रसाभासः
@डा. श्रीनिवासमूर्तिः
अतिथ्युपन्यासकः , साहित्यविभागः
‘असत् सदिव’ इत्याभासशब्दार्थः । अद्वैतसिधान्तानुसारं
दृश्यमानमिदं चराचरजगत्सर्वम् असदेव । एतन्मिय्था
इति वेदान्तिभिः बोधिता अपि वयं जगदिदं सत्यं शाश्वतमियेव मत्वा संसारे डोलायमानाः
स्मः । यावल्लभ्यते तावत सुखमनुभवामः । अनिवार्यतया दुःखमपि अनुभावमः । प्रत्यक्षानुभूतम्
एतत् सुखदुःद्वयं मिथ्येति, असदिति बोध्यते चेदपि ओमिति नाङ्कीकुर्मः । भ्रमस्यास्य
कारणम् अस्माकं प्रत्यक्षानुभवः । अनेनैव आभासं सत्यत्वेन स्वीकुर्मः ।
काव्येष्वपि रसविषयिक एतादृश आभासो भवति । अभासोऽयं सर्वरसेषु भवितुमर्हति । किन्तु
साहित्य शास्त्रग्रन्थेषु सर्वेबु रसाभसः श्रृङ्गारपरतयैव विवृणुतः ।
अन्योन्यानुरागरहिरतौ स्त्रीपुरूषौ आलम्बनत्वेन स्वीकृत्य लिखितेन काव्येन
जायमानानन्दः श्रृङ्गारस्य आभासादेव न तु रसात् । तत्र एकत्रैवनुराग इत्युच्यते । द्वितीयः
आभासः – म्लेच्छालम्बनान्वितः
श्रृङ्गारः । म्लेच्छगत इत्युच्यते । पशुपक्ष्याद्यालंबनान्वितः श्रृङ्गाराभासः तिर्यग्गत
इत्युच्यते ।
एकत्रैवानुरागाभासे – इव, म्लेच्छ – तिर्यग्गताभासयोरपि काव्यपठनवेलायां
त्वभ्यमानानन्दः श्रृङ्गाराभास एवेति , न तु रसः इति सिद्धान्तः कृतः। अर्थात् यद्यपि
तत्र रसस्थितिः नास्ति तथापि अस्तीतिवत् काव्ये भासात् तदाभास एव रसत्वेन अनुभूयत इति तात्पर्यम् ।
आभासनाम्ना अतिरस्कृत्य शास्त्रेणास्मै रससमानस्थानमेव
प्रदत्तम् । अर्नोचित्यात् रसभङ्गापेक्षया अप्रवृत्तोऽपि प्रवर्तमान इव आनन्दप्रदो
रसः श्रेष्ठतरः । अतः रसभङ्गमिव रसाभासं तुच्छत्वेन निराकर्तुं न शक्यते । एकत्रैवानुरागे स्त्रीपुरूषरूपोभयालम्बनयोः एकस्मिन्
आलम्बने एव प्रीतिः भवति । द्वितीयालम्बने तद्विपरीतवैमुख्य रूपविरोधभावः भवति । साधारणतया
उभयानिष्ठा प्रीतिरेव सामाजेकेवु रतिनामकं स्थायिभावं व्यकीकृत्य चरमदशायां श्रृङ्गाररसरूपानन्दं
दातुं प्रभवति । यद्यपि एकनिष्ठा प्रीतिः श्रृङ्गाररूपेणानन्दं प्रदातुं न पारयति तथापि
स्थायिनं अंकुरितं कर्तुं समर्थैव भवति । कविः तादृशम् असंपूर्णम् आलम्बनं स्वीकृत्य, तद्दवारा स्थायिनः
सहजशक्त्यपेक्षया अधिकशक्तिमापाद्य स्थायिनं प्रदीपयति । तस्मात् एतत् आभासो वा रसो
वा इति परीक्षाम् अकृत्वैव सामजिकः आनन्दमनुभवति
। एतदाभासं रसत्वेनैव प्रकाशयितुं कवेरसाधारणी प्रतिभा भवेत् ।
सिद्धिं प्राप्तुमवकाशरहितस्य रसस्य काव्ये
अङ्गित्वेन प्रतिपादनं न सामञ्जस्यं भजत इति हेतोः यदा एतादृशं एकत्रैवानुरागात्मिका कथा रचनीया भवति तदा महाकवयः
एतदाभासरसं अङ्गं कृत्वा, द्वितीयालम्बनगतभावं अङ्गिरसस्य स्थायिनं कृत्वा तस्य जयं
प्रदर्शयन्ति । प्रबलं तद्विरोधभावं प्रतिद्यटयितुं
रसाभासस्य कारणभूतः प्रथमभावः अत्युत्कटं विजृम्भणं
प्राप्य सामाजिकेषु – अतिमात्राह्लादं जनयति
। स एव रसत्वेनास्वाद्यते । प्रतिद्यटनरहिते स्थले उत्कटविश्रृंभणमेव न भवति । तद्विजृंभणमेव
पराकष्ठां प्राप्तः रसपरिपोषः । तद्रसपरिपोष एव आभासरूपोऽनन्दजनकःकाव्यांशः ।
