Sunday, September 11, 2016

शृङ्गारसुन्दरभाणस्य परिचयः

शृङ्गारसुन्दरभाणस्य परिचयः
@आचार्या इन्दिरा.पि
साहित्यविभागाध्यक्षा

द्वे वर्त्मनीगिरां देव्याः शास्त्रं च कविकर्म च ।
प्रज्ञोपज्ञं तयोराद्यं प्रतिभोद्‍भवमन्तिमम् ॥
        इत्यादिना दृश्यश्रव्यात्मकस्य काव्यस्य परमोपादेयत्वं सूचितम् । एतादृशस्य काव्यस्य प्रभेदेषु, दृश्यकाव्यं प्रमुखं स्थानमावहति । तच्च दशविधम् । तदुक्तम्
नाटकमथ प्रकरणमङ्को व्यायोग एव च ।
भाणःसमवकारश्च वीथी प्रहसनं डिमः ॥
ईहामृगश्च विज्ञेया दशेमे नाट्यलक्षणे । इति ।
        एतेषु रूपकभेदेषु भाणभेदमवलम्ब्य केरलदेशे समुपलब्धानां रूपकाणामीषत्परिचयपूर्वकं शृङ्गारसुन्दरभाणस्य विशेषतः परिचयदानमेवाऽस्य प्रबन्धस्य विषयः ।
        मलयालभाषाव्यवहर्तॄणामावासभूमिः केरलदेशः भारतदेशस्य दक्षिणपश्चिमस्यां दिशि सह्यपर्वतेनारब्‍समुद्रेण च समलंकृता विलसति । अत्र हि प्राचीनकालादारभ्यैव गैर्वाणीगरिमा प्रसृतप्रवाहा अभूत् । अत्रत्याः पण्डिताः सर्वशास्त्रपारङ्गताः सन्तः संस्कृतसाहित्यस्य विविधासु शाखासु प्राप्तकीर्तयः । परमपूजनीयश्रीशङ्कराचार्यणां जन्मना केरलदेशः सुविदितो जात इति प्रसिद्ध एव । एवमाश्चर्यचूडामणिकर्ता कुलशेखरः पय्यूर्‌भट्‌टनारायणभट्‌टपादादयः केरलदेशं अलंकृतवन्तः । अत्रत्यानां कवीनां प्रोत्साहनाथं सहृदयशिरोमणयः राजानः आसन्नित्यतोऽन्यदेशं न गता इत्यतोऽन्यदेशीयाः कवय इव विख्यातिम् एते न प्राप्तवन्तः
        यद्यपि भाणः रूपकभेदेषुङ्‌गीक्रियते तथापि नाटकादिवदेतस्मिन् कवीनामादरः न समवलोक्यते । अतः भाण संख्यायां न्यूनत्वं दरीदृश्यते । परिचितेष्वपि भाणेषु सहृदयहृदयावर्जकत्वं समेषां नास्ति । भाणस्वभाव एव तत्कारणं भवितुमर्हति । तदुक्तम् भाणः स्याद् धूर्तचरितो.... इत्यादि । शृङ्गाररस्यातिप्रसरत्वे विमुखाः सहृदयाः भाणास्वादनेऽभिरुचिं न प्रकटितवन्त इति केषाञ्चनाभिप्रायः । एवं स्थिते सत्यपि
वररुचिरीश्वरदत्तः श्यामलिकः शूद्रकश्च चत्वारः ।
एते भाणान् बभणुः का कीर्तिः कालिदासस्य ।
इति पद्‌मप्रभृत्तकायां दृष्टेन श्लोकेन भाणानां प्रौढत्वं सुन्दरत्वं च सम्यक्तया व्यक्तीकृतम् ।
        भाणविरचने दक्षिणभारतीयाः विशिष्य केरलदेशीयाः प्रगल्भाः । राजभिः सम्यक् प्रोत्साहिताः कवयः स्वकीयकर्मकौशलेन सभागतनीतिनिर्वहणादिविषयान् हास्यरसपरिवेषं दत्वा सरसया रीत्या भाणमुखेन सहृदयसमक्षमवतारयितुं समर्था एवाभवन् ।
