Sunday, September 11, 2016

वेदान्त-विभागः

भाषणानां रचयिता तथा सङ्गृहीता  - रविशङ्करभट्टः
                                    अचार्य II   
  प्रज्ञानं ब्रह्म
{पीठिका} -
एतदनुसारं कर्तृत्वादिसंसारधर्मवत्तया प्रतीयमानं जीवचैतन्यमपि तदसंसारिब्रह्मचैतन्यमेवेति निर्भेदात्मतत्त्वबोधकानि वक्यानि महावाक्यानि इति वेदान्तशास्त्रे प्रथन्ते । यद्यपि महावक्यानि प्रत्युपनिषदं श्रूयन्ते तथापि वेदानां चतुष्ट्वात् चतुर्भ्यः वेदेभ्यः प्रधानभूतम् एकैकं वाक्यं समादाय चत्वारि महावक्यानि इति औपनिषदाः प्राहुः । तत्र “प्रज्ञानं ब्रह्म” इति वाक्यम् ऋग्वेदीय ऐतरेयोपनिषदि श्रूयते । तत्र हि एवं प्रकरणमारब्धम् – “आत्मा वा इदमेक एवाग्र असीन्नान्यत्किञ्चनमिषत्” इति सजातीयविजातीयस्वगतभॆदशून्यं ब्रह्म उपक्रान्तम् । अस्यैव ब्रह्मणः अध्यारोपापवादाभ्यां बोधनाय “स इमान् लोकानसृजत” इत्यादिना लोकानारभ्य पुरुषपर्यन्तं जगत्सृष्टिर्वर्णिता । तस्यैव जगत्स्रष्टुः मूर्ध्दद्वारा शरीरप्रवेशश्च प्रपञ्चितः । अस्य अध्यारोपस्य अपवादार्थत्वेन “को॓ऽयमात्मेति वयमुपास्महे” इत्यात्मतत्त्वस्य मीमांसा विदुषां समूहे प्रवृत्ता । ततः “येन वा पश्यति येन वा श्रुणोति” इत्यादिना दर्शनादिक्रियानिर्वर्तकत्वॆन अस्मिन् शरीरे स्थितं चैतन्यमेव आत्मा, स एव लोकप्रसिद्धः अहमनुभवगोचरो जीवः । एतज्जीवरूपेण स्थितं चैतन्यं ब्रह्मैव, अविकृतस्य ब्रह्मण एव शरीरे प्रविष्टत्वाद् इत्ययमर्थः उपदिश्यते  “प्रज्ञानं ब्रह्म” इति वाक्येन । प्रज्ञानशब्दार्थः जीवः । वस्तुतः ज्ञानप्रज्ञानविज्ञानादिशब्दाः चैतन्यवाचकाः । जीवस्य अन्तःकरणविशिष्टचैतन्यरूपत्वात् प्रज्ञानशब्देन तस्य अभिधानं न विरुध्द्यते । स्वरूपभूतं चैतन्यमेव तत्तदिन्द्रियार्थसन्निकर्षोत्पन्नान्तःकरणवृत्यवच्छिन्नं सत् तत्तद्विषयाकारकं ज्ञानम् इत्युच्यते । अतः सर्वेषु अन्तःकरणवृत्तिरूपज्ञानेषु अनुगतं यच्चैतन्यं तत् सर्वार्थप्रकाशकत्वात् नित्यत्वात् अनुगतत्वाच्च प्रकष्टं ज्ञानं प्रज्ञानम् इत्युच्यते । “आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः” इति श्रुत्यन्तरात् जीवस्य शरीरेन्द्रियादिविशिष्टतया प्रतीयमानत्वेऽपि शरीरादीनां जडत्वेन तत्र सत्तास्फुरणाधायकत्वेन स्थितस्य अधिष्ठानभूतचैतन्यस्य प्रज्ञानशब्देन अभिधानं युक्तमेव । एतावता चैतन्यमव जीवस्य पारमार्थिकं स्वरूपमिति सिद्धम् ।

 बृहि वृद्धौ इत्यस्माद्द्धातोः निष्पन्नः ब्रह्मशब्दः । “एको देवः सर्वभूतेषु गूढः” इति श्रुतेः आब्रह्मस्तम्बपर्यन्तं सर्वेषु यच्चैतन्यं स्थितं तद्ब्रह्मशब्देन अभिधीयते । अत एव ऐतरेयोपनिषदि “एष ब्रह्मैष इन्द्रः” इत्यारभ्य “यत्किञ्चेदं प्राणि जङ्गमञ्च पतत्रि च यच्च स्थावरं सर्वं तत् प्रज्ञानेत्रम्” इत्यर्थः श्रावितः । एकमेव ब्रह्मचैतन्यं सर्वविधकार्याकारेण विवर्तमानं प्रपञ्चस्य आत्मभूतं तत्त्वम् इति हि वेदान्तसिद्धान्तः । “प्रज्ञानं ब्रह्म” इति विशिष्टचैतन्यवाचकयोः पदयॊः सामानाधिकरण्येन तदर्थयोः ऐक्ये वक्तव्यॆ प्रज्ञानशब्दस्य अन्तःकरणविशिष्टचैतन्यवाचकत्वात् ब्रह्मशब्दस्य च जगत्कारणत्वादिविशिष्टचैतन्यवाचकत्वात् विरुद्धविशेषणविशिष्टयोः ऐक्यासम्भवात् उभाभ्यामपि पदाभ्यां निर्विशेषं चैतन्यमात्रं लक्ष्यते । एवं चैतन्यमात्रस्य अत्र वक्यार्थत्वेन पदार्थसंसर्गस्य अविषयत्वात् एतन्निर्विकल्पकज्ञानजनकत्वेन प्रज्ञानं ब्रह्मेत्यादिवाक्यानि अखण्डार्थपराणि भवन्ति । अस्य च ज्ञानस्य वाक्यजन्यत्वेऽपि अपरोक्षचैतन्यवचकत्वेन उत्पन्नं ज्ञानम् अपरोक्षमेव । अनेन साक्षात्काररूपॆण ज्ञानेन सर्वानर्थभूत अज्ञानस्य नाशात् जीवः नित्यसुखस्वरूपब्रह्मरूपेण अवतिष्ठते । वाक्यजन्यज्ञानस्य एवं परमपुरषार्थहेतुभूतत्वात् जीवेश्वरविभागशून्याद्वैततत्त्वबोधकम् इदं वाक्यं महावाक्यमिति लोके प्रथते ।

No comments: