सुभाषितम्
@मनोजः
प्राक्शास्त्रिप्रथमवर्षम्
भाषासु मुख्या मधुरा दिव्या सुन्दरा सुचारु च संस्कृतभाषा अस्ति । तत्र काव्यं मधुरं, तत्राऽपि सुभाषितं मधुरतरं वर्तते ।
सुभाषितं नाम सुन्दरं भाषितम्, सुष्ठु भाषितम्, शोभनं भाषितम् । एतानि सुभाषितानि सार्वकालिकमौल्यानि प्रतिपादयन्ति । अनुभवयुक्तानि एतानि अस्माकं जीवने मार्गदर्शनं कुर्वन्ति । संस्कृतसाहित्ये तावत् शताधिकसुभाषितग्रन्थाः विराजन्ते । तेषु सुभाषितसुधानिधिः सुभाषितरत्नभाण्डागारः, नीतिशतकम् इत्यादयः प्रसिद्धाः । अत्र केषाञ्चन सुभाषितानां विवरणे प्रयत्नः कृतः ।
सुभाषितस्य महिमा एवं वर्तते ।
द्राक्षा म्लानमुखी जाता शर्करा चाश्मताङ्गता ।
सुभाषितरसस्याग्रे सुधा भीता दिवङ्गता ॥
सुभाषितरसस्य अग्रे द्राक्षा म्लानमुखी जाता, शर्करा च पाषाणत्वं गता । साक्षात् सुधा (अमृतम्) स्वर्गं गता ।
मानवजीवने विद्यायाः महत्वं सुभाषितकारः एवं अभिप्रैति –
विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनम्
विद्या भोगकरी यशः सुखकरी विद्या गुरूणां गुरुः ।
विद्या बन्धुजनो विदेशगमने विद्या परं दैवतम्
विद्या राजसु पूज्यते नहि धनं विद्या विहीनः पशुः ॥
विद्या भोगकरी यशः सुखकरी विद्या गुरूणां गुरुः ।
विद्या बन्धुजनो विदेशगमने विद्या परं दैवतम्
विद्या राजसु पूज्यते नहि धनं विद्या विहीनः पशुः ॥
विद्वत्वञ्च नृपत्वञ्च नैव तुल्यं कदाचन ।
स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते ॥
स्वदेशे पूज्यते राजा विद्वान् सर्वत्र पूज्यते ॥
अत्र सुभाषितकारः विद्वत्त्वं तथा च नृपत्वं कदापि समत्वं न अवाप्नोति इति प्रतिपादयति । राजा स्वदेशे एव पूज्यते, परन्तु विद्वान् सर्वत्र पूज्यते । अतः विद्वत्त्वं सर्वदा श्रेष्ठतां भजते ।
साहित्यसङ्गीतकलाविहीनः साक्षात्पशुः पुच्छविषाणहीनः ।
तृणं न खादन्नपि जीवमानस्तद्भागधेयं परमं पशूनाम् ॥
तृणं न खादन्नपि जीवमानस्तद्भागधेयं परमं पशूनाम् ॥
अत्र सुभाषितकारः मानवजीवने साहित्यादिकलानां महत्वं वर्णयति । साहित्यसङ्गीतकलाविहीनः पुच्छविषाणहीनः साक्षात् पशुः । तत्र तृणं न खादन्नपि जीवमानः इति तु पशूनां परमं भागधेयम् अस्ति ।
श्लोकार्धेन प्रवक्ष्यामि यदुक्तं ग्रन्थकोटिभिः ।
परोपकारः पुण्याय पापाय परपीडनम् ॥
परोपकारः पुण्याय पापाय परपीडनम् ॥
महाभारते व्यासमहर्षिः धर्माधर्मविषये एवं उक्तवान् – यत् ग्रन्थकोटिभिः उक्तं तत् तेन श्लोकार्धेन उच्यते परोपकारः पुण्याय पापाय परपीडनम् इति ।
उद्यमेन हि सिद्ध्यन्ति कार्याणि न मनोरथैः ।
न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥
न हि सुप्तस्य सिंहस्य प्रविशन्ति मुखे मृगाः ॥
उद्यमशीलतायाः
विषये सुभाषितकारस्य अभिप्रायः एवं वर्तते – कार्याणि उद्यमेन एव सिद्ध्यन्ति, मनोरथैः न सिद्ध्यन्ति । यथा सुप्तस्य सिंहस्य मुखे मृगाः न प्रविशन्ति ।
काव्यशास्त्रविनोदेन कालो गच्छति धीमताम् ।
व्यसनेन हि मूर्खाणां निद्रया कलहेन वा ॥
व्यसनेन हि मूर्खाणां निद्रया कलहेन वा ॥
अत्र बुद्धिमतां तथा मूर्खाणां स्वभावः निरूपितः । धीमतां कालः काव्यशास्त्रविनोदेन गच्छति । परन्तु मूर्खाणां कालः निद्रया, व्यसनेन कलहेन वा गच्छति ।
दानं भोगो नाशस्तिस्रो गतयो भवन्ति वित्तस्य ।
यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्भवति ॥
यो न ददाति न भुङ्क्ते तस्य तृतीया गतिर्भवति ॥
अत्र धनस्य त्रिस्रः अवस्थाः वर्णिताः । वित्तस्य दानं भोगः नाशः चेति तिस्रः गतयः भवन्ति । यः मानवः न ददाति स्वतः न भोगं करोति तस्य वित्तस्य तृतीया गतिः भवति । अतः दानं भोगो वा करणीयः इत्यर्थः ।
प्रत्यहं प्रत्यवेक्षेत नरश्चरितमात्मनः ।
किं नु मे पशुभिस्तुल्यं किं नु सत्पुरुषैरिति ॥
किं नु मे पशुभिस्तुल्यं किं नु सत्पुरुषैरिति ॥
मानवेन प्रतिदिनम् आत्मावलोकनं करणीयम् । यथा प्रत्यहं मनुष्येण किमहं पशुभिः समानः अथवा सत्पुरुषैः समानः इति पर्यवेक्षणीयम् ।
No comments:
Post a Comment