न सविकल्पकप्रमोत्पत्तौ । हानोपादानोपेक्षाबुद्धेरुत्पत्तौ वा । तद्यथा सविकल्पकप्रमाफले स्वीकृते इन्द्रियेण इन्द्रियार्थसन्निकर्षः निर्विकल्पकज्ञानं च कार्यद्वयसम्पादनानन्तरमेव सविकल्पकज्ञानोत्पत्तिर्जायते । इन्द्रियसद्भावे तद्व्यापारसद्भावे वा नोत्पद्यते फलमचिरेणैव । अतः इन्द्रियं न सविकल्पकप्रमायाः करणतामर्हति । ततश्च इन्द्रियार्थसन्निकर्ष एव अस्य करणमिति अवधेयम् । एवमेव हानोपादानादिबुद्धिविषयेऽ‍पि ज्ञेयम् । तदित्थमुपर्युक्तं त्रिविधं करणं प्रत्यक्षप्रमायाः ।
        अपरस्मिन् मते प्रतिगतमक्षं प्रत्यक्षम् इति व्युत्पत्तिनयेन इन्द्रियमेव प्रधानतया प्रत्यक्षस्यार्थः । यथोक्तं  भाष्ये- अक्षस्याक्षस्य प्रतिविषयं वृत्तिः प्रत्यक्षम् । वृत्तिस्तु सन्निकर्षः । (न्या. भा. ..) अत इन्द्रियमेव त्रिविधायाः प्रत्यक्षप्रमायाः करणं मन्तव्यम् । अस्मिन् मते व्यापारवदसाधारणं कारणं करणलक्षणमभिहितम् । करणफलयोर्मध्यवर्ति यत्किञ्चित्तत्सर्वमेवावान्तरव्यापारत्वेन स्वीकृतं चास्ति । एतेन इन्द्रियसत्तायामविलम्बेन सविकल्पकप्रमाद्यनुत्पत्तिकारणात् इन्द्रियकरणत्व शङ्काऽपि परास्ता । अतस्त्रिविधायाः प्रत्यक्षप्रमायाः इन्द्रियमेव करणं सर्वमन्यदवान्तरव्यापाररूपमेव । तद्यथा-
 फलम्(प्रमा)                         अवान्तरव्यापारः                                     करणम्                                      
निर्विकल्पकप्रमा                          इन्द्रियार्थसन्निकर्षः                             इन्द्रियम्   सविकल्पकप्रमा                 इन्द्रियार्थसन्निकर्षः,निर्विकल्पकज्ञानम्   इन्द्रियम्            हानोपादानोपेक्षाबुद्धिः इन्द्रियार्थसन्निकर्षः,,सविकल्पकज्ञानम्                                 इन्द्रियम्             
व्यापारलक्षणं तु- तज्जन्यत्वे सति तज्जन्यजनकत्व’मिति  । यदा तु निर्विकल्पप्रमायां जननीयायां इन्द्रियार्थसन्निकर्षः व्यापारो भवति, तत्र तज्जन्यत्वे सति तज्जन्यजनकत्वस्य  वर्तमानत्वात् । एवमेव सविकल्पकप्रमायां जननीयायां निर्विकल्पकज्ञानमवान्तरव्यापारो भवति । इन्द्रियार्थसन्निकर्षश्च करणम् । हानोपादानोपेक्षाबुद्धौ तु सविकल्पकज्ञानमवान्तरव्यापारो भवति।निर्विकल्पकज्ञानं  करणम् ।
षड्विधः सन्निकर्षः -
प्रत्यक्षे इन्द्रियार्थयोः यः सन्निकर्षः उक्तः । स षड्विधः । संयोगः, संयुक्तसमवायः, संयुक्तसमवेतसमवायः, समवायः, समवेतसमवायः, विशेष्यविशेषणभावश्चेति ।
संयोगः -
        तत्र प्रथमोद्दिष्टस्य संयोगस्य स्पष्टीकरणं तु- इन्द्रियेण  द्रव्यग्रहे प्रथमं संयोगः सम्बन्धो भवति, इन्द्रियद्रव्ययोः अयुतसिद्धसम्बन्धाभावात्।अन्तरिन्द्रियेण मनसा द्रव्यग्रहे मन इन्द्रियम् आत्मा च द्रव्यं भवति। अनयोः सन्निकर्षोऽपि संयोग एव भवति ।
