तत्त्वान्वेषणे साधनसरणिः
@डा. नवीनहोळ्ळः
सहायकाचार्यः, नव्यन्यायविभागः
अध्यात्मविद्या हि विद्यास्वशेषासु वेदवेदाङ्गप्रभृतिषु निरतिशयमुत्कर्षमावहतीति
निर्विवादम् । श्रूयते इतरविद्यापेक्षया आत्मविद्यायाः परत्वम् ‘द्वे विद्ये वेदितव्ये
परा चैवापरा च.... अथ परा यया तदक्षरमधिगम्यते’ इति। गीतासु च ‘अध्यात्मविद्या विद्यानाम्’ इति । उपनिषत्सु विस्तरेण
प्रतिपादितायाः ब्रह्मविद्यादिशब्दैः व्यपदिश्यमानाया अस्याः दुरधिगम्यत्वं श्रुतिःसदृष्टान्तमाह
‘क्षुरस्य धारा निशिता दुरत्यया दुर्गं पथस्तत्कवयो वदन्ति’ इति । सर्वानर्थपरम्पराणां मूलोच्छेदनसमर्थायाः निरतिशयानन्दाविर्भावकपरमपुरुषार्थसमधिगामैकहेतोः
आत्मविद्यायाः सम्प्राप्तौ अनुसरणीयां साधनसरणिं सुस्पष्टमादर्शयति श्रीमच्छङ्करभगवत्पादप्रणीतः
‘विवेकचूडामणिः’ ।
जन्तूनां नरजन्म दुर्लभमतः
पुंस्त्वं ततो विप्रता
तस्माद् वैदिकधर्ममार्गपरता
विद्वत्त्वमस्म्मात् परम् ।
आत्मानात्मविवेचनं स्वनुभवो
ब्रह्मात्मना संस्थितिः
मुक्तिर्नौ शतकोटिजन्मसु
कृतैः पुण्यैर्विना लभ्यते ॥
जन्तुभिः क्रमशः समधिगन्तव्यानि साधनानि सोपानक्रमेण
निर्दिश्यन्ते, मानुषजन्म-पुरुषत्वं-विप्रत्वं-वेदो क्तधर्मानुष्ठानपरता-वेदान्तवाक्यश्रवणपूर्वकज्ञानप्राप्तिः
- युक्तिपूर्वकम् आत्मानात्मविवेचनं -निदिध्यासनपूर्वक ब्रह्मसाक्षात्कारः, वासनाक्षयमनोनाशाभ्यां ब्रह्मभावेन
अवस्थानमिति ।
आत्मज्ञानप्राप्तेः प्रथमं साधनं मानुषजन्मैव
। मानुषशरीरं हि ‘चतुरशीतिलक्षयोनिपरिणतं’ इति स्मर्यते, ‘न मानुषं विनाऽन्यत्र
तत्त्वज्ञानं तु लभ्यते’ इति च । द्वितीयं साधनं पुंस्त्वम् । यतोहि ज्ञानप्राप्तेः
बहिरङ्गसाधानानां वेदोक्तकर्मणां यथाविध्यनुष्ठानसामर्थ्यं स्त्रीणां न विद्यते ।
ज्ञानप्राप्तेरन्तरङ्गसाधनस्य सन्यासाश्रमस्य ब्राह्मणैकाधिकारिकतया, ब्राह्मणस्यैव
ऐदम्पर्येण ब्रह्मविचारः सुघटः, न तु क्षत्रियादीनाम् । चिन्ताविक्षेपहेतूनां बाह्यव्यापाराणां
सत्त्वात् । अतो विप्रत्वमग्रिम साधनम्। अत्र
चिन्त्यते । ननु पशुजन्मनि अज्ञाननिवृत्तिपूर्वकमोक्षावाप्तिः गजेन्द्रादीनां स्मर्यते,
‘गजेन्द्रो भगवत्स्पर्शात्
विमुक्तोऽज्ञानबन्धनात् ।
प्राप्तो भगवतो रूपं पीतवासश्चतुर्भुजः
॥ (भागवतम् ८.४.६)’
स्त्रीजन्मनि ब्रह्मवादित्वं योगसमाधिसम्पतिश्च
देवहूत्याः स्मर्यते,
‘स्वमात्रा ब्रह्मवादिन्या
कपिलोऽनुमतो ययौ ॥’ (भागवतम् ३.३३.१२)
ध्यायती भगवद्रूपं यदाह
ध्यानगोचरम् ।
