सङ्गीतरत्नाकरे वेदान्तार्थनिरूपणम्
@डा. गणेश ईश्वर भट्टः
सहायकाचार्यः, अद्वैतवेदान्तविभागः
भूतं भव्यं भविष्यच्च सर्वं वेदात् प्रसिद्ध्यति1 इति मनुवचनानुसारं, भगवान्
वेदः सर्वार्थप्रकाशकः, अत एव सर्वप्राणिभिः सर्वथा समादरणीयः । ऋग्यजुस्सामाथर्वभेदेन
चतुर्धा विभक्तस्य तस्य क्रमेण आयुर्वेदधनुर्वेदगान्धर्ववेदार्थशास्त्राणि उपवेदनाम्ना
प्रथन्ते । तत्र सङ्गीतशास्त्रनाम्ना प्रसिद्धं गान्धर्वशास्त्रं आबालवृद्धं मनो रञ्जयत्
लोके अद्यापि लोके पामरानपि जनान् प्रीणाति । किन्तु सङ्गीतशास्त्रस्य लक्ष्यं न मनोरञ्जनम्,
अपि तु तत् आत्मतत्त्वसाक्षात्कारस्य साधनम् । सङ्गीतशास्त्रविषयप्रतिपादकेषु ग्रन्थेषु
सङ्गीतरत्नाकरः प्राधान्यं भजते । त्रयोदशशतके लब्धजन्मा शार्ङ्गदेवाख्यः काश्मीरपण्डितः
इमं अष्टाध्यायात्मकं ग्रन्थं रचयामास । अयं सङ्गीतशास्त्रस्य वेदान्तार्थोपकारकत्वं
स्फुटं प्रतिपादयति । अस्य व्याख्यातारौ कल्लिनाथसिंहभूपालावपि वेदन्तसिद्धान्तानेव
आश्रित्य श्लोकानाम् अर्थं वर्णयामासतुः । इमं विषयं किञ्चिदिह अवलोकयामः ।
ग्रन्थस्य मङ्गलश्लोके श्लेषेण एवं स्वरपरमात्मानौ
स्तूयेते-
ब्रह्मग्रन्थिजमारुतानुगतिना
चित्तेन हृत्पङ्कजे
सूरीणामनुरञ्जकः श्रुतिपदं
योऽयं स्वयं राजते ।
यस्माद्ग्रामविभागवर्णरचनाऽलङ्कारजातिक्रमः
वन्दे नादतनुं तमुद्धुरजगद्गीतं
मुदा शङ्करम्2 ॥ इति ।
अस्मिन्
श्लोके प्रकृतार्थः वन्द्यमानः शङ्करः । तेन सह अप्रकृतः अर्थः स्वरोऽपि प्रतीयते ।
तत्र शङ्करपक्षे व्याख्यानतः एवमर्थः लभ्यते- सूरीणां योगिनाम् हृत्पङ्कजे अनाहताख्ये
द्वादशदलचक्रे चित्तं ब्रह्मग्रन्थिजमारुतमनुगच्छति । देहस्य गुदलिङ्गयोः मध्ये चतुर्दलम्
आधारचक्रं स्थितम् । तस्माद् द्व्यङ्गुलान्तरादूर्ध्वम्, मेहनाद् द्व्यङ्गुलान्तरात्
अधः विद्यमानं देहमध्यम्, तस्मात् नवाङ्गुलान्तरादुपरि नभिकन्दो वर्तते । तत्र जायमानः
प्राणाख्यः वायुः हृदयनासास्यस्थानेषु सञ्चरन् शब्दोच्चारणं करोति इति स्थितिः । एवं
च प्राणम् अनुगच्छता अन्तःकरणेन श्रुतिपदम् अर्थात् वेदानाम् उत्पत्तिस्थानं प्रणवः,
तस्य उच्चारणे सति हृदि परमात्मा प्रकाशते । तदुक्तम्-
धारयन्मनसा वायुं व्याहरन्
प्रणवाक्षरम् ।
आसनेऽनन्यधीरास्ते रहस्ये
विजितेन्द्रियः ।।
सम्प्राप्ते मारुते तस्मिन्
सुषुम्णायां वरानने॥
मन्त्रमुच्चार्य मनसा
हृन्मध्ये धारयेत्सुधीः ॥
