महिमभट्टकाव्यलक्षणम्
@डा. कोम्पेल्लि विनयकुमारः संविदध्यापकः, साहित्यविभागः
किं तावत् काव्यमिति विचारचर्चायाम् अनेकानि काव्यलक्षणानि दृष्टिपथम् अवतरन्ति
। परमद्यापि नैकमपि लक्षणं निर्दुष्टं सर्वसम्मतं वा । चिरं परम्परावाहिनि काव्यसंसारे लोकोत्तरवर्णननिपुणकर्म
काव्यम् इति काव्यस्य सामान्यं स्वरूपम् । अलङ्कारशास्त्रग्रन्थेषु स्थितेषु विशेषलक्षणेषु
कानिचन लक्षणानि शब्दमात्रगतानि, कानिचन शब्दर्थोभयगतानि सन्ति। तदनु महिमभट्टेन विरचिते
व्यक्तिविवेकाख्ये काव्यालङ्कारे1 स्थितस्य
काव्यलक्षणस्यापि वर्तते किञ्चिद्वैशिष्ट्यम्। अयं व्यक्तिविवेकालङ्कारशास्त्रग्रन्थः
मौलिकैः काव्यशास्त्रीयैः भाषाशास्त्रीयैश्च विचारैः सुसम्पन्नो भवति । ध्वनिप्रभेदानामनुमाने
अन्तर्भावप्रकाशनमेव ग्रन्थस्यास्य मुख्यं प्रयोजनमस्तीति 2 एते मौलिकाः विचारा अत्र क्रमबद्धाः नोपलभ्यन्ते
। परन्तु ध्वनिलक्षणाक्षेपे शब्दानौचित्यविचारे ध्वनेरनुमानेऽन्तर्भावोपदर्शने च तत्र
तत्र इमे विचाराः क्रमरहिताः सन्ति । महिमभट्टस्य काव्यलक्षणविषयका विचाराः व्यक्तिविवेकेऽस्मिन्ग्रन्थे
प्रस्तूयन्ते ।
व्यक्तिविवेके प्रथमविमर्शे ध्वनिलक्षणे ‘काव्यविशेषः’ इत्यत्र विशेषशब्दोपादानं
व्यर्थमिति प्रतिपादयितुं किं तावत् काव्यम् इति महिमभट्टः कथयति । तद्यथा – कविव्यापारो हि विभावादिसंयोजनात्मा
रसाभिव्यक्त्यव्यभिचारी काव्यमुच्यते इति3 । काव्यकौतुके भट्टतौतेनाप्युक्तं
भवति तस्य कर्म स्मृतं काव्यम् इति कविशब्दसन्निधानेन चायं व्यापारः न सामान्यः
अपि तु विभावादिघटनासु अभाव एव । तेन चायं नियमेन रसापेक्षी एव भवति4 ।
विभावादिसंयोजनत्वेनैव शब्दर्थयोः काव्ये प्राधान्यम् । तेन न केवलेन शब्दार्थसंयोजनेन
व्यापारेण कवित्वसिद्धिः परं विभावादिसंयोजनात्मना व्यापारेणैवेति निष्कर्षो जायते
। विभावादिसंयोजनस्यापि परमं प्रयोजनम् अव्यभिचारेण रसाभिव्यक्तिः भवति । आनन्दवर्धनाचार्यमतेन
तावत् वस्तुमात्रेण अलङ्कारादिना वा ध्वनिना काव्यत्वं कथञ्चित् वक्तुं शक्यते । महिमभट्टमतेन
तु रसेन विना काव्यं कदापि न जायते । काव्यस्यात्मनि संज्ञिनि रसादिरूपे न कस्यचिद्विमतिः5
इति निःसन्देहं प्रख्यापयता महिभट्टेनैव अलङ्कारशास्त्रस्येतिहासे सर्वप्रथमं रसस्य
सर्वाधिकं महत्वं प्रदाय काव्यलक्षणमुक्तम् । एतदेव काव्यलक्षणं महिमभट्टपरवर्तिना
विश्वनाथकविराजेन साहित्यदर्पणे भङ्ग्यन्तरेण कथितम् 6 ।
अन्वयव्यतिरेकाभ्यां रसस्य काव्यात्मत्वं ग्रन्थे तत्र तत्र स्पष्टतया उपपादितं
वर्तते । ध्वनिकारस्यापि एष एव सिद्धान्तः इष्टः स्यादिति महिमभट्टो वदति । तद्यथा
– "काव्यमात्रस्य
ध्वनिव्यपदेशविषयत्वनेष्टत्वात् तस्य रसात्मकत्वोपगमात् इति। यत् स एवाह –
