तन्त्रानुष्ठानविचारः
@डा. सूर्यनारायणभट्टः
सहायकाचार्यः, मीमांसाविभागः
भगवज्जैमिनिमहर्षिप्रणीतद्वादशलक्षण्यां
एकादशाध्यायः तन्त्राध्यायः । प्रयोजनाभिसम्बन्धात् पृथक्सतां ततः स्यात् ऐककर्म्यमेकशब्दाभिसंयोगात्
इति सूत्रेण आध्यायोऽयं प्रारभ्यते । ततः पूर्वं दशभिरध्यायैः प्रकृतिविकृतिसाधारण्येन
अनुष्ठेयपदार्थाः अवगताः । ते च पदार्थाः उत्पत्तिविधिं विनियोगविधिं चाधिकृत्य प्रवृत्ताः
। यद्यपि क्रमाध्यायः वर्तते । क्रमस्तु प्रयोगविधिविधेयो भवति । परं तत्र प्रयोगविधिः
नैव चिन्तितः । स इदानीम् एकादशे तन्त्राध्याये विचिन्त्यते । प्रयोत्रविधिस्तु साङ्गप्रधानभावनायाः
विधायको भवति । अन्ये तु उत्पत्तिविध्यादयः प्रधानमात्रस्य अङ्गमात्रस्य वा विधायका
भवन्ति । स च प्रयोगविधिः फलार्थं साङ्गप्रधानभावनां
विधत्ते । अयं चानुष्ठानबोधकः कृतिसाध्यत्वबोधकश्च। उत्पत्तिविधिः स्वरूपबोधकः
। विनियोगविधिः इष्टसाधनताबोधक इत्येवं तेषु विभागः दृश्यते । एवं फलार्थं साङ्गप्रधानभावनायाः
अनुष्ठानं बोधयति प्रयोगविधिः । अङ्गानां साहित्यं प्रधानानां साहित्यम् अङ्गप्रधानानां
च साहित्यं बोधयाति । तच्च साहित्यम् असति बाधके एकक्षणवृत्ति एव कथ्यते । अतः अनेकोद्देशेन
सकृदनुष्ठानं तन्त्रमिति तन्त्रलक्षणं कथ्यते । दशपूर्णमासाभ्यां स्वर्गकामो यजेत इत्यत्र
दर्शे त्रयः प्रधानयागाः पौर्णमास्यां च त्रयः प्रधानयागाः । तेषु यागत्रयोद्देशेन
सकृदेव प्रयाजानुष्ठानं क्रियते । यद्यपि त्रयः प्रधाना इति त्रिवारं प्रयाजाः अनुष्ठेयाः,
सर्वेषामपि प्रयाजः अङ्गं भवति । परं तु अनेकोद्देशेन सकृदष्ठानमिति तन्त्रेण अनुष्ठानं
प्रयाजानां सम्भवति । सकृदनुष्ठानेन त्रयाणमपि उपकारकं भवति । यद्यपि सकृदनुष्ठानमात्रं प्रसङ्गस्थलेऽपि वर्तते । पशुयागोद्देशेन
प्रयाजाः अनुष्ठिताः । परं पशुयागार्थं
अनुष्ठिताः प्रयाजाः पुरोडाशयागस्यापि उपकुर्वन्तीति
प्रसङ्गे निरूपिप्रम् । तत्राति प्रयाजानां सकृदनुष्ठानं वर्तते परं तु अनेकोद्देशेन
सकृदनुष्ठानं नास्ति । पशुयागोद्देशेन प्रयाजः अनुष्ठितः परं तु पशु पुरोडाशयागोद्देशेन नानुष्ठितः इति प्रसङ्गे
अतिपसङ्गो नास्ति । एवं दर्शेऽपि दधिपयोयागयोः प्रयाजानां सम्प्रतिपन्नदेवताकत्वात्
सकृदनुष्ठानं वर्तते । तत्र तन्त्रत्वं वर्तते
परं लक्षणं नैव घटत इति शङ्का । यतो हि अनेकोद्देशेन स्कृदनुष्ठानं तन्त्रमिति
वक्तव्यम् । प्रकृते च इदं यागाद्वयमपि स्वर्गोद्दशेन अनुष्ठीयते । तच्च फलमेकमेव ।
