Thursday, September 29, 2016

तन्त्रानुष्ठानविचारः

तन्त्रानुष्ठानविचारः
@डा. सूर्यनारायणभट्टः
सहायकाचार्यः, मीमांसाविभागः

भगवज्जैमिनिमहर्षिप्रणीतद्वादशलक्षण्यां एकादशाध्यायः तन्त्राध्यायः । प्रयोजनाभिसम्बन्धात् पृथक्‌सतां ततः स्यात् ऐककर्म्यमेकशब्दाभिसंयोगात् इति सूत्रेण आध्यायोऽयं प्रारभ्यते । ततः पूर्वं दशभिरध्यायैः प्रकृतिविकृतिसाधारण्येन अनुष्ठेयपदार्थाः अवगताः । ते च पदार्थाः उत्पत्तिविधिं विनियोगविधिं चाधिकृत्य प्रवृत्ताः । यद्यपि क्रमाध्यायः वर्तते । क्रमस्तु प्रयोगविधिविधेयो भवति । परं तत्र प्रयोगविधिः नैव चिन्तितः । स इदानीम् एकादशे तन्त्राध्याये विचिन्त्यते । प्रयोत्रविधिस्तु साङ्गप्रधानभावनायाः विधायको भवति । अन्ये तु उत्पत्तिविध्यादयः प्रधानमात्रस्य अङ्गमात्रस्य वा विधायका भवन्ति ।  स च प्रयोगविधिः फलार्थं साङ्गप्रधानभावनां विधत्ते । अयं  चानुष्ठानबोधकः  कृतिसाध्यत्वबोधकश्च। उत्पत्तिविधिः स्वरूपबोधकः । विनियोगविधिः इष्टसाधनताबोधक इत्येवं तेषु विभागः दृश्यते । एवं फलार्थं साङ्गप्रधानभावनायाः अनुष्ठानं बोधयति प्रयोगविधिः । अङ्गानां साहित्यं प्रधानानां साहित्यम् अङ्गप्रधानानां च साहित्यं बोधयाति । तच्च साहित्यम् असति बाधके एकक्षणवृत्ति एव कथ्यते । अतः अनेकोद्देशेन सकृदनुष्ठानं तन्त्रमिति तन्त्रलक्षणं कथ्यते । दशपूर्णमासाभ्यां स्वर्गकामो यजेत इत्यत्र दर्शे त्रयः प्रधानयागाः पौर्णमास्यां च त्रयः प्रधानयागाः । तेषु यागत्रयोद्देशेन सकृदेव प्रयाजानुष्ठानं क्रियते । यद्यपि त्रयः प्रधाना इति त्रिवारं प्रयाजाः अनुष्ठेयाः, सर्वेषामपि प्रयाजः अङ्गं भवति । परं तु अनेकोद्देशेन सकृदष्ठानमिति तन्त्रेण अनुष्ठानं प्रयाजानां सम्भवति । सकृदनुष्ठानेन त्रयाणमपि उपकारकं भवति । यद्यपि सकृदनुष्ठानमात्रं प्रसङ्गस्थलेऽपि वर्तते । पशुयागोद्देशेन प्रयाजाः अनुष्ठिताः ।  परं पशुयागार्थं अनुष्ठिताः प्रयाजाः   पुरोडाशयागस्यापि उपकुर्वन्तीति प्रसङ्गे निरूपिप्रम् । तत्राति प्रयाजानां सकृदनुष्ठानं वर्तते परं तु अनेकोद्देशेन सकृदनुष्ठानं नास्ति । पशुयागोद्देशेन प्रयाजः अनुष्ठितः परं तु  पशु पुरोडाशयागोद्देशेन नानुष्ठितः इति प्रसङ्गे अतिपसङ्गो नास्ति । एवं दर्शेऽपि दधिपयोयागयोः प्रयाजानां सम्प्रतिपन्नदेवताकत्वात् सकृदनुष्ठानं वर्तते । तत्र तन्त्रत्वं वर्तते  परं लक्षणं नैव घटत इति शङ्का । यतो हि अनेकोद्देशेन स्कृदनुष्ठानं तन्त्रमिति वक्तव्यम् । प्रकृते च इदं यागाद्वयमपि स्वर्गोद्दशेन अनुष्ठीयते । तच्च फलमेकमेव । षड्भिरभि दर्शपूर्णमाससंज्ञकैः यागैः स्वर्गाख्यमेकमेव फलं प्राप्यते । एक एव स्वर्गः उत्पाद्यते । तादृशमेकमेव स्वर्गोद्देशेन दर्शपूर्णमासः अनुष्ठीयते चेत् अनेकोद्देशेन सकृदनुष्ठानं नैव सम्भवति । एकस्वर्गोद्देशेनैव ऐन्द्रदधिपयोयागयोः अनुष्ठीयमानत्वात् लक्षणे अव्याप्तिशङ्का तु जागर्ति । परमत्र स्वर्गोद्देशेन ततः पूर्वमेव अवान्तरकार्यमुत्पयपूर्वं यदास्ति तत्तु भिन्नं भिन्नमेव । अतः अनेकापूर्वोद्देशेन यागः अनुष्ठीयत इति कृत्वा नैष दोषः । तस्मात् अनेकोद्देशेन सकृदष्ठानं तन्त्रमिति लक्षणं सिध्यति ।
एतावता तन्त्रं निरूप्य प्रथमाधिकरणमारभ्यते । इदमधिकरणं उपोद्‌घातरूपं तन्त्रस्य ।  तत्र संशयः - दर्शपूणमासाभ्यां स्वर्गकामो यजेत इति दशपूर्णमासयागः स्वर्गोद्देशेन विधीयते । तत्र दर्शपूर्णमासयागयोः षड् प्रधानयागाः सन्ति। तत्र षड्भिरपि यागैः एकं फलमुत्पाद्यते वा उत षट् फलानि जायन्ते वेति विचारः । तत्र एकं फलं तर्हि एकः प्रयोगः सिध्यति । यदि पृथक् पृथक् षट् फलानि तर्हि एकैकस्य यागस्य एकैकः प्रयोगः स्यात् । पृथक् प्रयोगत्वे प्रयाजादीनामपि तन्त्रत्वं नास्ति। अनेकोद्देशस्य अभावात् सकृदनुष्ठानं न विद्यते इति । अतः षड्भिरपि यागैः एकं फलं वा उत भिन्नं भिन्नं वेति विनिर्णयः कर्तव्यः । तदा एव प्रयाजादीनामपि तन्त्रत्वनिर्णयः सिध्यति ।
