Thursday, September 29, 2016

देवताधिकरणम्

देवताधिकरणम्
@ अभिनन्दन् भट्
               शोधच्छात्र:                                                                                                                                                                                                                    
            वेदान्तादिसर्वाण्यपि शास्त्राणि जनानां सन्मार्गदर्शनार्थमेव प्रवृत्तानि । तदनु पूर्वमीमांसाशास्त्रमपि धर्माधर्मविचारद्वारा लोकानां सन्मार्गप्रदर्शनार्थमेव प्रवृत्तम् । इष्टप्राप्त्यनिष्टपरिहारार्थम् अलौकिकमुपायं बोधयत्सु शास्त्रेषु मूर्धन्यं शास्त्रं वेद एव । अत एवोक्तम्, वेदात् परं शास्त्रं नास्ति इति । इष्टप्राप्त्यनिष्टपरिहाराय अस्माभि: वेदोक्तकर्माण्येव आश्रयणीयानि । नानाविधक्लेशपरिहाराय इष्टप्राप्त्यर्थं च वेदेषु उपाया: श्रुता: । परं सर्वेषामपि वेदार्थविचार: कष्टसाध्य एव । अतापि वेदार्थ: विज्ञेय एव । ब्राह्मणेन निष्कारण: षडङ्गो वेदोऽध्येयो ज्ञेयश्च अनधीयाना व्रात्या भवन्ति । स्थाणुरयं भार: किलाभूदधीत्य वेदं न विजानाति योऽ र्थम् । योऽर्थज्ञ: इत्सकलं भद्रमश्नुते स नाकमेति ज्ञानविधूतपाप्मा इत्यादि स्मृतिभि:, स्वाध्यायोऽध्येतव्य: इत्यध्ययनविधिना च वेदाध्ययनमवश्यं कर्तव्यम् , वेदार्थ: विज्ञेय: वेदोक्तकर्माणि अनुष्ठेयानि इति च विज्ञायते । एवं च वेदविहितकर्मण: ज्ञानं वेदवाक्यार्थज्ञानाधीनम् । वेदो हि मन्त्रब्राह्मणोभयात्मक: । स चैकोऽपि प्रतिपाद्यर्थभेदात् कर्मोपासनज्ञानकाण्डत्वेन त्रिधा विभक्त: । तत्र परस्पर विरोधविपरीतभावनादिना वेदवाक्यार्थविचिकित्सायां प्रसक्तायां तन्निराकरणेन वास्तविकमर्थं बोधयितुं मीमांसाप्रवृत्तिर्जाता ।             
                 केयं मीमांसा इति जिज्ञासायां मान् धातो: जिज्ञासार्थकात् निष्पन्ना विचारमर्थं ब्रूते । तथा च विचारशास्त्रं मीमांसाशब्दार्थ: इति फलति । चतुर्दशसु विद्यास्थानेषु अन्तर्गतमिदं मीमांसाशास्त्रं पूर्वोत्तरभेदेन द्विविधं प्रसिद्धम् । वेदानां पूर्वभागनिर्णयाय पूर्वमीमांसाशास्त्रं प्रवृत्तम् । भगवान् जैमिनि: न्यायान् युक्तींश्च परिभाव्य सर्वांश्च मन्त्रब्राह्मणग्रन्थान् विमर्शपूर्वकमालोड्य श्रौतभागनिर्वचनोपयोगिन: न्यायान् एकत्र निबध्य द्वादशाध्यायात्मकं मीमांसाशास्त्रं प्रणीतवान् । जैमिनीयसूत्राणि निगूढार्थानि शब्दत: सङ्क्षिप्तानि अर्थत: गभीराणि न बुद्धिमुपारोहन्तीति करुणया भाष्यं प्रणिनाय शबरस्वामी । शबरस्वामिनामनन्तरं भाष्यविवेचनापराणां वार्तिकटीकाग्रन्थानां द्वे परम्परे भवत: । एका भाट्टपरम्परा द्वितीया प्राभाकरपरम्परा । अस्मिन् शास्त्रे वेदवाक्यानां विचार: कृत: इति हेतो: वाक्यशास्त्रमिति कथ्यते । वेदवाक्यविचारमूलकत्वेन को धर्म: कोऽधर्म: इति विचार: कृत: । धर्मं विज्ञाय धर्म: अनुष्ठेय: अधर्मं विज्ञाय अधर्म: त्यक्तव्य: । एवं कृते क्लेशपरिहारो भूत्वा सुखप्राप्तिर्भवत्येव इति शास्त्रसिद्धान्त: । शास्त्रेऽस्मिन् द्वादश अध्याया: वर्तन्ते । प्रथमाध्याय: प्रमाणाध्याय: । आदौ अथाऽतो धर्मजिज्ञासा इति सूत्रेण धर्मजिज्ञासा कर्तव्या इत्युक्तम् । चोदना लक्षणोऽर्थो धर्म: इति सूत्रेण धर्मलक्षणमुक्त्वा चोदनैव धर्मे प्रमाणमिति उपपादितम् । तत: प्रमाणादीनि निरूपितानि । द्वितीयाध्याये कर्मभेद:, तृतीये कर्मणामङ्गाङ्गित्वं, चतुर्थे क्रत्वर्थपुरुषार्थविचार:, पञ्चमे क्रम: षष्ठे अधिकार: सप्तमे सामान्यातिदेश: अष्टमे विशेषातिदेश:, नवमे ऊह:, दशमे बाध:, एकादशे तन्त्रं, द्वादशे प्रसङ्गनिरूपणं कृतम् ।                                     
