वेदस्वरूपविमर्शः
@डा.
रामचन्द्रुल बालाजी
सहायकाचार्यः,
शिक्षाशास्त्रविभागः
सनातनधर्मप्रकाशकाश्चतुर्विधपुरूषर्थसाधकस्मृतिशास्त्रितिहासपुराणादीनां मूलभूताः
विश्वविख्याताः चत्वारः ऋग्यजुःसामाथर्वाभिधेयाः वेदाः अद्यापि विश्वाकाशमण्डले भास्कर
इव प्रकाशमानाश्चोपलभन्त इति को न विजानाति ।
प्रत्यक्षादिप्रमाणेषु
चूडामणिकल्पोऽयं वेदः प्रमाणमित्यभ्युपगऽछन्ति खलु आस्तिकाः । तथापि विमतयः केचन कुठाराघतं
कुर्वन्ति तत्रेति,अन्धो न पस्यति चेत् न स्थाणोरपराधः ।
वेदस्य श्रुतिः,
त्रयी, आम्नायः इत्यादिपर्यायशब्दाः
विद्यन्ते । कोऽयं वेदो नाम, किं च तल्लक्षणम्, केवास्य विषयप्रयोजनसम्बन्धाधिकारिणः
कथं वा तस्य प्रामाण्यम् ? इति सामान्यजनजिज्ञासा स्वाभाविकी । तत केचन
1)
अपौरूषेयं वाक्यं वेदः,
2)
अपूर्वार्थ प्रविपादकत्वे सति नित्यसर्वज्ञप्रणीतवाक्यम्,
3)
लौकिकवाक्यभिन्नवाक्यम्,
4)
धर्मब्रह्मप्रतिपादकं शस्त्रम्,
5)
ब्रह्ममुखनिर्गत धर्मज्ञापकं शास्त्रम्,
6)
सम्प्रदायानुसारेण स्वरादि विशिष्टा या वर्णानुपूर्वी
परिपाटी सः,
7)
इष्टप्राप्त्यनिष्टपरिहारयोरलौकिकमुपायं यो ग्रन्थो
वेदयति सः,
8)
शब्दः तदुपजीविप्रमाणातिरिक्तप्रमाणजन्यप्रमित्यविषयार्थकत्केसति
शब्दजन्यवाक्यार्थज्ञानजन्यप्रमाण्शब्दः ।
9)
विदिताखिलशावस्त्रार्थसर्वधर्मनिरूपणात् दर्शनानां प्रमाणत्वाद्वेद
इत्यभिधीयते ।
10)
विद्यन्ते, ज्ञायन्ते, लभन्ते वा एभिर्धर्मादि पुरूषार्था
इति वेदः इत्यादि प्रकारेण विविधनिगमागम -तत्त्वविशारदविशदीकृत व्याव्यानमणिरश्मयश्च
प्रकाशन्ते ।
तैत्तिरीयसायणभाष्यभूमिकायां । “इष्टप्राप्त्यनिष्टपरिहारयोरलौकिकमुपायं यो ग्रन्थो वेदयति स वेदः” इति निर्दुष्टं वेदलक्षणं कथितं वर्तते । अत्र लक्षणस्थालौकिक पदेन प्रत्यक्षानुमाने व्यावर्त्येते । किं वास्यप्रयोजनमित्यत्र-
तदुक्तम्-
प्रत्यक्षेणानुमित्या वा यस्तूपायो न बुध्यते ।
एतं विदन्ति वेदेन तस्माद्वेदस्य वेदता । (वे.भा.भूः)
स एवोपायो वेदस्य विषयः
। तद्बोध एव प्रयोजनम् । तद्बोधार्थी च अधिकारी । तेन सह उपकार्योपकारकभावः सम्बन्धः
।
किं तस्यस्वरूपमित्यत्र
“मन्त्रब्राह्मणसमष्टिर्वेदः” इत्युक्तम् । तथाचापस्तम्बः स्मरति “मन्त्रब्राह्मणयोः”
वेदनामधेयम् इति । वेदैकदेशयोर्मन्त्रब्राह्मणयोः पृथकस्वरूपं जैमिनिर्न्यायेन निर्णीतवान्
। वेदप्रयुक्तमन्त्रशब्दस्य लक्षणं किमिति विचारे सति श्री खण्डदेवः स्वकीयभाट्टदीपिकासंहितायाम्
“तच्चोदकेषुमन्त्राख्या” इत्यस्मिन् मन्त्रनिर्वचनाधिकरणे “यत्राभियुक्तानां मन्त्रपदवाच्यत्वप्रकारिका