पूर्वपक्षः
            दर्शपूर्णमासगतषण्णामपि प्रधानयागानाम् उत्पतिवाक्यानि भिन्नानि सन्ति । उत्पत्तिविधौ विहिताः ये यागाः करणत्वेनैव विधीयन्ते । उत्पत्तिविधौ धात्वर्थस्य करणत्वेनैव अन्वयः। उत्पत्तिविधौ इष्टसामान्यं भावनायां भाव्यत्वेन अन्वेति । विधेयस्य यागस्य करणत्वेन अन्वयः । तत्र विधानकाले इष्टसामान्यं प्रति एकैकोऽपि यागः निरपेक्षतयैव साधनतया विधीयते । यदा अधिकारवाक्येन फलविशेषसम्बधः अवगम्यते दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत इति तदा दर्शपूर्णमाससंज्ञकाः पूर्वविहिताः सर्वेऽपि षड्यागाः अनूद्यन्ते । तर्हि तेषामनुवाद एव । अतः फलकरणत्वं सर्वेषां समानमिति कृत्वा प्रयेकं सर्वेषां फलसम्बधः वक्तव्य इति प्रयोगोऽपि पृथगेव भवति । दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत इति यदि प्रयोगाविधिरङ्गीक्रियते तर्हि स एक एव इति एक एव प्रयोगः स्यादिति शङ्का जायेत कदाचित् । परं अनेन वाक्येन यागः नैव विधीयते। अनेन पलविशेषसम्बन्धमात्रं विधीयते । उत्पत्तिविधावेव प्रयोगः स्वीकर्तव्यः । उत्पत्तिवाक्यं भिन्नं भिन्नमिति प्रयोगविधिरपि यागस्य भिन्नं भिन्नं स्यात् । तदा एक प्रयोगाविधिपरिग्रहीतत्वाभावात् अङ्गानां तन्त्रस्य प्रसक्तिर्नास्ति ।
 यदि उत्पत्तिवाक्ये एव प्रयोगविधिः स्वीक्रियते तर्हि पौर्णमास्यां पौर्णमास्या यजेत अमावास्यायां अमावास्यया यजेत इत्येतद्वाकद्वयं  वस्तुगत्या यागत्रयस्य एकैकास्मिन् काले प्रयोगविधानार्थमिति वक्तव्यम् । अतोऽत्र प्रयोगविधिर्वक्तव्यः । परं तु उत्पत्तिवाक्ये एव प्रयोगः स्वीकृतः इति एतद्वाक्यद्वयं व्यर्थं स्यात्  इति शङ्का न कर्तव्या । आभ्यां वाक्याभ्यां एकस्यामेव पौर्णमास्यां एकस्यामेव अमावास्यायां त्रयाणामपि यागानामनुष्ठानं कर्तव्यमिति पृथक् प्रयोगतया अनुष्ठानं बोध्यते इति शंकायाः निरासो भवति । इदानीं सिद्धान्ते त्रयाणामपि यागानां एका एव इष्टिः । पूर्वोत्तरमेकः प्रयोगः वर्तते । अत्र तु एकं प्रयोगं समापय अपरः प्रयोग इति भेदः । तदा पूर्वाह्णो वै देवानामिति पूर्वाह्णकालः विहितः, पृथक् पृथक् प्रयोगे स च कालः नोपलभ्येत इति, चेत् अयं विधि सामान्यः । पौर्णमास्यां पौर्णमास्या यजेत इति विशेषविधिरिति सामान्यविहित पूर्वाह्णादि कालस्य विशेषविधिना बाधे न कोऽपि दोषः अतः पृथक् पृथगेव प्रयोगः न तु तन्त्रेणेति प्राप्ते
अभिधीयते-उत्पत्तिविधिना उत्पन्ना हि यागाः । फलविरोषानवगमात् तत्र विनियोगस्तु नैव सञ्जातः ।  उत्पत्तिविधौ किञ्चित् इष्टसामान्यमस्तीति कृत्वा ऊहितम् । उत्पत्तिवाक्ये विनियोगः न सञ्जातः इति कृत्वा तत्रापि फलोद्देशेन यागः एव विधेयः । यागाः फलोद्दशेन विनियोज्याः । अत्र एकैकस्यापि उत्पत्तिवाक्ये विनियोगो न सञ्जात इति कृत्वा फलोद्देशेन याग एव विधेयः । यदा यागानां विधेयत्वं निर्दिष्टं तदा एकेन यजिपदेनोपात्तत्वात् तेषां साहित्यं प्रतीयते । तादृशं सहित्यं विधेयगतमिति पश्वेकत्वन्यायेन विवक्षितं भवति । तर्हि मिलितैरेभिः षड्भिर्यागैः एकः स्वर्गः फलमिति बोधो भवति । यदा फलविशेषोद्देशेव विनियोगो जातः तदा प्रयोगविधिव्यापारः सम्भवति । षण्णामपि एकविशेषोद्देशेन विनियोगो जात इति कृत्वा षण्णामपि एक एव प्रयोगः कल्प्यत इति यागत्रयोद्दशेन प्रयाजादीनां तन्त्रत्वं सिध्यति ।
एवं च सिद्धे तन्त्रत्वे इदं वक्तव्यं यत् पौर्णमास्यां पौर्णमास्या यजेत, अमावास्यायाम् अमावास्यया यजेत इति वाक्यद्वयेऽपि प्रयोगमस्वीकृत्य भिन्नभिन्नकाले एकैकस्य यागस्य अनुष्ठानवारणं पूर्वपक्षे, सिद्धान्ते तु एतत्रयं मिलित्वैव फलसाधनं भवति इति एकस्मिन्नेव काले त्रयाणामनुष्ठानप्रयोगः ताभ्यां वाक्याभ्यां विधीयत इति तन्त्रं सिध्यति ।
