रामराज्यार्थं भरतोपदेशः
@डा. हरिप्रसादः के.
सहायकाचार्यः, शिक्षाशास्त्रविभागः
रामायणस्य अयोध्याकाण्डे शततमः सर्गः । पितृवाक्यपरिपालनार्थं ससीतो रामः लक्ष्मणेन सह वनवासार्थं
प्रस्थाय मध्ये गुहस्य आतिथ्यं प्राप्य पश्चात्
गङ्गानदीं तीर्त्वा भरध्वाजाश्रमं गत्वा, ततः चित्रकूटपर्वतं सम्प्राप्य तत्र कुटीं
निर्माय वस्तुमारभत ।
तत्र अयोध्यायां वशिष्ठप्रेषितानां दूतानां माध्यमेन मातुलगृहात् आनीतः भरतः
पितुः दिवङ्ग्मनस्य कारणं कैकेयीति विज्ञाय तां भृशं गर्हित्वा, पितुः और्ध्वदैहिकं
सर्वविधं कर्म निर्वर्त्य चदुरङ्गबलोपेतां सेनां स्वीकृत्य सामाजिकैः सह अरण्यात् रामं
प्रत्यानीय सिंहासने अभिषेचनं कर्तुं सङ्कल्प्य प्रतिष्ठते । चित्रकूटस्य कुटीरे सम्प्राप्तं
भरतं रामः मूर्ध्नि आघ्राय परिष्वज्य स्वीये अङ्के उपावेश्य अनुयोक्तुमारभते । पितुः
मातॄणां पुरोहितस्य वसिष्ठस्य, गुरोश्च सुधन्वानः
च कुशलां वार्तां पृष्ठ्वा प्रश्नमाध्यमेन एव भरतम् उपदेष्टुमारभते –
मन्त्रिणः
कच्चिदात्मसमाः शूराः
श्रुतवन्तो जितेन्द्रियाः ।
कुलीनश्चेङ्गितज्ञाश्च
कृतास्ते तात मन्त्रिणः ॥
हे भरत, भवतः आस्थाने कीदृशाः मन्त्रिणः भवता नियोजिताः ? ते मन्त्रिणः भवत्सदृशाः
एव सन्ति किल ? शूराः ज्ञानिनः जितेन्द्रियाः उत्तमकुले जाताः, तीक्ष्णमतयः मन्त्रिणः
एव भवता नियोजिताः किल ? इति रामस्य प्रश्ने राज्यस्य सुशासनार्थं पूर्वोक्तविशेषणाविशिष्टाः
मन्त्रिणः आवश्यका इति अभिप्रायोऽस्ति । अतः एतादृशैः मन्त्रिभिः सह मन्त्रणां कृत्वा
राजा शास्ति चेत् साफल्यमवाप्तुम्(विजयम्) अर्हति इति अग्रिमश्लोके कथयति ।
मन्त्रो विजयमूलं हि राज्ञां
भवति राघव ।
सुसंवृत्तो मन्त्रिधुरैरमात्यैः
शास्त्रकोविदैः ॥
राज्यस्य समृद्धये अहर्निशं एभिः मन्त्रिभिः सह मन्त्रणां कृत्वा राजा निर्णयं
स्वीकुर्यात्, निद्रादिविषयमोहगर्ते निमग्नो न भवेत् इति अनेन श्लोकेन उपदिशति-
कच्चिनिद्रावशं नैषि कच्चित्कालेऽवबुद्ध्यसे
।
कच्चिच्चापररात्रेषु चिन्तस्यस्यर्थनैपुणम्
॥
शत्रुतः
गुप्तस्य गोपनम्
इत्थं मन्त्रणासमयेऽपि गोप्यता संरक्षणीया । मन्त्रणार्थमपि अधिकाः न भवेयुः
। गुप्ताः विषयाः अधिकेषु मन्त्रयितृषु सत्सु बहिः प्रकाशिताः भवन्ति । भवता अधिकजनानां
मध्ये सुचिन्तिताः गुप्तविषयाः शत्रूणां निकटे न गच्छन्ति किल ? इति रामः अग्रिमश्लोके