वायुना पूरिते व्योम्नि
साङ्गोपाङ्गकलेवरे ।
तदाऽत्मा राजते तत्र यथा
व्योम्नि विकर्तनः ।
यद्यत्पश्यति तत्सर्वं पश्येदात्मवदात्मनि3 ॥ इति ।
ग्रामविभागेत्यादीनाम्
अयमर्थः - यस्मात् लोकानां विभागः, ब्राह्मणादीनां वर्णानां रचना, अनुलोमप्रतिलोमजातयः
एतेषां क्रमो भवति, सः उद्धुरजगद्गीतः, जगत् स्फुटं यथा स्यात्तथा जनैः गीतः, नादतनुः
नादविग्रहः । एवमत्र योगिगम्यः परमात्मा स्तुतः । अत्र श्रुतिपदम् इत्यादीनां वेदान्तशास्त्ररीतिमेव
अनुसृत्य एवमपि व्याख्यायाम् अर्थः प्रदर्शितः- श्रुतिपदं श्रुतीनां अवान्तरवाक्यानां
स्थानं महावाक्यम् । योऽयमित्यत्र यच्छब्देन शाब्दप्रतिपत्तिविषयः आत्मा उक्तः । इदंशब्देन
श्रवणोत्तरकालीनमननविषयः आत्मा निर्दिश्यते । अनु=मननाद्यभ्यासे कृते सति, स्वयं राजते= साक्षात्कारे जाते वृत्त्यवच्छेदेन
स्वयं प्रकाशते । स्वरपक्षेऽपि अत्र विद्यमानानां पदानाम् अर्थः व्याख्यायां दर्शित
एव ।
एतदनन्तरं ग्रन्थकारः प्रथमेऽध्याये, अग्रे
प्रस्तोष्यमाणानां विषयाणां सङ्ग्रहं प्रदर्श्य, ततः पिण्डोत्पत्तिप्रकरणाख्यं द्वितीयं
प्रकरणं प्रारभत । तत्र न कोऽपि तालरागादिविषयाः प्रतिपादिताः, अपि तु शरीररचना, तत्र
शरीरिणः संस्थितिः, षट्चक्राणि इतीमे विषयाः विस्तरेण निरूपिताः । नादनिरूपणे प्रवृत्तस्य
किं शरीरादिनिरूपणेन इति शङ्का जायेत । अतः स्वयमेव शार्ङ्गदेवः कथयति यत् सर्वमिदं
जगन्नादात्मकम्, तस्य च नादस्य शरीरमेव आधारः, अतः शरीरं निरूपणीयमेव इति । शरीरं जीवकर्माधीनम्
। जीवश्च ब्रह्मैव नापरः । अतः शरीरिणः वास्तवं रूपं ब्रह्मैव इति इममर्थं ग्रन्थकृत्
उपस्थापयति-
अस्ति ब्रह्म चिदानन्दं
स्वयञ्ज्योतिर्निरञ्जनम् ।
ईश्वरं लिङ्गमित्युक्तमद्वितीयमजं
विभुम् ॥
निर्विकारं निराकारं सर्वेश्वरमनश्वरम्
।
सर्वशक्ति च सर्वज्ञं
तदंशा जीवसंज्ञकाः4 ॥ इति ।
अत्र
वेदान्तप्रतिपाद्यं ब्रह्मैव निर्दिष्टम् । जीवानां ब्रह्मांशत्वमप्युक्तम्, यद्धि
शारीरकमीमांसाशास्त्रे अंशाधिकरणे निरूपितम् । एतदनन्तरं जीवानां अविद्याद्युपाधयः
दर्शिताः -
अनाद्यविद्योपहिता यथाऽग्नेर्विस्फुलिङ्गकाः
।
दार्वाद्युपाधिसंयोगात्ते
कर्मभिरनादिभिः ॥
सुखदुःखप्रदैः पुण्यपापरूपैर्नियन्त्रिताः5 ॥ इति ।
अत्र
यथाऽग्नेर्ज्वलतः क्षुद्रा विस्फुलिङ्गाः प्रभवन्ते सहस्रशः सरूपाः6 इति श्रुत्युक्तं जीवस्य
