आनन्दमयाधिकरणम्
@पुष्पा हेगडे
शोधच्छात्रा
शरीरकमीमांसायां चतुर्लक्षण्यां प्रथमस्य सम्न्वयाध्यायस्य प्रथमपादस्य षष्ठमधिकरणं
भवति आनन्दमयाधिकरणम् । पूर्वं तावत् साधनचतुष्टयसम्पन्नैः मुमुक्षुभिः अपरोक्षब्रह्मसाक्षात्काराय
“अथातो ब्रह्मजिज्ञासा” इत्यन्तेन सूत्रेण वेदान्तवाक्यविचारः कर्त्तव्यः, इति प्रतिज्ञाय
जगज्जन्मस्थितिलयकारणं अभिन्ननिमित्तोपादानकारणं
ब्रह्मलक्षणम् अभिदाय, तत्रैव वेदान्तानां समेषां समन्वयः प्रदर्शितः । ईक्षापूर्वककर्त्तृत्वमचेतने
प्रधाने न सम्भवति इति सांख्यादिमतं निराकृतम् । गतिसामान्यदि सूत्रेण वेदान्तानां
सर्वेषां चेतनकारणावादे तात्पर्यमिति निरधारि ।
अत्रेदानीम् आनन्दमयाधिकरणे – “तस्माद्वा एतस्माद्विज्ञानमयात्
अन्योन्तर आत्मा आनन्दमयः । तस्य प्रियमेव शिरः । मोदो दक्षिणपक्षः । प्रमोदो उत्तरपक्षः
। ब्रह्म पुच्छं प्रतिष्ठा” इति तैत्तरीयोपनिषद्गतं वाक्यजातं विषयः ।
तत्र
आनन्दमयशेषतया ब्रह्मप्रतिपादनपरम्,उत जीवप्रतिपादनपरम् इति संशयः ।
पूर्वाधिकरणेन
सह प्रत्युदाहरण सङ्गतिः ।
आनन्दमयः जीवात्मा अन्नमयदिषु इव आनन्दमयोऽपि
अन्योन्तर आत्मा आनन्दमयः इति श्रूयते ब्रह्म तु नित्यानन्दस्वरूपं भवति न तु आनन्दविकारः
। अत्र तु अन्नमयादीनाम् इव विकारार्थकः मयट् प्रत्ययः युक्तः तत् प्रवाहपतितत्वात्
। अतः मुख्यः आत्मा आनन्दमयः तस्य प्रियमेव शिरः मोदो दक्षिणपक्षः इति सावयवत्वं श्रूयते।
’यत् सावयवं तदनित्यम्’ इति युक्त्या तस्य अनित्यत्वप्रसङ्गः
दुर्वारः । “न वै सशरीरस्य सतः” श्रुत्या सुखदुखादिमत्वमपि अपरिहार्यम् । अतः सः संसारी
भवितुमर्हति । विज्ञानमयशरीरे समुत्पन्नत्वात् शारीरत्वमपि विवक्षितम् । तस्मात् आनन्दमयः
न परमात्मा इति पूर्वपक्षः ।
अत्रायं सिद्धान्तः –“आनन्दमयोऽभ्यासात्“ आनन्दमयः
परमात्मा भवितुमर्हति ‘अभ्यासात्’ अभ्यासो नाम ‘असकृत् आवृत्तिः’ तस्मिन् प्रकरणे आनन्दस्य
पुनः पुनः श्रवणं श्रूयते “रसो वै सः”, “रसं लब्ध्वा आनन्दी भवति “यदा एष आनन्दो न स्यात्
सैषानन्दस्य मीमांसा” “आनन्दमयमात्मानमुपसंक्रमति” भृगुबल्यां “आनन्दो ब्रह्मेति
व्यजानात्” “विज्ञानमानन्दं ब्रह्म” इति बृहदारण्यके । आनन्दमयस्य ब्रह्मत्वात् प्रातिपदिकश्रवणमात्रेष्वपि
सशरीरस्य सतः श्रुत्या सुषदुःखादिमत्वमपि अपरिहार्यम् । अतः सः संसारीभवितुमहीति ।
विज्ञानमय ‘सत्यभामा भामा इव’ ‘नामैकदेशे नामग्रहणम्’ इति न्यायेन आनन्देनापि