उपस्थितिर्विषयता सम्बन्धेम स मन्त्रः इति व्याख्यानमकरोत् । अत्र वाच्यतावच्छेदकं
च मन्त्रत्वमधखण्डोपाधि वेदत्ववत् । मन्त्रस्वरूपनिणीयं द्वितियाध्यस्य प्रथमपादे सप्तमाधिकरणे
न्यायविस्तारकारः इत्थमुदाजहार-
“अहेः बुध्निय मन्त्रं
मे गोपाय इति मन्त्रस्य लक्षणम्, इत्याद्यारभ्य “विहितार्थाभिधायको मन्त्रः”, एवं
“मननहेतुर्मन्त्रः”, “असिपदान्तो मन्त्रः” “उत्तमपुरुषान्तोमन्त्रः” इत्यदिकथितानां
लक्षणानां परस्परदोषमुद्भाव्य याज्ञिकसमाख्यानस्य निर्दोषलक्षणत्वेन प्रतिपादितम्
। तच्चसमाख्यानमनुष्ठाननेस्मारकादीनां मन्त्रत्वं गमयति । एवमेव वेदे केषुचिदभिधायकेषु
वाक्येषु मन्त्र इति समाख्या सम्प्रदायविद्भिर्व्यवह्रियते इति सायणाचार्यः वदति ।
ब्राह्मणो नाम कः इत्यत्र निर्वक्ति सूत्रकारः “शेषे ब्राहमणशब्दः” इत्यस्मिन् ब्राह्मणनिर्वचनाधिकरणे
नाम “मन्त्रातिरिक्त वेदत्वमेव ब्राह्मणत्वम् इति । शुक्रनीतावपि मन्त्रब्राह्मणयोलक्षणविचारः
सुष्ठु कृतः ट्टश्यते । तथाहि “जपहोमार्चनं यस्य देवताप्रीनिदं भवेत् । उच्चारान्मन्त्रसंज्ञं
तद्विनियोगि च ब्राह्मणम्” । इति कथितं वर्तते ।
नाम देवताप्रीत्यै जपहोमदेवपूजनादिषु उच्चार्यमाणः
वेदभागः मन्त्रः इत्यभिधीयते । एवं विनियोग (प्रयोगविधौ) प्रयुक्तवेदभागः ब्राह्मणशब्देन
व्यवह्रियते ।
मन्त्रब्राह्मणनिर्वचनानन्तरं मन्त्रत्वार्दो
व्यापकधर्मे निरूपिते तत्प्रसङ्गादेव तदवान्तरधर्मः ऋक्त्वादिः इति ऋगादीनां लक्षणानि
निरूप्यन्ते सूत्रत्रये जैमिनिमुनिना । तथाहि “तेषामृग्यत्रार्थवशेन पादव्यवस्था”
(जैः यू 2.1.35)
नाम पादव्यवस्थावन्मन्त्रत्वं ऋकत्वम् इति । “गीतिषु सामाख्या” (जै.सू.2.1.36) मन्त्रत्वसमानाधिकरण गीतित्वं
सामत्वम् इति सामवेदतलक्षणम् । “शेषे यजुश्शब्द” (जै.सू 2.1.37) शेषे ऋक्सामभिन्ने मन्त्रजाते
यजुश्शब्दः यजुःपदं व्यवह्रियते ।
एवं शुक्राचार्येणापि
शुक्रनीतौ ऋग्वेदादीनां लक्षणानि प्रतिपादितानि वर्तन्ते । तथाहि “ऋग्रूपा यत्र ये
मन्त्राः पादशोऽर्धर्चशोऽपि वा। येषां होत्रं स ऋग्भागः समाख्यानं च यब वा । (शु.नीः4-32) इति ऋग्वेदस्य,
“प्रश्लिष्टपठिता मन्त्रा वृत्तगीतिविवर्जिताः ।
आध्वर्यवं यत्र कर्म त्रिगुणं यत्र पाठनम् ।”
मन्त्रब्राह्मणायोरेव
यजुर्वेदः स उच्यते । इति यजुर्वेदस्य, “उदगीथं यस्य शस्त्रादेर्यज्ञे तत्सामर संज्ञकम्”
इति सामवेदस्य ।
“अथर्वाङ्गीरसो नाम ह्यपास्योपसनात्मकः”
इति अथर्ववेदस्य च लक्षणानि उक्तानि वर्तन्ति ।
वेदस्य प्रामाण्यविचारः –
वेदस्य
प्रामाण्यं तु बोधकत्वात्