सुतः प्रसन्नवदनं समस्तव्यस्तचिन्तया
॥
भक्तिप्रवाहयोगेन वैराग्येण
बलीयसा ।
युक्तानुष्ठानजातेन ज्ञानेन
ब्रह्महेतुना ॥
ब्रह्मव्यवस्थितमतिर्भगवत्यात्मसंश्रये
।
नित्यारूढसमाधित्वात्
परावृत्तगुणभ्रमा ॥ (३.३३.२७)
स्वाङ्गं तपोयोगमयं मुक्तकेशं
गताम्बरम् ।
दैवगुप्तं न बुबुधे वासुदेवप्रविष्टधीः
॥ (२९)
योगपाटवं दाक्षायण्याः
स्मृतम् –
कृत्वा समानावनिलौ जितासना
सोदानमुत्थाप्य च नाभिचक्रतः ।
शनैर्हृदि
स्थाप्य धियोरसि स्थितं कण्ठाद् भ्रुवोर्मध्यमनिन्दितानयत् ॥ (४.४.२५)
ततः स्वभर्तुश्चरणाम्बुजासवं
जगद्गुरोश्चिन्तयती न चापरम् ।
ददर्श देहो हतकल्मषः सती
सद्यः प्रजज्वाल समाधिजाग्निना ॥
मन्त्रद्रष्टृत्वं ब्रह्मवादित्वं
च स्मर्यते घोषादीनाम् –
घोषा गोधा विश्ववारा अपालोपनिषन्निषत्
।
ब्रह्मजाया जुहूर्नाम
अगस्त्यस्य स्वसादितिः ॥
इन्द्राणी चेन्द्रमाता
च सरमा रोमशोर्वशी ।
लोपामुद्रा च नद्यश्च
यमी नारी च शश्वती ॥
श्रीर्लाक्षा सार्पराज्ञी
वाक् श्रद्धा मेधा च दक्षिणा ।
रात्री सूर्या च सावित्री
ब्रह्मवादिन्य ईरिताः ॥ (बृहद्देवता २.८४)
स्त्रीजन्मनि ब्रह्मभावापत्तिश्च
स्मर्यते देवहूत्याः –
एवं सा कपिलोक्तेन मार्गेणाचिरतः
परम् ।
आत्मानं ब्रह्म निर्वाणं
भगवन्तमवाप ह ॥ (भागवतम् ३.३३.३०)
एवं
क्षत्रियजन्मनि ब्रह्मज्ञानित्वं जनकादीनां स्मर्यते । तथा च मनुष्यत्व-पुंस्त्व-विप्रत्वानां
मोक्षसाधनत्वं तत्त्वज्ञानसाधनत्वं वा व्यभिचारात् दुर्घटम् इति चेत् उच्यते – तत्त्वज्ञानकारणीभूतानां
श्रवणमनननिदिध्यासनानाम् अनुष्ठानोपयोगितया मनुष्यत्व-पुंस्त्व-विप्रत्वानां तत्त्वज्ञानसाधनत्वं,
न तु साक्षात् तत्साधनत्वम् । गजेन्द्रादिश्च पूर्वजन्मनि मानुषशरीरे भगवत्परायणो भूत्वा
तानि साधनानि अन्वतिष्ठदेव । तत्फलीभूतस्य तत्त्वसाक्षात्कारस्य मोक्षस्य च प्राप्तौ
प्रतिबन्धकीभूतात् ऋषिशापायत्तकौञ्जरजन्मनोवशात् फलं विलम्बितम् ।
स्मर्यते हि –
‘स वै पूर्वमभूद्राजा पाण्ड्यो
द्रविडसत्तमः ।
इन्द्रद्युम्न इति ख्यातो
विष्णुव्रतपरायणः ॥
विप्रावमन्ता विशतां तमोऽन्धं
यथा गजः स्तब्धमतिः स एव । (८.४.१०)
एवं शप्त्वा गतोऽगस्त्यो
भगवान् नृप सानुगः ।
इन्द्रद्युम्नोऽपि राजर्षिर्दिष्टं
तदुपधारयन् ।
आपन्नः कौञ्जरीं योनिम्
आत्मस्मृतिविनाशिनीम् ॥
देवहूतीप्रभृतीनां
तु इह स्त्रीजन्मनि योगसमाध्यादिसाधनानुष्ठानेऽपि ब्रह्मभावापत्तावपि च न पुंस्त्वस्य साधनत्वभङ्गः