सम्प्रति प्रयाजानूयाजादयः अनेके आरादुपकारकाः प्रकरणे विहिताः सन्ति ।  तेषां क्रतूपकाख्यफलं प्रति करणत्वे सिद्धे विकल्पेन करणत्वं वा समुच्चयेन वा इति सन्देहः उत्तिष्ठति । पूर्वेषां षण्णामपि प्रधानयागानां फलं प्रति मिलित्वा करणत्वं प्रोक्तम्, अत्र तु क्रतूपकाराख्यफले मिलितानां प्रयाजादीनां कारणत्वे प्रमाणाभावात् तथा वक्तुं न शकाते इति पूर्वपक्षः । यद्यपि प्रधानयागाः पृथक्  पृथक् वाक्येन उत्पन्नाः सन्ति । परन्तु विनियोगे तेषां साहित्यमगम्यते इति कृत्वा दण्डचक्रादीनामिव एकस्मिन् फले तेषां समुच्चयो भवतु । अङ्गानां तु क्रतूपकाराख्यफले तृणारणमणिन्यायेन विकल्पेनैव कारणत्वम् । प्रयाजादीनां सहितानामेव विनियोगबोधकं प्रधानवत् किमपि वाक्यं न श्रूयते । उत्पात्तिविधावेव सः विनियोगः कल्पनीयः ततः प्रयोगोऽपि  वक्तव्यः । उत्पत्तिविधिवाक्यानि तु प्रयाजानां भिन्नभिन्नानि भवन्ति । अतः तत्र विनियोगः प्रयोगश्च भिन्नभिन्नरूपेण कृर्तव्यः इति विकल्प एव युक्तः न तु
समुच्चयः । अपि च भूयसां करणे फलाधिक्यं भवतीति सम्भावयितुं शक्यते । अतः विकल्प एव युक्तः ।
            वस्तुतः प्रधानप्रयोगविधिना अङ्गप्रयोगः न विधीयते । परन्तु प्रत्येकमङ्गानाम्  अप्राप्तविधिवाक्ये एव प्रयोगविधिः कल्प्यते । अतः तन्त्रत्वं न सिध्यति इति प्राप्ते-
                        प्रयाजाद्यङ्गवाक्यानां पृथक् पृथक् प्रयोजनाकांक्षा वर्तते इति तु उभयसामान्यम् । परं प्रधानस्य अनेन  उपकारः कर्तव्यः इति तादृशस्य उपकारस्य सकृदेव उपकारापेक्षा वर्तते, यः प्रथममन्वेति तं स्वीकृत्य प्रधानः चरितार्थो भविष्याति । पुनः उपकारान्तरं नापेक्ष्यते। अतः खलेकपोतन्यायेन सम्बन्धः वक्तव्यः । तस्मादिदानीमित्थं वक्तव्यं यथा - अङ्गवाक्येषु वर्तते यत् प्रयोजनाकांक्षा प्रधानवाक्ये च इतिकर्तव्यताकांक्षा च वर्तते एवमाकांक्षाद्वयेन युगपदेव प्रधानवाक्येन सम्बन्धः । तर्हि प्रकरणवशात् एकवाक्यता सञ्जाता। तेन च युगपत् ग्रहणात् साहित्यं लभ्यते । एकवाक्योपादानेन सर्वेषामेकफलनिरूपितं सहित्यमवगम्य इति मिलितानामेव क्रतूपकारजनकत्वम् - यथा षण्णां  प्रधानयागानामेकफलव्यक्तिं प्रति मिलितानां कारणत्वं तथैव अङ्गानामपि मिलितानामेव क्रतूपकारजनकत्वमिति सिद्धं तन्त्रानुष्ठानम् ।
आकरग्रन्थाः
1)भाट्टदीपिका (प्रभावली सहिता)
2)जैमिनिसूत्रम्

3)तै.ब्राह्मणम् ।

वेदस्वरूपविमर्शः

वेदस्वरूपविमर्शः
@डा. रामचन्द्रुल बालाजी
सहायकाचार्यः, शिक्षाशास्त्रविभागः

सनातनधर्मप्रकाशकाश्चतुर्विधपुरूषर्थसाधकस्मृतिशास्त्रितिहासपुराणादीनां मूलभूताः विश्वविख्याताः चत्वारः ऋग्यजुःसामाथर्वाभिधेयाः वेदाः अद्यापि विश्वाकाशमण्डले भास्कर इव प्रकाशमानाश्चोपलभन्त इति को न विजानाति ।
प्रत्यक्षादिप्रमाणेषु चूडामणिकल्पोऽयं वेदः प्रमाणमित्यभ्युपगऽछन्ति खलु आस्तिकाः । तथापि विमतयः केचन कुठाराघतं कुर्वन्ति तत्रेति,अन्धो न पस्यति चेत् न स्थाणोरपराधः ।
वेदस्य श्रुतिः, त्रयी, आम्नायः इत्यादिपर्यायशब्दाः विद्यन्ते । कोऽयं वेदो नाम, किं च तल्लक्षणम्, केवास्य विषयप्रयोजनसम्बन्धाधिकारिणः कथं वा तस्य प्रामाण्यम् ? इति सामान्यजनजिज्ञासा स्वाभाविकी । तत केचन
1)      अपौरूषेयं वाक्यं वेदः,
2)      अपूर्वार्थ प्रविपादकत्वे सति नित्यसर्वज्ञप्रणीतवाक्यम्,
3)      लौकिकवाक्यभिन्नवाक्यम्,
4)      धर्मब्रह्मप्रतिपादकं शस्त्रम्,
5)      ब्रह्ममुखनिर्गत धर्मज्ञापकं शास्त्रम्,
6)      सम्प्रदायानुसारेण स्वरादि विशिष्टा या वर्णानुपूर्वी परिपाटी सः,
7)      इष्टप्राप्त्यनिष्टपरिहारयोरलौकिकमुपायं यो ग्रन्थो वेदयति सः,
8)      शब्दः तदुपजीविप्रमाणातिरिक्तप्रमाणजन्यप्रमित्यविषयार्थकत्केसति शब्दजन्यवाक्यार्थज्ञानजन्यप्रमाण्शब्दः ।
9)      विदिताखिलशावस्त्रार्थसर्वधर्मनिरूपणात् दर्शनानां प्रमाणत्वाद्वेद इत्यभिधीयते ।
