संस्कृतभाषायाः महत्वम्
@श्रीवल्ली
. बि
शास्त्रिद्वितीवर्षम्
माता मातृराज्यं च मानवानां
परमप्रधाने भवतः । मातुः समीपे मातृराज्ये वा मानवेन यादृशं लालनं लभ्यते तादृशं स्वर्गेऽपि
न लभ्यते । अत एव रामायणे उक्तमस्ति -
अपि
स्वर्णमयी
लङ्का न मे लक्ष्मण रोचते ।
जननी
जन्मभूमिश्च स्वर्गादपि गरीयसी ॥
अस्माकं जन्मभूमिः भारतदेशः । अस्य देशस्य संस्कृतिः
अतिप्राचीना अस्ति । जन्मभूमेः संरक्षणार्थं
संस्कृतेः रक्षणं आवश्यकंम् । अस्माकं देशः संस्कृत्या अतीव समृद्धः अस्ति ।
धर्मार्थकाममोक्षाः इति चतुर्षु पुरुषार्थेषु प्रतिष्ठिता भवति । धर्मानुसारं अर्थकामौ
अनुभूय मोक्षम् आप्नुयात् इति ।
एतादृशस्य समृद्धसंस्कृतेः संरक्षणार्थं संस्कृतभाषा एव प्रथमे स्थाने अस्ति
। सनातनभारतस्य संस्कृतेः वाहिनी संस्कृतभाषा भवति । संस्कृतभाषा देवभाषा इति सर्वे
जानन्ति एव । इतिहासपुराणादयः, आदिकविवाल्मीकिमुनिना रचितं रामायणं, व्यासमुनिरचितं
महाभारतम्, जगत्प्रसिद्धा भगवद्गीता, वेदाः, काव्यनाटकादीनि संस्कृतभाषयैव रचिताः सन्ति
।
अष्टादश पुराणानि , अष्टादश उपपुराणानि व्यासमहर्षिणा रचितानि ।
* भगवद्गीता लोकप्रसिद्धा
नीतिबोधका अस्ति । सनातनधर्मस्य सारसर्वस्वं भगवद्गीतायाम् अन्तर्निहितम् ।
* प्रपञ्चे अतीवपुरातग्रन्थः
नाम चत्वारो वेदाः । ऋग्वेदः , यजुर्वेदः , सामवेदः अथर्ववेदः चेति । तथैव वेदस्य षडङ्गानि
सन्ति । ते च:-
शिक्षा व्याकरणं
छन्दो निरुक्तं ज्यौतिषं तथा ।
कल्पश्चेति षडङ्गानि वेदस्याहुर्मनीषिणः ॥
* शिक्षा, कल्पः, निरुक्तं
च वेदस्य अर्थज्ञानार्थं उपयुज्यते ।
* व्याकरणं शब्दोत्पत्तिः
इत्यादिविषये अत्यन्तोपयोगी । व्याकरणं विना सम्यक्तया संस्कृतेन व्यवहर्तुं न शक्यते
। अतः सर्व शास्त्रोपकारकं व्याकरणं इत्युच्यते ।
* छन्दः अपि प्रसिद्धम्
एव । छन्दांसि विना न किमपि संस्कृतसाहित्यं रचयितुं शक्यते न शोभते च ।
* त्रिस्कन्दात्मकं ज्यौतिषशास्त्रम्
। सिद्धान्तः,संहिता, होरा चेति । सिद्धान्ते गणितादिविषयाः अन्तर्भवन्ति । संहितया
तु वृष्टि-वास्तुशिल्प-प्रदेशादि विषये ज्ञातुं शक्यते । फलचिन्तनं तु होराशास्त्रे
क्रियते । एवमेव प्रकृतेः परिरक्षणं कथमिति भाषायामस्यां विद्यमानेन आम्नायादिना अवगन्तुं