षड्भिरभि दर्शपूर्णमाससंज्ञकैः यागैः स्वर्गाख्यमेकमेव फलं प्राप्यते । एक एव स्वर्गः
उत्पाद्यते । तादृशमेकमेव स्वर्गोद्देशेन दर्शपूर्णमासः अनुष्ठीयते चेत् अनेकोद्देशेन
सकृदनुष्ठानं नैव सम्भवति । एकस्वर्गोद्देशेनैव ऐन्द्रदधिपयोयागयोः अनुष्ठीयमानत्वात्
लक्षणे अव्याप्तिशङ्का तु जागर्ति । परमत्र स्वर्गोद्देशेन ततः पूर्वमेव अवान्तरकार्यमुत्पयपूर्वं
यदास्ति तत्तु भिन्नं भिन्नमेव । अतः अनेकापूर्वोद्देशेन यागः अनुष्ठीयत इति कृत्वा
नैष दोषः । तस्मात् अनेकोद्देशेन सकृदष्ठानं तन्त्रमिति लक्षणं सिध्यति ।
एतावता तन्त्रं निरूप्य प्रथमाधिकरणमारभ्यते
। इदमधिकरणं उपोद्घातरूपं तन्त्रस्य । तत्र
संशयः - दर्शपूणमासाभ्यां स्वर्गकामो यजेत इति दशपूर्णमासयागः स्वर्गोद्देशेन विधीयते
। तत्र दर्शपूर्णमासयागयोः षड् प्रधानयागाः सन्ति। तत्र षड्भिरपि यागैः एकं फलमुत्पाद्यते
वा उत षट् फलानि जायन्ते वेति विचारः । तत्र एकं फलं तर्हि एकः प्रयोगः सिध्यति । यदि
पृथक् पृथक् षट् फलानि तर्हि एकैकस्य यागस्य एकैकः प्रयोगः स्यात् । पृथक् प्रयोगत्वे
प्रयाजादीनामपि तन्त्रत्वं नास्ति। अनेकोद्देशस्य अभावात् सकृदनुष्ठानं न विद्यते इति
। अतः षड्भिरपि यागैः एकं फलं वा उत भिन्नं भिन्नं वेति विनिर्णयः कर्तव्यः । तदा एव
प्रयाजादीनामपि तन्त्रत्वनिर्णयः सिध्यति ।
पूर्वपक्षः –
दर्शपूर्णमासगतषण्णामपि प्रधानयागानाम्
उत्पतिवाक्यानि भिन्नानि सन्ति । उत्पत्तिविधौ विहिताः ये यागाः करणत्वेनैव विधीयन्ते
। उत्पत्तिविधौ धात्वर्थस्य करणत्वेनैव अन्वयः। उत्पत्तिविधौ इष्टसामान्यं भावनायां
भाव्यत्वेन अन्वेति । विधेयस्य यागस्य करणत्वेन अन्वयः । तत्र विधानकाले इष्टसामान्यं
प्रति एकैकोऽपि यागः निरपेक्षतयैव साधनतया विधीयते । यदा अधिकारवाक्येन फलविशेषसम्बधः
अवगम्यते दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत इति तदा दर्शपूर्णमाससंज्ञकाः पूर्वविहिताः
सर्वेऽपि षड्यागाः अनूद्यन्ते । तर्हि तेषामनुवाद एव । अतः फलकरणत्वं सर्वेषां समानमिति
कृत्वा प्रयेकं सर्वेषां फलसम्बधः वक्तव्य इति प्रयोगोऽपि पृथगेव भवति । दर्शपूर्णमासाभ्यां
स्वर्गकामो यजेत इति यदि प्रयोगाविधिरङ्गीक्रियते तर्हि स एक एव इति एक एव प्रयोगः
स्यादिति शङ्का जायेत कदाचित् । परं अनेन वाक्येन यागः नैव विधीयते। अनेन पलविशेषसम्बन्धमात्रं
विधीयते । उत्पत्तिविधावेव प्रयोगः स्वीकर्तव्यः । उत्पत्तिवाक्यं भिन्नं भिन्नमिति