10)        विद्यन्ते, ज्ञायन्ते, लभन्ते वा एभिर्धर्मादि पुरूषार्था इति वेदः इत्यादि प्रकारेण विविधनिगमागम -तत्त्वविशारदविशदीकृत व्याव्यानमणिरश्मयश्च प्रकाशन्ते ।
तैत्तिरीयसायणभाष्यभूमिकायां । “इष्टप्राप्त्यनिष्टपरिहारयोरलौकिकमुपायं यो ग्रन्थो वेदयति वेदः” इति निर्दुष्टं वेदलक्षणं कथितं वर्तते अत्र लक्षणस्थालौकिक पदेन प्रत्यक्षानुमाने व्यावर्त्येते किं वास्यप्रयोजनमित्यत्र-
तदुक्तम्-
प्रत्यक्षेणानुमित्या वा यस्तूपायो बुध्यते
एतं विदन्ति वेदेन तस्माद्वेदस्य वेदता (वे.भा.भूः)
स एवोपायो वेदस्य विषयः । तद्‍बोध एव प्रयोजनम् । तद्बोधार्थी च अधिकारी । तेन सह उपकार्योपकारकभावः सम्बन्धः ।
किं तस्यस्वरूपमित्यत्र “मन्त्रब्राह्मणसमष्टिर्वेदः” इत्युक्तम् । तथाचापस्तम्बः स्मरति “मन्त्रब्राह्मणयोः” वेदनामधेयम् इति । वेदैकदेशयोर्मन्त्रब्राह्मणयोः पृथकस्वरूपं जैमिनिर्न्यायेन निर्णीतवान् । वेदप्रयुक्तमन्त्रशब्दस्य लक्षणं किमिति विचारे सति श्री खण्डदेवः स्वकीयभाट्टदीपिकासंहितायाम् “तच्चोदकेषुमन्त्राख्या” इत्यस्मिन् मन्त्रनिर्वचनाधिकरणे “यत्राभियुक्तानां मन्त्रपदवाच्यत्वप्रकारिका उपस्थितिर्विषयता सम्बन्धेम स मन्त्रः इति व्याख्यानमकरोत् । अत्र वाच्यतावच्छेदकं च मन्त्रत्वमधखण्डोपाधि वेदत्ववत् । मन्त्रस्वरूपनिणीयं द्वितियाध्यस्य प्रथमपादे सप्तमाधिकरणे न्यायविस्तारकारः इत्थमुदाजहार-
“अहेः बुध्निय मन्त्रं मे गोपाय इति मन्त्रस्य लक्षणम्, इत्याद्यारभ्य “विहितार्थाभिधायको मन्त्रः”, एवं “मननहेतुर्मन्त्रः”, “असिपदान्तो मन्त्रः” “उत्तमपुरुषान्तोमन्त्रः” इत्यदिकथितानां लक्षणानां परस्परदोषमुद्‍भाव्य याज्ञिकसमाख्यानस्य निर्दोषलक्षणत्वेन प्रतिपादितम् । तच्चसमाख्यानमनुष्ठाननेस्मारकादीनां मन्त्रत्वं गमयति । एवमेव वेदे केषुचिदभिधायकेषु वाक्येषु मन्त्र इति समाख्या सम्प्रदायविद्भिर्व्यवह्रियते इति सायणाचार्यः वदति । ब्राह्मणो नाम कः इत्यत्र निर्वक्ति सूत्रकारः “शेषे ब्राहमणशब्दः” इत्यस्मिन् ब्राह्मणनिर्वचनाधिकरणे नाम “मन्त्रातिरिक्त वेदत्वमेव ब्राह्मणत्वम् इति । शुक्रनीतावपि मन्त्रब्राह्मणयोलक्षणविचारः सुष्ठु कृतः ट्टश्यते । तथाहि “जपहोमार्चनं यस्य देवताप्रीनिदं भवेत् । उच्चारान्मन्त्रसंज्ञं तद्विनियोगि च ब्राह्मणम्” । इति कथितं वर्तते ।
      नाम देवताप्रीत्यै जपहोमदेवपूजनादिषु उच्चार्यमाणः वेदभागः मन्त्रः इत्यभिधीयते । एवं विनियोग (प्रयोगविधौ) प्रयुक्तवेदभागः ब्राह्मणशब्देन व्यवह्रियते ।
      मन्त्रब्राह्मणनिर्वचनानन्तरं मन्त्रत्वार्दो व्यापकधर्मे निरूपिते तत्प्रसङ्गादेव तदवान्तरधर्मः ऋक्त्वादिः इति ऋगादीनां लक्षणानि निरूप्यन्ते सूत्रत्रये जैमिनिमुनिना । तथाहि “तेषामृग्यत्रार्थवशेन पादव्यवस्था” (जैः यू 2.1.35)
नाम पादव्यवस्थावन्मन्त्रत्वं ऋकत्वम् इति गीतिषु सामाख्या” (जै.सू.2.1.36) मन्त्रत्वसमानाधिकरण गीतित्वं सामत्वम् इति सामवेदतलक्षणम् । “शेषे यजुश्शब्द” (जै.सू 2.1.37) शेषे ऋक्सामभिन्ने मन्त्रजाते यजुश्शब्दः यजुःपदं व्यवह्रियते ।
एवं शुक्राचार्येणापि शुक्रनीतौ ऋग्वेदादीनां लक्षणानि प्रतिपादितानि वर्तन्ते । तथाहि “ऋग्‍रूपा यत्र ये मन्त्राः पादशोऽर्धर्चशोऽपि वा। येषां होत्रं स ऋग्भागः समाख्यानं च यब वा । (शु.नीः4-32) इति ऋग्वेदस्य,
प्रश्लिष्टपठिता मन्त्रा वृत्तगीतिविवर्जिताः
आध्वर्यवं यत्र कर्म त्रिगुणं यत्र पाठनम् ।”
मन्त्रब्राह्मणायोरेव यजुर्वेदः स उच्यते । इति यजुर्वेदस्य, “उदगीथं यस्य शस्त्रादेर्यज्ञे तत्सामर संज्ञकम्” इति सामवेदस्य । 
“अथर्वाङ्गीरसो नाम ह्यपास्योपसनात्मकः” इति अथर्ववेदस्य च लक्षणानि उक्तानि वर्तन्ति ।
वेदस्य प्रामाण्यविचारः
        वेदस्य  प्रामाण्यं  तु  बोधकत्वात्  स्वतएव  सिद्धम्  ।  पौरूषेयवाक्यं  तु  बोधकमपि  सत् पुरूषगतभ्रान्तिमूलत्वसम्भावनया  तत्परिहाराय मूलप्रमाणमपेक्षते न तु वेदः । तस्यनित्यत्वेन वकतृदोषशाङ्कानुदयात् । एतदेव जैमिनिमुनिना सूत्रितम् -