भरतं मन्त्रणाविषयसंरक्षणजागृतिम् उपदिशति -
कच्चिन्मन्त्रयसे नैकः
कच्चिन्न बहुभिः सह ।
कच्चित्ते मन्त्रितो मन्त्रो
राष्ट्रं न परिधावति ॥ इति ।
समये
सुकार्यसाधनम्
अल्पश्रमेण साधयितुं योग्यं किञ्चन महत्प्रयोजनं मनसि निधाय सुचिन्तितं कार्यं
विलम्बेन न आरभसे किल ? तादृशाणि कार्याणि तूर्णं साधनीयानि इति रामस्य अभिप्रायः अस्मिन्
श्लोक्के उपदिष्टो वर्तते -
कच्चिदर्थं विनिश्चित्य
लघुमूलं महोदयम् ।
क्षिप्रमारभसे कर्म न
दीर्घयसि राघव ॥ इति ।
शत्रुभ्यः
कार्यरक्षणम्
शत्रवः अस्माभिः करिष्यमाणानि कार्याणि आदावेव न जानीयुः । कार्यं यदा सिद्ध्यति
ततः परं ज्ञास्यन्ति चेत् चिन्ता नास्ति । पूर्वमेव ज्ञास्यन्ति चेत् कार्ये बाधं जनयेयुः
। अथवा अस्मदपेक्षया पूर्वमेव ते तत् कार्यं साधयित्वा अस्माभिः प्राप्तव्यं प्रयोजनं
ते अपहरेयुः । तदर्थं रामः भरतं अग्रिमे श्लोके जागरयति-
कच्चिन्नु सुकृतान्येव कृतरूपाणि वा पुनः ।
विदुस्ते सर्वकार्याणि
न कर्तव्यानि पार्थिवाः ॥ इति ।
स्वीयस्य
गोप्यस्य परानवगतिः, परेषां तु गोप्यस्य अवगतिः
अमात्यैः सह मन्त्रितः विचारः बहिः न प्रकटितः चेदपि इतरैः(शत्रुभिः) तर्केण युक्त्या वा न ज्ञायेत ।
प्रत्युत इतरैः (शत्रुभिः) मन्त्रितः विचारः प्रकटनात्प्रागेव ज्ञातव्यः । अतः ईदृशं
कार्यं भवान् भरतः साधयति किल इति रामः पृच्छति -
कच्चिन्न तर्कैर्युक्त्या
वा ये चाप्यपरिकीर्तिताः ।
त्वया वा तव वामात्यैर्बुध्यते
तात मन्त्रितम् ॥ इति ।
सुयोग्यानां
श्रेष्ठानां नियोजनम्
एवम् मन्त्रणां कृत्वा समस्यापरिहाराय सम्पदभिवृद्धये च अल्पसंख्याकाश्चेदपि सुयोग्यानामेव मन्त्रिणां राजा
नियोजनं कुर्यात् न तु अधिकसंख्याकानां अयोग्यानाम् इति सकारणं प्रतिपाद्य भरतम् इत्थम् उपदिशति रामः -
कच्चित् सहस्रैर्मूर्खाणामेकमिच्छसि पण्डितम् । पण्डितो ह्यर्थकृच्छ्रेषु कुर्यान्निश्रेयसं
महत् ॥
सहस्राण्यपि मूर्खाणां यद्युपास्ते महीपतिः । अथवाप्ययुतान्येव नास्ति तेषु सहायता ॥
एकोऽप्यमात्यो मेधावी शूरो दक्षो विचक्षणः । राजानं राजपुत्रं वा प्रापयेन्महतीं श्रियम् ॥
योग्यतानुसारं
भृत्यानां नियोजनम्
जनानां योग्यतां सम्यक् विज्ञाय तदनुगुणं तेषां कृते विविधानि पदानि दातव्यानि
भवन्ति । साम्प्रतिकप्राशासनिकव्यवस्थायां वयं एतद्विपरीतं पश्यामः । किञ्च श्रेष्ठानां नियोजनवेलायां तेषां श्रेष्ठतायाः