काव्यस्यात्मा स एवार्थस्तथा
चादिकवेः पुरा । क्रौञ्चद्वन्द्ववियोगोत्थः शोकः श्लोकत्वमागतः"7 ।। इति ।
व्यतिरेकेणापि
रसस्य काव्यात्मत्वं महिमभट्टेन बहुत्र निरूपितमस्ति । तत्रैकत्र यथा- "अत एव
च न गुणालङ्कारसंस्कृतशब्दार्थमात्रशरीरं काव्यम्....... तस्य रसात्मकताभावे
मुख्यवृत्त्या काव्यव्यपदेश एव न स्यात् किमुत विशिष्टत्वम्"8 इति
।
महिमभट्टेन ध्वनिलक्षणे समुद्भावितानां दोषाणां परिहारानन्तरं निर्दुष्टं यल्लक्षणमुक्तं
तदपि काव्यलक्षणमेवास्ति । तद्यथा – वाच्यस्तदनुमितो वा यत्रार्थोऽर्थान्तरं
प्रकाशयति । सम्बन्धतः कुतश्चित् सा काव्यानुमितिरित्युक्ता9
।। इति ।
रसाभिव्यक्त्यभिचारी कविव्यापारः काव्यम् इत्युक्तम् । अस्मिन् तावत् लक्षणे
रसस्य नामापि न विद्यते । एतत् कथं सङ्गच्छते किं रसेन विनापि काव्यं महिमभट्टस्य सम्मतं
वा ? यदि पूर्वोक्तं लक्षणं सम्पूर्णं चेत्
किमर्थमिदं नूतनं लक्षणमुक्तम् ?
वस्तुतः विचार्यमाणे एतादृशसन्देहानाम् अवसर
एव नास्ति । तथाहि लक्षणमिदं महिमभट्टेन ध्वनिलक्षणविचारप्रसङ्गे लिखितं वर्तते । आनन्दवर्धनेन
यः ध्वनिसिद्धान्तः आविष्कृतः तस्य अनुमाने अन्तर्भावप्रकाशनमेव व्यक्तिविवेकस्य मुख्यं
प्रयोजनं वर्तते । एतदर्थञ्चासौ ध्वनिलक्षणे दश दोषान् उद्भावयति। उद्भावितानाञ्चैतेषां
दोषाणां परिहारेण निर्दुष्टं तल्लक्षणमेव अनेन अत्र प्रदर्शितम् ।
महिभट्टमतानुसारेण वेदादिशास्त्रेभ्यः इतिहासपुराणादिभ्यश्च रसात्मकत्वमेव
काव्यस्य व्यावर्तको धर्मः इति तदेव काव्यलक्षणमस्ति ।
प्रयोजनमुखेन चिन्त्यते चेत् काव्यमपि
शास्त्रमेव भवतीति महिमभट्टस्य अपूर्वः सिद्धान्तः । वेदादिशास्त्रस्य इतिहासपुराणादेः
काव्यमात्रस्य किं बहुना सर्वस्यापि शब्दप्रयोगजातस्य विधिनिषेधविषयव्युत्पत्तिरेव
फलं भवति ।
असाधुशब्दानाम् अपशब्दानाञ्च स्वरूपनिरूपणप्रसङ्गे
काव्यस्य शास्त्रत्वम् अनेन सुस्पष्टमुक्तं भवति । तद्यथा – "त्रिविधं हि शास्त्रं
शब्दप्रधानम्, अर्थप्रधानम्, उभयप्रधानं चेति । तत्र शब्दप्रधानं वेदाध्ययनादेव अभ्युदयश्रवणात्
मनागपि पाठविपर्यासे प्रत्यवायश्रवणाच्च। अर्थप्रधानम् इतिहासपुराणादीनाम् अर्थवादमात्ररूपत्वात्
। उभयप्रधानं सर्गबन्धादि काव्यं तस्य रसात्मकत्वात् रसस्य चोभयौचित्येन परिपोषदर्शनात्
। काव्यस्यापि शास्त्रत्वमुपपादितमेव"10 । इति ।
मम्मटादयस्तावत् काव्ये शब्दार्थयोः गुणभावमङ्गीकुर्वन्ति
। तदुक्तं मम्मटेन – शब्दार्थयोर्गुणभावेन
रसाङ्गभूतव्यापारप्रवणतया विलक्षणं यत् काव्यम्.......... 11
इति । परन्तु महिमभट्टः काव्ये शब्दार्थयोः प्राधान्यम् अङ्गीकरोति । अत एवासौ शब्दार्थयोः
