Wednesday, September 28, 2016

हैन्दवीयजयघोषः

हैन्दवीयजयघोषः
(अनूदितं गानम्)
@उमामहेश्वरः एन्
शोधच्छात्रः
हैन्दवीयजयघोषवादनैः प्रेरयाम नवभारतम्
ग्रामनगरगिरिकाननादिषु सात्त्विककिरणं वितराम ।
पुनरपि दिक्षु प्रसरतु नियतं मोक्षचिन्तनं सर्वत्र
पलायनं नो नानुमन्यते पार्थसारथेर्दिव्यभुवि ॥

भाषा भिन्ना वेषो भिन्नस्तथापि जीवनमेकरसम्
सहस्रवत्सरसमरविजेत्री पावनहिन्दूजीवकला ।
सङ्घर्षे समराङ्गणभूमौ दरीदृश्यते चैतन्यम्
ग्रामे ग्रामे प्रतिनवचित्तं सन्देशोऽयं हिन्दूनाम् ॥

उच्चनीचजनजातिमतानां भेदभावना दूरमगात्
स्नेहगुणानां पवित्रगङ्गा सिञ्चति जनहृदि भावभुवम् ।
दशप्रहरिणी दुर्गा सेयं भारतमाता वीरसुता
क्षात्रतेजसा निहत्य दुष्टान् निर्भयलोकं सृष्टवती ॥

मुक्तिपथेष्विह मार्गदर्शनं कुरुते खलु सुरभारती
विश्वस्तवकल्याणचोदनं तनुते भारतभूरेषा ।
तत्समलक्ष्ये समर्पयतु ननु जनगतजीवितकाललवं
जागर्याख्ये पवित्रकार्ये सहकुरुतादिह सर्वगृहम् ॥

ಹಿಂದುತ್ವದ ಜಯಘೋಷವ ಮೊಳಗಿಸಿ ನಾಡನು ಜಾಗೃತಗೊಳಿಸೋಣ ಎನ್ನುವ ದೇಶಭಕ್ತಿ ಗೀತೆಯ ಅನುವಾದ.

*****

No comments:

Post a Comment