संयुक्तसमवायः -
संयुक्तसमवायस्तु चक्षुरिन्द्रियेण घटरूपप्रत्यक्षे जननीये प्रयोजकॊ भवति । यतः चक्षुषा घटसंयोगे जाते, घटे च रूपस्य समवायात् । एवमात्मनि विद्यमानानां सुखादीनां ग्रहे प्रथमं मनः आत्मानं संयुनक्ति, आत्मनि च सुखादीनि समवेतानि भवन्ति अतः तत्रापि संयुक्तसमवायः सन्निकर्षः भवति ।
संयुक्तसमवेतसमवायः सन्निकर्षः -
अयं सन्निकर्षस्तु द्रव्यसमवेतसमवेतानां गुणत्वादिजातीनां ग्रहजनको भवति ।
समवायसन्निकर्षः -
यत्र च इन्द्रियग्राह्यो विषयः प्रथमत एव स्वाश्रयसमवेतो भवति तत्र प्रथममेव समवायसम्बन्धो जायते । यथा शब्दः आकाशे समवेतो भवति । तस्य श्रोत्रेन्द्रियेण ग्रहे प्रथमत एव समवायसम्बन्धो भवति । तद्गतशब्दत्वग्रहे तु समवेतसमवायसन्निकर्षो भवति । अर्थात् गुणगुणिनोः क्रियाक्रियावतॊः नित्यद्रविशेषयोश्च प्रथमत समवाय एव सम्बन्धो भवतीति ज्ञेयम् । समवेतसमवेतग्रहे तु समवेतसमवायसन्निकर्षो भवति ।
विशेषणविशेष्यभावः सन्निकर्षः -
चक्षुषा घटाभावादिग्रहणे विशेष्यविशेषणभावसन्निकर्षः । चक्षुसंयुक्तस्य भूतलस्य घटाभावो विशेषणं भवति । भूतलं च विशेष्यम् । अर्थात् घटाभाववद्भूतलमिति ज्ञानं जायते । अस्मिन् ज्ञाने घटाभावस्य विशेषणत्वं  भूतलस्य च विशेष्यत्वं च स्पष्टमेवास्ति । एवमेव मनसा आत्मनि सुखाद्यभावे गृहीतव्येऽपि । सुखाद्यभाववानात्मा इत्याकारकज्ञाने सुखाद्यभावो विशेषणं आत्मा विशेष्यमिति तत्रापि विशेषणविशेष्यभावसन्निकर्षः । या व्यक्तिः येनेन्द्रियेण गृह्यतेति न्यायात् ।
एवं समवायोऽपि विशेष्यविशेषणभावसन्निकर्षेण गृह्यते ।   न्यायनये समवायस्यापि प्रत्यक्षत्वात्। वैशेषिकास्तु समवायमनुमिन्वन्तति। परं न्यायशास्त्रे समवायप्रत्यक्षता स्वीकृता । यथोदाहृतं तर्कभाषायाम्- "चक्षुः सम्बद्धस्य तन्तोः विशेषणभूतः पटसमवायो गृह्यते, इह तन्तुषु पटसमवाय" इति ।
तर्कभाषायां षट् सन्निकर्षानुपसंहरन् वक्ष्यमाणौ श्लोकौ उपन्यस्तौ -
           अक्षजा प्रमितिर्द्वेधा सविकल्पाऽविकल्पिका ।
         करणं त्रिविधं तस्याः सन्निकर्षश्च षड्विधः ॥
घटतन्नीलनीलत्वशब्दशब्दत्वजातयः ।
       अभावसमवायौ च ग्राह्याः सम्बन्धषट्कतः ॥
        अर्थात् इन्द्रियार्थसन्निकर्षजन्यप्रमितिः द्विप्रकारा । एका सविकल्पिका अपरा अविकल्पिका । तस्याः प्रमितेः करणं त्रिप्रकारकम् , सन्निकर्षश्च तस्याः षड्विधो भवति । सम्बन्धषट्कतः घटः तद्गतनीलादिरूपं तद्गता नीलत्वादिजातयः।एवं शब्दः शब्दत्वं च अभावः समवायश्चैते सर्वे पूर्वोक्त षड्विधसन्निकर्षैरेव ग्राह्याः ।
*****************************************************************