जन्म सूचितम् । तत्र चानाद्यविद्यैव कारणमित्यपि दर्शितम् । एतदग्रे वेदान्तरीत्यैव
सूक्ष्मशरीरस्य स्वरूपमुक्तम्-
सूक्ष्मं लिङ्गशरीरं तदामोक्षादक्षयं
मतम् ।
सूक्ष्मभूतेन्द्रियप्राणावस्थात्मकमिदं
विदुः7 ॥ इति ।
ततः
भोगः सृष्टेः प्रयोजनमिति, संसारः प्रवाहतः अनादिरिति चोक्त्वा जीवब्रह्मणोः अभेदः
स्फुटं निगदितः- ते जीवा नात्मनो भिन्ना भिन्नं वा नात्मनो जगत्8 इति । जीवस्य चेतनत्वेन
ब्रह्मरूपत्वम्, जगतः ब्रह्मकार्यत्वेन ब्रह्मणः अनन्यत्वं च शास्त्रे यद्विस्तरेण
सिद्धान्तितम्, तदत्र सङ्क्षेपेण दर्शितम् ।
वेदान्तशास्त्रे मायायाः परिणाम्युपादानत्वम्, ब्रह्मणः विवर्तोपादानत्वं च
प्रसिद्धम् । तदत्र एवमाख्यातम्-
शक्त्या सृजन्नभिन्नोऽसौ
सुवर्णं कुण्डलादिव ।
सृजत्यविद्ययेत्यन्ये यथा रज्जुर्भुजङ्गमम्9 ॥ इति ।
जगत्सृष्टिं
कुर्वन् परमात्मा आदौ पञ्चभूतानि सृष्ट्वा ततः हिरण्यगर्भं सृष्ट्वा तस्मै वेदानुपदिश्य
वैदिकेभ्यः शब्देभ्यः सर्वं जगत् ससर्ज इति शास्त्रे प्रसिद्धम् । सोऽप्यर्थः ग्रन्थे
निबद्धः-
ब्रह्म ब्रह्माणमसृजत्तस्मै
वेदान् प्रदाय च ।
भौतिकं वेदशब्देभ्यः सर्जयामास
तेन तत्10 ॥ इति ।
तैत्तिरीयश्रुतौ अन्नात् पुरुषः11 इति पुरुषस्यैव सृष्टिः दर्शिता, न प्राण्यन्तरस्य । तत्र भाष्यकारैः हेतुरुक्तः-
सर्वेषामप्यन्नरसविकारत्वे ब्रह्मवंश्यत्वे च अविशिष्टे, कस्मात्पुरुष एव गृह्यते? प्राधान्यात् । किं पुनः प्राधान्यम्? कर्मज्ञानाधिकारः । पुरुष एव हि शक्तत्वादर्थित्वादपर्युदस्तत्वाच्च कर्मज्ञानयोरधिक्रियते, ‘पुरुषे त्वेवाविस्तरामात्मा स हि प्रज्ञानेन संपन्नतमो विज्ञातं वदति विज्ञातं पश्यति वेद श्वस्तनं वेद लोकालोकौ मर्त्येनामृतमीक्षतीत्येवं संपन्नः; अथेतरेषां पशूनामशनायापिपासे एवाभिविज्ञानम्’ इत्यादि श्रुत्यन्तरदर्शनात्12 इति । इममर्थं मनसि निधाय ग्रन्थे
कथितम्- ततो नादोपयोगित्वान्मानुषं देहमुच्यते13 इति। न हि पशुपक्षिकीटादयः
वर्णान् उच्चारयितुं प्रभवन्ति ।
ततः क्षेत्रज्ञः स्थित आकाशः आकाशाद्वायुमागतः14 इत्यादिना ग्रन्थेन औपनिषदीं
पञ्चाग्निविद्यामनुसृत्य जीवस्य गर्भे प्रवेशः वर्णितः । गर्भावासकाले जीवशरीरस्य उपचयः
सविस्तरं वर्णितः । मातापितृजाः भावाः, प्रसूतिप्रकारः, प्राणेन्द्रियाणां स्वरूपव्यापारविशेषाः,
षट्चक्राणां स्थानस्वरूपभेदः, देहावयवाः, सुषुम्नादिनाडीप्रभेदाः इत्येवं भूयांसः विषयाः