स्वतएव सिद्धम् । पौरूषेयवाक्यं तु बोधकमपि सत् पुरूषगतभ्रान्तिमूलत्वसम्भावनया तत्परिहाराय मूलप्रमाणमपेक्षते न तु वेदः । तस्यनित्यत्वेन
वकतृदोषशाङ्कानुदयात् । एतदेव जैमिनिमुनिना सूत्रितम् -
“तत्प्रमाणं बादरायणसथानपेक्षितत्वात्” इति । अतः श्रुतिस्मृतिभ्यां नित्यत्वावगमात्
वेदस्यापौरुषेयत्वं तस्मात् प्रामाण्यं, नित्यत्वञ्च । सामन्यव्यवहरेऽपि शब्दस्यातीवं
प्राधान्यं दृश्यते । परन्त् जगत्स्वभावस्तु विचित्रः –“असत्यंवद, अधर्मं चर
मद्यपानं कुर” इत्याद्युपदेष्टारः कसिन्नपि धर्मे, वर्गे सम्प्रदाये वा न सन्त्येव
– सत्यं वद मद्यपानं न न
कर्तव्यमित्याद्युपदेशका एव । तत्र यदि वेदोऽस्मान् सत्यं वदेत्यादि वाक्यैः तथोत्तमाचरणं
शिक्षयति - इति ब्रूमश्चेत् आधुनिकः जनः कुप्यति,
वेदः कः ? काल्पनिकः सः साम्प्रदायिकः इत्यादि प्रलपति किन्तु कर्तव्याकर्तव्ययोग्यायोग्प
धर्मादि कर्मबोधकोऽयं वेद इति नाधिगच्छति लोकः । यदि माणिक्यं न परिचिनोति लोकस्तर्हि
कस्यदोषः ?
अन्यच्च नेत्रगम्यविषयैव सत्यः तस्यैवास्तिता, नेत्रागोचरविषयस्तु नास्त्येवेति
केषाञ्चन विचारः । अस्माभिः प्रतिदिनं देशविदेशेषु खगोले वा सम्भूतानां वृत्तान्तानाम्
ज्ञानं प्रसारसाधनानां द्वारा प्राप्यते, तज्ज्ञानं नहि शब्दप्रमणमन्तरा विश्वसितुं
शक्यते । तत्र प्रत्यक्षानुमानादि प्रमाणाभावात् । यदा मनुष्यो व्याधिग्रस्तो भवति
तदा तन्निवारणार्थं तस्यपराधीनतामन्तरा गत्यन्तरं नास्ति अत एव जाड्यमप्रतिपत्रिः
स्यात्सर्वकार्येषु ---पारवश्च “मेतैर्जाङ्गे निरूप्यते“ इति भावप्रकाशनोक्तरीत्या
परवशतारूपं जाड्यं स्वीकर्तव्यं भवति । रोगनिवारणार्थं शब्दप्रामाण्यं सवैरपि उररीक्रियते
। तस्मादेव “मन्त्रायुर्वेदप्रामाण्यवच्च तत्प्रामाण्यमाप्तप्रामाण्यात्” इति गौतमसूत्रं
“त्रैविद्य वृद्धानां वेदाः प्रमाणमिति निष्ण” आपस्तम्बसूत्रम् ।
अपि च कामन्दकीयनीतिसारे “धर्मं पुरस्कृत्य यतेतार्थाय भूपतिः” “धर्मेण वर्धते
राज्यं तस्य स्वादुफलं (श्रियः)” इत्यादि वचनप्रामाण्यानुरोधेन धर्मादीनां ज्ञानमावश्यकं
राज्ञे । अयं धर्मः, अयञ्चाधर्म इत्यादि सत्कर्म दुष्कर्मादि बुद्धिस्तु वेदाधीना भवति
। धर्माधर्मविज्ञाने सत्येव राजाभूपतित्वमविन्दति । अन्यथा तद्विज्ञन परिहीना नेतारः
लोककत्न्याणशब्दजालेन जनानाच्छादद्यान्घकारकूपे प्रक्षिपन्तीति प्रतिक्षणं तत्फलमनुभवामो
वयम् । परिपालनं तु धर्मादि ज्ञानमन्तरा नोपपद्यते, धर्मादि ज्ञानहेतुभूतोऽयं वैदः
किल जगत्परीपालन जीवातुः” अत एव तत्परिपालनोपयुक्त वेदः प्रमाणमिति सत्यमङ्गीकर्तव्यम्
।
एवम् “आन्वीक्षकी त्रयी वार्ता दण्डनीतिश्च शाश्वती । विद्दाश्चतस्रः एवैता