। स्थैर्यधैर्यादिमत्त्वरूपस्यैव पुंस्त्वस्य अत्र विवक्षितत्वात्, तस्य च तासु अक्षतत्वात्
। न हि श्मश्वादिमत्त्वरूपं तदभिव्यङ्ग्यजातिविशेषरूपं वा पुंस्त्वमत्र विवक्षितुमुचितं,
तस्य अकिञ्चित्करत्वात् । अपि तु चाञ्चल्य-अबलत्व-अशुचित्व-कामित्वादिमत्वरूपस्त्रीत्वस्य
विरुद्धं स्थैर्य-धैर्य-शुचित्व-अकामित्वादिमत्वरूपमेव पुंस्त्वम् । तस्यैव मोक्षसाधनानुष्ठानोपयोगित्वात्
।
एवं जनकप्रभृतीनाम् इह क्षत्रियान्वयप्रसूतत्वेऽपि
रज उपसर्जनसत्त्वप्रधानतारूपं विप्रत्वम् अक्षतमेव । अतो न विप्रत्वस्य साधनताभङ्गप्रसङ्गः
इति सर्वमनवद्यम्।
विप्रत्वं
प्राप्य यथाविधि वेदोक्तकर्माणि अनुतिष्ठता पुरुषेण वेदान्तवाक्यश्रवणादियोग्यतारूपं
साधनचतुष्टयं सम्पादनीयम् ।
तत्राद्यं साधनं नित्यानित्यवस्तुविवेकः।
‘ब्रह्मसत्यं जगन्मिथ्येत्वेवं
रूपो विनिश्चयः । सोऽयं नित्यानित्यवस्तुविवेकः समुदाहृतः ॥’ ततो द्वितीयसाधनम् वैराग्यम्
- दर्शनस्पर्शनादिना अनुभूयमाने ऐहिकदेहादिभोग्यवस्तुनि,
श्रूयमाणे आमुष्मिकदिव्यदेहादिभोग्यवस्तुनि च काकविष्ठायामिव असह्यबुद्धिः ‘कदापि ईदृशपदार्थ सम्बन्धो
मा भूदिति’ वैराग्यमुच्यते । ‘तद् वैराग्यं जिहासा या
दर्शनश्रवणादिभिः । देहादिब्रह्मपर्यन्ते ह्यनित्ये भोग्यवस्तुनि’ ॥ साधनचतुष्टये प्रधानं
चित्तशुद्ध्यपरपर्यायम् इदं वैराग्यमेव वैदिककर्मानुष्ठानस्य फलम्, ‘चित्तस्य शुद्धये कर्म
न तु वस्तूपलब्धये’ । तत्रापि तीव्रवैराग्यमेव साधकं साधनपथे समुन्नयति
न तु आपातवैराग्यम् । वैराग्यस्य
हेतुः देहादिविषयेषु दोषदर्शनम् ‘विरक्तितीव्रत्वनिदानमाहुः
भोग्येषु दोषेक्षणमेव सन्तः’ । ततः तृतीयसाधनं शमादिषट्कसम्पत्तिः (i) भोग्येषु आद्यन्तवत्त्व-बहुवित्तव्ययायाससाध्यत्व-परिणतिविरसत्त्वादिदोषान्
पुनः पुनरनुसन्धाय तेभ्यो विषयेभ्यः मनः परावर्त्य सगुणे निर्गुणे वा ब्रह्मणि मनसो
नियमेन अवस्थापनं शमः । ‘विरज्य विषयव्रातात् दोषदृष्ट्या मुहुर्मुहुः । स्वलक्ष्ये
नियतावस्था मनसः शम उच्यते ।’(ii) श्रवणादि पञ्च ज्ञानेन्द्रियाणि
वागादि पञ्च कर्मेन्द्रियाणि च शब्दादिभ्यः स्वविषयेभ्यः पराङ्मुखीकृत्य तेषामिन्द्रियाणां
गोलकेषु कर्णशष्कुल्यादि प्रदेशेषु उपरतव्यापारतासम्पादनं दम इत्युच्य्ते ।
‘विषयेभ्यः परावर्त्य स्थापनं
स्वस्वगोलके । उभयेषामिन्द्रियाणां स दमः परिकीर्तितः’ (iii)यथा तटाकजलं कुल्याद्वारा
निर्गत्य क्षेत्राकारेण परिणमते तथा अन्तस्थं मनः श्रोत्रादीन्द्रियद्वारा बहिरागत्य