            भाणरचनाकालः द्विधा विभक्तुं शक्यते । चतुर्भाणकालः तदनन्तरकालश्चेति । चतुर्णां भाणानां समाहारः चतुर्भणिः । शृङ्गाररसादीनां सहृदयहृदयाह्लादरीत्या वर्णनं क्रियतेऽत्र । साहित्यकदृष्ट्याऽपि प्रौढत्वमेतेष्वस्ति । वररुचप्रणीता उभयमिसारिका शूद्रकनिर्मिता पद्मप्रभृत्तका, ईश्वरदत्तप्रणीता धूर्तविटसंवादः श्यामलिककृत पादताडितकश्च चतुर्भाणः । श्रीहर्षस्य समये गुप्तकाले वा एते प्रचुरप्रचाराः इति मन्यन्ते ।
वत्सराजस्य कर्पूरचरितं, वामनभट्‌टभाणस्य शृङ्गारभूषणं, वरदाचारर्याभिधानस्यामृताचार्यस्य वसन्ततिलकं, रामभद्रदीक्षितस्य शृङ्गारतिलकं, नल्लभट्‌टस्य शृङ्गारसर्वस्वं, कोटिलिङ्गपुरस्थस्य युवराजस्य रससादनभाणः, रङ्गाचार्यस्य पञ्चबाणविजयं, शङ्करस्य शारदातिलकं, श्रीनिवासाचार्यस्य रसिकराजीवम्, काशीपतिकविराजविरचितं मुकुन्दानन्दम्, अश्वतितिरुनाल् महाराजस्य शृङ्गारसुधाकरभाणः, उदयवर्मत्तम्बुरान महोदयेन विरचितं रसिकभूषणं, ईश्वरशर्मणः शृङ्गारसुन्दरभाणः, रतिकरस्य शृङ्गारमञ्जरी, कोटिलिङ्गपुरीय कोच्चुण्णित्तम्पुरान् महाभागेन विरचितविटराजविजयश्च कतिपये भाणाः । एतेषु भाणेष्वत्यन्तप्राचीनतमं भवति कर्पूरचरितम् । द्वादशशतकस्यान्तिमे तथा त्रयोदशशतकस्याद्ये एव विरचितं भवति तत् ।
भाणलक्षणम् ।
नाट्यशास्त्रे भाणस्वरूपमेवमुक्तम्
आत्मानुभूतशंसी परसंश्रयवर्णनाविशेषस्तु ।
विविधाश्रयो हि भाणो विज्ञेयस्त्वेकहार्यश्च ॥
परवचनमात्मसंरथं प्रतिवचनैरुत्तरोत्तरप्रथितैः ।
आकाशपुरुषकथितैरङ्गविकारैरभिनयैश्चैव ॥
धूर्तविटसम्प्रयोज्यो नानावरथान्तरात्मकश्चैव ।
एकाङ्गो बहुचिष्टः सततं कार्यो बुधैर्भाणः ॥ इति ॥
हास्यरसोचितविटधूर्तानुप्रवेशेन एकेन पात्रेण हरणीयः, सामाजिकहृदयं प्रापयितव्योऽर्थो यत्र स भाणः । भण्यते व्योमोक्त्या नायकेन स्वपरवृत्तं प्रकाश्यते इति भाणः । एक एव निपुणः पण्डितश्च विटः प्रयोक्ता । स आकाशभाषितैः उक्तिप्रत्युक्तिरूपेण स्वेन तथा इतरेण वा अनुभूतं वृत्तान्तं स्वयं तु केनापि विधिना बुद्‌ध्वा रङ्गे प्रकाशयति । शौर्यवर्णने वीरः, दम्पत्योः सौभाग्यवर्णने शृङ्गारश्च सूचयेत् । तत्रेतिवृत्तमुत्पाद्यं प्रकरणवत् कल्पनीयं, न तु नाटकादिवत्पुराणप्रसिद्धम् । प्रायेण भारतीवृत्तिः, क्वापि कैशिकीवृत्तिरपि स्वीकर्तव्यम् । मुखनिर्वहणे च सन्धी स्याताम् । तथा दशविधानि लास्यङ्गानि च स्युः । प्रधानरसरूपेण शृङ्गारस्तथा तदनुगुणतया हास्यरसस्यापि  संयोजनमत्र दृश्यते । सूचयेत् वीरशृङ्गारशौर्यसौभाग्यसंस्तवैः इत्यादिना वीररसस्यापि स्वीकारः धनञ्जयेन कृतः । नाट्यदर्पणे भावप्रकाशने साहित्यदर्पणे प्रतापरुद्रीये च एतदनुसृत्यैव भाणलक्षणं निर्दिष्टम् । कोहलभोजराजादयस्तु शृङ्गरस्यैव प्रामुख्यमङ्गीकुर्वन्ति । पद्‌मप्राभृत्तके धूर्तविटसंवादे उभयाभिसातिकायां पादताडितके शृङ्गारसुधाकरे च वीररसवर्णनं नैव दृश्यते ।

शृङ्गारसुन्दरभाणः
        ईश्वरशर्मणा विरचितो भवति शृङ्गारसुन्दरभाणः । अत्र भाणलक्षणानि सर्वाणिसमनुयन्ति । तत्र रचयितारमधिकृत्य ग्रन्थारम्भे सूचना विद्यते । बिम्बाली देशीयः वटक्कुम्क्कूर् अयं महानुभावः ।
तच्च तेनैवोक्तम्
व्याघ्रवेश्मनिवासस्य द्विजाराजशिरोमणेः ।
सद्‌गुरोर्यः कृपालेशात् साध्वीं शक्तिमवाप्तवान् ॥
बिम्बालीवासिनस्तस्य कृतिरीश्वरशर्मणः ।
भवता नाटनीयोऽद्य भाणः शृङ्गारसुन्दरः॥ इति । (शृ.सु.भा.4/5)
        अत्र प्रथमपादेन वैक्कं मन्दिराधिष्ठितो महेश्वरः सूच्यते । ग्रन्थकर्ता व्याघ्रवेश्मनिवासिनः कस्यचित्ब्राह्मणस्य शिष्यः । सोऽपि ब्राह्मण एवेत्यवगम्यते । गोश्रीराजदेशस्य प्रणेता भवति ईश्वरशर्मा इत्यपि
वीराग्रेसर लोकेऽस्मिन् प्रतापे ते प्रसर्पति ।
चित्रं शिशिरकालेऽपि प्रजाः शीतं न बाधते ॥ (शृ.सु.भा.131)
राजस्तुत्या-
        अतिरमणियलक्ष्मीविलासोत्तरेयं गोश्रीर्नाम केरलराजानां राजधानी- (शृ,सु.भा.पृ-6) इत्यादि गोश्रीपुरवर्णनेन च ज्ञायते । तस्य जीवनसमयमधिकृत्य एतदधिकं न वयं जानीमहे ।
शृङ्गारसुन्दरभाणः भाणेषु प्रसिद्ध एव । सर्वेषां भाणलक्ष्णानां समन्वयोऽत्र दृश्यते ।
इन्दुकलां हर्तुं पितुरुन्नमितो नालिकेरखण्डधिया ।
कुण्डलितः सर्पगणाद् भिया करो बालगणपतेर्वोऽव्यात् ॥
इति नान्दीपाठानन्तरं सूत्रधारः प्रविश्य,
श्रीमन् नन्दसुताधुना मम  करादुत्पत्यसद्योगतः ।
कालिन्दीतटकेलिवज्जुलवनोद्देशाय लीलांशुकः ॥
आवामेव तमाविशाव तमाविशाव निभृतं तन्मार्गणार्थं जवा-
दित्थं गोपिकयोदितः सह तया गच्छन् हरिः पातु वः ॥
        इति हरिं स्तुत्वा निर्विघ्नपरिसमाप्त्यर्थं मदनमपि नमस्करोति । प्रस्तावनायां व्याघ्रवेश्मनिवासस्य- इत्यादिना ईश्वरकर्मकृतशृङ्गारसुन्दरभाणो नटनीय इत्युक्त्वा नीलकण्ठो नाम नटवरः नाटयति भाणमिति विज्ञाप्य मधुमासमधिकृत्य मयूरिकागानं सामाजिकान् श्रावयित्वा विरमति सूत्रधारः ।
        तदनन्तरं कौसुभाम्बरौष्णीषधरः सुवर्णलिपकान्तकुन्तालङ्कृतपाणिः अभिरभिरामनामको विटः प्रविशति ।