मूल्याङ्कनार्थं तेषां पितृपितामहादयः शुचयः आसन् वा न वेत्यपि परीक्षणीयमिति रामः
वदति । सम्प्रति नेतॄणाम् अधिकारिणां च भ्रष्टाचारं पश्यामः चेत् रामस्य चिन्तनं रामराज्यस्य
निर्माणे कियत् श्रेष्ठमासीदिति पद्यद्वयेन ज्ञायते -
कच्चिन्मुख्या महत्स्वेव मध्यमेषु
च मध्यमाः । जघन्याश्च जघन्येषु भृत्यास्ते तात योजिताः ॥
अमात्यानुपधातीतान् पितृपैतामहान् शुचीन् । श्रेष्ठान् श्रेष्ठेषु कच्चित्त्वं
नियोजयसि कर्मसु ॥
उग्रकरविधानस्य
परिणामः
द्विरेफवत् राज्ञा करग्रहणं कर्तव्यं येन राज्ञः अपि लाभः भवेत् प्रजानामपि
हानिः न स्यात् इति चाणक्यः अर्थशास्त्रे वदति । द्विरेफः मकरन्दं पिबति चेत् द्विरेफस्य
तु लाभः भवत्येव । किन्तु पुष्पस्य कापि हानिर्न भवति प्रत्युत परागस्पर्शेन वृक्षसन्ततिरेव
वर्धते । किन्तु राजा बलात् उग्ररूपेण करं विधत्ते चेत् कामचारिणं पुरुषं स्त्रियः
यथा अवजानन्ति तथा राजानमपि प्रजाः अवजानन्ति । भवान् तु तथा न करोति किल ? इति रामः
अनेन श्लोकेन पृच्छति -
कच्चित् त्त्वां नावजानन्ति
याजकाः पतितं यथा ।
उग्रप्रतिग्रहीतारं कामयानमिव
स्त्रियः ॥ इति ।
उपायादिकुशलस्य
शत्रोः अहननस्य परिणामः
राजा कुशलं शत्रुं न हन्ति चेत् सः शत्रुः स्वयं राजानमेव हन्ति । अतः तादृशस्य
शत्रोः हननम् अवश्यमेव कर्तव्यम् इति रामः इत्थम् उपदिशति -
उपायकुशलं वैद्यं भृत्यसंदूषणे
रतम् ।
शूरम् ऐश्वर्यकामं च यो
हन्ति न स हन्यते ॥ इति ।
कीदृशस्य
सेनापतेः नियोजनं कर्तव्यम् ?
एकस्य राज्यस्य संरक्षणार्थं सेनापतिः कथं भवेत् ?
कीदृशस्य
सेनापतेः नियोजनं कर्तव्यमिति भरतमुपदिशति रामः -
कच्चित् धृष्टश्च शूरश्च
धृतिमान् मतिमान् शुचिः ।
कुलीनश्चानुरक्तश्च दक्षः
सेनापतिः कृतः ॥ इति ।
कर्मचारिणां
वेतनस्य भक्तस्य च समये प्रदानस्य महत्वम्
प्रशासकस्य इयं तु चातुरी भवति यत् काले काले कर्मकरेभ्यः वेतनस्य भक्तस्य
च दानेन तत्सकाशात् अधिकसेवायाः स्वीकारः इति । तदभावे महाननर्थश्च भवतीति राजा जानीयात्
। भवान् तु इत्थमेव काले तेभ्यः वेतनं भक्तञ्च सर्वेभ्यः कर्मकरेभ्यः प्रयच्छति किल
? विलम्बं तु न करोति किल ? इति रामः भरतं पृच्छति -
कच्चिद्बलस्य भक्तञ्च वेतनं च यथोचितम् । सम्प्राप्तकाले दातव्यं ददासि न विलम्बसे
॥
कालातिक्रमणे ह्येव भक्तवेतनयोर्भृताः । भर्तुरप्यतिकुप्यन्ति सोऽनर्थः सुमहान्
कृतः ॥ इति ।
स्वबलस्य
श्त्रुसामर्थ्यस्य च नियतपरीक्षा