निरूपिताः । ततः
मनश्चेल्लीयते प्राणे
सुषुप्तिः स्यात्तदाऽत्मनः ।
स्वमपीतः परात्मानं स्वपित्यात्मा
यतो मतः15 ॥
इत्यादिना
वेदान्तरीत्यैव अवस्थाः निरूपिताः । वैद्यशास्त्र-योगशास्त्र-वेदान्तशास्त्रेषु निरूपणार्हाः
एते विषयाः सङ्गीतशास्त्रे प्रतिपादिताः इत्येतदेव सङ्गीतशास्त्रस्य अध्यात्मशास्त्रोपकारकत्वं
ज्ञापयति । शरीरनिरूपणस्यापि फलं शरीरस्य हेयत्वज्ञानमेव, यथा पञ्चाग्निविद्यानिरूपणं
वैराग्योत्पादनाय, तद्वत् ।
निर्गुणब्रह्मज्ञानफलभूतं मोक्षं विहाय अन्यत् सर्वं फलं भोग एव इति शास्त्रे
सिद्धान्तितम् । अत एव ग्रन्थकारः भोगमोक्षयोः साधनं वेदान्तानुसारमेव कथयति- तत्र
स्यात्सगुणध्यानाद्भुक्त्र्मुक्तिश्च निर्गुणात्16 इति । सगुणोपासनस्यापि निर्गुणज्ञानमेव फलमिति व्याख्यायां दर्शितम् । तर्हि
सगुणध्यानस्यैव सर्वेषां साधनत्वात् किं नादनिरूपणेन इत्याकाङ्क्षायामुक्तम्-
ध्यानमेकाग्रचित्तैकसाध्यं
न सुलभं नृणाम् ।
तस्मादत्र सुखोपायं श्रीमन्नादमनाहतम्
॥
गुरूपदिष्टमार्गेण मुनयः
समुपासते17 ॥ इति ।
तर्हि
इदानीं लोके प्रसिद्धस्य सङ्गीतस्य तेन नादेन सह कस्सम्बन्ध इति जिज्ञासायाम् इदं समाधानं
दर्शितम्-
सोऽपि रक्तिविहीनत्वान्न मनोरञ्जको
नृणाम् ।
तस्मादाहतनादस्य श्रुत्यादिद्वारतोऽखिलम्
।
गेयं वितन्वतो लोकरञ्जनं भवभञनम्18 ॥ इति ।
एतेन
सङ्गीतशास्त्रस्य मनोरञ्जनमेव न लक्ष्यम्, किन्तु भवभञ्जनहेतुभूतस्य आत्मज्ञानस्य सिद्धौ
सङ्गीतमपि साधनमिति ज्ञायते ।
एतदनन्तरं श्रुतिस्वरजात्यादीनां निरूपणमारभमाणः ग्रन्थकृत् ब्रह्मात्मना नादमेवं
रूपयति-
चैतन्यं सर्वभूतानां विवृत्तं
जगदात्मना ।
नादब्रह्म तदानन्दमद्वितीयमुपास्महे19 ॥ इति ।
अयमर्थः-
नद्यत इति, नदाभ्यां प्राणाग्निभ्यां जातः इति वा नादः । परा वागिति प्रसिद्धः सूक्ष्मतमः
शब्दः सः नाद एव ब्रह्म नादब्रह्म । स च स्फोटात्मना समस्तपदार्थप्रकाशकत्वसाधर्म्येण
चैतन्यारोपविषयत्वात् चैतन्यम् । जगदात्मना विवृत्तम्=अतत्त्वतः अन्यथाभूतम्, तच्च
आनन्दम् अर्थात् आनन्दाभिव्यञ्जकत्वात् आनन्दः इत्यारोप्यते । तच्च स्वरादिकार्यजातस्य
कारणम् । नादब्रह्मणोः अत्यन्तं प्रत्यासन्नत्वात् नादोपासनायां कृतायाम्, मणिप्रभाप्रवृत्तस्य
मणिलाभवत् ब्रह्मप्राप्तिः भविष्यति । तदुक्तम्-
अपि स्यात् सच्चिदानन्दरूपिणः
परमात्मनः ।
प्राप्तिः प्रभाप्रवृत्तस्य
मणिलाभो यथा भवेत्20 ॥ इति ।