शब्दादिविषयाकारेण परिणमते। स एव परिणामो वृत्तिरुच्यते। इन्द्रियेषु निगृहीतेषु अन्तःस्थमनसः
बाह्यविषयाकारा वृत्तिः न जायते । एषा मनसः बाह्यविषयाकाराप्राप्तिरेव उपरतिः
। ‘बाह्यानालम्बनं वृत्तेरेषोपरतिरुत्तमा’ (iv) शैत्योष्णादिजनितानां
सकलदुःखानां कम्बलव्यजनादिभिः प्रतीकारं अकृत्वा, विनाचिन्तां विलापञ्च यत् सहनं सा
तितिक्षा । ‘सहनं सर्वदुःखानाम् अप्रतीकारपूर्वकम् । चिन्ताविलापरहितं
सा तितिक्षा निगद्यते’(v)‘तत्त्वमसि’ इत्यादिवेदवाक्ये तदनुसारिगुरुवाक्ये
च ‘इदम् अबाधितार्थबोधकम्’ इति यो दृढविश्वासः स
श्रद्धा । ‘शास्त्रस्य गुरुवाक्यस्य
सत्यबुध्यवधारणा । सा श्रद्धा कथिता सद्भिः यया वस्तूपलभ्यते’ ॥ (vi )सङ्कल्पविकल्पात्मकतातो विनिर्मुक्तायाः अध्यवसायात्मिकायाः
बुद्धेः सर्वदा शुद्धे ब्रह्मणि सम्यग् अवस्थापनं समाधानम् । ‘सम्यगास्थापनं बुद्धेः
शुद्धे ब्रह्मणि सर्वदा । तत्समाधानमित्युत्त्कं न तु चित्तस्य लालनम्’ । साधनचतुष्टये अन्तिमसाधनं मुमुक्षा-अज्ञानेन
कल्पितान् अहङ्कार-प्राण-बुद्धि-मन-इन्द्रिय-देहान्-शुद्धात्मस्वरूपज्ञानेन मोक्तुमिच्छा
। ‘अहङ्कारादिदेहान्तान्
बन्धान् अज्ञानकल्पितान् । स्वस्वरूपावबोधेन मोक्तुमिच्छा मुमुक्षता’।
इत्थं दृढवैराग्यवान् साधनचतुष्टयसम्पन्नः प्रसक्त सकलकर्मसंन्यासपूर्वकं
ब्रह्मणि लीनमनस्कं गुरुं समाश्रयेत् । गुरुसन्निधौ वेदान्त वाक्यश्रवणं, ततः
श्रुतार्थस्य दार्ढ्याय उपपत्तिभिः चिन्तनरूपं मननम् आत्मानात्मविवेचनं कुर्यात्
। तद्यथा- त्वङ्मांसरुधिरादिभिः समुत्पन्नं जीवस्य सुखदुःखोपलब्धिसाधनं स्थूलशरीरमित्युच्यते, नैतद् आत्मा । जन्मजरामरणादयः
स्थूलस्य धर्माः, नात्मनः । पञ्चज्ञानेन्द्रियाणि पञ्चकर्मेन्द्रियाणि पञ्चप्राणाः
पञ्चसूक्ष्मभूतानि मनोबुद्ध्यह्ङ्कारचित्तानि अविद्याकामकर्माणि एतत्सर्वं मिलितं
सूक्ष्मशरीरमित्युच्यते । एतदेव ‘लिङ्गशरीरं जीवस्य भोगहेतुरनादि आमोक्षं स्थास्यति, नैतदात्मा । अन्धत्वादयः
सूक्ष्मशरीरान्तर्गतेन्द्रियादीनां धर्माः, न तु आत्मनः । सत्त्वरजस्तमोरूपगुणत्रयमयी
सकलजगदुत्पत्तिहेतुभूता माया अविद्यापदबोद्ध्या अव्यक्तनाम्नी शक्तिः कारणशरीरमित्युच्यते,
नेयमात्मा । मायायाः सत्त्वरजस्तमोगुणानां कार्यरूपाः क्रमेण तिस्रः शक्तयः ज्ञानशक्तिः
विक्षेपशक्तिः आवरणशक्तिः इति । विक्षेपशक्तितः रागदुःखादयो जायन्ते, आवरणशक्तितः अज्ञानालस्यादयो
जायन्ते । ज्ञानशक्तितः अमानित्वश्रद्धाभक्यादयो