“तत्प्रमाणं बादरायणसथानपेक्षितत्वात्” इति । अतः श्रुतिस्मृतिभ्यां नित्यत्वावगमात् वेदस्यापौरुषेयत्वं तस्मात् प्रामाण्यं, नित्यत्वञ्च । सामन्यव्यवहरेऽपि शब्दस्यातीवं प्राधान्यं दृश्यते । परन्त् जगत्स्वभावस्तु विचित्रः “असत्यंवद, अधर्मं चर मद्यपानं कुर” इत्याद्युपदेष्टारः कसिन्नपि धर्मे, वर्गे सम्प्रदाये वा न सन्त्येव सत्यं वद मद्यपानं न न कर्तव्यमित्याद्युपदेशका एव । तत्र यदि वेदोऽस्मान् सत्यं वदेत्यादि वाक्यैः तथोत्तमाचरणं शिक्षयति - इति ब्रूमश्चेत्  आधुनिकः जनः कुप्यति, वेदः कः ? काल्पनिकः सः साम्प्रदायिकः इत्यादि प्रलपति किन्तु कर्तव्याकर्तव्ययोग्यायोग्प धर्मादि कर्मबोधकोऽयं वेद इति नाधिगच्छति लोकः । यदि माणिक्यं न परिचिनोति लोकस्तर्हि कस्यदोषः ?
अन्यच्च नेत्रगम्यविषयैव सत्यः तस्यैवास्तिता, नेत्रागोचरविषयस्तु नास्त्येवेति केषाञ्चन विचारः । अस्माभिः प्रतिदिनं देशविदेशेषु खगोले वा सम्भूतानां वृत्तान्तानाम् ज्ञानं प्रसारसाधनानां द्वारा प्राप्यते, तज्ज्ञानं नहि शब्दप्रमणमन्तरा विश्वसितुं शक्यते । तत्र प्रत्यक्षानुमानादि प्रमाणाभावात् । यदा मनुष्यो व्याधिग्रस्तो भवति तदा तन्निवारणार्थं तस्यपराधीनतामन्तरा गत्यन्तरं नास्ति अत एव जाड्‍यमप्रतिपत्रिः स्यात्सर्वकार्येषु ---पारवश्च “मेतैर्जाङ्गे निरूप्यते“ इति भावप्रकाशनोक्तरीत्या परवशतारूपं जाड्यं स्वीकर्तव्यं भवति । रोगनिवारणार्थं शब्दप्रामाण्यं सवैरपि उररीक्रियते । तस्मादेव “मन्त्रायुर्वेदप्रामाण्यवच्च तत्प्रामाण्यमाप्तप्रामाण्यात्” इति गौतमसूत्रं “त्रैविद्य वृद्धानां वेदाः प्रमाणमिति निष्ण” आपस्तम्बसूत्रम् ।
अपि च कामन्दकीयनीतिसारे “धर्मं पुरस्कृत्य यतेतार्थाय भूपतिः” “धर्मेण वर्धते राज्यं तस्य स्वादुफलं (श्रियः)” इत्यादि वचनप्रामाण्यानुरोधेन धर्मादीनां ज्ञानमावश्यकं राज्ञे । अयं धर्मः, अयञ्चाधर्म इत्यादि सत्कर्म दुष्कर्मादि बुद्धिस्तु वेदाधीना भवति । धर्माधर्मविज्ञाने सत्येव राजाभूपतित्वमविन्दति । अन्यथा तद्विज्ञन परिहीना नेतारः लोककत्न्याणशब्दजालेन जनानाच्छादद्यान्घकारकूपे प्रक्षिपन्तीति प्रतिक्षणं तत्फलमनुभवामो वयम् । परिपालनं तु धर्मादि ज्ञानमन्तरा नोपपद्यते, धर्मादि ज्ञानहेतुभूतोऽयं वैदः किल जगत्परीपालन जीवातुः” अत एव तत्परिपालनोपयुक्त वेदः प्रमाणमिति सत्यमङ्गीकर्तव्यम् ।
एवम् “आन्वीक्षकी त्रयी वार्ता दण्डनीतिश्च शाश्वती । विद्दाश्चतस्रः एवैता लोकसंस्थिति हेतवः” इत्यत्र त्रयी शब्दस्य व्याख्याने ऋकयजुःसामेत्येव नामानस्त्रयो वेदाः त्रयी स्मृतामता-धर्मा धर्मवेदनात् वेदा इति । उपनिषदपि “धर्मो विश्वस्य जगतः प्रतिष्ठा लोके धर्मिष्ठं प्रजा उपसर्पन्ति” इति । “लोकस्य सम्यक् स्थितिः तस्यै कारणभूतानां त्रय्यादीनां विधानामधिगमाय विद्यावृद्धगुरुं सेवेत्” इत्युक्तम् । गुरूस्तु विद्याधिगमाय सेव्यते । सुनिपुणं सुगुरूमुपसेव्य नृपपदाय शमाय च क्षमः” इत्वञ्च राष्ट्रेयंस्थिति-----हेतुभूतेषु अन्यतमा त्रयी, त्रयीज्ञानेन विना लोकसंस्थितिर्न सम्भवति, इति स्पष्टम् । तर्हि लोकसंस्थितिकारणत्वाच्च वेदाः प्रामाणमिति सुतरानधिगन्तव्यं खलु ।
याज्ञवल्क्यः “व्यवहारान्नृप पश्येत् ----धर्मशास्त्रानुरोधेन क्रोधलोभविवर्जितः” सभ्यै परिवृतोऽन्वहं राजा व्यवहारान् पश्येत् इत्यत्र स्भ्याः के ? इति चेत् “श्रुताध्ययनसम्पन्नाः धर्मज्ञा” इत्याद्युक्तम् ।
मीमांसाव्याकरणादिश्रवणेन, अध्ययनेन वेदाध्ययनेन सम्पन्नाः धर्मज्ञाः सत्यवादिनः सभ्याः भवन्ति । निस्सन्देहेन बहुविधलाभप्रयोजकवेदाः प्रमाणमिति सर्वथाङ्गीकरणीयमिति वस्तुस्थितिः । किन्तु अर्थ एव प्रधानमिति विचार्यमाणामनुकूलोद्‌भवा अनुपग्रस्तोऽयं वेद इति तमाक्षिपन्तीति विषादेष विद्धंमनः ।
प्रयोजनमस्तिनवा वेदस्येति विचारात्पूर्वं लोके किमपि वस्तु तथास्ति फलदायकमिति ?