त्रयाणां त्रयाणां गुप्तचराणां माध्यमेन शत्रुपक्षस्य अष्टादशव्यक्तीनां स्वपक्षस्य
पञ्चदशव्यक्तीनाञ्च व्यवहारस्य विषये राज्ञा अवधानं दातव्यमिति मनुना यदुक्तं तदत्र
दण्डनीतिशास्त्रानुगुणं रामः भरतमुपदिशति । शत्रुपक्षस्य आष्टादश जनाः इमे भवन्ति येषां
व्यवहारः सूक्ष्मेक्षिकया अवलोकनीयः – मन्त्री, पुरोहितः, युवराजः,
सेनापतिः, द्वारपालः, अन्तःपुराध्यक्षः, कारागाराध्यक्षः, कोशाध्यक्षः, यथायोग्यकार्येषु
धनव्ययकर्ता सचिवः, सुरक्षासचिवः(Security Chief), नगराध्यक्षः, कार्यनिर्माणकर्ता(अभियन्ता),
धर्माध्यक्षः, सभाध्यक्षः, दण्डपालः, दुर्गपालः, राष्ट्रसीमापालः, वनरक्षकश्च । स्वपक्षे
तु पूर्वोक्तेषु आदिमान् त्रीन् विहाय अवशिष्टानां विषये राजा दृष्टिं निदधीत ।
कच्चिदष्टादशान्येषु स्वपक्षे
दश पञ्च च ।
त्रिभिस्त्रिभिरविज्ञातैर्वेत्सि
तीर्थानि चारकैः ॥ इति ।
दण्डितशत्रोर्विषये
जागरूकता
कच्चित् व्यपास्तान् अहितान् प्रतियातांश्च सर्वदा । दुर्बलाननवज्ञाय वर्तसे
रिपुसूदन ॥
नास्तिकबुद्धीनां
(बुद्धिजीविनः) निन्दा
सम्प्रति यथा बुद्धिजीविनः इति यान् वयं ब्रूमः तादृशाः जनाः रामायणकालेऽपि
आसन् । नास्तिकाः ते आत्मानं पण्डितं मन्यमानाः दुर्बुधाः अनर्थकुशलाः भवन्ति । ते
सर्वदा निरर्थकतर्कमुपयुज्य वृथा अपलापं कुर्वन्तः
समाजस्य शान्तिं नाशयन्ति । काङ्ग्रेस्-प्रभृतीनि दलानि यथा सम्प्रति तान् सम्पोष्य
स्वानुकूलतया उपयुञ्जते न तथा कर्तव्यमिति रामः तदानीमेव भरतमुपादिशत् -
कच्चिन्न लोकायतिकान् ब्राह्मणांस्तात सेवसे । अनर्थकुशला ह्येते बालाः पण्डितमानिनः
॥
धर्मशस्त्रेषु मुख्येषु विद्यमानेषु दुर्बुधाः । बुद्धिमान्वीक्षिकीं प्राप्य
निरर्थं प्रवदन्ति ते ॥ इति ।
इत्थं स्त्रीसंरक्षणविषये, दुर्गसमृद्धिविषये, आर्याणाम् अविचार्य दण्डदानविषये,
चोराणां उन्मोचनहानिविषये चेति बहुषु विषयेषु भरतम् उपदिश्य राजधर्मं बोधितवान् । रामायणस्य
अयोध्याकाण्डे विद्यमाने अस्मिन् शततमे सर्गे अत्यन्तं प्रासङिकाः सार्वकालिकाः राजधर्मसम्बद्धाः
विषयाः सप्तदशलक्षवर्षेभ्यः प्रागेव रामेण उपदिष्टाः इति अत्यन्तं गर्वेण भक्त्या च
अस्माभिः परिगृह्यन्ते ।
सन्दर्भाः
1. श्रीमद्वाल्मिकीयरामायण
गीताप्रेस् गोरखपुर
2. विशुद्ध मनुस्मृति, आर्ष
साहित्य प्रचार ट्रष्ट दिल्ली
3. अर्थशास्त्रम्
*****
No comments:
Post a Comment