नादबिन्दूपनिषदि नादोपासनविधिः श्रूयते । आदौ
स्थूलशब्दं गृहीत्वा ततो सूक्ष्मसूक्ष्मतरसूक्ष्मतमतां गते शब्दे अन्तःकरणं प्रविलाप्य
उपासकः अन्ते स्वस्वरूपे ब्रह्मणि तिष्ठति इत्ययमर्थः तत्र प्रतिपादितः । यथा-
सिद्धासने स्थितो योगी
मुद्रां सन्धाय वैष्णवीम् ।
शृणुयाद्दक्षिणे कर्णे नादमन्तर्गतं
सदा ॥
श्रूयते प्रथमाभ्यासे नादो नानाविधो
महान् ।
वर्धमाने तथाऽभ्यासे श्रूयते
सूक्ष्मसूक्ष्मतः ॥
आदौ जलधिजीमूतभेरीनिर्झरसम्भवः
।
मध्ये मर्दलशब्दाभः घण्टाकाहलजस्तथा
॥
अन्ते तु किङ्किणीवंशवीणाभ्रमरनिःस्वनः
।
इति नानाविधाः शब्दाः
श्रूयन्ते सूक्ष्मसूक्ष्मतः ॥
सर्वचिन्तां समुत्सृज्य
सर्वचेष्टाविवर्जितः ।
नादमेवानुसन्द्ध्यान्नादे
चित्तं विलीयते ॥
ब्रह्मप्रणवसंलग्ननादो
ज्योतिर्मयात्मकः ।
मनस्तत्र लयं याति तद्विष्णोः
पराम्ं पदम्21 ॥ इति ।
यद्यपि भर्तृहरिप्रवर्तितः स्फोटवादः भाष्यकारादिभिः निराकृत एव । तथापि नादब्रह्मनिरूपणं
न दोषमावहति । यतः नेदं दर्शनशास्त्रम्, अपि तु आत्मदर्शनसाधनभूतनादब्रह्मोपासनप्रपञ्चनपरम्
। श्रुत्याऽपि नाम ब्रह्मेत्युपास्ते22 इति नाम्नि ब्रह्मोपासनं विधीयते । रजस्तमोगुणाभ्यां विक्षिप्तस्य मनसः सात्त्विकत्वापादने
यद्यदुपकरोति, तत् खलु साधकेन उपादेयम् । अत एव याज्ञवल्क्यस्मृतौ सङ्गीतशास्त्रस्य
मोक्षानुकूलत्वम् अभिहितम्-
वीणावादनतत्त्वज्ञः श्रुतिजातिविशारदः
।
तालज्ञश्चाप्रयसेन मोक्षमार्गं
स गच्छति23 ॥ इति ।
तदेवं
सङ्गीतशास्त्रमपि वेदान्तार्थोपकारकत्वेन मोक्षमार्गस्य आनुकूल्यमाचरति । उक्तं हि-
यया यया भवेत्पुंसां व्युत्पत्तिः
प्रत्यगात्मनि ।
सा सैव प्रक्रिया ज्ञेया साध्वी
सा चानवस्थिता24 ॥ इति ।
सङ्केतसूची-
१.
मनुस्मृतिः१२-९७
२.
सङ्गीतरत्नाकरः १-१-१
३.
तत्रैव कल्लिनाथव्याख्या१-१-१
४.
तदेव १-२-४,५
५.
तदेव १-२-६
६.
मुण्डकोपनिषत् २-१-१
७.
सङ्गीतरत्नाकरः १-२-८
८.
तदेव १-२-१०
९.
तदेव १-२-११
१०.
तदेव १-२-१४
११.
तैत्तिरीयोपनिषत् २-१
१२.
तैत्तिरीयोपनिषच्छाङ्करभाष्यम् २-१
१३.
सङ्गीतरत्नाकरः
१४.
तदेव १-२-१८
१५.
तदेव १-२-८५
१६.
तदेव १-२-१६४
१७.
तदेव १-२-१६५,१६६
१८.
तदेव १-२-१६७
१९.
तदेव १-३-१
२०.
तत्रैव कल्लिनाथव्याख्या१-३-१
२१.
नादबिन्दूपनिषत् ३३-४७
२२.
छान्दोग्योपनिषत् ७-१-५
२३.
याज्ञवल्क्यस्मृतिः
२४.
बृहदारण्यकवार्त्तिकम् १-४-४०२
No comments:
Post a Comment