              प्रस्तुते देवताविचार: निरूप्यते । नवमेऽध्याये देवताप्रसाद एव प्रयोजकोऽस्तु इत्याशङ्का प्रसङ्गात् निराक्रियते । अर्थात् यदाग्नेयोऽष्टाकपाल इत्यादि वाक्यविहिता: आग्नेयादि यागा: देवताप्रसादद्वारा स्वर्गादिफलार्था: उत अपूर्वद्वारा स्वर्गादिफलार्था: इति विचार्यते ।  देवताप्रसादेनैव स्वर्गादिफलप्राप्ति: । देवताया: यागे सम्प्रदानत्वेन प्राधान्यात् यागस्य च यजदेवपूजासङ्गतिकरणदानेषु इति शाब्दिकस्मरणात् यागस्य देवपूजारूपतया पूजायाश्च विग्रहाद्यपेक्षितत्वाच्च ते च अर्थवादै: कल्प्यन्ते । स यथा सहस्राक्षो गोत्रभिद्वज्रबाहुरस्मासु देवो द्रविणं दधातु इत्यनेन विग्रह:, अग्निरिदं हविरजुषत इत्यनेन हवि:स्वीकार:, अद्धीन्द्र पिब च प्रस्थितस्य इत्यनेन हविर्भोजनम्, तृप्त एवैनमिन्द्र: प्रजया पशुभिस्तर्पयतीत्यनेन तृप्ति: तया च तृप्त्यैव प्रसादश्च कल्प्यते । यागेन तोषिता देवता एव प्रसादद्वारा अभीष्टं फलं ददाति । इत्थं च याग: देवताप्रसादार्थ: देवताप्रसादेन स्वर्गादिप्राप्ति: न त्वपूर्वेण इति प्राप्ते -   देवताविग्रहादिपञ्चकं निराकृत्य अपूर्वद्वारेणैव स्वर्गादिफलप्राप्ति: इति सिद्धान्तयन्ति । तथा हि यदि इच्छारूप: तदा तस्य इच्छात्वेन तत्फलं प्रति कारणत्वे अतिप्रसङ्गापत्ते: अवश्यं आग्नेयादि कर्तु: तत्फलं भवतु इत्येवमाकारेच्छात्वेन तत् वाच्यम् । तथा च कारणतावच्छेदके गौरवम् । दर्शादिजन्यफलभोगे जातेऽपि तत्कर्तृत्वानपायात् अन्यकृतदर्शपूर्णमासजन्यप्रसादात् अन्यश्च फलप्राप्तिश्च । किं च एतादृशप्रसादस्य उत्पत्तिरपि कदा भवतीति वक्तुं न शक्यते । यदि ब्राह्मणतर्पणान्ते तदा यागानन्तरं नष्टत्वादेव उत्पत्यनापत्ति: । तत् यागेभ्योऽपि अवान्तरप्रसादा: उत्पद्यन्ते इति चेत् तदा देवतानाम् अमोघेच्छात्वस्य अर्थवादेषु प्रतिपादनात् दैवात् अग्नीषोमाद्यकरणेऽपि फलप्राप्ति: । तथा च देवताप्रसादस्य  निर्वक्तुमशक्यत्वात् कारणतावच्छेदके गौरवाच्च न देवताप्रसादद्वारा फलप्राप्ति: । किं च निषेध्येषु कर्मसु देवताभावात् देवताप्रसादस्य व्यापारत्वकल्पनं न सम्भवति । तत्र अवश्यमेव अपूर्वस्य द्वारत्वं कल्पनीयं भवति । तद्वत् विधेयेष्वपि कर्मसु अपूर्वस्यैव द्वारत्वोपपत्तौ प्रसादस्य एव उपकल्पनं न युक्तम् । अर्थवादानां स्वार्थे प्रामाण्यं नास्तीति अर्थवादाधिकरणे प्रतिपादितम् । तेषां न स्तुतिलक्षणात: अन्या काचित् लक्षणा । अन्यतात्पर्यकस्य वाक्यस्य अन्यत्र प्रामाण्यकल्पनं न युक्तम् । देवताप्रसादादिप्रतिपादकानाम् अर्थवादानां स्वशक्यार्थे प्रामाण्यं न सम्भवति । अत: तद्वाक्यानुसारेण न देवताविग्रहस्वीकार: । किं तु शब्दमात्रं देवता । अर्थस्तु प्रातिपदिकानुरोधात् चेतनोऽचेतनो वा कश्चित् स्वीक्रियते, न तु विग्रहादिमान् । उपासनादौ परं ध्यानमात्रमाहार्यमिति जैमिनिमतनिष्कर्ष: । अत एवोक्तं पार्थसारथिना - मन्दधियस्तु शब्दालव: तात्पर्यमजानाना: बाह्यं तु नाम देवताफलं प्रयच्छतीति । वस्तुतस्तु कर्मणैव तथा च आग्नेयादियागै: अपूर्वोत्पत्ति: । अपूर्वेण स्वर्गादि फलप्राप्ति: इति सिद्धान्त: । 



आधारग्रन्था:- 
१)शाबरभाष्यम्
२)भाट्टदीपिका


No comments:

Post a Comment