जायन्ते । मायातत्कार्यभूतं जगदिदं सूक्ष्मस्थूलदेहपर्यन्तं सर्वम् अनात्मजातं मिथ्यैव
। ‘माया मायाकार्यं सर्वं
महदादि देहपर्यन्तम् । असदिदमनात्मतत्वं विद्धि त्वं मरुमरीचिका कल्पम् ॥’(125)शरीरत्रयव्यतिरित्त्कः
आत्मा नित्यः सत्यश्च जाग्रत्स्वप्नसुषुप्त्याख्यावस्थात्रयेऽपि साक्षी भवति । मायायाः
आवरणविक्षेपशक्तिभ्यां आत्मनः बन्धः समागतः ‘एताभ्यामेव शक्तिभ्यां
बन्धः पुंसः समागतः । याभ्यां विमोहितो देहं मत्वात्मानं भ्रमत्यम् ॥’ ( 146) गाढतमोमय्या आवरणशक्त्या
आत्मनि आवृते सति राजसी तीव्रविक्षेपशक्तिः पुरुषं बहुविधदुःखैः क्षपयति । यथा नभसो
नैल्यं न वास्तवं तथैव निर्विकारस्य निस्सङ्गस्यात्मनः देहादिसम्बन्धरूपः संसारः न
वास्तवः, अपि तु भ्रान्तिमूलकः । यथा पुरुषस्य भ्रान्त्या रज्ज्वज्ञानरूपया रज्जौ सर्पः
कल्प्यते,रज्जुसाक्षात्कारेण रज्ज्वज्ञाननिवृत्तौ निवर्तते,तथा बुद्धेः भ्रान्त्या
आत्मतत्त्वाज्ञानरूपया निर्गुणे आत्मनि जीवभावः कल्पितः, आत्मतत्त्वसाक्षात्कारेण निवर्तते
आत्मतत्त्वाज्ञानमपि निवर्तते । ‘बुद्धेःभ्रान्त्या प्राप्तो
जीवभावो न सत्यो मोहापाये नास्त्यवस्तु स्वभावात्’(198)‘रज्ज्वां सर्पो भ्रान्तिकालीन
एव भ्रान्तेर्नाशे नैव सर्पोऽस्ति तद्वत्’ (199)। इत्थं श्रवणमननाभ्यां
असम्भवनायाः संशयभावनायाश्च निवृत्तौ श्रुतात्मतत्त्वस्य दार्ढ्ये परमार्थतत्त्वस्य
ध्यानं निदिध्यासनं निरन्तरं चिरकालं कुर्यात् ।
निर्गुणतया अतीवसूक्ष्मं स्वप्रकाशसदानन्दरूपम् आत्मयाथात्म्यं शरीरादिस्थूलवस्तुविषयिण्या
अन्तःकरणवृत्त्या व्याप्तुं न शक्यते । अत्यन्तनिर्मलान्तःकरणैः मुमुक्षुभिः अत्यन्तसूक्ष्मया
प्रपञ्चाऽविषयिण्या अखण्डाकारया अन्तःकरणवृत्त्या आत्मतत्त्वं विषयीकर्तुं शक्यते ।
निरन्तरचिरकालध्यानाभ्यासवशात् अन्तःकरणं सत्त्वरजस्तमोमलं परित्यज्य विपरीतभावनादिदोषशून्यं
सत् निर्वृत्तिकं ब्रह्ममात्रावशेषं भवति । तदा अप्रयनेनैव ब्रह्मस्वरूपभूतानन्दरसानुभावकः
सकलविकल्परहितः निर्विकल्पः समाधिः सम्पद्यते ।
निर्विकल्पप्रात्युपायाः – योगस्य प्रथमं द्वारं वाङ्निरोधोऽपरिग्रहः ।
निराशा च निरीहा च नित्यमेकान्तशीलता ॥
वाङ्निरोधः मौनम् । व्यवहारेण मनोवृत्तीनां
वर्धनात् अवश्यं मौनमवलम्बनीयम्। अपरिग्रहः - शरीरस्थितिमात्रसाधनातिरिक्तभोगसाधनानां
अस्वीकारः । तत्स्वीकारे तद्रक्षणादौ व्याप्रियमाणस्य चित्तस्य वृत्तिनिरोधाऽसम्भवात्