लक्षाधिकधनव्ययसाध्यं M.B.B.S, B.E, CA इत्यादि धनसम्पादनोपायभूतामुपाधिं लब्ध्वापि धनमार्जयन्तिवा यथेष्टम् सर्वे । तथाविधोपाधिविहीनाः केचन अक्षारज्ञानशून्याश्च इहवा दुबैप्रभृति देशगमनेनवा अल्पेकाले‍एव लक्षाधीशाः कोट्यधीशाः किं न भवन्ति । अत्रोपाधेः किं प्रयोजनम् ? मारूतिवाहनस्य, वर्णयुक्तदूरदर्शिन्यश्च प्रयोजनं किमस्ति दरद्राय ? अतः कस्मैचित् प्रयोजनं भवति कस्मैचित् न । “अर्थोऽस्तु नः केवलम्” इतिरीत्या सत्यसत्यधर्माधर्मकर्तष्ययोग्यायोग्यन्यायान्यायादिविवेकविरहमणिविशोभिताः जनाः केवलमर्थार्जनतत्परा अनुसरंतं व्याघ्रं पश्यन् मृगो यथा तथा कालेऽस्मिन् महाविपिने प्रधावन्ति । एवं धावमानेभ्यो मानवेभ्यो वेदस्य प्रयोजनमीषदपि नास्त्येव । तथ्यमिदं “तानि त्वयोपास्यानि” नो इत्राणि सत्यंवद धर्मंचर इत्यादि सत्यधर्मकर्तव्यादि विवेकं शिक्षयति वेदः । परस्मिन् बन्धुर्क्गे वा “मित्रे द्वेष्ये रिपौ तथा आत्मवद्वर्तितव्यम्” “अर्थमनर्थं भावय नित्यम्” इत्यादीनि श्रुतिसारभूतानि वचांसि ज्ञापयन्ति सर्वथा सर्वदा संदेहसंकोचपक्षपातादिकं विना वेदस्य प्रयोजनमस्तीति अभ्युपगन्तव्यमेव ।


पूर्वमीमांसायामीश्वरः

पूर्वमीमांसायामीश्वरः
@आचार्यः सुब्राय वि. भट्टः
मीमांसाविभागाध्यक्षः

“धर्मेण पापमपनुदति, धर्मे सर्वं प्रतिष्ठितम्”, इत्यादिवेदवाक्यैः धर्मस्य पापनाशकत्वं जगदुत्पत्तिस्थितिकारणत्वं च प्रतिपादितम् तादृश धर्मविवेचनार्थं प्रवृत्तमिदं “मीमांसाशास्त्रम्” | मीमांसासूत्रकारः भगवान् जैमिनिरपि पूर्वमीमांसाशास्त्रारम्भे “अथातो धर्मजिज्ञासा” इत्यनेन धर्मजिज्ञासां प्रतिज्ञाय द्वितीयेन सूत्रेण धर्मलक्षणमाह “चोदनालक्षणोऽर्थो धर्मः” इति । एवञ्च वेदबोधितश्रेयस्साधनताको धर्मः इति धर्मलक्षणं परिष्कृत्य तल्लक्ष्यत्वेन यागादिरेव धर्मः इत्याह
बहूनां क्वचित् चिन्तनं भवति मीमांसकाः ईश्वरं नाङ्गीकुर्वन्ति । इमे भगवद्द्विद्वेषिणः इति । स चाभिप्रायः न प्रामाणिकः । यतो हि ईश्वरोऽपि कश्चन देवताविशेषः इत्यत्र न कस्यापि विप्रतिपत्तिः । किन्तु मीमांसाशास्त्रे ईश्वरस्य ईश्वरत्वेन वा जगत्कर्तृत्वेन वा करचरणादिविशिष्टशरीरित्वेन वा अङ्गीकारः नोपलभ्यते । अथवा अन्यैः अनुमानप्रमाणादिना यः ईश्वरः अङ्गीकृतः तादृशः नाङ्गीकृतः। स च सर्वज्ञः सर्वशक्तः स एव जगतः कर्ता इत्यादिविषये विप्रतिपत्तिरस्ति
मानमेयोदये अनुमानप्रमाणसिद्धः ईश्वरः निराकृतः । नापि ईश्वरारब्धं जगत्,वेदव्यतिरेकेण ईश्वरसद्भावे प्रमाणाभावात् । अस्तु वेदादेव ईश्वरसिद्धिरिति चेन्न, वेदानामपि ईश्वरकर्तृकत्वं साधयतां वेदप्रामण्यादीश्वरसिद्धिः ईश्वरप्रमाण्याच्च वेदसिद्धिः इति अन्योन्याश्रयचक्रकयोः प्रसङ्गात् इत्युक्तम् एवमत्र अनुमानप्रमाणासिद्धमीश्वरं निराचक्रुः । अनन्तरञ्च इत्थं निरस्ते परमते स्वपक्षस्थापनार्थमनुमानमुच्यते क्षित्यादयः कर्तृशून्याः शरीरिजन्यत्वाभावात्, आत्मवत् इत्यादिना स्वपक्षे प्रमाणानि प्रतिपादितानि ।
“अपि च सिद्धेऽपीश्वरे कर्तरि कथं भवन्मते सकलकालदेशेषु तुल्यतया प्रवृत्तयोर्विद्वेषादिकारणरहितयोरीश्वरेच्छाप्रयत्नयोः कदाचित्कार्योत्पत्तिविघटनहेतुतया तत्कारणानां परस्परोपसर्पणहेतुत्वम् ? तत्तद्भोगाधिकृततत्तच्चेतनगत तत्तददृष्टपरिपाकवशादिति चेत्, तर्हि तेनैव कारणानां परस्परोपसर्पणादिसिद्धेः किमीश्वरपरिकल्पनाव्यसनेनेति सिद्धस्तार्किकेश्वरनिरासः । वैदिकेश्वरः परमकारुणिकः पुनरस्माकमनुगुण एव” इत्युपसंह्रतम् । अत्र तु वैदिकेश्वरः परमकारुणिकः इति कथितेऽपि सः कः इति न निर्दिष्टः । किन्तु तत्तद्भोगाधिकृततत्तच्चेतनगततत्तददृश्टपरिपाकवशात् कारणानां परस्परोपसर्पणादिसिद्धेः इति कथनेन यागादिकर्मजन्य तत्तदात्मनिष्ठ अपूर्वस्यैव फलजनकत्वमथवा कार्यजनकत्वमिति गम्यते
तेन इश्वरस्य फलजनकत्वं वा जगत्कर्तृकत्वं वा असिद्धं भवति । कर्मणामेव फलजनकत्वम् । तत्र अङ्गत्वमस्त्येव । देवतायाः कर्मशेषत्वात्
एवमेव सर्वज्ञवादोऽपि मीमांसकानां न सम्मतः श्लोकवार्तिके सर्वज्ञनिराकरणम् एवं दृश्यते । अशक्यं हि तत् पुरुषेण ज्ञातुमृते वचनात् इत्यस्य भाष्यवाक्यस्य विवरणावसरे अयमंशः विमृष्टः ।
यदि षड्भिः प्रमाणैः स्यात् सर्वज्ञः केन वार्यते
यो हि षड्भिःप्रमाणैः सर्वं जानाति सः धर्माधर्मावपि वेदेन जानन् चोदनैवेत्यवधारणं विरुणद्धीति निराकर्तव्य इति यस्तु एकेनैव सर्वं जानातीति कैश्चित्कल्पितः सोऽति तुच्छत्वादेव निराकार्यः इत्याह
एकेन तु प्रमाणेन सर्वज्ञो येन कल्प्यते
नूनं चक्षुषा सर्वान् रसादीन् प्रतिपद्यते इति
यो हि एवं विधं सर्वज्ञं कल्पयति स्वयं तावच्चक्षुषा रसादीन् जानाति इतरथा कथं स्वभाव नियमं जानन् अविषये सर्वार्थे प्रत्यक्षस्य अन्यस्य वा प्रवृत्तिमध्यवस्येदिति ततः -
यज्जातीयैः प्रमाणैस्तु यज्जातीयार्थदर्शनम्
भवेदिदानीं लोकस्य तथा कालांतरेऽप्यभूत् इति
अद्यत्ववदेव कालांतरेऽपि प्रमाणस्वभावो नान्यादृशः इति
सर्वज्ञो दृश्यते तावन्नेदानीमस्मदादिभिःइति सर्वज्ञनिराकरणं कृतम्
यदि आगमेन सर्वज्ञः सिद्ध्यति इति कथ्यते  येनैव आगमेन सर्वज्ञत्वं प्रतिपाद्यं तेन धर्म एव प्रतिपाद्यतां , किमन्तर्गडुना सर्वज्ञेन इति सर्वज्ञनिराकरणम् कृतम्
मीमांसकमते - धर्म एव जगदुत्पत्तिस्थित्यादिरूपेण सर्वस्यापि कारणं भवति । धर्मे सर्वं प्रतिष्ठितम् इत्यादिश्रुत्या सूचितम् । स च धर्मः मीमांसकमते यागादिरेव । देवतोद्देशेन द्रव्यत्यागो यागः । तत्र देवतायाः यागस्वरूपनिरूपकत्वेन यागाङ्गत्वम् । तदुक्तं यागस्य द्वे रूपे द्रव्यं देवता चेति । एवञ्च ईश्वरस्य देवतारूपत्वेन कर्मशेषत्वं सिध्यति । कर्मणः स्वर्गादिफलजनकत्वम् । कर्मणः क्षणिकत्वात् कथं कालान्तरभावि फलजनकत्वमित्युक्तौ तदन्यथानुपपत्या अवान्तरव्यापारत्वेन अपूर्वं परिकल्प्य निर्वाहः कृतः । कथं तर्हि कर्मणः फलजनकत्वं , जडत्वात् कर्मणः इति चेत् वचनबलात् अङ्गीक्रियते । यथा ज्योतिष्टोमेन स्वर्गकामो यजेत इत्यादिवेदवाक्यैः यागस्वर्गयोः साध्यसाधनभावः श्रुतः । तेन यागदिकर्मण एव स्वर्गादिफलकारणत्वं गम्यते । “ तृप्त एव एनमिन्द्रः प्रजया पशुभिश्च तर्पयति ” इत्याद्यर्थवादबलात् यगाराधिता देवता फलं  प्रयच्छति । ईश्वर एव कर्माध्यक्षः , फलदाता इति चेत् अयमर्थवादः ऐन्द्रदधियागसन्निधौ श्रूयमाणः । अर्थवादानां स्वार्थे प्रामण्यं नास्ति । विधेयप्राशस्त्यादिबोधकत्वेन प्रामण्यमिति  निर्णीतम् । अतः इदं प्रमाणभूतं न भवति
यदि यागाराधिता देवता अथवा ईश्वरपदवाच्यः शक्तिविशेषः फलदाता इत्यङ्गीकारे कलञ्जभक्षणब्राह्मणहननादौ कर्मणामेव निषेधः श्रूयते । न कलञ्चं भक्षयेत्, ब्राह्मणो न हन्तव्यः इत्यादिना । तत्र तादृश निषिद्धकर्मणामेव नरकजनकत्वं श्रूयते । तत्र च देवतासंबन्धः अङ्तयाऽपि नास्ति । यदि स्वर्गादि इष्टफलदाता ईश्वरः स्यात्, तथैव नरकाद्यनिष्टफलदातृत्वमपि तस्यैव वक्तव्यम् । तच्चानिष्टम् । यागादौ तु शेषतया देवतासम्बन्धः श्रूयते चेदपि निषिद्धे कर्मणि देवतासम्बन्धः नास्त्यैव । साक्षात्कर्मणः एव फलजनकत्वम् तत्र च श्रुतिवचनमेव प्रमाणम् । स च वैदिकः शब्दः चेतनः एवम् अन्यत्र ईश्वरशब्देन व्यवह्रियमाणेन परमात्मना अधिष्ठितः