द्वितीयः म्लेच्छगतः । अत्र म्लेच्छशब्द अनागरकः,
पामर इत्यर्थे ग्राह्यः । अनागरकत्वं पामरत्वञ्च कुलानुसारं, मतानुसारञ्च नागच्छतः
। अतः अत्र म्लेच्छशब्दार्थः भरतोक्ताः नीयप्रकृतय इति । तादृशानां चित्तगतकामोद्रिक्तता
तत्क्षणशरीरिकप्रृप्तिमेवाभिलषति ; निर्वेदादि व्यभिचारिभावोत्पत्तिपर्यन्तं, भावतीव्रतया
जयमान सात्त्विकभावोत्पत्तिपर्यतञ्च आवश्यकं निग्रहं प्रदर्शयितुं न शक्नोति । तादृशनीचपात्राणि
स्वीकृत्य कविः रसपरिपोषणं कर्तुं न शक्नोति । तथापि यावत्पर्यन्तं वर्ण्यते तावत्पर्यन्तं
तेषां कामोद्रेक एव आनददायकः भवति ।
तिर्यग्गतोऽपि श्रृङ्गार आभासत्वेनैव गृह्यते । तत्र कारणं तिर्यञ्चोऽपि म्लेच्छपात्राणीव
नीचप्रकृतय एवेति नास्ति । तिर्यक्षु उत्तमप्रकृतयः जीविनः न सन्तीति कथं वक्तुं शक्यते
?! तेषां भाषणशक्तिः नास्तीत्यतः, तेषां वाक्यैः – अस्मासु व्यक्तीभवनीय
रसभावस्फुरणस्य, तत्परिपोषणस्य च अवकाशः न भवतीति हेतोः तिर्यञ्चः – आलम्बनत्वेन नोपादेया
इति शास्त्रकारैः चिन्तितं स्यात् ।
तिरश्चः पुरस्कृत्य रसभावप्रधानानि काव्यानि
लेखितुं न शक्यते । तथापि काव्यवर्णनेषु तेषां प्रवेशावकाशः यदा लश्यते तदा तेषां चेष्टाः
वर्णयित्वा उद्दीपनविभावस्य पोषकत्वं कल्प्यते
। तेषां चेष्टावर्णनं नितरां मनोहरं भवति । तत्र आभासः वा रसो वा – इति तर्कं विना परमानन्दः
जायते । कालिदासस्य कुमारसम्भवे स्थाणुवने अकालमधुविजृंभणवर्णनसन्दर्भे तिर्यञ्च उपकारका
अभवन् इत्यत्र सर्वेषामालङ्कारिकाणामङ्गीकारः दृश्यत एव ।
तिर्यग्गताः केचन भावाः मानवहृदयभावा इव परिपुष्टिं
प्राप्य आनन्दप्रदा भवन्तीति भावनया केचन कवयः तिरश्चामपि वाकच्छक्तिं प्रकल्प्य, तैः
भाषयित्वा, भावप्रपञ्चे सर्वेऽपि प्राणिनः समाना एवेति तात्त्विकसत्यम् उपादिशन् ।
चेष्टावर्णने पशुपक्ष्यादयः पशुपक्ष्यादिरूपेणैव दृश्यन्ते । मानवभाषापादनेन तिर्यञ्चः
न केवलं मानवसदृशत्वेन दिव्यत्वेनापि च विभान्ति । पञ्चतन्त्रागतानि, गोव्याघ्रसंवादगतानि
च पात्राणि-अत्र समीचीनोदाहरणानि । गोव्याघ्रसंवादे गोः वचनेषु धीरत्वं, पुत्रवात्सल्यञ्च
गोगततिर्यग्भावनां नाशयित्वा, सर्वप्राणिसाधारणीं मातृमूर्तिभावनाम् अस्मासु जनयति
। एतादृशस्थलेषु तिर्यग्गतभावोऽपि रसत्वेन-आनन्दं जनयति ।
यद्यपि प्रीतिः – उभयालम्बननिष्ठा भवति
तथापि आलम्बनम् अनुचितं चेत् तत्र जायामानः – आनन्दः रसाभास एव न तु
रसः – इति केषाञ्चन- आलङ्कारिकाणामभिप्रायः
। परकीयासंयोगादिषु- अनुचितालम्बनत्वम् उभयनिष्ठं भवतीति सूचितम् ।
अत्र विचारणेन ज्ञायते यत् तत्र रसः नास्तीति
न-इति । उचितालम्बनपुरस्कृतात् श्रृङ्गारादपि-अधिकतया-उत्कटरस एवास्ति । किन्तु तद्रसस्फुरणम्
आलम्बनसंस्मरणमनुसरति चेत् तत् काव्यं न केवलं जुगुप्सात्मकम् अश्लीलमपि च भवति । अतः
तादृशकाव्यैः पाठकेषु जायमाना जुगुव्सा एव आभास इति तत्तदालङ्कारिकाणां तात्पर्यं स्यात्,
न तु-असत् सदिव-इति ।
*****
No comments:
Post a Comment