शक्नुमः । रविचन्द्रयोः आगमनं, भूमेः परिभ्रमणं तथा च अस्यां पृथिव्यां जायमानानामुपरिग्रहाणां
प्रभावः इत्येतत्सर्वमपि ज्यौतिषशास्त्राध्ययनात् साधितमभूत् । तदर्थमेव प्राज्ञाः
वदन्ति “ प्रत्यक्षं ज्यौतिषं शास्त्रं
चन्द्रार्कौ यत्र साक्षिणौ ” इति ।
* एवमेव आयुर्वेदः अपि वेदस्य
उपाङ्गं वर्तते । वेदे विद्यमानान् विषयान् क्रोडीकृत्य आयुर्वेदशास्त्रं प्रवर्तितमस्ति
। अस्माकं पूर्वजाः कीदृशमाविष्कारं वैद्यशास्त्रविषये
कृतवन्तः इत्येतत् सुश्रुतसंहिताध्ययनात् स्पष्टीभविष्यति । शस्त्रचिकित्सायाः विषयमपि
तस्मादेव अवगच्छामः । चिकित्सापद्धति विषये सुश्रुतसंहिता, अष्टाङ्गहृदम्, चरकसंहिता
, भैषज्यरत्नावली इत्यदयः अनेके ग्रन्थाः उपलभ्यन्ते ।
* लोके काव्यानि बहूनि वर्तन्ते
। तत्र गद्यं, पद्यं, चम्पू इति त्रिधा । काव्येषु पञ्च महाकाव्यानि प्रसिद्धानि ।
तत्र कालिदासस्य कुमारसम्भवम्, रघुवंशम् इति काव्यद्वयम् । भारविमहाकवेः किरातार्जुनीयम्,
माघस्य शिशुपालवधं (माघकाव्यम्) , श्रीहर्षमहाकवेः नैषधीयचरिम् इत्येतानि पञ्च महाकाव्यानि
।
* तथा च नाटकानि बहूनि वर्तन्ते
। तत्र कालिदासस्य “अभिज्ञानशाकुन्तलम्” इति नाटकं जगत्प्रसिद्धमस्ति
। इदं नाटकं लोकेषु विद्यमानेषु अन्यास्वपि भाषासु अनूदितं वर्तते ।
संस्कृतभाषा सुभाषितानां
आगरः अस्ति । “ सम्यक् भाषितं ” सुभाषितम् । मानवस्य जीवने
श्रेष्ठत्वं प्राप्तुं सुभाषितानि अतीव महत्वपूर्णानि भवन्ति । सुभाषितस्य वैशिष्ट्यम्
एवं वर्णयन्ति –
द्राक्षाम्लानमुखी जाता
शर्करा चाश्मतां गता ।
सुभाषितरसं दृष्ट्वा
सुधा भीता दिवङ्गता ॥ इति ।
अस्यां भाषायाम् एव ज्ञानविज्ञानयोः विधिः सुरक्षिताऽस्ति । संस्कृतभाषा क्लिष्टा
नैव, “विद्यया अमृतमश्नुते” इति ध्येयवाक्यं स्मृत्वा, आलस्यं त्यक्त्वा, दृढचित्तस्सन्
यः पुरो गच्छति सः विजयी भविष्यति ।
“वसुधैव कुटुम्बकम्, मातृदेवो
भव, पितृदेवो भव, आचार्यदेवो भव, लोकाः समस्ताः सुखिनो भवन्तु” इत्यादयः भारतीयसंस्कृतेः
महिमानम् उद्घोषयन्ति ।
एवमेव ज्ञायते यत् “सर्वभाषाजननी भवति संस्कृत
भाषा” । संस्कृतं विना भारतीयसंस्कृतिं
ज्ञातुं न शक्नुमः । अतः ज्ञानिनः वदन्ति “भाषासु मधुरा मुख्या दिव्या
गीर्वाणभारती” इति ।
No comments:
Post a Comment