चाटुधाराचमत्कार:
@डा. सि.एस्.
एस्.नरसिंहमूर्तिः
नव्यव्याकरणविभागाध्यक्षः
सखायं यस्याहुर्वसुरलिकदृग्भूरिमकरो
दपाङ्गं गोशब्दग्रहपतिपरिष्कारकरणम्
।
अधाद् गां
गाङ्गेयीमधिकमधिशेते य उरगं
स भूत्यै
भूयस्यै सरसिरुहनाभोऽस्तु भवताम् ॥
(चिन्तलूरुनिवासिना
पेद्दिन्टि कनकाद्रिशास्त्रिणा विरचितोऽयं श्लोक:)
यस्य विष्णो: अलिके = फाले दृक्
यस्य स:= शिव:, सखा मित्रमित्याहु: = वदन्ति । यस्य विष्णो: जनक: वसुदेव: इत्याहु: । यद्वा यं
= विष्णुं, सर्वजगन्निवास इति वदन्तीति च। यं = देवं, भूरिमकरोदपाङ्गं = भूरिमाणं सर्ववृद्धिं करोतीति = कर:, भूरि मकरं च तदुदम् =
मुदकं च भूरिमकरोदं तत्पातीति = भूरिमकरोदप: = नीलमेघ इत्यर्थ: । स इवाङ्गं
शरीरं यस्य तथोक्तम् । वदन्ति यम् देवं गोशब्द: = चन्द्र:, ग्रहपति: = सूर्य:, तौ द्वौ नेत्रद्वयरूपपरिष्कारकरणं
यस्य तथोक्तम् । वदन्ति - य: = देव: गाङ्गेयीं = सुवर्णस्वरूपिणीम्, ईं = लक्ष्मीं, यद्वा गाङ्गेयीं
= गङ्गाया: अपत्यं स्त्रीम् गाङ्गेयीं च सा ईच = गाङ्गेयी वा तां लक्ष्मीं " ईरिन्दी गोमिनी
ह्रीश्च भार्गवी कलशाब्दिजा - अमरशेष: । गां = भूमिं
च अधात्, द्वे पत्नीभावेन परिजग्राह। यो विष्णु: अधिकमुरगं शेषमधिशेते = शयितवान्
शेषशायीत्यर्थ: । स: = सरसिरुहनाभ: श्रीहरि: भवतां भूत्यै ऐश्वर्यायास्तु भवतु ।
यस्य देवस्य
सरसीरुहनाभ:= श्रीहरि: सखा मित्रमाहुर्वदन्ति यस्यालिकदृग्भू: = फाललोचनसम्भव: वसु: = वह्नि: वसुर्ना देवभेदेषु योक्त्राग्निधनदांशुषु।
मधुरे तु त्रिषु क्लीबे सलिले धनरत्नयो: इति नाना
। इं = मन्मथम्, अपाङ्गम् = अपहृतशरीरमकरोत्
। इकार: फणिरत्नार्चिष्वग्रतोर्धगुहार्थयो: हरे करेणौ
कक्ष्यान्ते निशाकरकरे स्मरे इति नाना । यं देवं गौरेव नेत्रमेव शब्दग्रहम् श्रोत्रं
यस्य स: = गोशब्दग्रह: = सर्प: । तेषां पति: = शेष: परिष्कारकरणम् = आभरणरूपं
यस्य तथोक्तमाहु: । य: देव: गां चन्द्रं
गाङ्गेयीं गङ्गासम्बन्धिनीं धाराम् अधात् शिरसि धृतवानित्यर्थ: । यो देव: अधिकमुन्नतम् अगं = कैलासगिरिम्, अधिशेते = अधिश्रित्य
शयितवान् । स: = तादृश:, उ: = शिव:, भवताम् = युष्माकम् भूयस्यै भूत्यै = अधिकैश्वर्यायास्तु = भवतु ।
यावत्तोयधराधराधरधराधाराधरश्रीधरो
यावच्चारुचचारुचारुचमरं
चामीकरं चामरम् ।
यावद्रावणरामरामरमणं
रामायणं श्रूयते
तावद्भो भुवि भोगभोगभुवनं भोगाय भूयाद् विभो ॥ (कालिदासविरचितोऽय़ं
श्लोक:)
तोयधरा: = मेघा:, समुद्राश्च
( यावत्तिष्ठन्तीति शेष:) । धरा = भूमि:, धरा: = पर्वता:, हिमवदादय: । मेरो: पृथग्वक्ष्यमाणत्वात् । आहार्यधरपर्वता: इत्यमर:
। धराया: = भूमे:, आधार: = अधर: पाताललोकवर्ती श्रीधर: = विषधर:, शेष: = महाकूर्मरूप: श्रीविष्णुर्वा । एते च यावत्तिष्ठन्ति -
श्रीर्वेषरचना शोभा सम्पत्सरलशाखिषु । वाणीलक्ष्मीलवङ्गेषु विषबिल्वेप्यथ त्रिषु इति
नानार्थे । किञ्च चारु रम्यं चचेति रु: = ध्वनि: येषां ते = चचारव:, रुर्ना युद्धे भये ध्वनौ इति नानार्थे । चचारवश्च ते चारवश्चेति