आनन्दमयो विवक्षितः । तस्मात् आनन्दमयः परमात्मा । “ब्रह्मविदाप्नोति परम्” इति प्रतिज्ञाय “सत्यं ज्ञानमनन्तं ब्रह्म”
इति लक्षणमुक्त्वा गुहायां विहितस्य ब्रह्मणः प्रतिपादयिषया अन्नमयादयः विवक्षितः ।
तत्र अन्नमयादिषु अन्योन्तर आत्मा, अन्योन्तर आत्मा इति श्रवणात् तेषां अब्रह्मत्वम्
आनन्दमयात् अन्यस्य अनिर्देशात् तस्यैव मुख्यत्वम् । तस्मात् पूर्वेषु विकारार्थे आनन्दमये
प्राचुर्यार्थे मयट् प्रत्ययः युक्तः । प्रियशिरत्वादि
अवयवनिर्देशः पूर्वकोशादिकल्पितः नतु परमार्थतः, मुषानिषक्तघृतताम्रादिप्रतिमावत् ।
तस्मात् न सावयवः आनन्दमयः वस्तुतः उत्तरत्र आनन्दमीमांसायां निरतिशयानन्दस्वरूपं ब्रह्मणः
वर्णितम् । अतश्च प्राचुर्यार्थकः मयट् प्रत्ययः ‘तत् प्रकृतवचने मयट्’ इति पाणिनिसूत्रात् अन्नमयो
यज्ञ इत्यादि दृष्टान्तबलात् अत्र प्राचुर्यार्थे मयट् न तु विकारार्थे । “रसो वै सः” “रसं लब्ध्वा आनन्दीभवति”
इति आनन्दहेतुत्वप्रतिपादनात् ‘यः अन्यान् धनिकान् करोति
सः प्रचुरधनः’ इति लोकन्यायेन मयट् प्रत्ययः
प्राचुर्यार्थे इति सिद्धम् ।
मन्त्रब्राह्मणयोः सामञ्जस्योपपादनाय अन्नमयादिषु
अन्ते अन्नमयस्य श्रवणात् ततोन्यस्य अश्रवणात् मान्त्रवर्णिकं ब्रह्म आनन्दमय एव ।
तस्मात् प्राचुर्यार्थे मयट् अन्यथा ‘प्रकृतहानि अप्रकृतप्रक्रियाप्रसङ्गः’ । “सोकामयत” “स एव बहुस्यां
प्रजायेय” इति कामनापूर्वक सर्वजगत् सृष्टिः आनन्दमयाधिकरणे श्रूयते स च अल्पज्ञे जीवे
नोपपद्यते ।
षोडशाध्याय्यम् – असन्नेव इत्यस्मिन् निगमनश्लोके
असत् ब्रह्म इति, अस्ति ब्रह्म इति च केवलस्य ब्रह्मण एव अभ्यस्यमानत्वात् ब्रह्मपुच्छमित्यत्र
स्वप्रधानत्वेनैव ब्रह्म उच्यत इति ।
“नेतरोनुपपत्तेः” – नेतरः ईश्वरात् अन्यो
जीवः न आनन्दमयः जगत् अनुपपत्तेः “रसं लब्ध्वा आनन्दयति” इति लब्ध लब्धव्य आनन्दमयः
परमात्मा लब्धा तु जीवात्मा इति व्यपदेशात्
न आनन्दमयः जीवः । सोकामयत इति कामना इच्छापूर्वकसृष्ठुत्वव्यपदेशात् अचेतनं प्रधानमा
नन्दमयः इति न भ्रमितव्यम् । ईक्षत्यधिकरणे निराकृतमपि गतिसामान्यत्वं प्रदर्शनाय
“सोकामयत” श्रुत्यनुसारेण पुनर्निराकृतम् । यद्येवेष एतस्मिन् अनिलये अभयं प्रतिष्ठाम्
इति यः ब्रह्मणि तादात्म्यं अनुभवति तस्य मोक्षो भवति । किञ्चिदपि भेदं यः अनुभवति
तस्य संसारः इति श्रुतिः वदति । अतः तस्मिन् आनन्दमये जीवस्य तद्योगं तादात्म्यं अनुशास्ति तथा च सूत्रं “अस्मिन्नस्य
च तद्योगं शास्ति” तस्मात् आनन्दमयः परमात्मा एव ।
No comments:
Post a Comment