अर्कोऽसावतिरिक्ताभो मस्तके पूर्वभूभृतः ।
पद्‌मरागमयो मौलिरिव विद्योततेऽधिकम् ॥
बालातपोऽतितुङ्गानां नगानां मूर्धसु स्फुटम् ।
कौसुम्भशाटिकोष्णीष इव विभ्राजते भृशम् ॥
अन्ध्कारकुलान्यर्ककराक्रन्तिविशङ्कया ।
सद्यो विशन्ति संशान्तदीपं वासगृहोदरम् ॥
इत्यादिना सूर्येदयं वर्णयित्वा अस्मिन्नहनि कः पुनरभीष्टोऽर्थो मे साधतिव्योऽस्ति इति चिन्तयति सः । अद्य महाराजामात्यस्य बृहद्दवसोः पुत्रेण महावसुना मदनविवशेन बलादानीय स्वमन्दिरे निरुद्धायाः नारीजातिमणेः केसरमालिकायाः नरलोकरत्नेन भ्रमरकेण संमोजनं करणीयम् इति प्रस्तौति च ।
केसरमालिकायां महावसोः विरागं कारयितुं हेममालिकां पूर्वमेव सः प्रेषितवान् । तस्या प्रवृत्तिं ज्ञातुमुत्सुकः सः प्रियसखीं मल्लिकासेनामाह्वयति । केसरमालिकायाः अतिकठिनां विरहव्यथां तस्याः मुखाज्ज्ञात्वा केसरमालिकायां भ्रमरकस्याप्येतादृशीमवस्थां प्रकाश्य तयोस्समागमप्राप्त्यर्थं स्वयं महावसुमन्दिरं गन्तुमुद्युक्तो भवति । मार्गमध्ये बहुभिः योषिद्‍भिः कुवलयमालिका, मधुकेशी कामसेनादिभिः सह तस्य सल्लापं वर्णयति । वर्णनायाः शृङ्गारमयता अत्रानुभूयते ।
        महावसुगृहं प्राप्तस्सः केसरमालिकायाः दर्शनेन कलहायमानायाः हेममालिकायाः निर्गमनवृत्तान्तं ज्ञातवान् । केसरमालिकायाः निर्गमनानन्तरमेव सा पुनरागच्छतीति ज्ञात्वा हेममालिकामानेतुं महावसुर्गच्छति । अभिरामस्तु केसरमालिकां स्वप्रियसमीपं नयति । अस्मिन् भरतवाक्यं न दृश्यते । तस्मादपूर्णोप्यल्पभाग एवावशिष्ट इति ज्ञायते ।
        ईश्वशर्मणः शैली सरला प्रौढा च । महानुभावेनानेन शृङ्गाररसस्य वर्णनं सरसया रीत्या कृतम्
स्त्रीपुंसानां त्रिजगति कठोराणि चित्तानि भेत्तुं-’42 इत्यादीनि तन्निदर्शनानि ।
अतिसौकमार्येण शृङ्गाररसस्य विपुलतया वर्णनं बहुत्र दृश्यते ।
अहो विचित्रमेवास्य अङ्गाविक्षेपसौष्ठवम् ।
अस्माल्लज्जाकुला नूनं हंसा यान्ति दिवं भुवः ॥ इति वीणावादनपरां तां वर्णयति ।
नायिकानायकयोः विरहावस्थावर्णनं सम्यक्ततया कृतमीश्चरशर्मणा ।
निजप्रभामात्रविभूषणेन गात्रेण मारास्त्रतनूकृतेन ।
अज्ञातकृत्याकुलमित्रभृत्यो मुहुर्मुहुः कश्मलमश्नुतोऽलम् ॥ 29
अयि जीवादपि प्रेष्ठे भद्रे केसरमालिके।-इत्यादीनि तन्निदर्शनानि भवन्ति ।
परस्मिन् निर्भरं रक्तां स्वे विरक्तां च योषिताम् ।
यो नरो याति निर्बन्धात् स द्विपाद् गर्दभो ध्रुवम् ॥ 35
            इत्यादिना लोकनीतीनामुद्‌घाटनमपि कविना कृतम् ।