अनौचित्यस्य सर्वथा परिहरणीयत्वमवदत् । ध्वन्यालोके अर्थानौचित्यानां प्रतिपादनमस्ति।
परं शब्दानौचित्यस्य निरूपणं न दृश्यते । अतः महिमभट्टः व्यक्तिविवेकस्य द्वतीयविमर्शे
शब्दानौचित्यप्रकाराणां विस्तरेण निरूपणमकरोत् । तदुक्तं तेन व्यक्तिविवेकस्य द्वितीये
विमर्शे – "इह खलु द्विविधमनौचित्यमुक्तम्
अर्थविषयं शब्दविषयञ्चेति । तत्र विभावानुभावव्यभिचारिणामयथायथं रसेषु यो विनियोगः
तन्मात्रलक्षणम् एकमन्तरङ्गमाद्यैरेवोक्तमिति नेह प्रतन्यते" 12 इति
।
वेदेतिहासपुराणादिभ्यो यथा विधिनिषेधविषयव्युत्पत्तिर्जायते
तथैव काव्यादपि इत्यतः काव्यस्यापि वेदेतिहासपुराणादितुल्यत्वम् ।
एवं त्रिविधमपि शास्त्रं विधिनिषेधविषयव्युत्पत्तिफलम्। रसानुभूतिश्च अन्याभ्यां
शास्त्राभ्यां काव्यस्य व्यवच्छेदको धर्मः । आनन्दस्वरूपरसानुभूतेः सद्भावेन सुकुमारमतीनामस्मिन्
प्रवृत्तिर्जायते ।
काव्यलक्षणविषये महिमभट्टसिद्धान्तस्य अयं
निष्कर्षः । विधिनेषेधविषयव्युत्पत्तिफलमिति काव्यं त्रिविधेषु शास्त्रेषु अन्यतमं
भवति । एतच्च काव्यं विभावादिसंयोजनात्मा रसाभिव्यक्त्यव्यभिचारी कवेः कर्म भवति ।
‘तस्य कर्म स्मृतं काव्यम्’ इति प्राचीनानामपि वचनमस्ति
। काव्यञ्च अभिनेयार्थम् अनभिनेयार्थम् इति द्विविधम् । तदुक्तम् –
अनुभावविभावानां वर्णनं
काव्यमुच्यते ।
तेषामेव प्रयोगस्तु नाट्यं
गीतादिरञ्जितम् ।। इति ।
सुकुमारमतयः शास्त्रश्रवणादिविमुखाः सुखिनः
राजपुत्रादयः काव्यस्य अधिकारिणः । ततोऽपि जडमतयः स्त्रीनृत्यातोद्यादिप्रसक्ताः नाट्यस्य
अधिकारिणः । ध्वनिकारेण रसस्य प्राधान्यं स्वीकृतमपि वस्तुमात्रमलङ्काराः रसादयश्चेति
त्रयाणामपि काव्यात्मत्वमुक्तम् । परं कुशाग्रीयधिषणाशालिना महिभट्टेन स्पष्टमुद्घोषितं
यत् रसेन विना वस्तुमात्रस्य अलङ्काराणां वा सद्भावमात्रेण काव्यं न भवति इति । ‘वाक्यं रसात्मकं काव्यम्’ इति ब्रुवता विश्वनाथेन
महिमभट्टस्यैव सिद्धान्तः स्वीकृतः ।
पादटिप्पण्यः
1. इति श्री राजानकमहिमभट्टविरचिते
व्यक्तिविवेकाख्ये काव्यालङ्कारे ध्वनिलक्षणाक्षेपो नाम प्रथमो विशर्शः इत्यादि । व्यक्तिविवेकः
– पृ.सं.1
2. व्यक्तिविवेकः – श्लो.सं.1
3. व्यक्तिविवेकः – पृ.सं.101
4. कविव्यापारश्च न सामान्येन
किन्तु विभावादिघटनास्वभावः । अत एव नियमेन रसापेक्षी इति । व्यक्तिविवेकः – पृ.सं.101(रय्यकः व्याख्यायां
स्पष्टयति)
5. व्यक्तिविवेकः – पृ.सं.111
6. वाक्यं रसात्मकं काव्यम्
इति साहित्यदर्पणे विश्वनाथः ।
7. व्यक्तिविवेकः – पृ.सं.98
8. व्यक्तिविवेकः – पृ.सं.103
9. व्यक्तिविवेकः – पृ.सं.111
10. व्यक्तिविवेकः – पृ.सं.483
11. काव्यप्रकाशः वृत्तिः
1-2
12. व्यक्तिविवेकः – पृ.सं.179
*****
No comments:
Post a Comment