Thursday, September 29, 2016

जीवानां विकासक्रमः


जीवानां विकासक्रमः
@राजेश् हेगडे
आचार्यद्वितीयवर्षम्

श्रीमद्भागवतपुराणे जीवानां विकासक्रमः परमलक्ष्यञ्च इत्थमुपवर्ण्यते ।
जीवाः श्रेष्ठाः ह्यजीवानां ततः प्राणभृतः शुभे ।
                ततः सचित्ताः प्रवरास्ततश्चेन्द्रियवृत्तयः ॥  (श्री.म.भा.म.पु - ३ स्क.२९अ.२८ श्लोक ।)
जगतीतले अचेतनेभ्यः मृत्पाषाणादिभ्यः सचेतनाः वृक्षादयः श्रेष्ठाः । सचेतनेषु श्वासोच्छ्वासवन्तो जङ्गमाः श्रेष्ठाः । श्वासोच्छ्वासवत्सु जीवेषु सचित्ताः समनस्काः जीवाः उत्तमाः भवन्ति । समनस्केषु जीवेषु पुनः इन्द्रियद्वारा उपरसादिज्ञानवन्तः जीवाः प्रवराः भवन्ति ।
तत्रापि स्पर्शवेदिभ्यः प्रवराः रसवेदिनः ।
तेभ्यो गन्धविदः श्रेष्ठास्ततः शब्दविदो वराः ॥ ( श्री.म.भा.म.पु ३ स्क. २९ अ. २९ श्लोक)
इन्द्रियवत्सु जीवेषु पुनः स्पर्शवेदिभ्योऽपि रसज्ञाः मीनादयः प्रवराः भवन्ति । स्पर्शरसवेदिषु भृङ्गादयः स्पर्शरसगन्धवेदिनः श्रेष्ठाः । गन्धविद्भ्यः शब्दविदः  श्रेष्ठाः ।
रूपभेदविदस्तत्र ततश्चोभयतोदतः ।
तेषां बहुपदाः श्रेष्ठाश्चतुष्पादस्ततो द्विपात् ।। ( श्री.म.भा.म.पु - ३.स्क.२९ अ.३०श्लो)
शब्दविद्भ्यः जीवेभ्यः रूपविदः काकादयः श्रेष्ठाः । रूपविदपेक्षया उभयतोदत [उभयतो दत्ताः येषां ते] उत्तराधरदन्तयुक्ताः कीटविशेषाः श्रेष्ठाः ।  तेभ्यः अपादेभ्यः बहुपादयुक्ताः शरभादयः श्रेष्ठाः । ततः चतुष्पादगवादयः श्रेष्ठाः ।  ततः द्विपादयुक्तमनुष्याः श्रेष्ठाः ।
ततो वर्णश्च चत्वारस्तेषां ब्राह्मण उत्तमः ।
ब्राह्मणेष्वपि वेदज्ञो ह्यर्थज्ञोऽभ्यधिकस्ततः ।। (श्री.म.भा.म.पु -  ३.स्क.२९अ.३१श्लो.)
मनुष्याः चतुर्विधाः भवन्ति । यतो हि चत्वारो वर्णाः वर्तन्ते । ब्राह्मण-क्षत्रिय-शूद्र-वैश्य इति । तेषां वर्णानां मध्ये ब्राह्मणः उत्तमः । ब्राह्मणेष्वपि जातिः ब्राह्मणापेक्षया वेदाध्यायी विप्रः महान् भवति । ततः वेदार्थवित् महान् ।
अर्थज्ञात्संशयच्छेत्ता ततः श्रेयान् स्वकर्मकृत् ।
     मुक्तसङ्गस्ततो भूयानदोग्धा धर्ममात्मनः ॥ (श्री.म.भा.म.पु - ३ स्क.२९अ.३२श्लो)
अर्थज्ञानवतः अपेक्षया सर्वसन्देहनिवारकः ब्राह्मणः श्रेयान् । तत्र श्रेष्ठः द्विविधो ब्राह्मणः भवति । तत्र स्वधर्मानुष्ठानशून्यात् ब्राह्मणात् स्वधर्मानुष्ठानरतः श्रेष्ठः । स इन्द्रसमः श्रेष्ठः । ततः यः धर्माचरणे फलाकाङ्क्षारहितः सः निष्कामः श्रेष्ठः ।
तस्मान्मय्यर्पिता शेषक्रियार्थात्मा निरन्तरः ।
मय्यर्पितात्मनः पुंसो मयि संन्यस्तकर्मणः ।
तपस्यामि परं भूतमकर्तः समदर्शनात् ॥ (श्री.म.भा.म.पु ३ स्क.२९अ.३३श्लो)
निष्कामकर्मणोऽपि ब्राह्मणात् भगवति अर्पितानि सकलानि कर्माणि कर्मफलानि च अर्थाः देहगेहादयः मनोबुद्धिचित्ताहङ्काराः येन सः श्रेष्ठः भवति । भगवति न्यस्तात्मरक्षाभारात् प्रयोजककर्तरि क्रियाफलप्रदे संन्यस्तकर्मणः तस्मात् सर्वक्रियाप्रवर्तकेऽन्तर्यामिणि मध्येवानुसंहितक्रिया कर्त्तृत्वात् । अत एव स्वस्मिन् कर्तृत्वादिभिन्नरहितात् वासुदेव एव सर्वं करोति कारयति च । नाहं स्वातन्त्र्येण किञ्चित्करोमीति ज्ञानवत इत्यर्थः । कृत्स्नं जगद् ब्रह्मात्मकमिति ज्ञानवत उत्कृष्टं जीवनं पारयामि ।


No comments:

Post a Comment