विशेषणसमास: । चचारुचारव: = चमरा: (मृगविशेषा:) यस्मिन् तथोक्तम् । अमराणामिदम् = आमरम्
तस्येदमित्यण् । चामीकरं = सुवर्णं मेरुरिति यावत् । तच्च यावत्तिष्ठति । अपि च रावणश्च
रामश्च = रावणरामौ, तावेव रामौ रमणीयौ = रमणौ नायकप्रतिनायकौ यस्मिन् तत्तथोक्तम्
। रामायणं भुवि = भूमौ यावत्तिष्ठति तावत्पर्यन्तं भोगस्यापि भोगो यत्र स: = भोगभोग:, भो प्रभो भुवनं = सप्तद्वीपपरिमितं, ते= तव भोगाय
भूयात् ॥
सश्रीमानुदयोदयोदयदयोदायोदयोवेदयो
नित्यं येनरमारमारमरमारामारमस्सारम:
।
अव्यादस्तरणोरणोरणरणोराणोरणोरावणो
विष्णुर्जिष्णुरभीरभीरभिरभीराभीरभीभूरभि:
॥ (कालिदासविरचितोऽय़ं श्लोक:)
स: विष्णु:
व: रक्षतु इति शेष: । स: कथंभूत: इत्युक्ते - श्रीरस्यास्तीति श्रीमान् नित्ययोगे मतुप्।
नित्यलक्ष्मीनिवास: । पुन: कथंभूत:- उदयोदयोदयदय:, उदयस्य = शुभोदयस्य, विधे: = उदय:
उद्गत: उन्नतो वा अयोदयो यस्मात्स: = उदयोदय:, उदय: पूर्वशैले
स्यादौन्नत्ये प्युद्गतावपि इति विश्व: । उदयप्रसारो यस्या स्सा = उदयोदयोदयदया - दया
= कारुण्यं, उदयोदयोदयदय: यस्य दयोदयमात्रेण शुभावहविधे: उदयो भवति न इत्यर्थ:
। पुन: कथम्भूत: दायोदय:- ददातीति = दाय: श्याद्व्याधास्रु - इत्यादिना ण: । (ददतीति=दा
क्विप्चेति क्विप्। दा नयतीति = दाय: कर्मण्यण् ।) दायानां = दानशीलानाम्, उदय: = प्रादुर्भाव: यस्य स:= दयोदय: य: पुरुष: परमात्मा विद सर्वं
वेत्ति= सर्वज्ञ: इत्यर्थ: । किञ्च येन हेतुना रमा = लक्ष्मी: मारं = मन्मथं नाम पुत्रम्
आर = लेभे, ऋधातो: लिट्। रमारमारम् = अरमारामारम: = अविद्यमाना रमा येषां
ते = अरमा: = त्यक्तश्रीका: वीतरागा: । अत एव आरामा: = अतिमनोहरा: तेषु आसमन्ताद्रमते
= क्रीडत इति आरम: । अरमारामारम: घञर्थे कविधानमिति क:। सारम: - सारं = वाक्यसारं माति
= वदतीति सारम: । मा शब्द इत्यस्माद्धातो: क: । एतेन वेदकर्तेति फलितम् । किञ्च रणो
रणरणो राणोरण: रणोरणरणो इति- त्रिवारमनुकरणशब्द: - एवं राण: = रणसम्बन्धी रण: = ध्वनि:
यस्य स:= रणोरणरणोराणोरण: - रणो रणरणो इति सर्वदा रामेण सह मे रणोस्त्विति वारं वारं
वदन्नित्यर्थ: । रणो इत्यत्र दीर्घवत्प्रतिभासात्तथाप्रयोग: । इत्थम्भूतो रावण: अस्तरण: कृत इति शेष: । अस्त:
= निरस्त:, रण: येन स:, जिष्णु: = जयशील: ग्लाजिस्थश्च ग्स्नु:
इति ग्स्नु: । विष्णु: = व्यापकशील: । अभी: = निर्भय: , रभी = रभोऽस्यास्तीति, रभी = भक्तसंरक्षणे, रभसवानित्यर्थ:
। गजेन्द्ररक्षणप्रसस्तवेगयुक्त इति यावत् । रभिरभि: = रभिनीवेगयुक्ता रा = गति: यस्य
स:= रभिर: जववद्गमन इत्यर्थ: । रभिर: भि: = पक्षी यस्य स:= रभिरभि: मनोजववद्गरुडवाहन
इति यावत् । रा स्त्रियां हेम्नि शालायामाशंसायां गतावपि – नानार्थे
। भि: स्त्री भीत्यां खगे पुंसि इति च । आभीरभीभूरभि: - आभीराणां गोपालानां भीभू:
= भयस्थानभूमिरिति यावत्। र: = पावक:, तस्य भि:
= भयं यस्मात् स: - गोपबालकभयङ्करदवानलकबलनकर इत्यर्थ: । र: पुमान् पावके कामे इति
नाना ।
*****
No comments:
Post a Comment