                        अन्यभाणेष्विवाऽत्रापि  वृद्धवेशमावर्णनमस्ति ॥ तद्यथा-
                        पलितश्वेतकेशौधा वलीविश्लथविग्रहा ।
                        शुष्कस्तनी जरा साक्षान्मूर्तेवाप्रियदर्शना ॥ इति ।
                        सर्वार्थसाधनसमर्थकः इति विटं विशेषयति कविः ।
                        अलङ्काराणां सामंजस्येन योजनमपि कविरत्र कृतवान् ।
                        पद्‌मं पद्‌ममिवोल्लासि शशीव सुभगशशी ।
                        अस्या वक्त्रमहो चित्रमस्याः वक्त्रमिवोज्वलम् ॥ 143
                                नेमौ स्तनौ वक्षसि सुभ्रुवोऽस्याः
                        सौभाग्यसारस्य निधानकुम्भौ ।
                        नेयं ततोऽधोऽपि च रोमराजी
                        रज्जुस्तयोर्बन्धविमुक्तलम्बा ॥ 145 इत्यादिषु अलङ्कारसौष्ठवं स्पष्टमेवाभाति ।
अलङ्काराणां सन्निवेशः भाणेषु नात्यन्तमावश्यकम् । यतः प्रकृतानुसारिणाः अपृथग्यत्ननिर्वत्याः
अलङ्काराः एव सहृदयहृदयावर्जकाः भवन्तीत्यालङ्कारिकैः निर्दिष्टम् । तदुक्तमानन्दवर्धनाचार्येण-
                रसाक्षिप्ततया यस्य बन्धः शक्यक्रियो भवेत् ।
                अपृथग्यत्ननिर्वर्त्यो सोऽलङ्कारो ध्वनौ मतः ॥ इति ।
        महाकाव्यादिवत् दृश्यप्रधानेषु विशिष्यैककथापात्राश्रयेण प्रयुज्यमानेषु भाणेषु अलङ्काराणां प्राचुर्येण प्रयोगो न भूषणाय भवेत्, किन्तु दूषणायेवेत्यतः भाणकाराः प्रायेणालङ्काराणां विरलेन प्रयोग एवाभिलषन्ति । एवमस्मिन् भाणेऽपि कतिपयान्यलङ्काराण्येव दृश्यन्ते ।
        पुरुषार्थेषु कामस्याप्युत्कृष्टतामवगम्य तस्यापि परमोपादेयत्वं भारतीयकविभिरङ्गीकृतम् ।
शृङ्गार एव मधुरः परप्रह्लादनो रसः इत्यनेन शृङ्गाररसस्य परमाह्लादकत्वं सहृदयमनप्रसादनप्रवीणत्वं च सुस्पष्टं प्रतिपादितम् । तस्माद् भाणे सहृदयाः अवश्यं रमन्त्येव इत्यत्र विदुषां विमतिर्नास्ति ।
        एवं सत्यपि भाणावतरणे क्लिष्टत्वं च वर्तते । अन्यरूपकेष्विव हृदयावर्जकानां बहूनाम् उपाधीनामभावात् एकं नटमवलम्ब्यैव तस्य उक्तिप्रत्युक्तिकौशलेनैव सामाजिकनां रसास्वादः सम्भवति । तस्माद् भाणविरचनं दुष्करम् । एतादृशभाणानां विरचने केरलदेशीयाः कवायः अतिप्रगल्भाः आसन् । तस्मादिदं ज्ञायते यत् केरलदेशीयाः कवयः पण्डिताः कुशलाः प्रतिभासम्पन्नाश्च इति। विदुषां पुरतः विद्वद्वरेण्येष्वेकस्य ईश्वशर्मणः परिचयदानेन आत्मानं कृतार्थं मन्ये ।
*****