प्रयोगविधिरपि यागस्य भिन्नं भिन्नं स्यात् । तदा एक प्रयोगाविधिपरिग्रहीतत्वाभावात्
अङ्गानां तन्त्रस्य प्रसक्तिर्नास्ति ।
यदि उत्पत्तिवाक्ये एव प्रयोगविधिः स्वीक्रियते तर्हि
पौर्णमास्यां पौर्णमास्या यजेत अमावास्यायां अमावास्यया यजेत इत्येतद्वाकद्वयं वस्तुगत्या यागत्रयस्य एकैकास्मिन् काले प्रयोगविधानार्थमिति
वक्तव्यम् । अतोऽत्र प्रयोगविधिर्वक्तव्यः । परं तु उत्पत्तिवाक्ये एव प्रयोगः स्वीकृतः
इति एतद्वाक्यद्वयं व्यर्थं स्यात् इति शङ्का
न कर्तव्या । आभ्यां वाक्याभ्यां एकस्यामेव पौर्णमास्यां एकस्यामेव अमावास्यायां त्रयाणामपि
यागानामनुष्ठानं कर्तव्यमिति पृथक् प्रयोगतया अनुष्ठानं बोध्यते इति शंकायाः निरासो
भवति । इदानीं सिद्धान्ते त्रयाणामपि यागानां एका एव इष्टिः । पूर्वोत्तरमेकः प्रयोगः
वर्तते । अत्र तु एकं प्रयोगं समापय अपरः प्रयोग इति भेदः । तदा पूर्वाह्णो वै देवानामिति
पूर्वाह्णकालः विहितः, पृथक् पृथक् प्रयोगे स च कालः नोपलभ्येत इति, चेत् अयं विधि
सामान्यः । पौर्णमास्यां पौर्णमास्या यजेत इति विशेषविधिरिति सामान्यविहित पूर्वाह्णादि
कालस्य विशेषविधिना बाधे न कोऽपि दोषः अतः पृथक् पृथगेव प्रयोगः न तु तन्त्रेणेति प्राप्ते
–
अभिधीयते-उत्पत्तिविधिना उत्पन्ना
हि यागाः । फलविरोषानवगमात् तत्र विनियोगस्तु नैव सञ्जातः । उत्पत्तिविधौ किञ्चित् इष्टसामान्यमस्तीति कृत्वा
ऊहितम् । उत्पत्तिवाक्ये विनियोगः न सञ्जातः इति कृत्वा तत्रापि फलोद्देशेन यागः एव
विधेयः । यागाः फलोद्दशेन विनियोज्याः । अत्र एकैकस्यापि उत्पत्तिवाक्ये विनियोगो न
सञ्जात इति कृत्वा फलोद्देशेन याग एव विधेयः । यदा यागानां विधेयत्वं निर्दिष्टं तदा
एकेन यजिपदेनोपात्तत्वात् तेषां साहित्यं प्रतीयते । तादृशं सहित्यं विधेयगतमिति पश्वेकत्वन्यायेन
विवक्षितं भवति । तर्हि मिलितैरेभिः षड्भिर्यागैः एकः स्वर्गः फलमिति बोधो भवति । यदा
फलविशेषोद्देशेव विनियोगो जातः तदा प्रयोगविधिव्यापारः सम्भवति । षण्णामपि एकविशेषोद्देशेन
विनियोगो जात इति कृत्वा षण्णामपि एक एव प्रयोगः कल्प्यत इति यागत्रयोद्दशेन प्रयाजादीनां
तन्त्रत्वं सिध्यति ।
एवं च सिद्धे तन्त्रत्वे इदं
वक्तव्यं यत् पौर्णमास्यां पौर्णमास्या यजेत, अमावास्यायाम् अमावास्यया यजेत इति वाक्यद्वयेऽपि
प्रयोगमस्वीकृत्य भिन्नभिन्नकाले एकैकस्य यागस्य अनुष्ठानवारणं पूर्वपक्षे, सिद्धान्ते