अपरिग्रहः आश्रयणीयः । निराशा-वैराग्यं । निरीहा-कर्मभ्यः उपरतिः । एकान्तशीलता-
विजनवासः। इच्छायां सत्यां, कर्मणि आचर्यमाणे सति, जनसङ्घे स्थितौ च चित्तविक्षेपात्
निराशा-निरीहा-एकान्तवासः-एतत्त्रयमवश्यकम् । एवम् आत्मानात्मविवेचनजन्यः
आत्मस्वरूपयाथात्म्यानुभवोऽपि साधनम् ।
निर्विकल्पयोगस्य फलम्-निर्विकल्पक समाधिनैव ब्रह्मतत्त्वं स्फुटं करतलामलकवत्
अवगम्यते, नान्यथा । निर्विकल्पेनैव मिथ्याज्ञानजनितानां समस्तवासनानां नाशः,सञ्चिताखिलकर्मणां
नाशो भवति, अन्तः बहिः सर्वत्र सर्वदा आत्मस्वरूपं प्रकाशते ।
ज्ञानप्राप्तेः
प्रतिबन्धकानि-
लोकवासनया जन्तोः शास्त्रवासनयापि
च ।
देहवासनया ज्ञानं यथावन्नैव
जायते ॥ (272)
‘सर्वे जनाः यथा मां न
निन्दन्ति यथा स्तुवन्ति तथैव चरिष्यामि’ इत्यभिनिवेशः लोकवासना
। ज्ञानप्राप्तौ इयम् अत्यन्त प्रतिबन्धिका । ‘बहूनि शास्त्राणि अध्येष्ये’ इत्याद्यभिनिवेशरूपा शास्त्रवासना
। प्रतिष्ठादिद्वारा भुक्तिमात्रहेतुत्वात् मुक्तिविरोधात् दर्पहेतुत्वात् इयं प्रतिबन्धिका
। देहवासना नानाविधा, देहे आत्मत्वभ्रान्तिः,
देह गुणाधानभ्रान्तिः देहे दोषापनयनभ्रान्तिरित्यादिः | अत एव-
लोकानुवर्तनं त्यक्त्वा त्यक्त्वा देहानुवर्तनम् ।
शास्त्रानुवर्तनं
त्यक्त्वा स्वाध्यासापनयं कुरु ॥ (271)
प्रमादोऽपि यत्नेन वारणीयः । जातविवेकोऽपि कदाचिदपि ब्रह्मनिष्ठायां प्रमादम्
अनवधानं नाश्रयेत् । ज्ञानिनापि यत्नेन वारणीयः प्रमादः । ज्ञानिनोऽपि चित्तम् ईषद्
लक्ष्याद् ब्रह्मणः च्युतं चेत् बहिर्मुखं सत् ततस्ततः अहङ्कारात् बुद्धिमनः प्राणेन्द्रियदेहविषयेषु
निपतेत् ।
इत्थम् अप्रमादेन निरन्तरध्यानाभ्यासवशात्
निर्विकल्पसमाधिं प्राप्य साक्षात्कृतब्रह्मणः अविद्यादिनाशात् ब्रह्मात्मना संस्थितिरूपो
मोक्षः सम्पद्यते इति।
अत्र चिन्त्यते – ब्रह्यतत्त्वसाक्षात्कारं
प्रति चित्तवृत्तिनिरोधरूपस्य निर्विकल्पस्यैव कारणत्वं भगवत्पादसम्मतं प्रतीयते निर्विकल्पसमाधिना
स्फुटं ब्रह्मतत्त्वमवगम्यते ध्रुवम् । नान्यथा चलतया मनोगतेः प्रत्ययान्तरविमिश्रितं
भवेत्’ (366)‘तस्माच्चितनिरोध एव सततं कार्यः प्रयत्नान्मुनेः’(369)इति वचनात् । चित्तनाशं
प्रत्यपि निर्विकल्पकस्य कारणत्वं तत्सम्मतं प्रतीयते ‘समाधिनाऽनेन समस्तवासनाग्रन्थेर्विनाशोऽखिलकर्मनाशः’(364) इति वचनात् ।
जीवन्मुक्तिविवेककारास्तु शुद्धात्मतत्त्वसाक्षात्कारे न हि निर्विकल्पसमाधिरेक
एव उपायः, चिज्जडविवेकेनापि साक्षात्कारसम्भवात् ।
अत