लोकसंस्थिति हेतवः” इत्यत्र त्रयी शब्दस्य व्याख्याने ऋकयजुःसामेत्येव नामानस्त्रयो
वेदाः त्रयी स्मृतामता-धर्मा धर्मवेदनात् वेदा इति । उपनिषदपि “धर्मो विश्वस्य जगतः
प्रतिष्ठा लोके धर्मिष्ठं प्रजा उपसर्पन्ति” इति । “लोकस्य सम्यक् स्थितिः तस्यै कारणभूतानां
त्रय्यादीनां विधानामधिगमाय विद्यावृद्धगुरुं सेवेत्” इत्युक्तम् । गुरूस्तु विद्याधिगमाय
सेव्यते । सुनिपुणं सुगुरूमुपसेव्य नृपपदाय शमाय च क्षमः” इत्वञ्च राष्ट्रेयंस्थिति-----हेतुभूतेषु
अन्यतमा त्रयी, त्रयीज्ञानेन विना लोकसंस्थितिर्न सम्भवति, इति स्पष्टम् । तर्हि लोकसंस्थितिकारणत्वाच्च
वेदाः प्रामाणमिति सुतरानधिगन्तव्यं खलु ।
याज्ञवल्क्यः “व्यवहारान्नृप पश्येत् ----धर्मशास्त्रानुरोधेन क्रोधलोभविवर्जितः”
सभ्यै परिवृतोऽन्वहं राजा व्यवहारान् पश्येत् इत्यत्र स्भ्याः के ? इति चेत् “श्रुताध्ययनसम्पन्नाः
धर्मज्ञा” इत्याद्युक्तम् ।
मीमांसाव्याकरणादिश्रवणेन, अध्ययनेन वेदाध्ययनेन सम्पन्नाः धर्मज्ञाः सत्यवादिनः
सभ्याः भवन्ति । निस्सन्देहेन बहुविधलाभप्रयोजकवेदाः प्रमाणमिति सर्वथाङ्गीकरणीयमिति
वस्तुस्थितिः । किन्तु अर्थ एव प्रधानमिति विचार्यमाणामनुकूलोद्भवा अनुपग्रस्तोऽयं
वेद इति तमाक्षिपन्तीति विषादेष विद्धंमनः ।
प्रयोजनमस्तिनवा वेदस्येति विचारात्पूर्वं लोके किमपि वस्तु तथास्ति फलदायकमिति
?
लक्षाधिकधनव्ययसाध्यं M.B.B.S, B.E, CA इत्यादि धनसम्पादनोपायभूतामुपाधिं लब्ध्वापि
धनमार्जयन्तिवा यथेष्टम् सर्वे । तथाविधोपाधिविहीनाः केचन अक्षारज्ञानशून्याश्च इहवा
दुबैप्रभृति देशगमनेनवा अल्पेकालेएव लक्षाधीशाः कोट्यधीशाः किं न भवन्ति । अत्रोपाधेः
किं प्रयोजनम् ? मारूतिवाहनस्य, वर्णयुक्तदूरदर्शिन्यश्च प्रयोजनं किमस्ति दरद्राय
? अतः कस्मैचित् प्रयोजनं भवति कस्मैचित् न । “अर्थोऽस्तु नः केवलम्” इतिरीत्या सत्यसत्यधर्माधर्मकर्तष्ययोग्यायोग्यन्यायान्यायादिविवेकविरहमणिविशोभिताः
जनाः केवलमर्थार्जनतत्परा अनुसरंतं व्याघ्रं पश्यन् मृगो यथा तथा कालेऽस्मिन् महाविपिने
प्रधावन्ति । एवं धावमानेभ्यो मानवेभ्यो वेदस्य प्रयोजनमीषदपि नास्त्येव । तथ्यमिदं
“तानि त्वयोपास्यानि” ‘नो इत्राणि ‘सत्यंवद’ ’धर्मंचर’ इत्यादि सत्यधर्मकर्तव्यादि
विवेकं शिक्षयति वेदः । ‘परस्मिन् बन्धुर्क्गे वा’ “मित्रे द्वेष्ये रिपौ तथा आत्मवद्वर्तितव्यम्” “अर्थमनर्थं भावय नित्यम्”
इत्यादीनि श्रुतिसारभूतानि वचांसि ज्ञापयन्ति सर्वथा सर्वदा संदेहसंकोचपक्षपातादिकं
विना वेदस्य प्रयोजनमस्तीति अभ्युपगन्तव्यमेव ।
No comments:
Post a Comment