तु एतत्रयं मिलित्वैव फलसाधनं भवति इति एकस्मिन्नेव काले त्रयाणामनुष्ठानप्रयोगः ताभ्यां
वाक्याभ्यां विधीयत इति तन्त्रं सिध्यति ।
सम्प्रति प्रयाजानूयाजादयः अनेके आरादुपकारकाः
प्रकरणे विहिताः सन्ति । तेषां क्रतूपकाख्यफलं
प्रति करणत्वे सिद्धे विकल्पेन करणत्वं वा समुच्चयेन वा इति सन्देहः उत्तिष्ठति । पूर्वेषां
षण्णामपि प्रधानयागानां फलं प्रति मिलित्वा करणत्वं प्रोक्तम्, अत्र तु क्रतूपकाराख्यफले
मिलितानां प्रयाजादीनां कारणत्वे प्रमाणाभावात् तथा वक्तुं न शकाते इति पूर्वपक्षः
। यद्यपि प्रधानयागाः पृथक् पृथक् वाक्येन
उत्पन्नाः सन्ति । परन्तु विनियोगे तेषां साहित्यमगम्यते इति कृत्वा दण्डचक्रादीनामिव
एकस्मिन् फले तेषां समुच्चयो भवतु । अङ्गानां तु क्रतूपकाराख्यफले तृणारणमणिन्यायेन
विकल्पेनैव कारणत्वम् । प्रयाजादीनां सहितानामेव विनियोगबोधकं प्रधानवत् किमपि वाक्यं
न श्रूयते । उत्पात्तिविधावेव सः विनियोगः कल्पनीयः ततः प्रयोगोऽपि वक्तव्यः । उत्पत्तिविधिवाक्यानि तु प्रयाजानां
भिन्नभिन्नानि भवन्ति । अतः तत्र विनियोगः प्रयोगश्च भिन्नभिन्नरूपेण कृर्तव्यः इति
विकल्प एव युक्तः न तु
समुच्चयः । अपि च भूयसां करणे फलाधिक्यं भवतीति
सम्भावयितुं शक्यते । अतः विकल्प एव युक्तः ।
वस्तुतः
प्रधानप्रयोगविधिना अङ्गप्रयोगः न विधीयते । परन्तु प्रत्येकमङ्गानाम् अप्राप्तविधिवाक्ये एव प्रयोगविधिः कल्प्यते । अतः
तन्त्रत्वं न सिध्यति इति प्राप्ते-
प्रयाजाद्यङ्गवाक्यानां
पृथक् पृथक् प्रयोजनाकांक्षा वर्तते इति तु उभयसामान्यम् । परं प्रधानस्य अनेन उपकारः कर्तव्यः इति तादृशस्य उपकारस्य सकृदेव उपकारापेक्षा
वर्तते, यः प्रथममन्वेति तं स्वीकृत्य प्रधानः चरितार्थो भविष्याति । पुनः उपकारान्तरं
नापेक्ष्यते। अतः खलेकपोतन्यायेन सम्बन्धः वक्तव्यः । तस्मादिदानीमित्थं वक्तव्यं यथा
- अङ्गवाक्येषु वर्तते यत् प्रयोजनाकांक्षा प्रधानवाक्ये च इतिकर्तव्यताकांक्षा च वर्तते
एवमाकांक्षाद्वयेन युगपदेव प्रधानवाक्येन सम्बन्धः । तर्हि प्रकरणवशात् एकवाक्यता सञ्जाता।
तेन च युगपत् ग्रहणात् साहित्यं लभ्यते । एकवाक्योपादानेन सर्वेषामेकफलनिरूपितं सहित्यमवगम्य
इति मिलितानामेव क्रतूपकारजनकत्वम् - यथा षण्णां
प्रधानयागानामेकफलव्यक्तिं प्रति मिलितानां कारणत्वं तथैव अङ्गानामपि मिलितानामेव
क्रतूपकारजनकत्वमिति सिद्धं तन्त्रानुष्ठानम् ।
आकरग्रन्थाः
1)भाट्टदीपिका (प्रभावली
सहिता)
2)जैमिनिसूत्रम्
3)तै.ब्राह्मणम्
।