अयं विचारः भट्टपादैः तन्त्रवार्तिके ग्रहैकत्वाधिकरणे प्रासङ्गिकरुपेण विमृष्टः । तथाहि - ग्रहं सम्मार्ष्टीत्यत्र  एकत्वं विवक्षितं न वा इति प्रश्ने-कस्य विवक्षा ? पुरुषस्य उत वेदस्य ? इति चेत् वेदस्य इति वक्तव्यम् । शब्दरुपस्य वेदस्य विवक्षा इति कथं सङ्गच्छते इति विचारसन्दर्भे - भट्टपादैः अभिहितम्
ऋग्वेदादिसमूहेषु क्षेत्रज्ञा ये प्रतिष्ठिताः ।
तेषां वाऽयमभिप्रायः स्याद्विवक्षाऽविवक्षयोः ॥
महाभौतिकदेहस्था यथात्मानः सचेतनाः ।
कञ्चिदर्थं विवक्षन्ति न विवक्षन्ति चापरम् ॥
तेषामन्तर्गतापीच्छा तद्वाक्यार्थविचारिभिः ।
ज्ञायते शब्दशक्त्यैव स्फुरन्तीव बहिः स्थिता ॥
देहभेदप्रकारश्च कर्मशक्तिवशानुगाः ।
प्रकृत्यारम्भवैचित्र्यात् दृश्यन्ते परमात्मनाम् ॥
तथा व्योमशरीरोऽपि परमात्मा श्रुतौ श्रुतः ।
इज्यते वारिणा नित्यं यः खं ब्रह्मेति चोदितः ॥
रूपस्पर्शादयो येऽपि महाभूतगणाः स्थिताः ।
प्रत्येकमात्मनां तेऽपि देहाः संभोगहेतवः ॥
शब्दब्रह्मेति यच्चेदं शास्त्रं वेदारव्यमुच्यते ।
तदप्यधिष्ठितं सर्वमेकेन परमात्मना ॥
तथार्ग्वेदादयो देहाः प्रोक्ता येऽपि पृथक् पृथक् ।
भोग्यत्वेनात्मनां तेऽपि चैतन्यानुगताः सदा ॥
तेषां चान्तर्गतेच्छानां वाक्यार्थप्रतिपादने ।
विवक्षा वाऽविवक्षा वा ज्ञायते शब्दशक्तितः ॥
विधिशक्त्या गृहीतं यत्तत्सर्वं हि विवक्षितम् ।
तथैव तु परित्यक्तं व्याख्येयमविवक्षितम् ॥
शब्दब्रह्मात्मनोप्येवं सर्ववेदानुसारिणः ।
विवक्षा वाऽविवक्षा वा वक्तव्या विधिशक्तितः ॥
अनादिनिधनेऽप्येवं वेदे वेदार्थगोचरे ॥
इत्यादिना ईश्वरस्य अथवा भगवदस्थित्वस्य प्रकारान्तरेणाङ्गीकारः दृश्यते ।
अर्थवादाधिकरणे तु वार्तिके
“ माभूत्तन्महावाक्यम्” इति आक्षिप्य उक्तं “सत्यं विनापि तेनेति । यो नाम वेदस्य कर्ता स्यात्स एवं पर्यनुयुज्येत लघुनोपायेन सिद्धे किं महावाक्यमाश्रयसीति । तदभावान्न पर्युनुयोगः”  इत्युक्तम् । तेन ईश्वरकर्तृकः वेदः इति मीमांसकानाम् असम्मत इति सूचितं भवति । नवमाध्याये देवताधिकरणे देवतायाः विग्रहवत्वं निराकृत्य आनुपूर्वीविशिष्टशब्दरूपा देवता इति सिद्धान्तितम् ।
तथा च मीमांसकमते ईश्वरः इति अतिरिक्तः नास्ति । ईश्वरस्थानीयः यज्ञ एव । ईश्वरकार्यकारित्वात् । श्रौतस्मार्तादि अनुष्ठानेऽपि पठ्यते
“ काण्डद्वयोपपाद्याय कर्मब्रह्मस्वरूपिणे । स्वर्गापवर्गदात्रे च यज्ञेशाय नमो नमः”
इति तेन यज्ञाख्यः ईश्वरः एव सम्मत इति प्रतीयते ।
जडत्वात् कर्मणां कथं फलसाधनत्वमिति न चिन्तनीयम् । परमात्माधिष्टितवेदबोधितत्वात् तत्रापि कश्चन शक्तिविशेषः वर्तते । कर्मजन्येन शक्तिरूपापूर्वेण कालान्तरभावि फलं प्रति यागः कारणं भवतीति वेदप्रामाण्यवशात् अङ्गीकर्तव्यम् । यथा अनेन औषधपानेन अयं ज्वराख्यरोगविशेषः नश्यति इति आयुर्वेदवचनानुसारेण तस्य औषधपानेन तस्य निर्दिष्टस्य रोगस्य नाशे प्रत्यक्षानुभूते सति तस्मिन् औषधविशेषे कश्चन शक्तिविशेषः वर्तते इति निर्णीयते । तत्र औषधस्य चेतनत्वं वा जडत्वं वा इति विचारो नास्ति । तस्मिन् शक्तिर्नस्ति इति वक्तुं न शक्यते, अनुभवविरोधात् । तद्वत् वेदबोधितकर्मणामपि फलजनकत्वशक्तिः वर्तते इति अङ्गीकर्तव्यम् । ततश्च सृष्टिस्थित्यादि कर्तृत्वेन सकलप्रपञ्चस्य अध्यक्षः ईश्वररूपी यज्ञ एव इति न मीमांसकमते पूर्वापरविरोधः । एवं शब्दमात्रेण भेद इति शास्त्रान्तराविरोधश्च ।