एवाह वसिष्ठः – ‘द्वौ क्रमौ चित्तनाशस्य
योगो ज्ञानं च राघव ।
योगस्तद्वृत्तिरोधोहि
ज्ञानं सम्यगवेक्षणम् ॥
असाध्यः कस्यचिद्योगः कस्यचिद्
ज्ञाननिश्चयः।
प्रकारौ
द्वौ ततो देवो जगाद परमेश्वरः ॥’ इति ।
न
च विवेकोऽपि योगे पर्यवस्यति, विवेकदर्शनवेलायां आत्ममात्रगोचरायाः एकाग्रवृत्तेः क्षणिक
सविकल्पसमाधिरूपत्त्वात् इति वाच्यम् । सविकल्पकनिर्विकल्पकयोर्वृत्त्यवृत्तिभ्यां
स्वरूपभेदस्य स्फुटत्वात् साधनतोऽपि भेदसत्त्वाच्च इत्याहुः ।
गूढार्थदीपिकाकारा अपि एतदेव अभिप्रयन्ति ।
स्पष्टयन्ति च यथा हि चित्तवृत्तिनिरोधः साक्षिसाक्षात्कारहेतुः तथा जडविवेकेन सर्वानुस्यूतचैतन्यपृथक्करणमपि,
नावश्यं योग एवापेक्षितः । अत एवाह वसिष्ठः‘द्वौ क्रमौ.....इति। साक्षिणः
सकाशात् तदुपाधिभूतचित्तस्य पृथक्करणेन तददर्शनरूपस्य चित्तनाशस्य उपायद्वयम्। एकोऽसंप्रज्ञातसमाधिः,
यत्र सर्ववृत्तिनिरोधात् अन्तःकरणसत्त्वं नानुभूयते । द्वितीयः ‘साक्षिणि कल्पितं साक्ष्यम्
अनृतत्वात् नास्त्येव, साक्ष्येव परमार्थसत्यः केवलो विद्यत’ इति विचारः । तत्र प्रथममुपायं
प्रपञ्चपरमार्थतावादिनो हैरण्यगर्भादयः प्रपेदिरे । चित्तस्य अदर्शनेन साक्षिदर्शने
प्राप्तव्ये चित्तवृत्तिनिरोधातिरिक्तोपायाऽसम्भवात्, चित्तस्य तन्मते परमार्थत्वात्
। श्रीमच्छङ्करभगवत्पूज्यपादमतोपजीविनस्त्वौपनिषदाः प्रपञ्चमिथ्यात्ववादिनः द्वितीयमेवोपायमुपेयुः
। अधिष्ठानज्ञानदार्ढ्ये सति तत्र कल्पितस्य बाधितस्य चित्तस्य तद्वृत्तेश्च अदर्शनम्
अनायासेनैव उपपद्यते इति । अत एव भगवत्पूज्यापादाः कुत्रापि ब्रह्मविदां योगापेक्षां
न व्युत्पादयाम्बभूवुः । अत एव चौपनिषदाः ब्रह्मसाक्षात्काराय वेदान्तवाक्यविचार एव
प्रवर्तन्ते,न तु योगे इति ।
भाष्योत्कर्षदीपिकाकारास्तु
नैतत् सहन्ते । ‘आत्मा वाऽरे द्रष्टव्यः
श्रोतव्यो मन्तव्यो निदिध्यासितव्य’ इत्यादिश्रुत्या ध्यानयोगस्य
साक्षात्कारकारणतायाः अभिहितत्वात् । शमादिघटितसाधनचतुष्टयसम्पन्नस्यैव ब्रह्मविचारे
अधिकारस्य जिज्ञासासूत्रे निर्णीततया निरुक्तविचारात्मकसम्यगवेक्षणस्य वृत्तिनिरोधसाध्यां
चित्तैकाग्रतां विना अनुपपत्तेः । वसिष्ठवचनं
तु न साक्षिसाक्षात्कारे हेतुद्वयकथनपरम्, अपितु चित्तनाशे क्रमद्वयकथनपरम्
। चित्तैकाग्रतोत्तरं विचारात्मकेन सम्यगवेक्षणेन वृत्तिनिरोधेन वा चित्तनाशः विषयतश्चित्तनिवृत्तिरूपः
सम्पादनीयः इति । अत्र तत्त्वं तु अनुभवैकगम्यम् इति शम् ।
No comments:
Post a Comment